संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १५२

त्रेतायुगसन्तानः - अध्यायः १५२

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
ततो यदाह भगवान् भक्तं राधे वदामि ते ।
वेदिमध्ये तु कमले ताम्रघटं निधापयेत् ॥१॥
ओं भूरसीति वै भूमिं स्पृष्ट्वा प्रक्षिप्य तन्दुलान् ।
यवान् वा समिति तत्र ओषधीः सन्नियुज्य च ॥२॥
ओमाजिघ्रेति कलशं स्थापयेत् तत्र वै स्थले ।
ओं वरुणस्येत्युदकं क्षिप्त्वा वस्त्रेण वेष्टयेत् ॥३॥
ओं याः फलिनीति पूगीफलं च पञ्चरत्नकम् ।
हिरण्यं च क्षिपेद्गन्धं क्षिपेत् सर्वौषधींस्तथा ॥४॥
क्षिपेत् सप्तमृदश्चापि दूर्वा च पञ्चपल्लवान् ।
पवित्राणि क्षिपेत्तन्दुलस्थालीं च निधापयेत् ॥५॥
श्रीफलं सन्निधायै व प्रतिष्ठाप्य च देवताम् ।
ओं भूर्भुवः स्वः वरुण इहागच्छ च तिष्ठ च ॥६॥
नमामि षोडशद्रव्यैः पूजयामि च ते नमः ।
सम्प्रार्थ्य तन्मुखे स्वर्णमूर्तिं नारायणीं न्यसेत् ॥७॥
अग्न्युत्तारणपूर्वां चाच्छाद्य पट्टाम्बरादिभिः ।
एह्येहि भगवन् विष्णो लोकानुग्रहकारक ॥८॥
यज्ञभागं गृहाणेमं वासुदेव नमोऽस्तु ते ।
ओं विष्णवे नमो मधुसूदनाय नमो नमः ॥९॥
ओं नमस्त्रिविक्रमाय वामनाय च ओं नमः ।
श्रीधराय नम ओं श्रीहृषीकेशाय ओं नमः ॥१०॥
पद्मनाभाय च नमो दामोदराय ओं नमः ।
अनादिश्रीकृष्णनारायणाय ओं नमो नमः ॥११॥
श्रीकृष्णाय नम ओं च नारायणाय ओं नमः ।
नरनारायणाय ओं नमो वै हरये च ओम् ॥१२॥
एतैश्च नामभिः कृष्णं सम्पूज्य प्रणमेत्पुनः ।
गुरुराचम्य च द्वारपालान् गन्धैः समर्चयेत् ॥१३॥
पठध्वं च यजध्वं च विप्रान् वै प्रेरयेत्तथा ।
आचार्य ऋत्विजः कुण्डेऽग्निं स्मृत्वा कुर्युराविधिम् ॥१४॥
प्रतिकुण्डं कुण्डदक्षे यजमानो निषद्य च ।
धृत्वा कुशयवजलान्यद्य कालादिके शुभे ॥१५॥
एतद्देवप्रतिष्ठार्थयज्ञकर्मस्विदं हविः ।
द्रव्यं सर्वग्रहेभ्योऽधिदेवताभ्यश्च वै तथा ॥१६॥
प्रत्यधिदेवताभ्यश्च लोकपालेभ्य इत्यपि ।
दिक्पालेभ्यस्त्रिदेवेभ्यो गणेशाय तथा ह्यपि ॥१७॥
अम्बिकाभूतयूथेभ्यस्तथा च विश्वकर्मणे ।
वरुणाग्निवायुसूर्यप्रजापतिभ्य इत्यपि ॥१८॥
स्विष्टकृदादिदेवेभ्यः सर्वेभ्यश्च नमम ओम् ।
इत्युच्चार्य प्रतिकुण्डं द्रव्यत्यागं समाचरेत् ॥१९॥
जापकानां जपे जायमाने होमं समाचरेत् ।
क्रणेण वरणं कुर्याद् देशकालौ प्रकीर्त्य वै ॥२०॥
अमुकं ब्राह्मणं ब्रह्मत्वेन त्वामहमावृणे ।
वृतोऽस्मीति प्रतिवाक्यं विहितं कर्म चाचर ॥२१॥
यथाज्ञानं करवाणि वह्नेर्दक्षिणतस्ततः ।
त्यक्त्वा परिस्तरणार्थभुवं दत्वा तु वेधसे ॥२२॥
वारणादिदारुरूपासनं प्रागग्रगान् कुशान् ।
आसने तु समास्तीर्य वह्निप्रदक्षिणक्रमात् ॥२३॥
ब्रह्माणं तु समानीय प्रतिष्ठाकर्मणि स्वयम् ।
ब्रह्मा भवेत्यभिधायाऽऽसने समुपवेशयेत् ॥२४॥
तदभावे तु पञ्चाशत्कुशात्मकं प्रकल्पयेत्॥
अग्नेरुत्तरतः प्रागग्रकुशैरासनद्वयम् ॥२५॥
कल्पयित्वा वारणं द्वादशांगुलसुदीर्घकम् ।
चतुरंगुलविस्तारं चतुरंगुलखातकम् ॥२६॥
चमसं पुरतः कृत्वा दक्षहस्तस्थपात्रगम् ।
जलं प्रपूर्य च कुशैराच्छाद्य ब्रह्मणो मुखम् ॥२७॥
वीक्ष्याऽग्नेरुत्तरतः पश्चिमासने कुशोपरि ।
निदध्याद्वै ततः परिस्तरणं स्याद् यथा तु तत् ॥२८॥
बर्हिषो वै चतुर्थांशं धृत्वा प्रागग्रकैः कुशैः ।
चतुर्भिश्च चतुर्भिश्चाऽऽग्नेयादीशानकावधिम् ॥२९॥
ब्रह्मतश्चाग्निपर्यन्तं नैर्ऋत्याद् वायकावधिम् ।
अग्नितः प्रणीतकान्तं परिस्तरणमिष्यते ॥३०॥
कृत्वा तच्च ततोऽग्नेरुत्तरतः पश्चिमे खलु ।
पवित्रच्छेदनार्थं तु कुशत्रयं समाददेत् ॥३१॥
पवित्रकरणार्थं च द्वौ कुशस्तबकौ नयेत् ।
वारणं प्रोक्षणीपात्र द्वादशांगुलदीर्घकम् ॥३२॥
आज्यस्थाली तैजसी द्वादशांगुलविशालिका ।
प्रादेशोच्चाऽथ चरुस्थाली सम्मार्गत्रिदर्भिकाः ॥३३॥
उपयमकुशास्त्रिप्रभृतयश्च समित् त्रयम् ।
पालाश्यः प्रादेशमात्र्यः स्रुवो हस्तश्च खादिरः ॥३४॥
आज्यं गव्यं व्रीहितन्दुलका द्रव्यं हिरण्यकम् ।
षटपंचाशत्तथा शतद्वयं तण्डुलमुष्टिकाः ॥३५॥
तन्दुलपूर्णपात्र च रक्षणीयानि मण्डपे ।
आसादनं पवित्रच्छित्तिदर्भानां तु पूर्वतः ॥३६॥
ततः कुशैस्त्रिभिश्चाग्रे हित्वा प्रादेशमात्रकम् ।
द्वे कुशतरुणे प्रच्छिद्य पवित्रविधापनम् ॥३७॥
सपवित्रकरेणैव प्रोक्षणीपात्रके तदा ।
प्रणीतोदकमाक्षिप्याऽनामिकांऽगुष्ठचिप्प्यया ॥३८॥
उत्तराग्रे पवित्रे गृहीत्वा त्रिरुत्यवं तथा ।
प्रोक्षणीपात्रस्य वामे हस्ते विधापनं तथा ॥३९॥
अनामिकांगुष्ठचिप्प्या पवित्रे प्राप्य वै ततः ।
त्रिरुद्दिंगनमाधेयं ततः प्रणीतवारिणा ॥४०॥
प्रोक्षणीप्रोक्षणं चाथ प्रोक्षणीवारिणा ततः ।
आज्यस्थाल्यादीनि पूर्णपात्रपर्यन्तकानि वै ॥४१॥
क्रमेणैकैकशः प्रोक्ष्य प्रोक्षणीपात्रकं ततः ।
असञ्चरे प्रणीताग्न्योरन्तराले निधाय च ॥४२॥
आज्यमासादितं चाज्यस्थाल्यामग्नेस्तु पश्चके ।
निहितायां समाक्षिप्य चरुस्थाल्यां ततः परम् ॥४३॥
प्रणीतोदकमासिच्याऽऽसादितान् न्यस्य तन्दुलान् ।
ब्रह्माऽधिश्रयति चाज्यं तदुत्तरतश्च स्वयम् ॥४४॥
चरुमेवं च युगपदग्नावारोप्य वै ततः ।
ईषच्छृते चरौ ज्वलदुल्मुकं तु प्रदक्षिणम् ॥४५॥
आज्यचर्वोः समन्ताद्वै भ्रामयेच्च ततः पुनः ।
दक्षिणपाणिना स्रुवमादाय प्राञ्चमेव च ॥४६॥
अधोमुखं तथाऽग्नौ तापयित्वा सव्यहस्तके ।
कृत्वा च दक्षिणेनैव सम्मार्गाग्रैश्च मूलतः ॥४७॥
अग्रपर्यन्तकं मूलैरग्रमारभ्य चाप्यधः ।
संमृज्य मूलपर्यन्तं प्रणीतवारिणा ततः ॥४८॥
अभिषिच्य पुनः पूर्ववत्प्रताप्य च दक्षतः ।
निदध्याद्वै तत आज्यमुत्थाप्य पूर्वतश्चरोः ॥४९॥
नीत्वाऽग्नेरुत्तरतश्च स्थापयित्वा चरुं ततः ।
उत्थाप्याज्यस्य पश्चाद्वै नीत्वाऽऽज्यस्योत्तरात्ततः ॥५०॥
स्थापयित्वा चाऽऽज्यमग्नेः पश्चादानीय वै चरुम् ।
आनीयाऽऽज्यस्योत्तरतो निधाय पूर्ववत् ततः ॥५१॥
पवित्राभ्यामाज्यमुत्पूयाऽवलोक्य च वै ततः ।
अपद्रव्यनिरासश्च पुनः प्रोक्षिणिकोत्पवः ॥५२॥
ततश्चोपयमकुशात् दक्षहस्तेन वामके ।
हस्ते कृत्वा समुत्तिष्ठन् ध्यात्वा प्रजापतिं हृदि ॥५३॥
तूष्णीमग्नौ घृताक्तास्त्रिसमिधः प्रक्षिपेन्मखी ।
उपविश्य प्रोक्षणीवारिणा पवित्रयोजिना ॥५४॥
दक्षिणेन चुलुकेन गृहीतेनाग्निमेव च ।
ईशानाद्युदगपवर्गं परिषिच्य वै ततः ॥५५॥
दक्षिणजान्ववाच्यकुशाग्रेण ब्रह्मणाऽपि च ।
अन्वारब्धो यजमानेनाऽन्वारब्धश्च वै ततः ॥५६॥
समिद्धेऽग्नौ स्रुवेणाऽऽज्याहुतीश्च जुहुयान्मखी ।
आधारात्तु समारभ्य द्वादशाहुतिकासु च ॥५७॥
तत्तदाहुतिशेषस्य स्रुवलग्नघृतस्य तु ।
प्रोक्षणीपात्रके क्षेपः कर्तव्यो विधिरीदृशः ॥५८॥
होमस्तत्र यथायोग्यः कर्तव्यः स्याद् यदिष्टकः ।
ओं प्रजापतये स्वाहेदं प्रजापतये नमम ॥५९॥
ओमिन्द्राय स्वाहेदमिन्द्रायाघारकौ नमम ।
ओमग्नये स्वाहेदमग्नये ओम् ओं नमम ॥६०॥
ओं सोमाय स्वाहेदं सोमायाज्यभागकौ नमम ।
ओं भूः स्वाहेदं भूः नमम भुवः स्वाहा इदं भुवः ॥६१॥
ओं स्वः स्वाहा इदं स्वश्च महाव्याहृतयस्त्विमाः ।
ओं त्वन्नोऽग्नेइत्यग्निवरुणाभ्यां च नमम ओम् ॥६२॥
ओं सत्वनोऽग्न इदमग्निवरुणाभ्यां नमश्च ओम् ।
ओमयाश्चाग्ने इति च इदमग्नये नमश्च ओम् ॥६३॥
ओं ये ते शतमिति स्वाहा सवित्रे विष्णवे इदम् ।
इदं च विश्वदेवेभ्यो मरुद्भ्योऽर्केभ्य ओमिदम् ॥६४॥
ओं उदुत्तमेति च स्वाहेदं वरुणाय नमम ।
वर्मवद् देवविघ्नानां वारणं शान्तिरुच्यते ॥६५॥
ओं आपः शिवाः शिवतमाः शान्ताः
शान्ततमास्तास्ते कृण्वन्तु भेषजम् ।
एवं कुर्यात् प्रोक्षणं सर्वकुण्डेष्व-
ग्निप्रोक्षणान्तकं कर्म भूसुरैः ॥६६॥
अथाऽऽचार्योऽग्निं संपूज्य ग्रहहोमं समाचरेत् ।
अर्कः पलाशः खदिरश्चापामार्गोऽथ पिप्पलः ॥६७॥
औदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ।
नवग्रहाणां बोद्धव्या दधिक्षीरघृताऽऽक्तकाः ॥६८॥
समिधः शाकल्ययुता जुहुयाद्वै गृणन् मनून् ।
अष्टोत्तरशतं वाऽष्टाविंशतिर्वाऽष्टवारकम् ॥६९॥
ओं आकृष्णेनेति वै स्वाहा इदं सूर्याय वै नमम ।
ओ इमं देवेति वै स्वाहा इदं चन्द्रमसे नमम ॥७०॥
ओं अग्निरितिवै स्वाहा इदं भौमाय वै नमम ।
ओ उद्वुद्ध्यस्वेति स्वाहा इदं बुधाय वै नमम ॥७१॥
ओं बृहस्पते इति स्वाहा इदं बृहस्पतये नमम ।
ओं अन्नादिति वै स्वाहा इदं शुक्राय वै नमम ॥७२॥
ओ शन्न इति वै स्वाहा इदं शनिश्चराय नमम ।
ओं कयान इति वै स्वाहा इदं वै राहवे नमम ॥७३॥
ओं केतुमिति वै स्वाहा इदं वै केतवे नमम ।
अथ हस्ते जलं धृत्वा होमेन ग्रहदेवताः ॥७४॥
प्रीयन्तां च नममेति जलं भूमाववासृजेत् ।
ततो नवग्रहाधिदेवानां होमं समाचरेत् ॥७५॥
पालाश्य ईश्वरादिभ्यः प्रादेशमात्रिकाः शुभाः ।
साज्याः समिधः प्रत्येकं चाष्टौ चतस्र एव वा ॥७६॥
सघृताः सयवास्तिला होतव्याश्च विधानतः ।
ओं त्र्यम्बकं यजामहे स्वाहेदमीश्वराय नमम ॥७७॥
ओं श्रीश्च ते लक्ष्मीश्च स्वाहेदं ह्मुमायैः नमम ।
ओं यदक्रन्दः प्रथमं स्वाहेदं स्कन्दाय नमम ॥७८॥
ओं विष्णोरराटमसि स्वाहेदं विष्णवे नमम ।
ओं ब्रह्मयज्ञानं प्रथमं स्वाहेदं ब्रह्मणे नमम ॥७९॥
ओं त्रातारमिन्द्रं स्वाहेदं चेन्द्राय नमम ।
ओं यमाय त्वा मखाय स्वाहेद्ं यमाय नमम ॥८०॥
ओं कार्षिरसि स्वाहेदं कालाय ओं नमम ।
ओं चित्रावसो स्वाहेदं चित्रगुप्ताय नमम ॥८१॥
अनेन द्रव्यहोमेन प्रीयन्तां चाधिदेवताः ।
नममेति समुच्चार्य जलं समुत्सृजेन्मखी ॥८२॥
अथ प्रत्यधिदेवानां होमः क्रमात् ततः परम् ।
ओं अग्निं दूतमिति स्वाहा इदं तु चाग्नये नमम ॥८३॥
औं अप्स्वग्ने इति स्वाहा इदमद्भ्यश्च ओं नमम् ।
ओं स्योनापृथिवीति स्वाहेदं धरण्यै ओं नमम ॥८४॥
ओं विष्णोरराटमिति स्वाहेदं विष्णवे ओं नमम ।
ओं सजोषा इति स्वाहेदं चेन्द्राय ओं नमम ॥८५॥
ओं आदित्यैरेति स्वाहेदमिन्द्राण्यै ओं नमम ।
ओं ब्रह्मयज्ञानमिति स्वाहेदं ब्रह्मणे ओं नमम ॥८६॥
ओं नमोऽस्तु इति स्वाहेदं सर्पेभ्य ओं नमम ।
ओं प्रजापते इति स्वाहेदं प्रजापतये नमम ॥८७॥
अनेन द्रव्यहोमेन प्रीयन्तां प्रत्यधीश्वराः ।
नममेति समुच्चार्य जलं समुत्सृजेन् मखी ॥८८॥
अथ होमः पञ्चलोकपालानां विधिना ततः ।
ओं गणानामितिस्वाहेदं गणेशाय ओं नमम ॥८९॥
ओं अम्बेऽम्बालिके स्वाहेदं चाम्बिकायै नमम ।
ओं वातो वामन स्वाहेदं वायवे ओं नमम ॥९०॥
ओं घृतंघृतेति स्वाहेदं आकाशाय च ओं नमम ।
ओं यावांकशेतिस्वाहेदं अश्विभ्यां च ओं नमम ॥९१॥
अनेन द्रव्यहोमेन प्रीयन्तां लोकपालकाः ।
नममेति समुच्चार्य जलं समुत्सृजेन्मखी ॥९२॥
अथ होमो दशदिक्प्रपालानां विधिना ततः ।
ओं त्रातारमिन्द्रं स्वाहेदं चेन्द्राय नमम ओम् ॥९३॥
ओमग्निदूतमिति स्वाहेदं चाग्नये नमम ओम् ।
ओं यमाय त्वेति स्वाहा इदं यमाय वै नमम ॥९४॥
ओं असुन्वन्तेति स्वाहा इदं निर्ऋतये नमम ।
ओं वरुणस्येति स्वाहा इदं वरुणाय नमम ॥९५॥
ओं वायो ये ते इति स्वाहा इदं च वायवे नमम ।
ओं कुविदं चेति स्वाहा इदं कुबेराय नमम ॥९६॥
ओं तमीशानमितिस्वाहा इदमीशानाय नमम ।
ओं अस्मेरुद्रा इति स्वाहा इदं वै ब्रह्मणे नमम ॥९७॥
ओं स्योना पृथिवीति स्वाहा इदं चानन्ताय नमम ।
अनेन द्रव्यहोमेन प्रीयन्तां दिक्प्रपालकाः ॥९८॥
नममेति समुच्चार्य जलं समुत्सृजेन्मखी ।
गन्धं पुष्पं जलं नैवेद्यकं दीपं च धूपकम् ॥१९॥
अर्पयामि च ताम्बूलं प्रीयन्तां परमेश्वराः ।
इत्येवं विधिना कुर्यात्पूजनं राधिके तथा ॥१००॥
अनादिश्रीकृष्णनारायणः प्राह विधानतः ।
देवायतनभक्ताय तदुक्तं च मयापि ते ॥१०१॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कलशतद्देवद्वारपालपूजनं, वरणं, प्रोक्षणीपात्रादि, चरुः, आज्याहुतिः, वारणं, ग्रहहोमम्, अधिदेवप्रत्यधि-
देवानां होमः, लोकपालदिक्पालानां होम, इत्यादिनिरूपणनामा द्वापञ्चाशदधिकशततमोऽध्यायः ॥१५२॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP