त्रेतायुगसन्तानः - अध्यायः २७४
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
राधिके! श्रीबालकृष्णो मुमुदे वीक्ष्य पत्रिकाम् ।
बृहस्पतिं प्रणेमे च रत्नहारं ददौ गले ॥१॥
बृहस्पतिर्हरेस्तस्य जन्मदिनं व्यलोकयत् ।
चान्द्रे मासि कार्तिके च दले कृष्णेऽष्टमीदिने ॥२॥
कृष्णनारायणजन्म सतीश्रीकम्भरोदरात् ।
जातं तस्य चतुर्दशसमा मासो दिनानि षट् ॥३॥
व्यतीतः समयश्चाद्य वर्तते तु चतुर्दशी ।
मार्गशीर्षस्य कृष्णस्योद्वाहस्वीकृतियुग्दिनम् ॥४॥
प्रोत्सवो भविता काश्यामितश्च पञ्चमे दिने ।
मार्गशुक्लचतुर्थ्यां वै सर्वश्रेष्ठमुहूर्तके ॥५॥
योगपत्री तथा चावेदयत्येव सुमंगलम् ।
शिवेश्वरेण देवेन प्रेषितोऽहं सपत्रकः ॥६॥
सर्वं शुभं सुभगं स्याद् गोपालकृष्ण! चोत्तमम् ।
गोपालकृष्णो देवर्षिं विलोक्य लोमशं मुनिम् ॥७॥
आह्वयामास तूर्णं स मुनिस्तत्र समाययौ ।
कृतादरः कृतदेवगुरुपूजः शुभासने ॥८॥
निषसाद कुशलं च पृष्टवान् स बृहस्पतिम् ।
गोपालकृष्णदत्तां च पत्रिकां स व्यलोकयत् ॥९॥
कृतनारदशंसां तां वाचयामास लोमशः ।
श्रावयामास मांगल्यं वर्धयामास सोऽपि च ॥१०॥
बालकृष्णस्तु मुमुदे कंभरा मुमुदे भृशम् ।
कुटुम्बिनो मुमुदिरे श्रुत्वा तां योगपत्रिकाम् ॥११॥
सर्वा ब्रह्मप्रियाश्चापि श्रुत्वा हर्षं परं ययुः ।
परीगौरीहारितीशक्त्यमर्याद्या मुदं ययुः ॥१२॥
गोपालकृष्णो वाद्यानि वादयामास वै तदा ।
गुरवे प्रददौ पारितोषिकं दक्षिणां शुभाम् ॥१३॥
भोजयामास विधिना पायसान्नं सुमिष्टकम् ।
पूजयामास शनकैश्चन्दनाद्यैस्ततः परम् ॥१४॥
गोपालकृष्णो भगवान् पप्रच्छ नारदर्षये ।
कन्यागुणान् लक्षणानि कन्याया नारदोऽवदत् ॥१५॥
ब्रह्मांशः शंकरो देवः शिवेश्वरो विराजते ।
महाभागवतश्चापि महालक्ष्मीर्हि पार्वती ॥१६॥
उभौ नारायणांशौ हि गरिष्ठौ च वरिष्ठकौ ।
पूजितौ सर्वलोकैश्च गरीयांसौ परेश्वरौ ॥१७॥
तयोः पुत्री स्वयं लक्ष्मीर्दुःखदारिद्र्यनाशिनी ।
कन्यकानां योषितां च वरा चातीव सुन्दरी ॥१८॥
कां प्रशंसामहं कुर्वे शंभुपुत्र्या विशेषतः ।
रमणीयाऽतिरम्या सा रमा रामासु पूजिता ॥१९॥
उद्भिन्नेषद्यौवना च निधिर्वै सर्वसम्पदाम् ।
लक्ष्मीचिह्नसहस्रैश्च शोभिता परमेश्वरी ॥२०॥
पीतचम्पकवर्णाभा रत्नाभरणभूषिता ।
विद्युल्लतेव चाञ्चल्यहासविलासमण्डिता ॥२१॥
तप्तकाञ्चनभायुक्ता तेजसोज्ज्वलिता सती ।
दिव्यांगा दिव्यतत्त्वा च शुद्धसत्त्वान्विता सदा ॥२२॥
सत्यदयाकृपाशीला तापसी च हरिव्रता ।
शान्ता दान्ता च सुभगाऽनन्तौदार्यनिधानिका ॥२३॥
मस्तके स्वस्तिकस्वर्णगूढलेखाविराजिता ।
वक्रदीर्घस्वर्णवर्णप्रान्तकृष्णमनोहरैः ॥२४॥
सतेजस्कैश्च चंचद्भिः शिरःकेशैर्विराजिता ।
स्वर्णरेखसमं रम्यं तिलकं तु विशालके ॥२५॥
भाले नैसर्गचन्द्रं च दधाना राजते हि सा ।
राधा वा कमला वा सा माणिकी वाऽर्कजा च किम् ॥२६॥
पार्वती सारमा वापि सरस्वती च शारदा ।
वैराजी वासुदेवी वा नारायणी सदाशिवा ॥२७॥
पद्मा वा विरजा वापि सावित्री वा च वैष्णवी ।
इन्द्राणी च वरुणानी चन्द्राणी रोहिणी च वा ॥२८॥
कुबेराणी सूर्यपत्नी स्वाहा वाऽहल्यिका च वा ।
द्यौः स्वयं किं च वा ब्राह्मी शक्तिर्वा शीलिका स्वयम् ॥२९॥
यद्वाऽन्यासु रमणीषु श्रेष्ठाः सन्ति मनोहराः ।
ताः सर्वाः शिवकन्यायाः कलां नार्हन्ति षोडशीम् ॥३०॥
शरत्पूर्णेन्दुशोभाढ्या शरत्कमललोचना ।
तव पुत्रसमा मूर्तिः किमयं तत्तनुं गतः ॥३१॥
विवाहयोग्या युवती वर्तते सातिशोभना ।
दिव्यदेहा नारिकाऽपि भौतिकांशविवर्जिता ॥३२॥
बालकृष्णस्वरूपा सा कृष्णनारायणी हि सा ।
मन्ये चायं परब्रह्म द्वेधा भूतो विराजते ॥३३॥
किमत्र वर्णनीयं वै या हि साक्षाद्धरिर्हि सा ।
गोपालकृष्ण! पुत्रस्ते भाग्यवान् भगवान् स्वयम् ॥३४॥
पुरुषोत्तमसंज्ञाय सर्वसृष्टिषु गीयते ।
सेयं तदंशा सर्वांगी श्रीलक्ष्मीः पुरुषोत्तमी ॥३५॥
बालकृष्णकृते जाता लोकेऽत्र मुक्तिदा नृणाम् ।
जगन्माता सर्वमाता किमु तां वर्णये न्विह ॥३६॥
शृणु चिह्नानि सर्वाणि यैः सा ज्ञायेत चेदृशी ।
कीदृशी वा स्वयं का वा निर्णेतव्यं न यत्परम् ॥३७॥
यानि लोकाः समाकर्ण्य मुक्तिमीयुर्न संशयः ।
दिव्यदृष्ट्या गुरुभावान्मया दृष्टानि वर्णये ॥३८॥
शिवकन्याहृदयेऽस्ति बालकृष्णाकृतिः शुभा ।
पादयोः पुण्ड्ररेखोर्ध्वरेखे स्तः शोभने शुभे ॥३९॥
जघने बाणरेखाऽस्या ललाटे मुकुटाकृतिः ।
गण्डे तु दक्षिणे भाले शोणबिन्दुः प्रशोभते ॥४०॥
उरसि विष्णुरेखा च वामबाहौ गदा शुभा ।
वामसक्थ्नि पादुका च वैजयन्ती हृदि स्थिता ॥४१॥
करेऽस्याः कमलं चास्ते गजचिह्नं तथाऽपरम् ।
दक्षे पादे शंखचिह्नं नौकाचिह्नं विमानकम् ।
गदा मत्स्यः शिखरं च झषस्ताम्बूलवल्लिका ॥४२॥
वामे पादे यवरेखा प्रासादश्छत्रमित्यपि ।
ऊर्ध्वरेखा कमलं च ध्वजोंऽकुशो घटोऽपि च ।
कुमुदं श्रीफलं चापि स्थलपद्मं च चन्द्रमाः ॥४३॥
दशचक्राणि पूर्णानि स्वर्णरेखाऽङ्गुलीषु च ।
ललाटे पौरटो हारः स्वर्णरेखाश्च बिन्दुकः ॥४४॥
चिबुके बिन्दुको हस्तरेखा दक्षस्तनोपरि ।
चक्रं वामस्तने कण्ठे हारो वक्षसि कानकः ॥४५॥
ध्वजो मत्स्यश्च वंशी च स्वस्तिश्च दक्षिणे करे ।
धनुर्मत्स्यः कलशश्च दक्षे करे च सन्त्यपि ॥४६॥
प्राकारस्तोरणं चापि कमलं सन्ति दक्षके ।
पादफणायामश्वश्च लांगलं च करी तथा ॥४७॥
वृक्षो यूपस्तथा बाणस्तोमरं सन्ति पादके ।
हस्ते च मालिकारेखा दीपरेखा च चामरम् ॥४८॥
शोलश्च कुण्डलं वेदी चक्रं सन्ति शुभानि वै ।
शोभनानि सुचिह्नानि सन्त्यस्याश्चेतराण्यपि ॥४९॥
नाऽन्या त्वेतादृशी दृष्टा त्रैलोक्ये कमलां विना ।
नैतादृशानि चिह्नानि सर्वाणि वै श्रियं विना ॥५०॥
गोपालकृष्ण! पुत्रोऽयं तव साक्षात् परेश्वरः ।
सर्वं जानाति तद्वृत्तं नित्यं गत्वा च पूजनम् ॥५१॥
तया कृतं प्रगृह्णाति तत्पितृभ्यां कृतं तथा ।
तथाऽप्यज्ञ इवाऽऽस्तेऽत्र मायां कुर्वन् हरिः स्वयम् ॥५२॥
हेमशालायननामा जानाति मुनिराडिदम् ।
हनुमाँश्च विजानाति लक्ष्यास्तपो हरेः कृते ॥५३॥
बालकृष्णो वरदानं स्वयोगार्थं ददौ तदा ।
सर्वमेतच्छुभं चास्ते लक्ष्म्यर्पणं नरायणे ॥९४॥
गोपालराज! पश्येमं देवगुरुं बृहस्पतिम् ।
मांगलिके महाकार्ये पत्रं नीत्वा तव गृहे ॥५५॥
आगतं यत्पादपद्मे पूजयन्ति सुरेश्वराः ।
धन्यं पुण्यं यशस्यं ते गृहं तेनापि पावितम् ॥५६॥
अहो भाग्यमहं मन्ये योऽहं गोदोहनस्थिरः ।
लक्ष्मीनारायणयोगोत्सवदर्शनभाग्यवान् ॥५७॥
भविष्यामि निवत्स्यामि ह्यश्वपट्टतटे सदा ।
प्रसेविष्येऽसंख्यपत्नीपतिं श्रीपुरुषोत्तमम् ॥५८॥
सुभक्त्या बालकृष्णं तं श्रावयिष्ये च गीतिकाः ।
उत्सवेषु सदा सार्धं विचरिष्यामि शार्ङ्गिणा ॥५९॥
इदं वै जन्मसाफल्यं हरेर्योगो भवेदिह ।
येन केनापि भावेन भजनीयः परेश्वर ॥६०॥
गोपालकृष्ण! धन्योऽसि धन्योऽस्ति शिवशंकरः ।
धन्याऽस्ति कम्भरालक्ष्मीर्धन्या देवी च पार्वती ॥६१॥
धन्या कुंकुमवापी च धन्या वाराणसी क्षितिः ।
धन्यो बृहस्पतिश्चापि धन्यो देवर्षिनारदः ॥६२॥
येषां हृदि चक्षुषोश्च वसति श्रीनरायणः ।
धन्यश्चतुर्थीदिवसः सर्वपूज्यो भविष्यति ॥६३॥
भविष्यन्तोऽवताराश्च विधास्यन्त्यत्र चोत्सवम् ।
तत्र दिनेऽर्पिता कन्या लक्ष्मीतुल्या भविष्यति ॥६४॥
इत्युक्त्वा नारदो मौनं जग्राह च बृहस्पतिः ।
विश्रान्तिं शान्तिभवने जगृहतुश्च तौ ततः ॥६५॥
अथ श्रीनारदर्षिश्च लक्ष्म्युक्तं सुरहस्यकम् ।
निवेदयितुं कृष्णाय बालकृष्णालयं ययौ ॥६६॥
बालकृष्णोऽपि भगवान् लक्ष्म्युक्तं वेत्तुमातुरः ।
प्रतीक्षते नारदो मे कदा हृद्यं वदिष्यति ॥६७॥
तावच्छ्रीनारदस्तत्र कृष्णसौधे समाययौ ।
नत्वा श्रीबालकृष्णं तं विहस्य भगवन्नमः ॥६८॥
समुच्चार्याऽऽनन्दितश्च निषसाद हि भूतले ।
तावच्छ्रीबालकृष्णोऽसौ समुत्थाप्य च सत्वरम् ॥६९॥
देवर्षिं कानके नैजे पर्यङ्के तं न्यषादयत् ।
कृत्वा वक्षसि हर्षेण समसङ्क्त महामुनिम् ॥७०॥
प्रप्रच्छ कुशलं लक्ष्म्या वद नारद हृद्गतम् ।
किं स्वित् सुखं समास्ते सा कियन्मद्धर्षसंभृता ॥७१॥
किंस्विद्विचारवत्यास्ते मदर्थं शिवकन्यका ।
किमुक्तवती वा किञ्चिद् रहस्यं ज्ञापितं तया ॥७२॥
वद मे नारद शीघ्रं जिज्ञासितं सुखावहम् ।
इत्युक्तो नारदो राधे! वक्तुकामः प्रहर्षवान् ॥७३॥
उवाच विधिवत् सर्वं यथोक्तं शिवकन्यया ।
आकर्णय हरेकृष्ण सुखमास्ते त्वदर्थिनी ॥७४॥
यदाऽहं गतवान् काश्यां वरणायास्तटे शुभे ।
उद्यानरम्यभूभागे शिवेश्वरगृहान्तिके ॥७५॥
सौवर्णकलशैर्व्याप्ते शोभने विष्णुमन्दिरे ।
तदा सा मातृसहिता स्वस्रा च कृष्णया युता ॥७६॥
दर्शनार्थं त्वागता वाऽभवद् विष्णुं प्रणम्य च ।
प्रदक्षिणायां सहसा यान्तीं चाञ्चल्यशोभना ॥७७॥
मया दृष्टा देहचिह्नैर्लक्ष्मीस्तेऽर्धशरीरिणी ।
अहं विचित्ररूपश्च बालको वै तदाऽभवम् ॥७८॥
तत्समो वयसा येन बालखेलनके स्थितः ।
प्रदक्षिणप्रमिषेण तया सह च मन्दिरम् ॥७९॥
अभ्रमं वेगतश्चापि बालकृष्णोऽवदं मुहुः ।
ग्रश्वपट्टसरश्चापि शिवेश्वरसुतेति च ॥८०॥
एवं शब्दानशृणोत् सा मन्मुखाच्च तदा हि सा ।
अपृच्छन्मां नमस्तेऽस्तु किशोर त्वमितः कुतः ॥८१॥
समागतोऽसि वद मे जानासि बालकृष्णकम् ।
अश्वपट्टसरोवासं तथ्यमावेदय द्रुतम् ॥८२॥
तदाऽहं धृतवाँस्तत्र रूपं नारदसम्मतम् ।
सा तु विज्ञाय मां भूतं जहास प्रणनाम माम् ॥८३॥
ततोऽहं बालरूपश्च पुनस्तत्राऽभवं च सा ।
प्रकाशे चत्वरभागे कदम्बद्रुमशोभिते ॥८४॥
खेलनादिप्रमिषेणाऽऽहूयाकथयदान्तरम् ।
कथं कस्माद् वद मेऽत्र महर्षे यदि तद्भवम् ॥८५॥
मया निवेदिता साध्वि! बालकृष्णाऽऽज्ञयाऽप्यहम् ।
आगतोऽस्मि विवाहस्य जिज्ञासार्थं शिवं प्रति ॥८६॥
वद शीघ्रं तव हृद्यं जानीयान्न यथा सती ।
पञ्चकंकरखेलादिमिषेण वद मा चिरम् ॥८७॥
सा कृष्ण! मां विलोक्यैव मोदप्रमोदसंभृता ।
अकथयन्मम प्राणपतिः कृष्णनरायणः ॥८८॥
कदा त्वायास्यति शीघ्रं कदा मां स्वीकरिष्यति ।
अहं क्षणवियोगं वै सोढुं शक्नोमि नैव ह ॥८९॥
शीघ्रं च सत्वरं कृष्णं वदाऽऽगच्छेद्धि सत्वरम् ।
अयं मे समयश्चास्ते प्रदानस्य गुरो वद ॥९०॥
तेन मे वचनं दत्तं चतुर्दशसमोत्तरः ।
स्वयमागत्य भगवान् ग्रहीष्यति करं मम ॥९१॥
यद्यद्य वत्सरे कृष्णो न मां चेत् संग्रहीष्यति ।
प्राणाँस्त्यक्त्वा दिव्यरूपा तत्राऽऽयास्यामि निश्चितम् ॥९२॥
वद मे जनकाय त्वं मात्रे चापि निवेदय ।
मा मद्वाचं तयोरग्रे प्रकाशं कुरु बुद्धिमन् ॥९३॥
शीघ्रं यथा स वा मे स्यात्तथा क्लृप्तिं विधापय ।
इत्युक्त्वा पुलकांगी सा प्रेमप्लुता तदाऽभवत् ॥९४॥
स्नेहाश्रुभृतनेत्रा च समाधिमिव संगता ।
पुनः स्वल्पं प्राकथयत् निवेदय समर्पिताम् ॥९५॥
नाऽधिकं श्रीहरेरग्रे वद नारद याहि च ।
मद्गृहे त्वागतां तत्र मातरं पितरं वद ॥९६॥
इत्युक्त्वा च नमस्कृत्य मत्पादयोर्हि लीलया ।
उत्थाय खेलानासक्ता शीघ्रं प्रदक्षिणं गता ॥९७॥
मन्दिरे तत्र सा मात्रा सह दृष्ट्वा हरिं पुनः ।
याता निजं गृहं कृष्ण नारदोऽहं ततः परम् ॥९८॥
वरणायां च गंगायां स्नात्वा तत्र गतोऽभवम् ।
नारदेन स्वरूपेण नारायणेति संवदन् ॥९९॥
जटाधरं विलोक्यैव सती मे नमनं व्यधात् ।
मया त्वाशीः प्रदत्ता च सा मां दृष्ट्वा मुदं ह्यगात् ॥१००॥
अपृच्छत् कुशलं सर्वं दत्तासने स्थितं च माम् ।
गृह्णन्तं मधुपर्कादि तत्राऽकस्मात् समागतम् ॥१०१॥
अहं नारायण विष्णो बालकृष्ण हरे प्रभो ।
अनादिश्रीकृष्णनारायणेत्याश्रावयं तदा ॥१०२॥
तव नामानि सर्वाणि पावनानि शुभानि च ।
स्मारकाणि तव कृष्ण ततोऽपिबं जलं मनाक् ॥१०३॥
अथ शान्तिं समागृह्य विवक्ष्यामि यदा तदा ।
सभायाच्च ममाऽग्रे सुखदालक्ष्मीः श्रवाऽऽतुरा ॥१०४॥
ज्येष्ठा कृष्णा तथा सख्यश्चापरा दिव्यदृष्टिकाः ।
अनमन्मां सतीं चापि न्यषीदंस्ताः समन्ततः ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बृहस्पतिप्रदत्तमंगलपत्रिकाया लोमशकृतसविधिपूजनवाचनादिकम्, गोपालकृष्णाद्याः स्वागतमधुपर्काद्युत्तरं
भोजयामासुः, नारदो गोपालकृष्णाय कन्यैश्वर्यगुणदिव्यलक्षणान्याह, बालकृष्णाय कन्योक्तरहस्यार्थं चाहेत्यादिनिरूपणनामा चतुःसप्तत्यधिकद्विशततमोऽध्यायः ॥२७४॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP