संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १४३

त्रेतायुगसन्तानः - अध्यायः १४३

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके! कृष्णनारायणः परेश्वरः ।
देवायतनकायाऽऽह वास्तुं तं ते वदामि च ॥१॥
कूर्मशिलास्थापनं च द्वारशाखादिरोपणम् ।
पद्मशिलास्थापनं च ध्वजापुरुषवेशनम् ॥२॥
घण्टायाः स्थापनं चापि ध्वजस्य स्थापनं .तथा ।
देवप्रतिष्ठानमिति पुण्याहसप्तकं मतम् ॥३॥
वास्तुपूजा हि कर्तव्या तत्र तत्र पुनः पुनः ।
शान्तिकर्माणि तान्येव चतुर्दश वदामि ते ॥४॥
भूमिखाते कूर्मदाने शिलादाने च सूत्रके ।
द्वारदाने खुरदाने कुंभीदाने च पाटके ॥५॥
पाद्मशैले शुकनासे ध्वजपुंसि च घण्टके ।
कलशे ध्वजदाने च प्रतिष्ठायां मतानि वै ॥६॥
एकदा तु परब्रह्म स्वं रूपं दृश्यमाचरत् ।
तस्मात्तेजोऽनन्तकोटिसूर्याभं समजायत ॥७॥
तत्र योगीश्वरो देवः संहारधर्मवाँस्तदा ।
समभवत् तल्ललाटात् स्वेदबिन्दुरभूत्तदा ॥८॥
मूर्तपूरुषरूपं तद् यदा चाऽभूद् भयंकरम् ।
तदा देवैर्ब्रह्मभावैर्न्यस्तं भूमावधोमुखम् ॥९॥
तस्य वास्तोः पूरुषस्य नैर्ऋतायां तदाऽभवन् ।
पादौ जंघे च जानू च तथेशान्यां शिरोऽभवत् ॥१०॥
दक्षकफोणिका चाग्नौ वामा वायौ तदाऽभवत् ।
अस्य देहे पञ्चचत्वारिंशद्देवास्तदाऽभवन् ॥११॥
सर्वदेवयुतः पूजां प्राप्तः स सुखदो भवेत् ।
चतुष्षष्टिविभागोऽपि चतुरस्रोऽपि पूज्यते ॥१२॥
एकाशीतिविभागोऽपि चतुरस्रः स पूज्यते ।
शतभागयुतश्चापि चतुरस्रः स पूज्यते ॥१३॥
अष्टावष्टौ सुराश्चास्य प्रतिकाष्ठं वसन्ति च ।
गजादेकात्तु पञ्चाशद्गजात्मको विधीयते ॥१४॥
द्वात्रिंशन्मण्डलान्येव कृत्वाऽभितः प्रपूजयेत् ।
मणिभिः स्वर्णरूप्याभ्यां विद्रुमैश्च फलैरपि ॥१५॥
चतुष्षष्टिपदं शतपदं वास्तुं च वा लिखेत् ।
पिष्टेन वाऽक्षतैश्चापि कृत्वा च बलिमर्पयेत् ॥१६॥
चतुष्षष्टिपदं वास्तुं दर्शयामि निबोध मे ।
चतुरस्त्रीकृते क्षेत्रे ह्यष्टभागविभाजिते ॥१७॥
मध्ये ब्रह्मा चतुर्भागे तत्पूर्वे चाऽर्यमा तथा ।
दक्षे वैवस्वतो मैत्रगणश्च पश्चिमे तथा ॥१८॥
पृथ्वीधरश्चोत्तरे च तथेशान्यां द्विधाकृते ।
आपश्च आपवत्सश्च तथाग्नौ च द्विधा कृते ॥१९॥
सावित्रश्च सविता च तथा द्वेधा तु नैर्ऋते ।
इन्द्रो जयश्च च तथा वायावपि द्विधा कृते ॥२०॥
रुद्रश्च राजयक्ष्मा च स्थापनीयास्ततः परम् ।
अभितः सर्वभागेषु प्रदक्षिणक्रमाच्छृणु ॥२१॥
इशान्यामीशदिती द्वे पर्जन्यो दक्षकर्णके ।
स्कन्धे जयस्तथा चेन्द्रः सूर्यः सत्यो भृशस्ततः ॥२२॥
आकाशाग्नी द्वावग्नौ च पूषा वितथ इत्यतः ।
गृहक्षतो यमश्चापि गन्धर्वश्च भृंगस्ततः ॥२३॥
मृगपितरावैके च नैर्ऋते नन्दिकस्ततः ।
सुग्रीवः पुष्पदन्तोऽपि वरुणश्चासुरस्तथा ॥२४॥
शेषश्चेति ततो वायौ पापरोगौ व्यवस्थितौ ।
ततो नागश्च मुख्यश्च भल्लाटश्च कुबेरकः ॥२५॥
शैलश्चाऽदितिरित्येवं वामस्कन्धे स्थिताऽन्तिमा ।
त एते पूजनीया वै चतुष्षष्टिविभागके ॥२६॥
एकाशीतिविभागे तु कोणे द्वौ द्वौ सुरौ तु न ।
एकैक एव देवः स्यात् तद्यथा प्रवदामि ते ॥२७॥
ईशः पर्जन्यकश्चापि जयश्चेन्द्रश्च सूर्यकः ।
सत्यो भृशस्तथाऽऽकाशोऽग्निः पूषा वितथस्तथा ॥२८॥
गृहक्षतो यमश्चापि गन्धर्वश्च भंगो मृगः ।
पितृ नन्दी सुग्रीवकः पूष्यश्च वरुणोऽसुरः ॥२९॥
शेषः पापश्च रोगश्च नागो मुख्यो भल्लाटकः ।
कुबेरश्च तथा शैलोऽदितिर्दितिस्तथेति च ॥३०॥
चरकी बहिरीशानेऽग्नौ वहिस्तु विदारिका ।
पूतना बहिनैर्ऋत्ये वायौ पापा बहिर्मता ॥३१॥
चतुरस्रौकृते क्षेत्रे नवभागविभाजिते ।
मध्ये नवपदो ब्रह्मा षट्पदाश्चार्यमादयः ॥३२॥
कोणे तु पदमध्यस्था द्विपदाः परिकीर्तिताः ।
अभितः पदिका ज्ञेया एकाशीतिपदे सुराः ॥३३॥
अथ वास्तुं शतपदं वच्मि निबोध राधिके ।
चतुरस्रीकृते क्षेत्रे दशभागविभाजिते ॥३४॥
कोणाः सर्वे बहिष्ठास्तु रिक्ता देवास्तु दक्षगाः ।
मध्ये ब्रह्मा षोडशांशः षडंशाश्चर्यमादयः ॥३५॥
आपाद्याश्च द्विद्वभागाः स्थाप्याः पूज्याः सदा शुभाः ।
ईशो मूर्घ्नि च पर्जन्यो दक्षकर्णे स्थितः सदा ॥३६॥
जयः स्कन्धे इन्द्रसूर्यसत्यभृशाऽम्बरा भुजे ।
सावित्रः सविता हस्तेऽग्न्यादिपित्रन्तकाः पदे ॥३७॥
नन्द्यादिरोगकान्ताश्च वामे पदे भवन्ति च ।
वामे सक्थिनि मैत्रश्च विवस्वान् दक्षसक्थिनि ॥३८॥
गुह्ये चेन्द्रो गुदाभागे जयन्तश्चेति कीर्तितौ ।
रुद्रश्च राजयक्ष्मा द्वौ वामहस्ते मतौ तथा ॥३९॥
नागो मुख्यश्च भल्लाटः कुबेरः शैलकोऽदितिः ।
त एते वामभुजगा दितिः कर्णे तु वामके ॥४०॥
आपः कण्ठे आपवत्सो हृदि पार्श्वेऽर्यमा मतः ।
दक्षेऽथ वामके पार्श्वे पृथ्वीधरो मतस्तथा ॥४१॥
ईशाने चरकी बाह्ये चिपिच्छा पूर्वतो मता ।
विदारिकाऽग्निकोणे च दिक्पाला दक्षिणे तथा ॥४२॥
नैर्ऋत्ये पूतना प्रोक्ता पश्चिमे स्कन्ध एव च ।
वायौ पापा राक्षसी चोत्तरे तथा कुबेरकः ॥४३॥
एवं पूज्या वास्तुदेहे देवताः शुभदा मताः ।
प्रासादस्योत्तरे वेशाने वा वेदीं द्विहस्तकाम् ॥४४॥
कृत्वा तत्र च कौशेयं श्वेतवस्त्रं समास्तरेत् ।
तत्राऽक्षतस्वस्तिकं च कृत्वा पीताम्बरं ततः ॥४५॥
आस्तीर्याऽष्टदलं पद्मं तत्रैवाऽक्षतजं चरेत् ।
पीतोपरि ततो रक्तं वस्त्रमास्तीर्य तत्र च ॥४६॥
वास्तुरेखाः स्वर्णशलाकया वा यवपिष्टजाः ।
कृत्वा ब्रह्मस्थले मध्ये वारिकलशमान्यसेत् ॥४७॥
गंगे यमुने विरजे गोदावरि सरस्वति ।
नर्मदे सिन्धो कावेरि जलेऽस्मिन् सन्निधिं वह ॥४८॥
विष्णुश्चाग्रे शिवो मध्ये तले ब्रह्मा विराजते ।
मातरः परितः कुक्षौ समुद्रास्तीर्थकोटयः ॥४९॥
सर्वे वेदाः पत्ररूपा रत्नरूपा वसुन्धरा ।
फलानि श्रीफले सीदेत स्थापयामि स्थिरो भव ॥५०॥
'ओं श्रीसिद्ध्यै नमः ओं श्रीब्रह्मणेऽपि नमो नमः ।
ओं श्रीब्रह्मासने रम्ये तिष्ठ श्रीगुरवे नमः ॥५१॥
ओं नमस्ते वासुदेव विश्वकर्मन्नमोऽस्तु ते ।
शुद्धान्यर्चनद्रव्याणि जलेन प्रोक्षितानि वै ॥५२॥
सर्वं शुद्धं जायते श्रीकृष्णनारायणस्मृतेः ।
ओं क्लीं सिद्ध्यै नमश्चात्राऽऽगच्छ स्थाने स्थिरा भव ॥५ ३॥
ओमर्यम्णे नमश्चात्राऽऽगच्छ स्थाने स्थिरो भव ।
विवस्वते नम ओमागच्छ चात्र स्थिरो भव ॥५४॥
ओं मित्राय नम ओं पृथ्वीधराय स्थिरो भव ।
ओम् ऋद्ध्यै नम आगच्छ स्थानेऽत्र त्वं स्थिरा भव ॥५५॥
नम आपाऽऽपवत्साम्यामागछतं स्थिरौ तथा ।
सावित्रीसवितृभ्यामों नम आगच्छतं स्थिरौ ॥५६॥
इन्द्रजयाभ्यां नम ओमागच्छतं स्थिरौ तथा ।
नम ओं रुद्रयक्ष्मभ्यामागच्छतं स्थिरौ तथा ॥५७॥
ओं ह्रीं श्रीं ईशाय नम आगच्छात्र स्थिरो भव ।
पर्जन्याय जयायाऽपीन्द्राय सूर्याय ओं नमः ॥५८॥
सत्याय च नमो भृशाथाऽऽकाशाय च औं नमः ।
आगच्छाऽस्मिन् समागच्छ नैजे स्थाने स्थिरो भव ॥५९॥
ओं क्लीं अग्नये नम आगच्छ स्थाने स्थिरो भव ।
पूष्णे विरोचनाय औं गृहक्षताय ओं नमः ॥६०॥
ओं यमाय नमो गन्धर्वाय भृंगाय ओं नमः ।
ओं मृगाय नम आगच्छाऽस्मिन् स्थाने स्थिरो भव ॥६१॥
ओं क्लीं श्रीं पितृभ्यो नम आगच्छत स्थिरास्तथा ।
दौवारिकाय च सुग्रीवाय नमः स्थिरो भव ॥६२॥
पुष्पदन्ताय च वरुणाय नमः स्थिरो भव ।
ओम् असुराय शेषाय पापाय च स्थिरो भव ॥६३॥
ओं क्लीं श्रीं रोगाय नम आगच्छात्र स्थिरो भव ।
ओं नागाय च मुख्याय भल्लाटाय स्थिरो भव ॥६४॥
नमः सोमाय शैलायाऽदित्यै दित्यै नमः स्थिरा ।
ओं चिपिच्छायै नम आगच्छात्र त्वं स्थिरा भव ॥६५५॥
ओं विदार्यै च जंभायै पूतनायै च ओं नमः ।
स्कन्दायै पापराक्षस्यै यमाय ओं नमोऽत्र च ॥६६॥
ओं चरक्यै नम आगच्छात्र स्थाने स्थिरा भव ।
ओं श्रीमन्महागणाधिपतये ते नमो नमः ॥२७॥
इष्टदेवेभ्यश्च कुलदेवताभ्यो नमो नमः ।
स्थानवास्तुदेवताभ्यः सर्वेभ्यश्च नमो नमः ॥६८॥
एतत्कर्मप्रधानाढ्यदेवताभ्यो नमो नमः ।
कल्पेऽत्र वत्सरे मासे दिने मदिष्टसिद्धये ॥६९॥
देवाढ्यवास्तुदेवस्य करिष्ये पूजनं नमः ।
पंचामृतैर्जलैर्देवं संस्नाप्य ब्रह्मसूत्रकम् ॥७०॥
वस्त्रं भूषा पुष्पमालां धूपं दीपं निवेदनम् ।
अष्टभ्यश्च बलिं चाचमनं ताम्बूलकं तथा ॥७१॥
नीराजनं प्रदक्षिणं दण्डवन्नमनादिकम् ।
तत ओं ह्रीं श्रीं कुरु कुरु स्वाहेति जपेन्मनुम् ॥७२॥
नम ओं वास्तुदेवाय चैकविंशतिकं जपेत् ।
औं पूर्वे हेतकभैरवाय नमोऽथ दक्षिणे ॥७३॥
आदिवैतालभैरवाय नमोऽथ च पश्चिमे ।
कालभैरवाय नम उत्तरेऽथ नमोऽस्तु च ॥७४॥
एकपादभैरवाय नम ओम् ऊर्ध्वकेऽथ च ।
स्वच्छन्दभैरवायाऽस्तु नम आग्नेयकोऽथ च ॥७५॥
त्रिपुरान्तकभैरवाय नमोऽथ निर्ऋत्यके ।
अग्निजिह्वकभैरवाय नमोऽथ च वायुके ॥७६॥
वायुदेवाय नमोऽथेशाने ईशानकाय च ।
नमोऽथ ओं च पाताले विष्णवे च नमो नमः ॥७७॥
अर्घ्यं दत्वा क्षमां प्रार्थयित्वा वास्तुं नमेत् ततः ।
दिक्पालान् क्षेत्रपालाँश्च गणेशं चण्डिकां तथा ॥७८॥
समर्चयेत् ततः प्रतिष्ठादि सर्वं समाचरेत् ।
ओं आं ईं क्लीं महेन्द्राय नमः स्थाने स्थिरो भव ॥७९॥
क्षेत्रपालैः सह बलिं गृह्ण गृह्णेन्द्राय स्वाहा ।
ओं ह्रीं ह्रों ह्राँ वह्नये च नमः स्थाने स्थिरो भव ॥८०॥
क्षेत्रपालैः सह बलिं गृह्ण गृह्णाऽग्नये स्वाहा ।
ओं क्रौं क्रौं क्रू कालमूर्तये नमोऽत्र स्थिरो भव ॥८१॥
क्षेत्रपालैः सह बलिं गृह्ण गृह्ण नमः स्वाहा ।
ओं ऐं क्षों क्षीं मृत्यवे च नमः स्थाने स्थिरो भव ॥८२॥
क्षेत्रपालैः सह बलिं गृह्ण गृह्ण नमः स्वाहा ।
ओ श्रां श्रीं श्रूं वं विं वरुणाय नमः स्थिरो भव ॥८३॥
क्षेत्रपालैः सह बलिं गृह्ण गृह्ण नमः स्वाहा ।
औं ऐं विश्वाधिनाथाय नमः स्थाने स्थिरो भव ॥८४॥
क्षेत्रपालैः सह बलिं गृह्ण गृह्ण नमः स्वाहा ।
ओं ह्रीं श्रीं कुबेराय च नमः स्थाने स्थिरो भव ॥८५॥
क्षेत्रपालैः सह बलिं गृह्ण गृह्ण नमः स्वाहा ।
ओं क्लीं क्लीं क्लूं विश्वंभराय च नमः स्थिरो भव ॥८६॥
क्षेत्रपालैः सह बलिं गृह्ण गृह्ण नमः स्वाहा ।
ओं व्रां व्रीं व्रूं ब्रह्मणे च नमः स्थाने स्थिरो भव ॥८७॥
क्षेत्रपालैः सह बलिं गृह्ण गृह्ण नमः स्वाहा ।
ओं श्रां श्रीं श्रीपतये नमोऽत्र स्थाने स्थिरो भव ॥८८॥
क्षेत्रपालैः सह बलिं गृह्ण गृह्ण नमः स्वाहा ।
एवं प्रपूजयेत् पश्चात् प्रतिष्ठाकार्यमावहेत् ॥८९॥
माघे च फाल्गुने धनायुष्यारोग्यप्रदा हि सा ।
ज्येष्ठे वैशाखके चापि प्रतिष्ठा द्रव्यपुत्रहा ॥९०॥
दक्षिणायनगे सूर्ये वाराहं मातृकास्तथा ।
भैरवं वामनं देवीं नृसिंहं स्थापयेत्तथा ॥९१॥
श्रावणे शांकरं लिंगमाश्विने जगदम्बिकाम् ।
मार्गशीर्षे हरिं नारायणं पौषे तु सर्वकान् ॥९२॥
शनौ रवौ शशांके च बुधे गुरौ च शुक्रके ।
द्वारोच्छ्रायोऽष्टधा कार्यश्चाष्टमं परिहाय च ॥९३॥
सप्तभागात्मशाखाया भागत्रयं पुनश्चरेत् ।
भागद्वयं प्रतिमा स्यात् लम्बेति सर्वनिर्णयः ॥९४॥
द्वारं विभज्य नवधा भागैकं च परित्यजेत्।
अष्टभागं त्रिधा कृत्वा द्विभागा प्रतिमा मता ॥९५॥
गजाच्चतुर्गजान्तं तु षडंगुला गजे गजे ।
ततो दशगजान्तं तु गजे त्र्यंगुलवर्धनम् ॥९६॥
पञ्चाशद्गजपर्यन्तमेकांगुलप्रवर्धनम् ।
अत्र विंशत्यंशाऽऽधिक्यै श्रेष्ठा प्रासादमानतः ॥९७॥
प्रासादार्थप्रमाणेन कोली ज्येष्ठाऽपि कथ्यते ।
इत्येवं देवतायन! भवानास्ते तथाविधः ॥९८॥
मन्दिरं मम रूपं वै शृणु ते रूपमर्थवत् ।
प्रासादो देवरूपोऽस्ति पादौ पादशिलाः स्मृताः ॥९९॥
जंघा तु जगती बोध्या स्तंभा वै जानवः स्मृताः ।
सक्थि कम्मानिका बोध्या मेढ्रं कुंभादधस्तलम् ॥१००॥
प्रणालं तु गुदाभागो घूम्मटश्चोदरं मतम् ।
देवस्थानं नाभितुल्यं पीठिका हृदयं मतम् ॥१०१॥
प्रतिमा जीव एवाऽसौ शिखरं वक्ष एव च ।
अमलसारः कण्ठश्च शुकनासस्तु नासिका ॥१०२॥
दीपश्चक्षुः गवाक्षः कर्णः स्कन्धः कायपालिका ।
कलशो मस्तकं ध्वजा केशा भूतानि धातवः ॥१०३॥
प्रलेपो मांसमेवाऽत्र मेदश्च वसुधाद्रवाः ।
अस्थीनि च शिलाः सर्वा वस्त्रं चूर्णपटात्मकम् ॥१०४॥
एवं विद्धि स्वकं देहं देवायतन! भक्तराट ।
इत्येवं राधिके! कृष्णनारायणो जगाद तम् ॥१०५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रतिष्ठोत्सवे वास्तुपुरुषतद्देवादिस्थापनाप्रभृतिनिरूपणनामा त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥१४३॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP