त्रेतायुगसन्तानः - अध्यायः २७०
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु त्वं राधिके पश्चादश्वपाटलभूपतिः ।
अग्रे तीर्थे च प्रपच्छ लोमशं तीर्थसंभवम् ॥१॥
अश्वपाटल उवाच-
इदं तीर्थं च किन्नाम कदा केन कृतं प्रभो ।
किंफलं को विधिश्चात्र कर्तव्यो वद मे गुरो ॥२॥
श्रीलोमश उवाच-
अस्य तीर्थस्य माहात्म्यं शृणु राजन् वदामि ते ।
देवानीकोऽभवद् वैश्यः कृषिकारोऽतिभक्तिमान् ॥३॥
उज्ज्वलग्रामवासोऽयं वाटिकायां दिवानिशम् ।
वर्षायां वै निजावासं कृत्वा तिष्ठति रक्षकः ॥४॥
भजते श्रीहरिं नित्यं प्रातः स्नात्वाऽर्चयत्यपि ।
मध्याह्ने भोजनं सर्वं निवेद्य हरयेऽत्ति च ॥५॥
वर्षायां यानि सस्यानि पत्राणि च दलानि च ।
शाकानि कन्दमूलानि फलानि च भवन्ति हि ॥६॥
क्षेत्रेषु वाटिकायां च नूतनानि हि तानि सः ।
निवेद्य हरये पश्चादुपभुंक्ते कुटुम्बवान् ॥७॥
इक्षुदण्डान् कणिशाँश्च बीजानि भाजिकादिकम् ।
मुन्यन्नानि च हव्यानि समिधश्च रसांस्तथा ॥८॥
मधूनि शर्कटा गूडं गुन्द्रं दुग्धानि यानि च ।
भाजिका भर्जितकणाँस्तथा भर्जितशिम्बिकाः ॥९॥
स्तम्बान् वल्लीश्च वै तृणजातीयानि च यानि च ।
मासे मासे प्रजातानि समर्प्य हरयेऽत्ति सः ॥१०॥
एवमात्मनिवेदी वै भक्तराट् कर्षुकोऽभवत् ।
राजन् वर्षानिषायां त्वेकदा वृष्टिरभूद् द्रुतम् ॥११॥
सवेगाः स्थूलबिन्द्वाढ्या रात्रौ चाप्रातरेव सा ।
दिवसेऽपि तथैवाऽभूत् ततो रात्रावभूत्तथा ॥१२॥
दिवानिशं प्रवर्षैश्च भूतलं जलसंभृतम् ।
क्षेत्राणि जलरूपाणि नद्यो जलातिगास्तथा ॥१३॥
अमार्गगा ह्यभवँश्च ग्रामाणां परितो जलम् ।
मार्गा नदीमयाश्चासन् वृक्षा यथा सरःस्थिताः ॥१४॥
एवं जातेऽतिभयदे वर्षणे कर्षुकः स तु ।
शैत्यार्द्रवस्त्रसंकम्पो वृक्षाश्रये स्थितोऽभवत् ॥१५॥
जलानि सरितस्त्यक्त्वा मार्गं त्यक्त्वाऽतिगानि वै ।
आयातानि निशायां वै वाटिकायां समन्ततः ॥१६॥
वृक्षा जलगताश्चासन् कर्षुको वृक्षमेव तम् ।
आरुह्य त्वात्मरक्षार्थं त्रिशाखे सुस्थिरोऽभवत् ॥१७॥
रात्रौ झंझावातवर्षा दैवयोगादवर्धत ।
वातेन द्रुम आक्षिप्तो भ्रामितश्च निपातितः ॥१८॥
शाखा भग्ना कर्षुकस्तु हरिं स्मृत्वा तु शाखिकाम् ।
प्रगृह्यैव सुलग्नोऽभूच्छाखायां सलिलोपरि ॥१९॥
पूराऽऽकृष्टाऽभवच्छाखा जलमध्ये गता तु सा ।
ऊढा सकर्षुकाऽऽकृष्टा नदीमध्ये गताऽभवत् ॥२०॥
पूरप्रवाहणेश्चोह्ममानाऽश्वपट्टमाययौ ।
शाखाऽऽद्रा भारयुक्ता वै सा ममज्ज सरोजले ॥२१॥
कर्षुकस्तु निराधारो जानाति तरितुं ततः ।
जलमध्ये तरत्येव किन्नु शैत्येन पीडितः ॥२२॥
कल्लोलैः श्रमितश्चापि स्तब्धहस्तो ममज्ज ह ।
हरे नारायण कृष्ण बालकृष्ण विभो प्रभो ॥२३॥
विष्णो हस्तीजले मग्नस्तारितो भवता तदा ।
सत्यव्रतो जले नावा तारितो भवता पुरा ॥२४॥
क्षितिर्मग्ना जले पूर्वे तारिता भवता प्रभो ।
संसारसागरात् त्वं वै तारयस्येह देहिनः ॥२५॥
कमलानि जलजानि चोर्ध्वे त्वं नयसि प्रभो ।
जले सुप्तः स्वयं पूर्वं वैराजं कृतवाँस्ततः ॥२६॥
क्षीराब्धौ शेषशयने सुप्तस्त्वं प्रलयेऽसि च ।
अद्य सुप्ताऽस्मि त विष्णो जलाब्धौ नय मां द्रुतम् ॥२७॥
स्वलोक स्वर्गलोकोर्ध्वे निजाग्रे मां प्ररक्षय ।
न मे वाञ्च्छा मर्त्यलोके स्थातुं धाम तु ते नय ॥२८॥
नमः श्रीविष्णवे लोकजिष्णवे परमात्मने।
सर्वज्ञाय नमस्ते त्वन्तरात्मने परात्मने ॥२९॥
एष प्राणाँस्त्यजाम्येव समर्पयामि ते पदे ।
इत्युक्त्वा मानसे दध्यौ विष्णुं कृष्णनरायणम् ॥३०॥
तावत्तत्र समायातो बालकृष्णः परेश्वरः ।
चतुर्भुजो युवा सौम्यः शंखचक्रगदाधरः ॥३१॥
हस्ते धृत्वा निजं भक्तं कर्षुकं जलमध्यतः ।
तीरे निन्ये हरिस्त्वेनं विष्णुर्गोपालनन्दनः ॥३२॥
गृहे नीत्वाऽनलेनाऽपि तापयामास सेवकम् ।
भोजयामास सुरसान् वस्त्राणि प्रददौ ततः ॥३३॥
स्वापयामास शयने रक्षयामास सर्वथा ।
यत्र भक्तो जलात्तीरे निष्कास्य स्थापितः क्षणम् ॥३४॥
विष्णुरूपेण कृष्णेन तदिदं तीर्थमुत्तमम् ।
विष्णुतीर्थं समभवत् तारकं सागरात् खलु ॥३५॥
कर्षुको रक्षितः पश्चाद् दिनान्तरे गृहं ययौ ।
आगत्य धनदानेन मन्दिरं विष्णुशोभितम् ॥३६॥
कारयित्वाऽतिष्ठिपच्च विष्णुं चतुर्भुजं त्विह ।
तदिदं मन्दिरे राजन् राजते विष्णुमण्डितम् ॥३७॥
तारकं तीर्थमेवाऽपि ख्यायते चोत्तमोत्तमम् ।
अत्र स्नानात्तरन्त्येव दानात् स्मृद्धिं लभन्त्यपि ॥३८॥
विष्णोः पूजाकरणाच्च वैकुण्ठं विन्दतेऽपि च ।
कुरु स्नानं ततश्चात्र दानं देहि यथेप्सितम् ॥३९॥
कृत्वा च दर्शनं विष्णोः पूजां कुरु जगद्गुरोः ।
इत्युक्तो राधिके राजा ह्यश्वपाटल एव ह ॥४०॥
पुपूज विष्णुं पुष्पाद्यैर्ददौ सौवर्णदानकम् ।
ततश्चाग्रे ययौ तीर्थं पुरुषोत्तमनामकम् ॥४१॥
अश्वपाटल उवाच-
इदं तीर्थं कथं जातं पुरुषोत्तमसंज्ञकम् ।
कदा केन निमित्तेन तद्विधिं च फलं वद ॥४२॥
श्रीलोमश उवाच-
शृणु राजन् प्रवक्ष्यामि तीर्थानां तीर्थमुत्तमम् ।
पुरुषोत्तमसंज्ञं वै साक्षाद् यत्र पुमुत्तमः ॥४३॥
आनर्तेषु प्रदेशेषु भद्रायने हि पत्तने ।
विप्रगृहे ब्रह्मस्तम्बो महर्षिः समजायत ॥४४॥
स त्वाबाल्याद्धरौ मग्नोऽक्षरं ब्रह्म यदुच्यते ।
ब्रह्मात्मा ब्रह्मनिष्ठश्चाऽऽराधयत् ध्रुरुषोत्तमम् ॥४५॥
सदा ध्यानपरो योगी योगसमाधिसंस्थितिः ।
पश्यत्येव दिव्यरूपं हृदये श्रीनरायणम् ॥४६॥
यस्य भित्त्यावरणं वै नास्ति नास्ति जलाऽऽवृतिः ।
आकाशे गमनं यस्याऽदृश्यतासिद्धिरस्ति च ॥४७॥
यो नित्यं स्वकृतपूजाकाले पश्यति वै हरिम् ।
अग्रे चागत्य दत्तं स गृह्णाति चन्दनादिकम् ॥४८॥
साक्षाद् भुंक्ते प्रदत्तं च पायसाद्यं परेश्वरः ।
एवंविधस्य विप्रस्य ब्रह्मस्तम्बस्य मानसे ॥४९॥
तपसे त्वभवद् वाञ्च्छा हर्याराधनशान्तिदा ।
स तु गत्वा करमर्दिह्रदे तस्थौ हि वत्सरम् ॥५०॥
ततो ययौ प्रसिद्धं वै चाश्वपट्टसरोवरम् ।
अत्रागत्य तटे तस्थौ वासं चकार चाम्रके ॥५१॥
आम्रमूले शुभच्छाये स्वस्थध्यानपरोऽभवत् ।
स्नानं ध्यान्ं जपं पूजां तर्पणं चेश्वरार्पणम् ॥५२॥
करोत्येव निजं कर्म पावनं पुण्यसम्प्रदम् ।
अनादिश्रीकृष्णनारायणस्य दर्शनं सदा ॥५३॥
करोति नित्यं प्रातश्च प्रत्यक्षं पूजयत्यपि ।
एवं संपूजयतोऽस्य नित्यं प्रातः परेश्वरः ॥५४॥
साक्षाद् भवति विश्वात्मा दिव्यरूपधरो हरिः ।
योगज्ञास्तं प्रपश्यन्ति दिव्यदृशोऽतिमानुषाः ॥५५॥
ब्रह्मस्तम्बेन तु तत्र कृपा पर्णकुटी शुभा ।
अश्वपट्टसरस्तीरे पुरुषोत्तमकुट्टिका ॥५६॥
तत्रेदं मन्दिरं तेन शोभनं च ततः कृतम् ।
यत्र संराजते साक्षान्मूर्तिमान् पुरुषोत्तमः ॥५७॥
पुरुषोत्तमतीर्थं तत् अश्वपट्टसरस्तटे ।
ब्रह्मस्तम्बाभिधं तीर्थं प्रोच्यते दिव्यमोक्षदम् ॥५८॥
अत्र स्नानाद् भवेत्प्राप्तिः पुरुषोत्तमशार्ङ्गिणः ।
अत्र दानाद् भवेद् प्राप्तिर्ब्रह्मलोकस्य शाश्वती ॥५९॥
पुरुषोत्तमपूजायाः फलं राजन्न वर्ण्यते ।
नारायणस्वरूपो वै जायते पूजकोऽस्य ह ॥६०॥
ब्रह्मरूपो महाभुक्तश्चोपासकोऽस्य जायते ।
स्नानं दानं जपं पूजां कुरु राजन् हरेरिह ॥६१॥
इत्युक्तो राधिके चाश्वपाट्टलो नृपतिर्हि सः ।
सर्वभावैश्चकारैव स्नानदानाऽर्हणादिकम् ॥६२॥
अथ पश्चाद् ययौ तीर्थं महाविष्णुप्रतीर्थकम् ।
अश्वपट्टसरस्तीरे क्षीरिकासंगमे शुभम् ॥६३॥
अश्वपाटल उवाच-
गुरो तीर्थमिदं कस्मान्महाविष्ण्वभिधानकम् ।
क्रदा जातं कथं चेति फलाद्यं चापि मे वद ॥६४॥
श्रीलोमश उवाच-
देवमूलस्य भक्तस्य दुहिताऽमरकन्यका ।
पुरा त्वत्र तपस्तेपे दुष्करं हरिलब्धये ॥६५॥
फलमूलाशना साध्वी महाविष्णुपरायणा ।
आकाशवासा सजटा सुवल्कलादिधारिणी ॥६६॥
पश्चात् पवनभक्षा च पादैकेन स्थिताऽभवत् ।
नेत्रे प्रमील्य सततं जपमालापरायणा ॥६७॥
एवं बहुगते काले महाविष्णुः परेश्वरः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥६८॥
अदृश्यत प्रसन्नास्यस्तेजोमध्ये सुरूपवान् ।
सायुधः सुमुकुटाद्यैर्भूषणैः शोभितः प्रभुः ॥६९॥
ततोऽभूत् स द्विभुजश्चाऽमरकन्यां जगाद ह ।
वद देवि प्रसन्नोऽस्मि किं ते मनसि वर्तते ॥७०॥
यद्यद् वाञ्च्छसि दास्येऽत्र त्वदर्थं समुपागतः ।
तदा नेत्रे समुन्मील्य ददर्श सुन्दरी हरिम् ॥७१॥
महाविष्णुं ततश्चापि द्विभुजं परमेश्वरम् ।
कान्तं कान्ताकृते योग्यं युवानं सद्गुणाश्रयम् ॥७२॥
पतिर्मे भव भगवन्नित्येवमार्थयत् सती ।
पतिता पादयोस्तस्य महाविष्णोस्तदा हरिः ॥७३॥
तथास्त्विति सती प्राह तापसीं च करे निजे ।
संजग्राह क्षणं साऽपि ददौ प्रेमावशा निजम् ॥७४॥
करमालां गले विष्णोर्लग्नाऽभूत् कृष्णवक्षसि ।
भगवाँस्तां निजां कृत्वा जगाद वैष्णवीं सतीम् ॥७५॥
अहं गृह्णामि सुभगेऽमरकन्येऽतिशोभने ।
महाविष्णुस्वरूपोऽहं भगवानत्र भूतले ॥७६॥
अनादिश्रीकृष्णनारायणाऽग्रे निवसामि हि ।
भज मां तं भगवन्तं गृह्णामि विधिनाऽधुना ॥७७॥
ततो देवी मानसीं च पुष्पमालां गले ददौ ।
अनादिश्रीकृष्णनारायणश्चाविर्बभूव ह ॥७८॥
अहं च लोमशस्तत्र तदा ह्युपस्थितोऽभवम् ।
वह्निं शीघ्रं प्रकाश्यैव मयाऽमराविवाहनम् ॥७९॥
कारितं विष्णुना साकं सा सती राजते गृहे ।
महाविष्णुर्भगवाँश्च राजते मानवो भवन् ॥८०॥
भगवन्तं पतिं कृष्णाऽग्रजं सर्वगुणान्वितम् ।
संप्राप्य साऽमरीकन्या कृतकृत्या सुखाऽभवत् ॥८१॥
तदिदं तपसः स्थानं ह्यमरीकन्यकाश्रितम् ।
अमरीतीर्थमेवाऽपि भगवत्तीर्थमित्यपि ॥८२॥
विवाहतीर्थं च महाविष्णुतीर्थं तथोच्यते ।
अत्र स्नानाच्च दानाच्च महाविष्णोः प्रपूजनात् ॥८३॥
महाविष्णुपदं लब्ध्वा ब्रह्मलोके महीयते ।
राजन्नत्राऽलये रम्येऽमरीविष्णुं प्रपूजयेत् ॥८४॥
भुक्तिं मुक्तिं व्रजेद् भक्तः शाश्वताऽऽनन्दभाग्भवेत् ।
इत्युक्तो राधिके राजा सस्नौ ददौ पुपूज तम् ॥८५॥
ततो ययौ परं तीर्थं सनत्कुमारसंज्ञकम् ।
पुण्यपुञ्जप्रदं श्रेष्ठं सर्वपापविनाशकम् ॥८६॥
अश्वपाटल उवाच-
सनत्कुमारतीर्थं तत्कथं कदाऽभवत्पुरा ।
वद मेऽत्र गुरो तस्य माहात्म्यं च विधिं फलम् ॥८७॥
श्रीलोमश उवाच-
कूप्यवालः काष्ठहारोऽभवच्चात्र वने स्थितः ।
काष्ठजीवी सदाऽरण्ये कुठारसाधनोऽभवत् ॥८८॥
भजते स्म हरिकृष्णं नारायणं जगद्गुरुम् ।
सनत्कुमाररूपं तं ब्रह्म पुत्रं सुसाधुकम् ॥८९॥
साधुसेवापरः सतां सत्संगं स करोत्यपि ।
कर्मणा मनसा वाचा तन्वा साधून् हि सेवते ॥९०॥
साधुरेव भगवान् वै साधुरेव परागतिः ।
साधुसेवा महत्पुण्यं पावनाः साधवो यतः ॥९१॥
काष्ठहारश्च तत्पत्नी सेवेते साधुमण्डलम् ।
दिवसे काष्ठभेदादिकार्यं कृत्वा निशामुखे ॥९२॥
सतां सेवां कुरुतस्तौ नारायणपरायणौ ।
सनत्कुमारशिष्याणां साधूनां सेवने रतौ ॥९३॥
वने यातौ हि काष्ठानामादानार्थं तदा वने ।
हस्तिना संधृतः काष्ठहारः सस्मार सद्गुरुम् ॥९४॥
सनत्कुमारं सहसा सत्यलोकस्थितं प्रभुम् ।
सनत्कुमारो भगवान् सहसा गोचरोऽभवत् ॥९५॥
वने स हस्तिनं प्राह रे पशो किं करोषि वै ।
मा वन्यं मित्ररूपं तं कष्टे क्षिप वृथाऽत्र वै ॥
मा मा मारय काष्ठघ्नं न ते शत्रुरयं खलु ॥९६॥
हस्ती प्रोवाच-
सनत्कुमार भगवान् वैरं निर्यापयाम्यहम् ।
अयं कच्छे ब्राह्मणोऽभूद्धर्मकर्मादितत्परः ॥९७॥
कर्मकाण्डपरो विद्यादानादिपुण्यतत्परः ।
अहं राजाऽभवं चापि नाम्ना रायधनेश्वरः ॥९८॥
अयं मे गुरुतां कुर्वन शासनं प्रचकार ह ।
मया चाऽसहमानेन शासनेऽयं निवारितः ॥९९॥
तदा शशाप मह्यं स हस्ती वनान्तरे भव ।
मया शप्तः काष्ठहारो भव तत्र वनान्तरे ॥१००॥
सोऽहं राजा काष्ठहारं मारयिष्ये न संशयः ।
मा साधो मम वैरस्य यापने विध्नमाचर ॥१०१॥
सनत्कुमार उवाच-
वैरस्य यापने तेऽत्र किंफलं स्यान्नरघ्नता ।
मा मैवं कुरु वन्येन्द्र मोक्षं गृहाण मद्विधात् ॥१०२॥
सनत्कुमारो भगवान्नहमस्मि समागतः ।
गृहाण मन्त्रं देहं च त्यक्त्वा याहि परं पदम् ॥१०३॥
गज उवाच-
देहि मन्त्रं कृपासिन्धो मोक्षं देहि कृपां कुरु ।
पुनर्यथा न जननं संसारो न भवेन्मम ॥१०४॥
सनत्कुमार उवाच-
एहि हस्तिन् सरस्तीरं पीत्वा जलं सुखाश्रयम् ।
मन्त्रं प्राप्य प्रयाह्येव परं धामाऽक्षरं पदम् ॥१०५॥
एवं राजन् गजकाष्ठहारौ सनत्कुमारकः ।
त्रयस्तेऽच समायाताः ऋषिः सनत्कुमारकः ॥१०६॥
जलं वै पाययामास स्नपयामास चात्र वै ।
मन्त्रं ददौ वैष्णवं च ददौ मुक्तिं हि हस्तिने ॥१०७॥
काष्ठहारोऽभवत् स्वस्थः कारयामास पूजनम् ।
पर्णकुटीं काष्ठमयीं तत्र सनत्कुमारकम् ॥१०८॥
स्थापयामास साधुं तं ब्रह्मपुत्रं परेश्वरम् ।
सनत्कुमारो भगवान् मूर्तिरूपेण राजते ॥१०९॥
दिव्यरूपो गतः सत्ये तीर्थं तस्येदमुत्तमम् ।
सनत्कुमारतीर्थं वै हस्तितीर्थं तथा शुभम् ॥११०॥
काष्ठहारप्रतीर्थं वै प्रोच्यते चोत्तमोत्तमम् ।
इत्येवं तीर्थमत्रैव जातं स्नाहि नृपाऽत्र वै ॥१११॥
प्रपूजय मुनिं सनत्कुमारं परमेश्वरम् ।
भुक्तिर्मुक्तिर्भवेदत्र स्नानाद् दानात्प्रपूजनात् ॥११२॥
इत्युक्तो नृपतिस्तत्र राधिके स्नानमाचरत् ।
पुपूजर्षिं सनत्कुमारकं दानं ददौ तथा ॥११३॥
तत्रश्चाग्रे ययौ तीर्थान्तरं पापविशोधनम् ।
स्मरणात्पठनाच्चाऽस्य श्रवणान्मोक्षणं भवेत् ॥११४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने देवानीककर्षुकस्य जलमग्नस्य विष्णुना उद्धृतस्य विष्णुतीर्थं, भद्रायनग्रामीणस्य ब्रह्मस्तम्बविप्रस्य तपतः पुरुषोत्तमदर्शनात् पुरुषोत्तमतीर्थं, देवमूलककन्यया अमर्या तपसि स्थितयाऽऽराधितो महाविष्णुर्भगवाँस्तां विवाहविधिना जग्राहेति महाविष्णुतीर्थं, कूप्यवालकाष्ठहारस्य
गजतो रक्षां कृतवान् सनत्कुमार इति सनत्कुमारस्तीर्थं, चेत्यादिनिरूपणनामा सप्तत्यधिकद्विशततमोऽध्यायः ॥२७०॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP