संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २५६

त्रेतायुगसन्तानः - अध्यायः २५६

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके च ततो राजा पप्रच्छ लोमशं तु यत् ।
कथयामि समासेन हृदयेन निबोध मे ॥१॥
अश्वपाटल उवाच-
क्षरश्चायं हि संसारस्तत्राऽक्षरो हि चेतनः ।
कथं न मुञ्चति त्वेतत् क्षरं यात्यक्षरं न सः ॥२॥
लोमश उवाच-
गर्भे कर्मवशात् सुप्तः पच्यते पक्वमन्नवत् ।
भूतसंस्कारतादात्म्यम् आपन्न इव भर्जितः ॥३॥
क्षरधर्मान् समासाद्याऽज्ञानदशाऽभिभावितः ।
क्षरात्मा स्व इति भ्रान्तिं प्राप्तः प्रसूयते ततः ॥४॥
अहं बालो नरो नारी बाह्यशब्दैर्विबृंहितः ।
शुक्ललोहितकृष्णार्थभानभ्रान्तिप्रमीलितः ॥५॥
संकीर्णकल्पनां प्राप्तः सार्थसंगैर्जडीकृतः ।
कृशः स्थूलो दुःखी सुखी ममाऽहंत्वंप्रबोधितः ॥६॥
कर्मपाशायुष्यरज्जुबन्धितश्चाऽवशीकृतः ।
प्राणकोष्ठलिकाग्रन्थिग्रथितश्चाऽविनाशितः ॥७॥
मायातापपरिषेकशोकितश्च दृढीकृतः ।
षाट्कौशिकरसैर्लिप्तस्तत्रैव च कृतासनः ॥८॥
महालेपैर्लेपितश्च नेष्टे निर्गन्तुमप्रभुः ।
तत्रैव तामसं वापि राजसं सात्त्विकं च वा ॥९॥
प्रवाहं च रसं पक्वं स्वादं चाभ्यस्तमेत्ययम् ।
पुष्टिमेति ततस्तैस्तैरिन्द्रियाहृतसद्रसैः ॥१०॥
सुखानन्दैश्च पुष्णाति धावत्येव तदर्थकः ।
तदर्थं यतते चापि ज्ञातुं प्राप्तुं पुनः पुनः ॥११॥
भोक्तुं त्यक्तुं नवीकर्तुं सञ्चयितुं नवं पुनः ।
तद्वेगवासनाक्षिप्तो मूढः क्षरे क्षरात्मकः ॥१२॥
अभिन्नश्चाऽपृथग्भूत्वा वर्तते केशकर्षितः ।
देहधर्मपरो भूत्वा देहानन्देन नन्दितः ॥१३॥
पुनः पुण्यं करोत्येव दिव्यदेहादिलब्धये ।
एवं चक्रेण वै गच्छन् देहात् कर्म ततो वपुः ॥१४॥
पुनः कर्म पुनर्देहश्चेत्येवं क्षरगर्तके ।
मुहुः पतति चाऽज्ञात्मा मुहुर्मोदं च वाञ्छति ॥१५॥
नाऽस्यैवं वर्तमानस्य क्षरान्मुक्तिः क्वचिद् भवेत् ।
प्रत्युत वर्धते मोहो बन्धनं संसृतिस्तथा ॥१६॥
मोहान्मोहं चानुव्रज्य दृष्ट्वा दृष्ट्वा नवं नवम् ।
प्राप्तुं भोक्तुं च यतते कर्म बध्नाति तन्मयम् ॥१७॥
देहाद् देहसहस्राणि कर्मभिश्चाभिपद्यते ।
तिर्यक्षु देववर्गेषु मानुषेषु च पक्षिषु ॥१८॥
दैत्यदानवरक्षस्सु जायते च पुनः पुनः ।
द्वन्द्वानेति च निर्द्वन्द्वस्तासु तास्वेव योनिषु ॥१९॥
देवभोगान् साध्यभोगान् सिद्धभोगाननुत्तमान् ।
ईश्वराणां तथा भोगानाप्तुं मथ्नाति सर्वशः ॥२०॥
रोगे भोगे विहारे चोद्वेगे क्षये क्षतौ क्षते ।
शरीरात्मा भ्रमभिन्नो ममेति चाभिमन्यते ॥२१॥
भिन्नदेहेषु कुर्वन् वै राज्यं शेते विभिन्नके ।
शयने गेन्दुके क्वापि बिले द्वैधे च कर्दमे ॥२२॥
इष्टिकायां च गगने गर्ते च गह्वरे क्षितौ ।
कण्टके भस्मनि क्षीणे जले फलेऽनिले नले ॥२३॥
दधन् वस्त्राणि रम्याणि और्णानि कम्बलानि च ।
तार्णानि राजसान्येव कार्दमेयानि चर्म च ॥२४॥
यद्यद्योनौ प्रजायेत तत्तद्वस्त्रपरिग्रहम् ।
भोजनानि विचित्राणि गन्धान्यगन्धकानि च ॥२५॥
क्लेदशैवालभक्ष्याणि मन्यते स्वानि वैभ्रमात् ।
विविधानि च कृच्छ्राणि भुंक्ते व्रतानि सिद्धये ॥२६॥
कुरुते चाऽप्यभीष्टानि तान्यनुद्रवति प्रगः ।
आत्मरूपगुणान् लाभान् विविधान् हृदयप्रियान् ॥२७॥
धावते चानुभोगार्थं भोक्तव्यानि मयेति च ।
ममत्वेनावृतो नित्यं तत्रैव परिवर्तते ॥२८॥
सर्गकोटिसहस्रेषु त्रिषु लोकेषु तत्फलम् ।
यथाकर्म समश्नाति मरणान्तासु मूर्तिषु ॥२९॥
अशनारहितश्चापि साशनः समजायते ।
निरिन्द्रियोऽपि मनुते सेन्द्रियं स्वं व्रणान्वितम् ॥३०॥
अलिंगो लिंगवन्तं चाऽमृत्युर्मृत्युभयान्वितम् ।
अदुःखो दुःखिनं चाप्यक्षरोऽपि मन्यते क्षरम् ॥३१॥
एवं क्षराभिमानेन क्षरान्निर्याति नैव सः ।
राजन्नज्ञानभावस्य नाऽस्यान्ते विद्यते क्वचित् ॥३२॥
ऋते गुरूपनिषद्ं शास्त्राणां परिशीलनम् ।
सत्संगं सत्कथालाभं हरेः सतां प्रसेवनम् ॥३३॥
अनुग्रहं हृत्स्थहरेर्मुक्तानामनुवर्तनम् ।
आराधनं हरेश्चापि ध्यानं तस्य परात्मनः ॥३४॥
एतानि साधनान्येव दिव्यानि दिव्यदानि हि ।
आत्मना युज्यते चात्मा परात्मा तत्र युज्यते ॥३५॥
तदा पारं परं यात्यक्षरात्परस्थितं प्रभुम् ।
यावद्धरिं श्रयेन्नैव सत्संगं नाचरेदपि ॥३६॥
भक्तिं विधापयेन्नैवोपासनां न समाचरेत् ।
प्रत्यक्षस्य हरेः सेवां गुरोः सेवां सतां तथा ॥३७॥
यावत्कुर्यान्न वै तावत्संसारोऽस्य न लीयते ।
सर्गकोटिसहस्राणि पतनान्तानि गच्छति ॥३८॥
धाम्ना धामसहस्राणि मरणान्तानि याति च ।
मायामायिकसेवाभिमायिकस्त्रिगुणो भवेत्। ॥३९॥
मायासम्बन्धयोगेन मायागुणमयो भवेत् ।
रत्यर्थमभिसम्बन्धादन्योन्यगुणसंश्रयात् ॥४०॥
ऋतौ गर्भाश्रयाद् रूपं मायिकं लभते मुहुः ।
एवं वै जायमानस्य मोक्षधर्मः कुतो भवेत् ॥४१॥
तस्माद् ग्रन्थिं वासनाख्यां छित्वा भित्वा च संव्रजेत् ।
तृष्णाक्षयं तपसैव कृत्वा ज्ञानेन वापि च ॥४२॥
विवेकेन पृथक्कृत्वा मत्वाऽऽत्मानं ह्यमायिकम् ।
ज्ञानप्रकाशमार्गेण गन्तव्यं सत्पथेन च ॥४३॥
तदा गुणा वियुज्यन्ते निर्गुणाद्वै चिदात्मनः ।
आगर्भादेव पुण्येन गुणभिन्नं समीक्षते ॥४४॥
प्रह्लादवत्तथा मदालसाबाला इवापि च ।
श्रीहरेः कृपया यद्वा दिव्यचक्षुः प्रकाशते ॥४५॥
आत्माऽनात्मविवेकेन गुणहान्या निजं निजः ।
परं पश्यति युक्तात्मा परात्परं हरिं तथा ॥४६॥
एकाग्रता बलं तत्र ध्यानबलं च कारणम् ।
विमुक्तः सर्वसंगेभ्यो ब्राह्मे मुहूर्तके स्थिरः ॥४७॥
धारयेत्तु मनः कृष्णेऽपररात्रे हृदन्तरे ।
बुद्ध्या वृत्तिं स्थिरीकृत्याऽप्यकंपो निश्चलो भवन् ॥४८॥
हरिं पश्यति चान्तःस्थं तदा युक्तो भवत्ययम् ।
युक्तस्य सर्वदा भानं परमेशपरायणम् ॥४९॥
नान्यच्छृणोति चाघ्राति न रस्यति न पश्यति ।
नैव स्पृशति गृह्णाति याति वक्ति च मेहति ॥५०॥
न मनुते न च संकल्पयते मन्यते न च ।
न बुद्ध्यति तदा चात्मा परात्मनि प्रमोदते ॥५१॥
प्रकाशतेऽम्बरे सूर्यो निर्वाते दीपको यथा ।
तं प्रपश्यन्ति मुनयो ब्रह्मयोनय ईश्वराः ॥५२॥
तं परं परमात्मानं दृश्येतात्मदृशा तदा ।
आत्मदृष्टिर्मता विद्या अविद्या मानसी दृशिः ॥५३॥
अविद्या सर्गनाशाढ्या विद्या मुक्तिर्हि शाश्वती ।
अव्यक्तं सृजतेऽविद्यां विद्या चात्माऽभिपद्यते ॥५४॥
अविद्यया मृतिं यायाद् विद्ययाऽमृतमृच्छति ।
विद्यालाभे त्वात्मनो वै विवेको बहुशाखवान् ॥५५॥
कृतात्मनः प्रजायेत शृणु राजन् वदामि ते ।
किं मया कृतमेतावत्कालेन मायिकेन वै ॥५६॥
अज्ञेनेव झषेणात्र जालं समनुवर्तितम् ।
जलादन्यन्न जानाति मत्स्यो जलाप्तजीवनः ॥५७॥
तथा नाऽहं परं कंचिज्ज्ञातवान् भ्रमछादितः ।
ममाचारे भ्रमे धिग्धिगस्तु मोहानुवर्तने ॥५८॥
मोहानुवर्तनं प्राप्य नाऽवेदिषं परेश्वरम् ।
माययाऽहं स्थितश्छन्नो वञ्चितः परमात्मनि ॥५९॥
माययाऽहं वशीकृतः कालमेतं न बुद्धवान् ।
वञ्चितोऽस्म्यनया यद्धि मोक्षमार्गं न लब्धवान् ॥६०॥
न चाऽयमपराधोऽस्या अपराधो ममापि च ।
योऽहमत्राऽवसं सक्तो लुब्धो विषयवासनः ॥६१॥
अरूपश्चाप्यमूर्तश्च रूपमूर्तोऽभवं तया ।
प्राकृतेन ममत्वेन धर्षितो वञ्चितस्ततः ॥६२॥
ममकारविहीनेन मया ममत्वसञ्जुषा ।
किं कृतं प्रक्षिप्य मोक्षं निरयं यत् प्रलब्धवान् ॥६३॥
नानया मम कार्यं वै शिष्यते वारयोषिता ।
आत्मानं बहुधा कृत्वा या मां युनक्ति वञ्चने ॥६४॥
अथेदानीं प्रबुद्धोऽस्मि कृपया सद्गुरोर्हरेः ।
अपेत्येमां श्रयाम्यद्य परमेशं गुरुं प्रभुम् ॥६५॥
साम्यं यास्यामि देवेन नानया कूटयोषिता ।
क्षेमं कृष्णेन यास्यामि व्रजिष्यामि परं पदम् ॥६६॥
एवं कृत्वा विवेकोत्थं निर्णयं चात्मना ततः ।
संगधर्मा हरेः संगाद्धरितुल्योऽभिपद्यते ॥६७॥
एतदुक्तं परब्रह्म यस्मान्नावर्तते पुनः ।
राजन् येन परं ज्ञानं प्राप्तं चेद्ं प्रमोक्षदम् ॥६८॥
येन क्षराऽक्षरे ज्ञाते भयं तस्य न विद्यते ।
श्रेयः प्रकुर्वतश्चात्र भयं चापि न यस्य ह ॥६९॥
तस्य भयं परे लोके कदापि नैव जायते ।
धर्मं सतां हितं पुंसां चाश्रयतो भयं न वै ॥७०॥
स्वादुकामुककामानां वैतृष्ण्यं निर्भयं सदा ।
ज्ञाने धर्मे परिचयं कुर्वतो न भयं क्वचित् ॥७१॥
नित्यं वै बहुदातुश्च साधूनां सेविनः सदा ।
सतां सत्कारशीलस्य भयं नैव भवेत् क्वचित् ॥७२॥
न्यायमर्हाय दातुश्च हृदा शुद्धस्य वेदिनः ।
विरक्तस्य विसंगस्य भयं नैव भवेत् क्वचित् ॥७३॥
सर्वनिर्हृतदोषस्य सर्वप्राणिप्रसेविनः ।
परोपकारशीलस्य भयं नैव भवेत् क्वचित् ॥७४॥
तितिक्षोः सहमानस्य क्रोधहीनस्य देहिनः ।
सरलस्य हितकर्तुर्भयं नैव प्रपद्यते ॥७५॥
शुभाश्रयस्य दातुश्च संयमिनो दयाजुषः ।
सर्वत्र मानभावस्य भयं नैव भवेत् क्वचित् ॥७६॥
धृतात्मनः प्रशान्तस्य प्राज्ञस्य भक्तिचारिणः ।
तपस्विनः सेवकस्य भयं नैव हि जायते ॥७७॥
धर्माधर्मविमुक्तस्य सर्वसंशयनाशिनः ।
जन्ममृत्युविमुक्तस्य परं श्रेयो हि निश्चितम् ॥७८॥
पुण्यपापविमुक्तस्य ब्रह्मानुग्रहयोगिनः ।
देहत्रयातिरिक्तस्य परं श्रेयो हि निश्चितम् ॥७९॥
मूलप्रकृतितत्त्वे च विकाराणां च षोडशे ।
प्रकृतिविकृतौ चापि यो बद्धः स मुच्यते ॥८०॥
अन्यं देहं निजं चान्यं विद्याद् यः स न लिप्यते ।
अन्यच्च मशकं विद्यादन्यदुदुम्बरं तथा ॥८१॥
नवोदुम्बरयोगेन मशकस्तत्र लिप्यते ।
अन्य च मत्स्यकं विद्यादन्यद् विद्याज्जलं तथा ॥८२॥
न चापां संप्रसंगेन मत्स्यस्तत्र प्रलिप्यते ।
अन्यश्चाग्निश्चुल्लिकान्या चुल्ल्याग्निर्नैव लिप्यते ॥८३॥
जलं चान्यन् पद्ममन्यदद्भिः पद्मं न लिप्यते ।
एतेषां सहवासश्च निवासो मिथ एव ह ॥८४॥
तथाप्येतत्पृथग्भावं यः पश्यति स पश्यति ।
एवं वै पश्यतस्तत्राश्रयनाशे न बन्धनम ॥८५॥
तत्तज्जीवनपूराच्चेदधिकं जीवनं मिलेत् ।
ततो जीवनमासाद्य सुखं तत्र प्रमोदते ॥८६॥
परमात्मा जीवनं वै सर्वानन्दाऽमृतप्रदम् ।
तमाश्रयं समासाद्य भयं मृत्युर्न नाशनम् ॥८७॥
परंश्रेयः परंब्रह्म परामुक्तिः परं पदम् ।
अजरामरलोकश्चाऽव्ययानन्दसुखाब्धिकम् ॥८८॥
युक्तो मुक्तः सदा चात्र निजात्मनि समश्नुते ।
नित्यप्रसादस्तृप्तात्मा सुखस्वपननिर्वृतः ॥८९॥
मेघैर्यथा शिला नैव चलत्ययं तथाविधः ।
न कम्पेत्तु कृतैर्घोषगर्जनागीतवादनैः ॥९०॥
तैलपात्रं करे कृत्वा रज्ज्वा नटः प्रयाति च ।
स्थाल्याऽपि संयतात्मा वै निर्भयः कम्पवर्जितः॥९१॥
नाऽस्य पात्रात् स्रवते च तैलबिन्दुर्मनागपि ।
प्रयाति चोत्तरप्रान्तं तया युक्तो जयं लभेत् ॥९२॥
एतादृशो ब्रह्मयुक्तः पश्यति ब्रह्म चात्र ह ।
परब्रह्म समासाद्य मुक्तो मोक्षमवाप्नुयात् ॥९३॥
इत्येवं राधिके भूपं चोपदिश्य च लोमशः ।
शान्तिं चावाप राजा च पुनः पप्रच्छ तत्सृतिम्॥९४॥
यथा मुक्ता महात्मानो मुक्ता नैःश्रेयसार्थिनः ।
प्रयान्ति चोत्क्रमणाद्यैस्तानि पप्रच्छ लोमिने ॥९५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायाम् आत्मनः क्षरमोचनं चाक्षरगमनं च कथं नेति प्रश्रः, तदुत्तरं तन्मोचनं तद्गमनं चेत्यादिनिरूपणनामा षट्पञ्चाशदधिकद्विशततमोऽध्यायः ॥२५६॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP