त्रेतायुगसन्तानः - अध्यायः ६३
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु त्वं राधिके श्रीमद्बालकृष्णस्य चेष्टितम् ।
भक्तरक्षाकरं चान्यदष्टमेऽब्दे समुद्रजम् ॥१॥
रेवातटे तु नगरं चन्द्रोदयाह्वयं शुभम् ।
सर्वभक्ताश्रितं धर्मपरायणप्रजाश्रितम् ॥२॥
आसीत्तत्र महाश्रेष्ठी धनधान्यसमृद्धिमान् ।
वसुमेध इतिनाम्ना वैष्णवो मनसा शुचिः ॥३॥
सतां सेवापरो नित्यं देवपूजां करोति च ।
सूर्यं विष्णुं गणेशं च सतीं शंभुं श्रियं हरिम् ॥४॥
प्रातः स्नात्वा चोपचारैः सम्पूजयति सादरम् ।
विभज्य भुंक्ते सततं दानं ददाति नित्यशः ॥५॥
गवां सेवां सतां सेवां पितृतृप्तिं करोति च ।
व्यापारः पण्यविषयो बहुलाभोऽस्य वर्धते ॥६॥
पुत्राः पञ्च च कुशलाः पत्नी धर्मपरायणाः ।
सुशीलाख्या चैकभुक्तं व्रतं चरति सर्वदा ॥७॥
शालग्रामं समभ्यर्च्य तुलसीदलमिश्रितम् ।
पतिपादोदकस्पृष्टं भुंक्ते भोज्यं प्रसादजम् ॥८॥
पुत्राश्च वैष्णवाः सर्वे मालाध्यानजपार्थिनः ।
मोक्षभिलाषुकाः सम्यक् कृतशास्त्रकथाश्रवाः ॥९॥
अथ तत्र महर्षिश्च शतानन्दाभिधोऽभवत् ।
उद्दालकस्य पुत्रः स वने कृताश्रमोऽभवत् ॥१०॥
शतानन्दो नातिदूरे चन्द्रोदयस्य सन्निधौ ।
विप्राश्रमे सदा सायं समायाति यदृच्छया ॥११॥
लक्ष्मीनारायणसंहितां च वाचयति प्रगे ।
कथां कृत्वा गृहीत्वा च भिक्षां याति निजाश्रमम् ॥१२॥
ग्रामंजनाः समायान्ति कथां शृण्वन्ति नित्यशः ।
तत्र श्रुतं तु सौराष्ट्रे चाश्वपट्टसरोवरे ॥१३॥
कुंकुमवापिकाक्षेत्रे कम्भराश्रीगृहे हरिः ।
अनादिश्रीकृष्णनारायणो गोपालनन्दनः ॥१४॥
वर्तते बालरूपो वै भगवान् पुरुषोत्तमः ।
शंखचक्रगदापद्ममीनध्वजत्रिशूलवान् ॥१५॥
धनुःस्वस्तिकवज्रादिचिह्नचिह्नितहस्तवान् ।
प्रत्यक्षो वर्तते सर्वेश्वरः श्रीपतिरव्ययः ॥१६॥
कोटिकोट्यब्जगोपीनां प्राणेशः परमेश्वरः ।
श्रुत्वैवं च कथां चित्रां श्रुत्वा श्रीसोमतीर्थकम् ॥१७॥
श्रूत्वा स्वर्णपुरीं पुण्यां चमत्कारपुरं तथा ।
तीर्थार्थं कृतसंकल्पः सकुटुम्बः सहानुगः ॥१८॥
अन्नवारिफलकन्दकणादिकृतसंग्रहः ।
विशालां नावमारुह्य धनधान्यसमृद्धिमान् ॥१९॥
त्रिंशद्व्यक्तिकृतसार्थो नर्मदासलिलानुगः ।
नाविकैश्चाल्यमानायां नौकायां स स्थितो ययौ ॥२०॥
यात्रार्थं त्वाययौ नावा रेवासागरसंगमम् ।
कृष्णनारायण विष्णो परब्रह्म परेश्वर ॥२१॥
कीर्तयति सततं ससार्थो जपति मालिकाम् ।
माघे विश्रम्य रेवायाः संगे सस्नौ सहाऽनुगैः ॥२२॥
ददौ दानानि वस्त्रान्नस्वर्णरूप्याणि भावतः ।
अथ नावं समारुह्याऽखातं वार्धेः समागमत् ॥२३॥
किंनदीसंगमे स्नात्वाऽखातमुल्लंघ्य चाययौ ।
शत्रुञ्जिताब्धिसंयोगे सस्नौ तु विधिनाऽत्र सः ॥२४॥
तस्माद् ययौ गोपनाथं तीर्थं हरिहराश्रितम् ।
ततो मूलां ययौ स्वर्णपुरीं कृष्णनरायणीम् ॥२५॥
सोमनाथं ययौ स्नात्वा सरस्वत्यब्धिसंगमे ।
हिरण्यासंगमे स्नात्वा कृत्वा तीर्थविधिं ततः ॥२६॥
मकरालयतीर्थं च कृत्वा भद्राब्धिसंगमम् ।
ययौ तीर्थविधिं कृत्वा कृष्णस्वर्णपुरीं ययौ ॥२७॥
द्वीपं दृष्ट्वा ततः कच्छे नारायणसरो ययौ ।
परावृत्य च नौकायां चमत्कारपुरं ययौ ॥२८॥
ततस्त्वखातमार्गेण परावृत्य च सागरे ।
स्वर्णपुरीं परित्यज्य जलमार्गेण गच्छति ॥२९॥
सोमनाथं तदा मध्ये सामुद्रं विघ्नमागमत् ।
झंझावातोऽतिवेगाच्च ववौ क्षोभकरो महान् ॥३०॥
सामुद्रलशोभश्च प्रालेय इव चाभवत् ।
नौः समाकृष्यते मध्ये प्रतिकूलेन वायुना ॥३१॥
तरंगैर् वीचिकल्लोलैस्तालवृक्षोच्छ्रयैस्तदा ।
बह्व्यो नौका निमग्नाश्च भग्ना नष्टाश्च मानवाः ॥३२॥
वसुमेधस्य नौकाऽपि समुत्पतति वक्रगा ।
पार्श्वयोः पतमाना च कल्लोलैर्जलपूरिता ॥३३॥
अभवत् नाविकाश्चाप्यशक्ता वै रक्षणेऽभवन् ।
वसुमेधो वणिग्वर्यस्तत्पत्नी च सुतादयः ॥३४॥
सस्मरुः श्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।
शोकं चक्रुश्च बहुधा यदर्थं वयमागताः ॥३५॥
श्रुत्वा शतानन्दकथाद्वारा तं बालकृष्णकम् ।
अविलोक्य मृताः स्याम सामुद्रेऽत्र जलेऽबलाः ॥३६॥
नौकायां पूर्यते वारि निष्कासाऽधिकमत्यति ।
वायुना हन्यते चापि जलेन ताड्यते मुहुः ॥३७॥
पार्श्वभावेन चावर्तान् करोति जलताडिता ।
इमाश्चान्या जननावो व्यापारिणो लयं गताः ॥३८॥
अस्मन्नौकाऽपि सान्निध्ये तलवासं समिच्छति ।
स्मरन्तु तं प्रभुं कृष्णनारायणं परेश्वरम् ॥३९॥
यदर्थं वयमायाताः स नो रक्षतु हृच्छ्रयः ।
नौकाव्याप्तः स भगवान् नौका स्थिरीकरोतु च ॥४०॥
झंझावातगतः कृष्णो वातं शामयतु क्षणात् ।
जलस्थः श्रीबालकृष्णो जलस्थैर्यं करोतु च ॥४१॥
यद्वा चेन्मृत्युमापन्नान् स्वात्मानं दर्शयत्विह ।
सर्वथा वै वयं नाथ ते स्मः शरणमागताः ॥४२॥
अनादिश्रीकृष्णनारायण गोपालनन्दन ।
कम्भराश्रीकुमार त्वं रक्ष गोपीपते प्रभो ॥४३॥
एवं कृष्णपराः सर्वे हतोत्साहाः सुदुःखिताः ।
निराशा जीवने जाता नौकायां वायुवेगतः ॥४४॥
जलं प्रपूरितं भूरि वायुताडनवक्रिता ।
गता जलतलं तूर्णं तावच्छ्रीभगवान् स्वयम् ॥४५॥
द्रागेव तत्र चायातस्तले कूर्मस्वरूपतः ।
पृष्ठे चकार नौका तां जलोपरि समानयत् ॥४६॥
द्वितीयेन च रूपेण नौकावाहोऽभवत् प्रभुः ।
अन्यैर्दशस्वरूपैश्च जलनिष्कासकोऽभवत् ॥४७॥
अन्यैर्विंशतिरूपैश्च जले मग्नाँस्तु मानवान् ।
उद्धृत्योद्धृत्य च नौकामध्ये सर्वानवासृजत् ॥४८॥
नौकागतानि वस्तूनि जलान्तःपतितानि च ।
यानि तान्यपि हस्तैश्चोद्धृत्य नावि समाक्षिपत् ॥४९॥
झंझावातश्च कृपया रुद्धो जलं स्थिरं ह्यभूत् ।
नौका स्थिराऽभवच्चाऽपि भक्ता भगवताऽविताः ॥५०॥
झन्झावातेन ये चान्ये भक्ता नौकान्तरेऽपि च ।
आसन् मग्नाश्च सलिले तानुद्दधार लीलया ॥५१॥
एवं रक्षां स्वभक्तानां कृत्वा भूत्वैकरूपधृक् ।
किशोरः श्रीकृष्णनारायणस्तत्र तिरोऽभवत् ॥५२॥
नाविकैः सा शनैः शनैश्चालिता त्वग्रगा ययौ ।
प्राप्ता श्रीसोमनाथं सा तत्र पक्षस्थिरीकृता ॥५३॥
नौवाहाँस्तत्र संस्थाप्य वसुमेधः ससार्थकः ।
शकटैस्त्वरितो भूत्वा प्राचीं सरस्वतीं ययौ ॥५४॥
तत्र स्नात्वा पितृदेवाँस्तर्पयित्वा ततः परम् ।
अर्कतीर्थं तथा बलिमखस्थलं ययौ शुभम् ॥५५॥
ततश्चाग्रे वामनस्य स्थलीं वस्त्रापथं तथा।
स्वर्णरेखाकृतस्नानो ययौ राष्ट्रसरोवरम् ॥५६॥
वटस्थलीं ययौ पश्चाद् ययौ कुंकुमवापिकाम् ।
दूराद् विलोक्य तत्क्षेत्रं चकार भुवि दण्डवत् ॥५७॥
अश्वपट्टसरो गत्वा स्नात्वा तीर्थविधिं तथा ।
कृत्वा प्रदक्षिणं सर्वतीर्थानि सम्प्रणम्य च ॥५८॥
महासौधं ययौ द्रष्टुं बालकृष्णं परेश्वरम् ।
कानके मन्दिरे दिव्यसिंहासनगतं हरिम् ॥५९॥
मध्यसूर्यप्रभं चन्द्राननं शीतलकान्तिकम् ।
रूपाऽनुरूपावयवं वह्निशुद्धांशुकान्वितम् ॥६०॥
सौवर्णमुकुटं रत्नहीरमौक्तिकमालिनम् ।
देवमानवगान्धर्वैः स्तुतं संपूजितं जनैः ॥६१॥
नत्वा तुष्टाव च प्रेम्णाकुटुम्बसहितो वसुः ।
नेत्राश्रूणि प्रमुक्त्वा विह्वलो गद्गदया गिरा ॥६२॥
बहुजन्माऽर्जितपुण्यैः प्राप्यते पुण्यशालिभिः ।
यः परेशः स मयाऽऽप्तो रक्ष मां परमेश्वर ॥६३॥
योगिभिर्योगयत्नैश्च प्राप्यते बहुवत्सरैः ।
स मयाऽद्य प्रभुर्लब्धो रक्ष मां परमेश्वर ॥६४॥
भक्तैः सम्प्राप्यते भक्त्या सर्वस्वार्पणया तु यः ।
सोऽयं श्रीकान्तभगवान् मयाऽऽप्तो रक्ष मां हरे ॥६५॥
तपतां चिरकालेऽपि कष्टसाध्यो हरिस्तु यः ।
प्राप्तो मयाऽद्य जीवेशो रक्ष मां पुरुषोत्तम ॥६६॥
तारितोऽब्धौ प्रमज्जन् वै कुटुम्बसहितस्त्वया ।
समुत्तारय देवेश संसाराब्धेश्च मां पुनः ॥६७॥
त्वां विना जीवनं नास्ति सन्ति प्राणा न शाश्वताः ।
त्वां विना सम्पदः सर्वा विपदः सम्भवन्ति वै ॥६८॥
त्वं हृदि त्वं चक्षुषोश्च त्वमात्मनि विराजसे ।
त्वं कुटुम्बे च नौकायां जले स्थले विराजसे ॥६९॥
अद्य मे सफलं जन्म सफलं तीर्थचारणम् ।
सफलं मे कुटुम्बं च सर्वं सफलतां गतम् ॥७०॥
यदर्थं तु गृहं त्यक्त्वा निर्गतस्तीर्थवाञ्च्छया ।
तानि तीर्थानि सर्वाणि निर्वृत्तान्यत्र ते पदे ॥७१॥
प्राप्तं प्राप्तव्यमेवाऽत्र कर्तव्यं नाऽवशिष्यते ।
रक्ष नाथ कृपासिन्धो तवाऽस्मि शरणं गतः ॥७२॥
इत्युक्त्वा पूजयामास पपात चरणे मुहुः ।
रत्नभूषाम्बराद्यैश्च सुगन्धचन्दनादिभिः ॥७३॥
कुटुम्बं तस्य सर्वं च पूजयामास तं हरिम् ।
तिष्टंश्च श्रीहरेरग्रे नीराजनमथाऽकरोत् ॥७४॥
श्रीहरेराज्ञया मिष्टं भोज्यं फलजलादिकम् ।
अर्पयामास च तत्र स्थाल्यां त्वग्रे हरेस्ततः ॥७५॥
भगवान् बुभुजे प्रेम्णा प्रसादं शेषममृतम् ।
ददौ च वसुमेधाय कुटुम्बिनेऽत्यनुग्रहात् ॥७६॥
वसुमेधादयः सर्वे बुभुजिरे पपुर्जलम् ।
न्यूषुर्विश्रान्तिसौधे च दत्ते भगवता ततः ॥७७॥
एवं ते दशदिवसान् यापयामासुरेव तु ।
एकादशे दिने प्रातर्वसुमेधस्तथा प्रिया ॥७८॥
सुशीला प्रातरेवैनमपश्यतां नरायणम् ।
स्वप्ने विमानमारुह्य धाम नेतुं समागतम् ॥७९॥
अथाऽसौ धर्ममेधस्तु सुशीला च द्रुतं तदा ।
पुत्रादींश्च समुद्बोध्य स्वाप्नं वृत्तान्तमुत्तमम् ॥८०॥
तेभ्योऽकथयतां सर्वं मोक्षलाभात्मसूचकम् ।
पुत्रा हर्षं परं प्राप्ताः स्नात्वा सम्पूज्य देवताः ॥८१॥
तूर्णं ययुश्च ते सर्वे बालकृष्णालयं तदा ।
हरिस्तेभ्यो ददौ नैजं दर्शनं निजगाद तान् ॥८२॥
लोमशाद्वै प्रगृह्णन्तु मन्त्रं दीक्षां स्रजं तथा ।
ततोऽद्य सायं पित्रोर्वो मोक्षगतिर्भविष्यति ॥८३॥
इत्युक्तास्ते सत्वरं च ययुः श्रीलोमशाश्रमम् ।
जगृहुश्च मनुं दीक्षां वैष्णवीं तौलसीं स्रजम् ॥८४॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
गृहीत्वा च मनुं भोज्यं दानं बहुविधं ददुः ॥८५॥
आययुश्च निजावासं भेजुः श्रीबालकृष्णकम् ।
अपराह्णे ध्यानमग्नौ त्वभूतां पितरौ तदा ॥८६॥
पुत्राः क्षमामयाचन्त सेवां चक्रुर्यथोचिताम् ।
क्षणान्तरे समायातं विमानं दिव्यपार्षदम् ॥८७॥
वसुमेधं सुशीलां च दिव्यदेहौ विधाय च ।
नीतवच्च ब्रह्मधाम पुत्रा धन्यं व्यधुस्तदा ॥८८॥
और्ध्वदैहिकमेवास्य कृतवन्तः समाहिताः ।
एवं मोक्षगतिं प्राप्तौ भक्तौ नारायणाश्रितौ ॥८९॥
पुत्राश्चक्रुः श्राद्धकर्म तथाऽन्यच्च यथोचितम् ।
ययुः शकटमार्गेण यत्र नौका प्रवर्तते ॥९०॥
नावमारुह्य च सर्वे नैजं देशं ययुर्हि ते ।
प्राप्य देशं चमत्कारं प्राहुर्नारायणस्य वै ॥९१॥
श्रुत्वा जना हरिं भेजुः साक्षाच्छ्रीपुरुषोत्तमम् ।
एवं ते कथितं राधे चरित्रं पावनं हरेः ॥९२॥
भुक्तिमुक्तिप्रदं श्रोतुर्वक्तुः रक्षाकरं सदा ।
तीर्थफलप्रदं स्वर्गप्रदं सम्पत्प्रदं शुभम् ॥९३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने चन्द्रोदयपत्तनवासिनो वसुमेधश्रेष्ठिनो नर्मदाद्वारा नौकया तीर्थार्थं सौराष्ट्रसमुद्रे यातस्य झंझावातेन जलमग्नस्य सकुटुम्बस्योत्तारणं श्रीकृष्णनारायणेन कृतं, मुक्तिदानं चेत्यादिनिरूपणनामा त्रिषष्टितमोऽध्यायः ॥६३॥
N/A
References : N/A
Last Updated : May 01, 2021
TOP