त्रेतायुगसन्तानः - अध्यायः ४
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु राधे कम्भराया गृहे तत्र महोत्सवः ।
सञ्जातः सुमहान् सौराष्ट्रस्थानां च गृहेषु च ॥१॥
ज्ञात्वा ब्रह्माण्डपालाश्च दिक्पाला ईश्वरादयः ।
मानवाश्च सुरा देव्यो विमानैर्व्योममार्गतः ॥२॥
दर्शनार्थं समायाताः सर्वे व्योमप्रचारिणः ।
आकाशं चाभवच्छन्नं विमानैर्दिव्यभास्वरैः ॥३॥
कम्भराया गृहे पुष्पवृष्टिश्चन्दनवर्षणम् ।
दिव्यधामगतानां चाऽक्षतानां वर्षणं ह्यभूत् ॥४॥
निपेतुश्च तदा व्योम्नो दिव्यकुंकुमबिन्दवः ।
जयशब्दा वाद्यशब्दा गीतयश्चाऽभवँश्च खे ॥५॥
यथाऽपरं च गोलोकं वैकुण्ठं चाऽपरं च वा ।
अव्याकृतं द्वितीयं वाऽक्षरं धामाऽपरं यथा ॥६॥
तथा कुंकुमवाप्याख्यं क्षेत्रं कामसमं ह्यभूत् ।
अवतारा ईश्वराश्च सुराः स्तवनमादधुः ॥७॥
उपदाश्च न्यधुर्नत्वा कृत्वा दर्शनमुत्तमम् ।
वयं यस्मात्समुत्पन्ना यदैश्वर्यप्रभोगिनः ॥८॥
यन्नियम्याः सर्वदा स्मो नमामस्तं परेश्वरम् ।
सत्स्वरूपं पररूपं सर्वधामसु वासिनम् ॥९॥
कृपया लोकरक्षाया धर्मवन्तं परात्परम् ।
बालं च कम्भरालक्ष्मीनन्दनं च नुमः प्रभुम् ॥१०॥
यस्यैश्वर्यविभूतीनां नैव पारो हि विद्यते ।
सत्वं संक्षिप्य सञ्जातः कृपया त्वां नुमः प्रभुम् ॥११॥
मोक्षदः सर्वलोकानां धामदः पुण्यशालिनाम् ।
स्वर्गदो रागयुक्तानां यस्तं नुमः पुमुत्तमम् ॥१२॥
दैत्ये देवे राक्षसे च मानवे च पिशाचके ।
नागे नगे मुनौ नार्यां तिर्यक्षु च द्रुमे तृणे ॥१३॥
समदृष्ट्या च चाण्डाले वर्तसे त्वं कृपावशः ।
समानपितरं तं त्वां वन्दामहे नरोत्तमम् ॥१४॥
भावियुगेषु चान्यानि क्षेत्रतीर्थानि वै भुवि ।
भविष्यन्ति तथाप्येतत्सदृशानि न तानि वै ॥१५॥
मत्स्याद्या अवताराश्च भविष्यन्ति ह्यतः परम् ।
एतत्क्षेत्रं समासाद्य निवत्स्यन्ति तवाऽन्तिके ॥१६॥
यत्राऽऽस्से त्ववताराणां कारणं परमेश्वरः ।
तत्क्षेत्रं सर्वधाम्नां च वन्द्यं सदा भविष्यति ॥१७॥
अन्याऽण्डेभ्यश्चाऽधिकं वै स्वस्तिमच्चाऽण्डक न्विदम् ।
यदत्र खण्डकेऽखण्डपूर्णप्रभुर्विराजसे ॥१८॥
तवाऽनुग्रहहीनोऽपि सम्राट् दीनतरो मतः ।
तवाऽनुग्रहयुक्तस्तु हीनोऽपि भूभृतायते ॥१९॥
तव पत्कजहीना तु दिव्या भूरपि कल्मषा ।
तव पत्कजयुक्ता तु कृष्णा भूरपि भास्वरा ॥२०॥
धन्येयं कम्भरालक्ष्मीर्धन्यो गोपालकृष्णकः ।
धन्यः सुराष्ट्रको देशो धन्या कुंकुमवापिका ॥२१॥
अश्वपट्टसरो धन्यं धन्यास्ता वृक्षवल्लिकाः ।
धन्या नराः स्त्रियश्चात्र ह्यपि कीटपतंगिकाः ॥२२॥
यासां येषां नित्ययोगोऽनादिकृष्णनरायणे ।
जय स्वामिन् जय चाऽऽद्य जय देव नमोऽस्तु ते ॥२३॥
इति स्तुत्वा प्रभुं सर्वे राधिके! मौनमास्थिताः ।
हसन् श्रीभगवाँस्ताँश्च देवान् देवीस्तथाऽपरान् ॥२४॥
वरं वृणुतेत्युवाच भगवान् करुणालयः ।
वक्रः सर्वे नमस्कृत्य जन्म कुंकुमवापिके ॥२५॥
क्षेत्रे देशे सुराष्ट्रे च यत्र तत्पादपङ्कजौ ।
धामधामनिवासिन्यो देव्यो वव्रुस्तथा वरम् ॥२६॥
तव पार्श्वे निवसामो गृहीत्वा जन्म कन्यकाः ।
कोट्योऽर्बुदानि तासां च सौराष्ट्रादौ प्रलेभिरे ॥२७॥
प्राकट्यं च तथा देवाः कुमाराह्यभवँस्तदा ।
संकल्पमात्रजन्मानो गृहे गृहे च देवताः ॥२८॥
वृक्षा वल्ल्यश्च ताः सर्वा अनन्ता देव्य एव ताः ।
गावो वृषास्तथा चान्ये करिणो वाजिनस्तथा ॥२९॥
मृगाश्च मेध्यपशवो दिव्यदेहास्तदाऽभवन् ।
कल्पद्रुमाः कल्पलताः कल्पस्तम्बास्तदाऽभवन् ॥३०॥
चिन्तामणयः सततं कामदुघाश्च कोटिशः ।
हंससारसमेनाकोकिलकीरमयूरकाः ॥३१॥
देवतास्तत्स्वरूपाश्चाऽभवन् कुंकुमवापिके ।
यतयो मुनयश्चान्ये ऋतवः साधवोऽपरे ॥३२॥
बभूवुस्तत्र वृक्षादौ शकुनानि समन्ततः ।
नदा नद्यश्च तीर्थानि वासं चक्रुस्तदन्तिके ॥३३॥
मूर्ताऽमूर्तानि तत्त्वानि कीटपतंगरूपिणः ।
अश्वपट्टसरस्तीरे भूत्वा चक्रुर्निवासनम् ॥३४॥
गान्धर्वा गायिकाश्चान्या देव्यश्च नागकन्यकाः ।
तत्र जले निवासं च दिव्यदेहा व्यधुर्मुदा ॥३५॥
स्वर्णस्थलं रत्नपूर्णं दिव्यतां प्राप तत्स्थलम् ।
यानि रत्नानि चाब्धौ वै यानि स्वर्गादिके स्थले ॥३६॥
यानि मेर्वादिशैलेषु देवानां त्वाश्रमेष्वपि ।
सिद्धानां सम्पदो याश्च भूमिपानां विभूतयः ॥३७॥
ताः सर्वाः कुंकुमवाप्यामागता हरिपादयोः ।
रैवताचलतः पूर्वं शत्रुंजितायाः पश्चिमम् ॥३८॥
भद्रानद्या दक्षिणं च पञ्चाशत्क्रोशवर्तुलम् ।
कुंकुमवापिकाक्षेत्रं परंधाम विराजते ॥३९॥
हरिस्तत्र बालभावैः राजते परमेश्वरः ।
ब्रह्मा तत्र समायातस्तस्मै श्रीहरिणाऽर्पितम् ॥४०॥
परमेष्ठिपदं चाद्ये जन्मनो दिवसे स्वके ।
विष्णवे लोकरक्षार्थं वैकुण्ठं च जलोपरि ॥४१॥
अर्पितश्च तथा श्वेतद्वीपो नारायणाय च ।
क्षीरोदश्चार्पितस्तेन शेषनारायणाय च ॥४२॥
अर्यम्णे चार्पितं पितृराज्यं श्रीहरिणा तदा ।
तेन सनत्कुमारायाऽर्पितं चार्षं पदोत्तमम् ॥४३॥
नारदाय तदा दत्तं देवर्षित्वं च मानसम् ।
माहेन्द्रं च पदं दत्तमिन्द्राय दिवि राजसम् ॥४४॥
धर्मराजाय च याम्यं पदं तेन समर्पितम् ।
कुबेराय धनाढ्यत्वं वारुणं वरुणाय च ॥४५॥
वायवे चाग्नये ईशानाय निर्ऋतये तथा ।
दिक्पालत्वं प्रदत्तं च सूर्याय तैजसं स्थलम् ॥४६॥
सोमायौषधिनाथत्वं तथा नक्षत्रराजता ।
मेरवे पर्वतराज्यं सरिद्राज्यं च सागरे ॥४७॥
तत्त्वानां परमं राज्यं तत्तत्तत्त्वेषु चाहितम् ।
एवं तेन कृता लोके व्यवस्था परमात्मना ॥४८॥
रत्नसिंहासने स्थित्वा मुकुटान्यार्पयत् प्रभुः ।
ते च सत्ताशासनानि गृहीत्वा हरिमार्चयन् ॥४९॥
जन्ममध्याह्नपूर्वं वै व्यवस्था लोकधारिणी ।
अनादिश्रीकृष्णनारायणेन रचिता पुरा ॥५०॥
तदा जन्मनिमित्तानि राज्यनिमित्तकानि च ।
पिता देवाः प्रददुश्च दानान्यसंख्यकानि च ॥५१॥
रुद्रः सहारकृद्धिष्ण्य लब्ध्वा दानानि सन्ददौ ।
गोपालकृष्णो दानानि गवां लक्षायुतानि च ॥५२॥
रत्नानि स्वर्णपात्राणि मणीन् गृहाणि सन्ददौ ।
रम्याणि भवनानि श्रीमन्ति दाने ददौ हि सः ॥५३॥
यानानि स्वर्णवर्णानि सवितानानि सन्ददौ ।
व्योमयानानि दिव्यानि गजाश्वेरेथवन्ति च ॥५४॥
कन्यादानानि विप्रेभ्यो ददौ द्रव्याणि वै मुदा ।
भोजनानि विचित्राणि सुमृष्टानि घृतानि च ॥५५॥
शर्करा दिव्यवस्त्राणि विभूषा हीरकाञ्चिताः ।
शारीरसाधनलेपान् विष्णुतैलादिकान् ददौ ॥५६॥
ऊर्मिकाः कंकणान् दिव्यान् शय्यापर्यङ्कवल्कलान् ।
कलशान् स्थालिका कमण्डलूनास्तरणानि च ॥५७॥
पूजापात्राणि दिव्यानि पात्राण्यक्षयकानि च ।
वाहनानि वृषान् योग्यानन्नानां सञ्चयान् ददौ ॥५८॥
कल्पवृक्षान् कल्पकल्मान् कल्पवल्लीर्ददौ मुदा ।
चिन्तामणीन् दासदासीः सेवकान् किंकरान् ददौ ॥५९॥
स्वर्णपद्मानि चान्द्राणि पाषाणानि ज्वलन्ति च ।
प्रकाशकप्रदीपाँश्च स्वर्णपेटीश्चटीर्ददौ ॥६०॥
आसनानि स्वर्णरूप्यतन्तुजन्यानि सद्बृसीः ।
कटानि धोत्रकञ्चुकादीन्यसंख्यानि वै ददौ ॥६१॥
भक्ष्यभोज्यानि पेयानि चाऽमृतान्यक्षयाणि च ।
मण्डपान् सवितानाँश्च सुवर्णशकटीर्ददौ ॥६२॥
उष्ट्रानजानाविकाश्च घोटकान् गवयान् ददौ ।
जलयानानि सामुद्रान्तःसञ्चारीणि सन्ददौ ॥६३॥
गौमुखीर्जपमालाश्च मृगचर्माणि वै ददौ ।
आसनानि विचित्राणि कम्बलानि घटीर्ददौ ॥६४॥
कालवेधकयन्त्राणि विषहारमणीनपि ।
कायाकल्पकररसान् दंशावरणकानि च ॥६५॥
ध्रुववीक्षकयन्त्राणि वह्निकान्तमणीन् ददौ ।
महिषीश्चामरीगाश्च तदा कृष्णामृगान् ददौ ॥६६॥
उपस्कराणि सर्वाणि गृहयोग्यानि वै ददौ ।
यज्ञपात्राणि सर्वाणि विप्रेभ्यो ब्रह्म वै ददौ ॥६७॥
मोक्षपात्राणि दिव्यानि देवमूर्तीर्ददौ मुदा ।
तथा चाऽभयदानानि सन्तोषाँश्च ददौ तदा ॥६८॥
रम्ययज्ञोपवीतानि दूरदर्शकयन्त्रकान् ।
दूरश्रवणयन्त्राणि शीतहारमणीन् ददौ ॥६९॥
सूर्यकान्तानयस्कान्तानसंख्यान् वै ददौ तदा ।
चिन्तामणीन् भोग्यमणीन् संहारकृन्मणीन् ददौ ॥७०॥
पौष्पबाणान् विलासाँश्च फलपत्राणि गन्धकान् ।
वृष्टिवाहान् भूगदण्डान् चमत्कारद्रवान् ददौ ॥७१॥
दिव्यमन्त्रान् सिद्धभावान् कामरूपधरान् ददौ ।
कल्पजालचमत्कारान् ब्राह्मसंकल्पकान् ददौ ॥७२॥
उज्ज्वलाश्च शुभा विद्या शारदाः कन्यका ददौ ।
विप्रेभ्यो विप्रयोग्यानि ऋषियोग्यानि यानि च ॥७३॥
क्षत्रियेभ्यः क्षात्रधर्मपुष्टिदानि ददौ तदा ।
ध्वानयन्त्राणि च वायुयन्त्राणि गूटिकास्तथा ॥७४॥
वैश्ययोग्यानि च सर्वकरणानि तदा ददौ ।
सेवकानां च योग्यानि वर्गाणां नियतानि च ॥७५॥
यानि यानि यदिष्टानि तानि तानि तदा ददौ ।
अदेयं न तदा तस्य किञ्चिदासीन्महोत्सवे ॥७६॥
सिद्धिजं योगजं दिव्यं मानसोत्थं च तत्त्वजम् ।
भौतिकं मात्रिकं बौद्धं मन्त्रजं चात्मजं च वा ॥७७॥
यत् किञ्चिद् येन यच्चेष्टं वाञ्छितं वै तदा तदौ ।
मया दत्तं चाऽक्षयं वै यस्मादक्षयमेव तत् ॥७८॥
सर्वेषां लोकवासानां तन्तुश्चाऽक्षयतां व्रजेत्॥
इति मत्वा सम्पदां वर्धकं सम्पत्प्रदं ददौ ॥७९॥
कल्पपुत्तलिका रम्याः सर्वकामदुघा ददौ ।
कल्पाङ्गुलीयकान्यपि मणियुक्तानि वै ददौ ॥८०॥
एवं ह्यनादिश्रीकृष्णनारायणजनेर्दिने ।
दानान्यारात्रिं प्रददौ श्रीमद्गोपालकृष्णकः ॥८१॥
कम्भरा च महालक्ष्मीर्ददौ दानानि वै हृदा ।
शाटिकाः कंकतीश्चापि दर्पणानि च कञ्चुकीः ॥८२॥
घर्घरीश्चोलिकाश्चापि कुंकुमाऽलक्तकानि च ।
तैलानि च सुगन्धीनि कंकणानि च शृंखलाः ॥८३॥
योषिद्भ्यः कन्यकाभ्यश्च बालिकाभ्यश्च बंगिडीः ।
बलयानैरेयकाँश्च नत्थीश्चिबूकबिन्द्विकाः ॥८४॥
चन्द्रकारशना हारानूर्मिका नूपुराणि च ।
कौशेयकानि वस्त्राणि सौभाग्यस्य द्रवाणि च ॥८५॥
भोजनानि विचित्राणि बालक्रीडनकानि च ।
बालासनानि दोलाश्च प्रेङ्खा हिन्दोलिकास्तथा ॥८६॥
घोटिकाः खट्विकाः पर्यङ्किकाश्च चमचानि च ।
मृदूनि बालवस्त्राणि कन्यावस्त्राणि सन्ददौ ॥८७॥
कलशान् गर्गरीश्चापि द्रोणान् हाण्डानि भाण्डकान् ।
पात्रान् दर्वीन् स्रुवान् स्थालीः पात्राणि विविधानि च ॥८८॥
किंकिणीजालसन्नद्धप्रकोष्ठभूषणानि च ।
हस्तिदन्तजरम्याभूषणानि सन्ददौ सती ॥८९॥
क्षेत्राणि वाटिका ग्रामानुद्यानानि वनानि च ।
सस्यान्युत्तमधान्यानि मृष्टान्नानि ददौ तदा ॥९०॥
सिन्दूरान् पत्रिकाः सूत्राण्यपि कानकचीपिटान् ।
स्वर्णहारान् मणिनद्धान् हीरकाञ्चितमालिकाः ॥९१॥
केयूरकाँश्च मुकुटान् चूल्लिका व्रेल्लणानि च ।
ताम्रपेटास्तालिकाश्च चामरव्यजनानि च ॥९२॥
कशिपुगेन्दुकगुप्तदोरकादीनि सन्ददौ ।
दुग्धं दधि घृतमाज्यं मिष्टं मिश्रं ददौ तदा ॥९३॥
पेयं स्वाद्यं च सम्मृद्य सुगन्धद्रव्यमाददौ ।
पिष्टं शालीनक्षताँश्च जारिका बर्जरान् ददौ ॥९४॥
गोधूमान् मुद्गमाषाँश्च राजमाषादिकान् ददौ ।
यवान् व्रीहींश्चणकाँश्च कणान् कुलत्थिकान् ददौ ॥९५॥
गुडान् मधूनि च तिलान् मधुपर्कांस्तदा ददौ ।
सर्पिहैयंगवीनं च पायसानि तदा ददौ ॥९६॥
यद् यदासीत् स्मृतौ तत्र तत्तत् दानं तदा ददौ ।
देवा दैत्या ऋषयश्च मानवा विस्मयं ययुः ॥९७॥
ईश्वरा लोकपालाश्च दृष्ट्वा जग्मुश्च विस्मयम् ।
सुवर्णरसवल्लीश्च - सन्धिन्याद्यौषधीर्ददौ ॥९८॥
गृहीत्वा दिव्यवल्लीश्च दिव्यबीजादिगूटिकाः ।
कामरूपप्रदाः सर्वा गृटिकाः प्राप्य योषितः ॥९९॥
मुमुदुश्चाप्यतीवाति ददुराशिष ईशिकाः ।
महोत्सवो महान् जातो भोज्यदानाऽभिनन्दनैः ॥१००॥
चतुर्दशानां लोकानां श्रीहरिं वीक्ष्य वासिनः ।
उपदाः सम्प्रदायैव गृहीत्वा च प्रतिग्रहान् ॥१०१॥
भुक्त्वा पीत्वा च संभूय तृप्तिमासाद्य शाश्वतीम् ।
नीत्वा प्राप्तं दानमानं सायं लोकान् ययुः स्वकान् ॥१०२॥
जन्मोत्तरं दर्शितं च नालच्छेदादिकं तदा ।
महामाया महापुंसः पत्नी स्वयं चकार ह ॥१०३॥
स्नानसंस्कारकान् शुद्धिं वह्निसेवनमित्यपि ।
देववल्लोकवत् सर्वं सूतिकागृहमान्तरम् ॥१०४॥
स्नानादि योग्यमेवापि चकार जनकोऽपि च ।
भगवान् बालवज्जातः सुष्वाप योगनिद्रया ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने परमेश्वरस्य जन्मदिनेऽवतारा ईश्वरा लोकपालाः प्रजाः समागताः, विविधदानानि चेति-
निरूपणनामा चतुर्थोऽध्यायः ॥४॥
N/A
References : N/A
Last Updated : April 02, 2021
TOP