त्रेतायुगसन्तानः - अध्यायः ४०
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु त्वं राधिके तत्र चाश्वपट्टसरोवरे ।
बालकृष्णं प्रपूज्यैव निवासं प्रभुसन्निधौ ॥१॥
प्रचक्रुः सरसस्तीरे पश्चिमे सेतुकोच्छ्रये ।
दत्तात्रेयं परं तीर्थं तथा वाराहतीर्थकम् ॥२॥
कूर्मतीर्थं मत्स्यतीर्थं कपिलं तीर्थमित्यपि ।
हरितीर्थं पृथुतीर्थं वासुदेवाभिधं तथा ॥३॥
हंसतीर्थं दत्तात्रेयतीर्थं नृसिंहतीर्थकम् ।
तीर्थमृषभसंज्ञं च योगेश्वराख्यतीर्थकम् ॥४॥
तीर्थं च वामनं पर्शुरामतीर्थं शुभं ततः ।
यज्ञतीर्थं रामतीर्थं तीर्थं हयशिरोऽभिधम् ॥५॥
सनत्कुमारतीर्थं च तीर्थं नारदसंज्ञकम् ।
व्यासतीर्थं कृष्णतीर्थं बुद्धतीर्थं तथा परम् ॥६॥
तीर्थं नारायणं विष्णुतीर्थं श्रीपुरुषोत्तमम् ।
महाविष्णुकृतं तीर्थं नरनारायणाभिधम् ॥७॥
अर्धनारीश्वरतीर्थं लक्ष्मीतीर्थं परं शुभम् ।
राधिके च त्वया साकं स्नातं यत्र मया च तत् ॥८॥
राधातीर्थं कृष्णतीर्थं चाश्वपट्टसरोवरे ।
पापतापक्षयकरं मोक्षदं धामवासदम् ॥९॥
एवमेतानि तीर्थानि जातानि तत्र राधिके ।
अथ षष्ठे मार्गमासे महाकालवनस्थिताः ॥१०॥
ऋषयस्त्वाययुश्चाऽश्वपट्टक्षेत्रे हि तैर्थिकाः ।
समीरणः पवमानः सन्तारणश्च बर्बुरः ॥११॥
वोढुश्च घनभेदश्च द्युविश्रामश्च पङ्किलः ।
नीलकर्णस्तथाऽलर्कः पुण्डरीकः कलायनः ॥१२॥
वीतिहोत्रश्च चमसः पर्णकुत्सोऽश्वपाटलः ।
भाल्लवेयश्चोर्जव्रतश्चाश्वलायन इत्यपि ॥१३॥
पार्ष्णिरदः सुमन्तुश्च ह्यशोकाक्षोऽभयाऽक्षकः ।
ब्रहास्तम्बः कूप्यवालश्चेतनब्रह्म इत्यपि ॥१४॥
देव्यः श्रीः कमला पृथ्वी राणिकाऽमरपुत्रिका ।
धन्येश्वरी सतीशा च देवानिकी च कृष्णिका ॥१५॥
पम्पा नारायणी गङ्गा यमुना गण्डकी कुशा ।
सरस्वती हिरण्या च स्वर्णरेखा च गोमती ॥१६॥
गौतमी वल्लयो वृक्षास्तत्त्वान्यप्याययुस्तदा ।
मार्गमासे सिते पक्षे द्वितीयायां समाहिताः ॥१७॥
अश्वपट्टसरःस्नानं चक्रुः प्रातश्च देवताः ।
अनादिश्रीकृष्णनारायणं नेमुर्गृहं गताः ॥१८॥
लोमषर्षिं ततो नेमुर्नेमुस्तेभ्योऽपि कन्यकाः ।
सकृता भोजिताः सर्वे वन्दिताः पूजितास्तथा ॥१९॥
अश्वपट्टसरस्तीरं पश्चिमं कुन्दशोभितम् ।
कुञ्जनिकुञ्जरहितं विशालस्थलगौरवम् ॥२ ०॥
पारिजातवनाढ्यं च सुगन्धिद्रुममञ्जुलम् ।
ययुर्मध्याह्नकाले ते नित्यकर्मपरायणाः ॥२१॥
तत्र गुन्द्रकदाडीमतिन्तिडीद्रुमशोभिते ।
छायिते भूतले रम्ये बालकृष्णालयान्तिके ॥२२॥
विश्रामं परमं चक्रुः सायं कथामवाचयत् ।
लक्ष्मीनारायणसंहिताया ऊर्जव्रतो मुनिः ॥२३॥
मार्कण्डेयः कालजितः पञ्चशिखश्च लोमशः ।
आसुरिर्जमदग्निश्च हनुमान् जाम्बवाँस्तथा ॥२४॥
विभीषणश्च व्यासश्च प्रह्लादश्च बलिः ऋभुः ।
गालवश्च कृपश्चाऽन्ये शतकल्पायुषश्च ये ॥२५॥
सप्तकल्पजीवनाश्चाऽयुतकल्पप्रजीवनाः ।
कथाश्रवणमूर्धन्या निषेदुः सदसि स्थिताः ॥२६॥
कम्भरानन्दनस्तत्र पितृभ्यां सहितः प्रभुः ।
मध्यासने ब्रह्मविद्भिर्निवेशितो विराजते ॥२७॥
देवाः सुराः सगन्धर्वाः सविद्याधरमानवाः ।
देवीसमूहसहिताः शृण्वन्ति स्म कथां शुभाम् ॥२८॥
ऊर्जव्रतो महर्षिश्च लक्षकल्पायुरीश्वरः ।
प्रप्यक्षस्य हरेराद्यं मंगलं प्रजगाद ह ॥२९॥
नासीदक्षरमेकलं नहि गवां धामाऽपि चाऽऽसीद् यदा,
वैकुण्ठं च यदाऽपि नामृतपदं धामाऽपि नाऽभूद् यदा ।
जीवेशादिकसर्जनं च तु यदा नासीत्तदासीच्च यः,
सोऽनादिर्हरिकृष्णबालसुरूपो मे स्तान्नमो भूमिका ॥३०॥
यो नैजे परधाम्नि मुक्तपुरुषैश्चान्येषुतच्छक्तिभि-
मूर्तैर्ग्राह्यगुणैर्विभूतिभिरजैः संसेव्यते चार्थिभिः ।
यो द्वेधाऽभिरतोऽपि चैकल इह प्रालोक्यते बालव-
च्छ्रीमत्कृष्णनरायणोऽस्तु मम वाक्प्रस्थानभूमिः प्रभुः ॥३१॥
यदिह ऋषिकथायां वर्तते त्वन्तरात्मा,
मनुतनुजनिभोऽयं बालकः कंभरायाः ।
अकलकलविलासो विश्वभारोदरोऽयं,
सफलयतु जनान् गोपालकृष्णालयस्थः ॥३२॥
स जयतु भुवि रम्या कुंकुमी वापिकेयं
जगदघहरमग्र्यं चाश्वपट्टं सरश्च ।
विजयतु मुनिमान्यो लोमशः साधुवर्यः
प्रविजयतु च लक्ष्मीसंहिता मोक्षदात्री ॥३३॥
आदौ मध्ये चावसानेऽनादिकृष्णनरायणः ।
गीयतेऽत्र परब्रह्म सोऽयं तनोतु मङ्गलम् ॥३४॥
ज्येष्ठो भ्राता च भगवान् सन्तुष्टा च स्वसा सती ।
शुको भ्राता ततो विज्ञोऽनुजः श्रीवल्लभस्तथा ॥३५॥
माता च कंभरालक्ष्मीः पिता गोपालकृष्णकः ।
शतं द्वादश कान्ताश्च विजयन्तु सबालकाः ॥३६॥
स्वयंप्रकाशः शिष्यश्च मूर्धन्यः शिष्यमण्डले ।
कोटिशिष्यगणाश्चान्ये कोट्यर्बुदाऽब्जयोषितः ॥३७॥
लोमशो गुरुमुख्यश्च ऋषयोऽन्ये हरिंविदः ।
नमस्यामो ब्रह्मवंश्या जंगमास्तैर्थिकार्चिताः ॥३८॥
अपरोक्षः परोक्षोऽयं बालोऽबालबृहत्परः ।
करोतु श्रेय इष्टं नः श्रीहरिः पुरुषोत्तमः ॥३९॥
लक्ष्मीशो माणिकीशश्च पार्वतीशः प्रभापतिः ।
श्रीराधारुक्मिणीकान्तः करोतु मंगलं सदा ॥४०॥
जानन्तु ऋषयश्चैनं परमेशं परात्परम् ।
अनादिनिधनं कृष्णं स्वामिनं परमेश्वरम् ॥४१॥
अनेन हि पुरा वेदा उद्धृताः सागरात्तथा ।
उद्धृता पृथिवी देवी दन्ताग्रेण पुरा तथा ॥४२॥
अनेन पृष्ठभागे च शेषो धृतो हि विद्यते ।
अनेन निजपर्यंके धृतो नारायणः स्वयम् ॥४३॥
अनेन सांख्यविज्ञानं स्वप्रकाशाय चार्पितम् ।
अनेन ब्रह्मणे ज्ञानं पुरा श्रीहरिणाऽर्पितम् ॥४४॥
दैत्या निषूदिताश्चापि वासुदेवेन शार्ङ्गिणा ।
जन्मरक्षालयाँश्चक्रे सोऽयं व्यूहात्मको हरिः॥४५॥
पृथ्वी प्रपालिताऽनेन राजराजोऽप्ययं ह्यभूत् ।
तपस्तप्तं तथाऽनेन हंसः सोऽयं पुराभवत् ॥४६॥
केशरी सोऽयमेवाऽऽसीत् हिरण्यकोशकान्तकः ।
साधुचेष्टो वन्यवासोऽभवत् सोऽयं दयापरः ॥४७॥
ह्रस्वरूपो भूमिहर्ता महेन्द्राऽनुज एव च ।
अत्रातारः क्षताः पर्शुघातेनाऽनेन सूरिणा ॥४८॥
वह्नावाज्यपिबोऽयं वै वृष्टियोगप्रदोऽप्ययम् ।
दक्षिणापथगान् दैत्यान् याम्यं प्रापयिता ह्ययम् ॥४९॥
ब्रह्मपुत्रः साधुश्रेष्ठो बालरूपः पुरा तु यः ।
स एवाऽद्य बालवेषो वर्ततेऽत्र नरोत्तमः ॥५०॥
वीणामग्नो महर्षिश्च वेदविद्याविभाजकः ।
राधाकान्तः सतीसेव्यो बोधवार्धिरयं हि सः ॥५१॥
स्वामी कान्तः पतिः पाता रक्षको जनकः पिता ।
राजा द्रष्टाऽन्तरात्मा च बालोऽयं ऋषिसम्मतः ॥५२॥
भजध्वं भावतो भक्त्या शाश्वतालयदो यतः ।
प्रपद्ये परमेशानं तं ह्यजं वैष्णवप्रियम् ॥५३॥
परब्रह्म महात्मानं विश्वस्य जगतः पतिम् ।
नमस्तस्मै देवदैत्येश्वरमुक्तादिसेविने ॥५४॥
सर्वाक्षाय सर्वव्याप्तात्मनेऽन्तर्यामिणे नमः ।
गायन्ति यं गायत्रिणोऽर्चयन्त्येनं समर्पिताः ॥५५॥
यत्र सर्वं कारणं च कार्यं क्रिया च साधनम् ।
दैवतं सदसश्चापि नमस्तस्मै विलासिने ॥५६॥
नमः शान्ताय वरिणे शंखचक्रध्वजाब्जिने ।
शूलिने शार्ङ्गिणे चापि वज्रिणे शरिणे नमः ॥५७॥
स्वस्तिमते मीनवते नमस्ते प्रभविष्णवे ।
नमोऽस्त्वप्रतिरूपाय स्वरूपध्वजधारिणे ॥५८॥
नमो नानाभिरामाय नमः पटुतराय च ।
नमः सांख्यप्रवक्त्रे ते योगवक्त्रे च ते नमः ॥५९॥
नमः श्रुतिप्रवक्त्रे ते न्यायवक्त्रे नमो नमः ।
नमो मुक्तिप्रवक्त्रे ते नमः शिक्षाप्रदाय च ॥६०॥
नमो मीमांसनवक्त्रे नमोऽमृतप्रदाय च ।
नमो हिरण्यवपुषे नमश्चम्पकवर्चसे ॥६१॥
नमः स्तुत्याय मन्त्राय सर्वभूतशरीरिणे ।
नमो होत्रे नमः शीलव्रतस्थायाऽतिरूपिणे ॥६२॥
नमो दीर्घाक्षिणे तुभ्यं सर्वकामप्रदायिने ।
नभश्चान्तरनेत्राय सर्वनेत्राय ते नमः ॥६३॥
भेदाऽभेदप्रभिन्नाय नमस्ते व्यतिरेकिणे ।
छायातपनरूपाय शान्तसत्त्वाय ते नमः ॥६४॥
यज्ञभागप्रियायैकमूर्तये ब्रह्मणे नमः ।
पञ्चालपुत्रीरक्षाय भगुपुत्रीप्रवाहिने ॥६५॥
अनरण्यसुतेशाय नमो नारायणीशिने ।
अन्नदायाऽन्नपतये कोशात्मकाय ते नमः ॥६६॥
बालानुरूपगोत्रे च बाललीलाविलासिने ।
नमो बालाय वृद्धाय मञ्जुकेशाय ते नमः ॥६७॥
नमः षट्कर्मतुष्टाय सहस्राभरणाय च ।
धर्मार्थकाममोक्षाणामाश्रयाय च ते नमः ॥६८॥
नमोऽनन्तगुणैश्वर्यविभूत्याश्रयिणे नमः ।
मेघशोभाय चन्द्रार्कताराप्रभाय ते नमः ॥६९॥
त्वमन्नमन्नभोक्ता च पक्वभुक् पावनोऽनलः ।
वारि त्वं त्वं तथातृप्तिः सुखमानन्द ते नमः ॥७०॥
जरायुजाऽण्डजाश्चापि स्वेदोद्भिजास्त्वया कृताः ।
त्वमेव चावतारेश भूतग्रामश्चतुर्विधः ॥७१॥
स्रष्टा चराचरस्याऽस्य पाता हन्ता त्वमेव ह ।
त्वामाहुर्ब्रह्म विद्वांसः परं ब्रह्मविदां गतिः ॥७२॥
मनसः परमं ज्योतिर्ज्यातिस्त्वं ज्योतिषामपि ।
हंसो वृक्षो मधुकरः प्राहुस्त्वां ब्रह्मवादिनः ॥७३॥
यज्ञेष्टकृत् फलनरत्वं त्वामाहुर्मुनयस्तथा ।
पठ्यसे स्तुतिभिर्नित्यं वेदोपनिषदां गणैः ॥७४॥
नरा नार्यः स्थावरा जङ्गमास्तिर्यञ्च इत्यपि ।
त्वमेव विद्यसे कृष्णनारायण जगत्प्रभो ॥७५॥
त्वमेव मेघसंघाश्च विद्युतोऽशनिगर्जितम् ।
संवत्सरस्त्वमृतवो मासो मासार्धमेव च ॥७६॥
युगानिमेषाः काष्ठाश्च नक्षत्राणि ग्रहास्तथा ।
त्वं शरी त्वं गदी चक्री खड्गी वज्री शरासनी ॥७७॥
छेत्ता भेत्ता प्रहर्ताऽसि मन्ता नेता सनातनः ।
समुद्राः सरितः शैला वृक्षाः सरांसि भूस्तराः ॥७८॥
लतातृणौषधिवल्लीपशवो मृगपक्षिणः ।
पृथुकर्मगुणारम्भः कालः पुष्पफलोदयः ॥७९॥
मध्यं बीजं चांऽकुरं च पत्रं काण्डं च ग्रन्थिका ।
नालं पुष्पं फलं चापि रसो गन्धस्त्वमेव च ॥८०॥
पिष्टं मिष्टं सदेष्टं च त्वमेव परमेश्वर ।
पवित्रं च पवित्राणां मंगलानां च मंगलम् ॥८१॥
उदयानामुदयाग्र्यं त्वमेव परमा गतिः ।
प्राणा निमेषा जृम्भश्च क्षुतं चाऽभ्याहतिस्तथा ॥८२॥
ब्रह्मकालयमाग्नीनां शास्ता बोधयिता भवान् ।
चनुर्युगश्चनुर्वेदश्चातुहोत्रप्रवर्तकः ॥८३॥
चातुराश्रम्यनेता च चातुर्वर्ण्यकरस्तथा ।
प्रशिल्पी गणको माता सर्वशिल्पप्रवर्तकः ॥८४॥
स्वाहा स्वधा वषट्कारो नमस्कारः स्तुतिस्तथा ।
प्रार्थना प्रार्थनीयं च त्वमेव ते नमोनमः ॥८५॥
गूढव्रतो गुह्यतपास्तारको भूमिसन्धरः ।
धाता विधाता सन्धाता त्वमेव ते नमोनमः ॥८६॥
ब्रह्मा शंभुस्तथा विष्णुर्विराड् भूमा त्वमेव च ।
तपः सत्यं ब्रह्मचर्यमार्जवं त्वं प्रतोषणम् ॥८७॥
भूर्भुवः स्वं जीवसृष्टिरीशसृष्टिस्त्वमेव च ।
ब्रह्मसृष्टिः ऋतं दीक्षा दमनं त्वं जनार्दनः ॥८८॥
कान्तः प्रियः पतिः स्वामी नारायणस्त्वमेव च ।
बिन्दुर्नादो ध्वनिर्ब्रह्म विमर्शः स्फोट इत्यपि ॥८९॥
पश्यन्ती च परा मध्या विशिष्टा वाक् त्वमेव च ।
गौर्भूमिर्ब्राह्मभक्तश्च साधुः सती च किंकरी ॥९०॥
वश्यः सर्वं त्वमेवाऽऽस्से त्वां विना नास्ति नास्त्यपि ।
शशांकाऽनलशीतोष्णक्षुत्तृषाश्च जरामयाः ॥९१॥
आधयो व्याधयः शान्तिर्भेषजं त्वं जनार्दन ।
सोमपास्त्वं च माधुंर्य मरुत्पतिर्जगत्पतिः ॥९२॥
अमृताशी जगन्नाथाः कुंकुमेशस्त्वमेव च ।
अक्षतेशो गणेशश्च मुक्तेशस्त्वं परेश्वरः ॥९३॥
विषाग्निपाः सोमपाश्च क्षीरपा नवनीतपाः ।
आज्यपा मधुपाः सर्वभोक्ता त्वं च पितामहः ॥९४॥
हिरण्यरेताः पुरुषश्रेष्ठस्त्वमेव चैकलः ।
त्वं स्त्रीपुमान् त्वं तृतीयो भावद्वयविवर्जितः ॥९५॥
भावत्रयातिगश्चापि भावत्रये प्रवर्तसे ।
बालो युवा स्थविरश्च जीर्णदंष्ट्रोऽसि विश्वकृत्। ॥९६॥
चन्द्रादित्यौ चक्षुषी ते जिह्वा ते च सरस्वती ।
अहोरात्रे निमिषोभे आत्मानस्ते गृहालयाः ॥९७॥
न ब्रह्मा न शिवो विष्णुः पौराणा ऋषयो न ते ।
माहात्म्यं वेदितुं शक्ता याथातथ्येन बालक ॥९८॥
पुंसामीशेश्वराणां मुक्तानां कोट्यर्बुदानि च ।
तिष्ठसे त्वं समावृत्य चान्तर्बहिस्त्वमेव सः ॥९९॥
महतस्तमसः पारेऽक्षरस्याऽपि परे सदा ।
परे धाम्नि परेशस्त्वं राजसे सोऽत्र मूर्तिमान् ॥१००॥
यं विनिद्रा जितप्राणाः सत्त्वस्था ब्रह्मवर्तिनः ।
परं पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥१०१॥
या या मूर्तयः सूक्ष्मास्ते शक्या दर्शयितुं न ताः ।
ताभ्यः सर्वाभ्य एवाऽत्र त्वद्रूपाभ्यो नमो नमः ॥१०२॥
भक्तानुकम्पी भगवान् भक्तेषु वर्तसे सदा ।
केशा मेघा यस्य नाड्यो नद्यः कुक्षौ महाब्धयः ॥१०३॥
शयानाय जले हैमे तपस्यते च ते नमः ।
येऽङ्गुष्ठमात्राः पुरुषाश्चिदः स्थावरजङ्गमाः ॥१०४॥
ये नदीषु समुद्रेषु पर्वतेषु गुहासु च ।
वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥१०५॥
चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च ।
हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥१०६॥
येऽपि पञ्चसु भूतेषु दिशासु विदिशासु च ।
चन्द्रे सूर्ये सत्यलोके वैकुण्ठाख्यचतुष्टये ॥१०७॥
रसातलगता ये च ये च तस्मात् परंगताः ।
तव भक्तास्तव दासाः किंकरास्तव केशव ॥१०८॥
दास्यः सत्यस्तव भक्ताः किंकर्यस्तव माधव ।
नमस्तेभ्यो नमस्ताभ्य उभाभ्यां च नमोऽच्युत ॥१०९॥
येषां न विद्यते संख्याः प्रमाणं रूपमेव च ।
असंख्यास्ते मुक्तगणा नमस्तेभ्योऽस्तु नित्यशः ॥११०॥
प्रसीद बालरूप त्वं स्वकं भावं प्रदर्शय ।
त्वयि नो हृदयान्यत्र भवन्तु सत्कथाफलम् ॥१११॥
इत्येवं राधिके! तेन स्तुतः कृष्णनरायणः ।
कथारम्भे प्रसन्नः सन्नात्मनो दर्शनं ददौ ॥११२॥
दिव्यकोट्यर्कभापूर्णं रोमैकैकं तु यस्य वै ।
सर्वेऽवतारा यन्मूर्तौ सर्वधामानि यत्र च ॥११३॥
सर्वेश्वराः ऋषयश्च देवा मानवकोटयः ।
दैत्या ब्रह्माण्डसन्नाहा यद्रोम्ण्येव चरन्ति च ॥११४॥
कोटिमुक्ताः कोटिकान्ताः कोटिपाला महेश्वराः ।
यत्कुक्षौ भासमानाश्च सर्वतेजांसि यत्र च ॥११५॥
सर्वे वै प्रलया यत्र यत्र सर्वाश्च सृष्टयः ।
यत्र सर्वे आत्मवर्गा भासन्ते दिव्यदृष्टितः ॥११६॥
तादृशं परमं दिव्यं मूर्तं कैशोरशोभनम् ।
दर्शयामास भगवान् कृष्णनारायणः स्वयम् ॥११७॥
विहस्याऽऽभाष्य कुशलं दिव्यदृष्टिं च सन्ददौ ।
विलोक्य ऋषयः सर्वे तथाऽन्ये श्रवणे रताः ॥११८॥
लक्ष्मीनारायणसंहितायास्ते ददृशुः प्रभुम् ।
अदृष्टपूर्वं हृद्यं च दृष्ट्वा न्यधुर्हरिं हृदि ॥११९॥
एवं प्रदर्श्य च पुनः परिहारं चकार ह ।
यथा बालो वर्ततेऽत्र तथा बालोऽभवत्पुनः ॥१२०॥
तथा दृष्ट्वा कृतकृत्यान् मत्वा स्वान् मुनिपुङ्गवाः ।
आनन्दं परमं प्रापुः शश्वन्निर्वाणगा यथा ॥१२१॥
एवं साक्षात् संहितायाः पात्रं श्रीपरमेश्वरम् ।
साक्षात्कृत्य ततो नित्यं शृण्वन्त्येव कथामृतम् ॥१२२॥
एवं मासत्रयं जातं पारायणं परं शुभम् ।
कुंकुमवापिकाक्षेत्रे राधिके मोक्षदं तदा ॥१२३॥
कथान्ते फाल्गुनीं कृत्वाऽऽस्थाप्य तिर्थानि सर्वथा ।
स्वस्वनाम्ना ऋषयश्च वासं तत्रैव चक्रिरे ॥१२४॥
तदेतत् संहितातीर्थं कोटितीर्थं प्रगीयते ।
ऋषितीर्थं कथातीर्थं दिव्यतीर्थं तदेव च ॥१२५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मार्गशीर्षे ऊर्जव्रतर्षिकृतायालक्ष्मीनारायणसंहिताकथायाः श्रवणप्रसंगे प्रभोर्दिव्यदर्शनम्, ऋषीणां स्तवनानि, ऋषीणां निवासात्तीर्थानि चेतिनिरूपणनामा चत्वारिंशोऽध्यायः ॥४०॥
N/A
References : N/A
Last Updated : April 30, 2021
TOP