संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १७९

त्रेतायुगसन्तानः - अध्यायः १७९

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके राजा वियानानगरीपतिः ।
उष्ट्रालश्च तथा तस्य भ्राताऽनुजोऽपि भक्तराट् ॥१॥
नाम्ना हंकारकः सौम्यो गुडाकेशीपुरीपतिः ।
तथा भ्राता तृतीयश्च नाम्ना तु जयकाष्ठलः ॥२॥
प्रयागनगरीराजो धार्मिकः शुभभावनः ।
त्रयाणां भूभृतां कुलगुरुश्च युगशावकः ॥३॥
राज्ञां सर्वं कुटुम्बं च बन्धवोऽन्ये सुहृज्जनाः ।
श्रेष्ठिनश्च प्रजाः सर्वाः स्वागतार्थं हरेस्तदा ॥४॥
दीनपासरितस्तीरे महोद्यानसुशोभिते ।
वियानाख्यनगर्यास्तु नातिदूरे कृतस्थले ॥५॥
स्वागतार्थं कृष्णनारायणस्य परमात्मनः ।
ध्वजपताकिकाडंकानिशानवाद्यकान्विताः ॥६॥
यानवाहनशकटीविमानरथसंहिताः ।
पुष्पमालाऽक्षतद्रव्यचन्दनगन्धधारिणः ॥७॥
राजसैन्यैः प्रजाक्लृप्तस्वसेवामण्डलैर्युताः ।
आसन् वै तत्परा व्योम्नि प्रतीक्षन्तः शुभागमम् ॥८॥
विमानं च विमानानि सूर्यतुल्यानि तावता ।
लुलोकिरेऽतितेजोभिश्चक्रुस्ते तु जयध्वनीन् ॥९॥
स्वागतध्वजदानानि दर्शयामासुरम्बरे ।
तदा वाद्यान्यवाद्यन्ताऽजायन्त यन्त्रगर्जनाः ॥१०॥
विमानावतरणार्थं सूचकाः सूचनां ददुः ।
प्रजाः सर्वा जयकारान् जगुः कीर्तनमिश्रितान् ॥११॥
हरेकृष्ण बालकृष्ण कृष्णनारायणप्रभो ।
परब्रह्म रमाकान्त राधाकान्त हरेविभो ॥१२॥
इत्येवं कीर्तनं चाभूल्लक्षाधिमानवैः कृतम् ।
नदीतीरश्च गगनं कीर्तनोद्धोषितं ह्यभूत् ॥१३॥
प्रजा द्रष्टुं तदाऽऽसँश्च उद्वेला इव वार्धयः ।
पूर्णिमेन्दुं प्रतीशेशेश्वरेश्वरं प्रति प्रभुम् ॥१४॥
महोद्याने विशाले तु हरेर्यानमवाऽतरत् ।
ततो यानानि सर्वाणि व्योम्नस्तत्र ह्यवातरन् ॥१५॥
नृपत्रयं तदमात्याः स्वागतं चक्रुरादरात् ।
प्रजाः सर्वाः स्वागतं च चक्रुस्तदा हरेः शुभम् ॥१६॥
अग्रजेन हरेः कण्ठे मणिहारः समर्पितः ।
द्वितीयेन हीरमाला हरेर्गलेऽर्पिता तदा ॥१७॥
तृतीयेन तु सामुद्रमौक्तिकस्रक् समर्पिता ।
राज्ञीभिश्च तदा स्वर्णमाला हरये चार्पिता ॥१८॥
पुत्रपुत्र्यादिभिः पुष्पमालाः कण्ठे समर्पिताः ।
पुष्पाक्षतैश्चन्दनाद्यैः सत्कृतः पूजितो हरिः ॥१९॥
प्रजाभिश्च धनाढ्यैश्चामात्यवर्गैः प्रपूजितः ।
श्रीहरिस्तत्पितरौ च भ्रातॄन् स्वसारमित्यपि ॥२०॥
ऋषीन् महर्षीन् भक्तांश्च ब्रह्मप्रियाश्च सेविकाः ।
सर्वान् सर्वास्तदा राजकुटुम्बाद्या ह्यपूजयन् ॥२१॥
गजासने समासीनं नत्वा राजकुटुम्बकम् ।
कृत्वा च दण्डवत् पादौ प्रक्षाल्य चरणामृतम् ॥२२॥
पपौ क्रमेण राजाद्याः प्रधानाश्च प्रजास्ततः ।
एवं सुस्वागतं कृत्वा कारयित्वा च पायसम् ॥२३॥
पानं फलादनं सर्वान् नगर्यां चाप्यभ्रामयन् ।
राज्यशोभितसैन्यैश्च वाद्यैर्विविधकैस्तथा ॥२४॥
कीर्तनैर्नामगानैश्च भ्रामयामासुरुत्सुकाः ।
हस्तियानं सुशोभं च विशालं प्रासरत् पुरः ॥२५॥
गोपुरे कन्यकाभिश्च वर्धितः कुसुमाऽक्षतैः ।
लाजाभिर्जलकलशैर्दुःखहाञ्जलिभिस्तथा ॥२६॥
घण्टापथे चापणस्थैर्धनिकैः पूजितो हरिः ।
मौक्तिकैः प्रोक्षितश्चाग्रे चतुष्के वनितागणैः ॥२७॥
प्रजाभिः सर्वथा सर्वाभिश्च चन्दनवारिभिः ।
पुष्पाक्षतादिभिर्नारिकेलैः फलैश्च कुंकुमैः ॥२८॥
शर्कराभिः पुष्पहारैः पूजितो वर्धितो हरिः ।
सर्वेषु राजमार्गेषु पौरस्त्रीभिः प्रपूजितः ॥२९॥
निरीक्षितश्च बहुधास्वरूपस्तृप्तिदः प्रभुः ।
कुमारीणां कमनीयः कुमारो विदितस्तदा ॥३०॥
युवतीनां मुग्धमूर्तिर्युवा सुविदितः प्रभुः ।
वृद्धानां बालरूपः सः पुत्रवद्विदितस्तदा ॥३१॥
विधवानां प्रभुः साक्षात् प्राप्यः स विदितस्तदा ।
सतीनां सत्स्वरूपश्चाऽनाथानां विदितोऽविता ॥३२॥
कुमाराणां शिक्षकश्च यूनां प्रशासकस्तथा ।
जरठानां प्राप्यरूपो विदितः परमेश्वरः ॥३३॥
भक्तानां प्रेमपात्राणां स्वामी स विदितो हरिः ।
दर्शकानां सुरूपश्च योगिनां ब्रह्ममूर्तिमान् ॥३४॥
ऋषीणां शंखचक्रादिधृगच्युतः प्रबोधितः ।
साधूनां च तदाऽनादिकृष्णनारायणः प्रभुः ॥३१॥
ज्ञातोऽभूत् सर्वलोकानां द्विभुजः परमेश्वरः ।
इत्येवं नगरे दत्वा दर्शनं भ्रामणेन वै ॥३६॥
आकृष्य जनताचित्तान्याययौ स्वे नृपालये ।
विशश्राम क्षणं तत्रोपदेशं लोमशो ददौ ॥३७॥
अयं नारायणः साक्षाद् राजन् श्रीपुरुषोत्तमः ।
प्राग्भवीयमनूनां च रवीणां भवतां कृते ॥३८॥
भक्तवश्यः प्रभुः साक्षाद् भक्तान् स्मृत्वाऽत्र चागतः ।
यज्ञो होमो जपो मालावर्तनं भजनं तपः ॥३९॥
ज्ञानं दानं सेवनं च साक्षात् कृष्णे विराजते ।
सर्वधर्माश्रयः कृष्णः सर्वपुण्यनिधिः स्वयम् ॥४०॥
येषां स मिलितः साक्षान्मानवर्षिस्वरूपवान् ।
तेषां तासां भवेत् सेवा कृष्णरञ्जनकारिणी ॥४१॥
यथा पत्यौ यथा पत्न्यां यथा वृद्धे च मातरि ।
गुरौ ज्येष्ठे पूज्यवर्गे यथा सेवा तथा हरौ ॥४२॥
साक्षात्कृता दिव्यरूपा पुरुषार्थचतुःप्रदा ।
गृहधर्मो यतिधर्मो यत्र भक्तिः सुविद्यते ॥४३॥
नित्यं तत्रैव वसतस्तावुभौ परमेश्वरे ।
सर्वात्मनाऽर्पणे कार्यं परमेशे परात्परे ॥४४॥
सत्पात्रं भगवान् साक्षात्प्राप्यते पुण्यकोटिभिः ।
क्षणं वित्तं क्षणं चित्तं क्षणो देहो धनं क्षणम् ॥४५॥
क्षणेन साधनीयः स भगवान् पुरुषोत्तमः ।
किं राज्येन धनेनापि कुटुम्बेन जनेन वा ॥४६॥
किं लक्ष्म्या चापि सम्पत्त्या किं मानेन च विद्यया ।
किं क्षेत्रेण स्त्रिया स्त्रीभिः पुत्रैः पुत्र्यादिभिश्च किम् ॥४७॥
किं यानेन विमानैश्च किं कीर्त्या यशसापि किम् ।
किं पुष्टेन सुरूपेण शरीरेण बलेन किम् ॥४८॥
यद्यनादिकृष्णनारायणो भावेन सेवया ।
अर्पणेन च भक्त्यापि तोषितो नहि जन्मनि ॥४९॥
आत्मा देयस्त्वात्मनो यत् सर्वं तत्राऽऽर्प्यमेव ह ।
भुक्तिर्मुक्तिश्चार्जनीये सर्वार्पणेन चाच्युतात् ॥५०॥
भवद्भिः राजभिश्चात्र कृतो यज्ञः शुभो महान् ।
अयं श्रीकम्भराबालो बालकृष्णः प्रतोषितः ॥५१॥
कृतकृत्या भवन्तो वै सर्वं प्राप्तं शुभास्पदम् ।
कर्तव्यं शिष्यते नैव यतोऽयं सुप्रसादितः ॥५२॥
इत्युक्त्वा विररामाऽसौ लोमशश्च ततः परम् ।
श्रीहरेश्चरणौ धृत्वा राजा स्वमस्तके न्यधात्। ॥५३॥
राज्ञी राजकुमाराश्च राजपुत्र्यो हृदि न्यधुः ।
आज्ञां प्राप्य ययुः सर्वे हरिर्विश्रान्तिमाप ह ॥५४॥
भोजनादि संविधाय सर्वे निद्रां प्रजगृहुः ।
प्रातरुत्थाय च नित्यं विधिं कृत्वा हरिस्ततः ॥५५॥
निषसादासने रम्ये महर्षिकुलपूजितः ।
तावद् राजा तथा राज्ञी पुत्र्यः पुत्राः समाययुः ॥५६॥
उष्ट्रालश्चापि हंकारो जयकाष्ठल इत्यपि ।
प्रार्थयामासुरत्यर्थं चिरवासार्थमीश्वरम् ॥५७॥
हरिः प्राहाऽद्य भवतां जन्मसाफल्यमेव तु ।
दर्शनात्पूजनाज्जातं प्रसन्नताऽर्जिता मम ॥५८॥
येनाऽहं सम्प्रसन्नः स्यां तद्विधेयं सदाऽनघाः ।
चिरवासाय समयो विद्यते नहि सर्वथा ॥५९॥
हंकारस्याऽऽलये राष्ट्रे गन्तव्यमपि विद्यते ।
जयकाष्ठलराज्ये च गन्तव्यमपि विद्यते ॥६०॥
अत्र लाभो गृहीतश्च सन्तुष्टोऽस्म्यत्र पूजया ।
चरणस्पर्शनं भूमौ राज्यालये भवेदिति ॥६१॥
भवतां कामनापूर्तिं करोम्यद्यैव धार्यताम् ।
अद्य प्रातर्दुग्धपानं कृत्वा विमानयानकैः ॥६२॥
सर्वैर्गन्तव्यमेवाऽऽद्ये हंकारालयराष्ट्रके ।
मध्याह्ने भोजनं तत्र नगरभ्रमणं तथा ॥६३॥
पादन्यासादिकं कृत्वा मध्याह्नोत्तरमेव तु ।
जयकाष्ठलराज्ये वै गन्तव्यं तु तदालये ॥६४॥
तत्र पुर्यां भ्रमित्वा च पावयित्वा तदालयम् ।
रात्रौ च भोजनं कृत्वा विश्रम्य च निशां ततः ॥६५॥
अरुणोदयवेलायाम् आल्वीनरस्य राष्ट्रकम् ।
गन्तव्यं चेति तद्रीत्या कुर्वन्तु चानुकूलताम् ॥६६॥
ममाऽऽज्ञा सर्वथा पाल्या सुखं तत्रैव विद्यते ।
स्वल्पेऽपि समये दास्ये सौख्यं संख्याविवर्जितम् ॥६७॥
इत्याश्रुत्य हरेश्चाज्ञां भ्रातरस्त्रय एव ते ।
प्रसन्ना भगवद्वाक्ये तथैव चक्रुरादरात् ॥६८॥
उष्ट्रालस्याऽर्हणां प्राप्य प्रस्थानाय समुद्यतम् ।
भगवन्तं कृष्णनारायणं वै राधिके तदा ॥६९॥
उष्ट्रालस्य सुताः पञ्च पूजनं चक्रुरादरात् ।
पुत्र्यो दश हरेः पाणिं जगृहुः पतिकाम्यया ॥७०॥
पितृभ्यां मोदितास्तत्र विवाहविधिना हरिम् ।
प्रापुर्ब्रह्मप्रियाणां मण्डलेऽमिलन्समुत्सुकाः ॥७१॥
आशीर्वादाँस्तदा नीत्वा प्रस्थानमास्थितास्तदा ।
प्रस्थितेन च हरिणा सार्धं कन्याश्च भूभृतः ॥७२॥
विमानान्यधिरुह्याऽथ व्योम्ना शीघ्रं प्रतस्थिरे ।
गुडाकेशीं राजधानीं हंकारराजपालिताम् ॥७३॥
क्षणमात्रेण संप्रापुः शृण्वन्तो जयघोषणाम् ।
त्यक्तैः पुरोगतैश्चापि श्रावितां मंगलान्विताम् ॥७४॥
दीनपायाः सरितश्च तटे स्थितां सुशोभिताम् ।
गुडाकेशीं तु नगरीं महोद्यानसमन्विताम् ॥७५॥
शृंगारितां गोपुराद्यैस्तोरणैः कलशादिभिः ।
रंगवल्लीस्वस्तिकाद्यैर्ध्वजचिह्नैरलंकृताम् ॥७६॥
सम्मार्जितां गन्धजलैः संसिक्तां वाद्यनादिताम् ।
स्वागतार्थं प्रजाभिश्च पुर आगत्य गर्जिताम् ॥७७॥
हंकारः सकुटुम्बश्चाऽनुजेन सह पूर्वगः ।
स्वागतं सैन्यसहितश्चक्रे जयध्वजादिभिः ॥७८॥
विमानं तत्सूचनानुसारेण युगशावकः ।
ऋषिः सौधस्य निकटे व्योम्नोऽवाऽतारयत्तदा ॥७९॥
विमानानि चावतेरुस्तथान्यानि तदाम्बरात् ।
तूपशब्दास्तदा जाता जयनादाः सकीर्तनाः ॥८०॥
हरिर्विमानतस्तूर्णं चावतीर्णो महीतले ।
राजा हंकारकेणापि कुटुम्बेन हरिस्तदा ॥८१॥
वर्धितो वै जयध्वानैः पूजितश्चन्दनादिभिः ।
हरेश्चरणौ प्रक्षाल्य राजाद्याश्च पपुर्जलम् ॥८२॥
ततोऽश्वयाने श्रीकृष्णं समारोप्य पुरीं प्रति ।
उत्सवेन सह निन्ये राजा तद्राजमार्गकम् ॥८३॥
स्थले स्थले हरिं नत्वा प्रजाः पुपूजुरादरात् ।
उपदाः प्रददुश्चक्रुर्दर्शनं वन्दनादिकम् ॥८४॥
अमात्याः स्वगृहान् नीत्वा चक्रुश्चारार्त्रिकं प्रभोः ।
प्रजाः स्वस्वगृहान् नीत्वा पुपूजुः परमेश्वरम् ॥८५॥
एवं कृत्वा पावनीं च गुडाकेशीं पुरीं ततः ।
राजालयं ययुः सर्वे हरिः स्वर्णरथात्तदा ॥८६॥
अवतीर्य द्रुतं स्नात्वा मध्याह्नविधिमाचरत् ।
देवाय भोजनं चार्प्य स्वयं सर्वान् निजाश्रितान् ॥८७॥
भोजयित्वा च बुभुजे विशश्राम क्षणं ततः ।
राजानं सुप्रसन्नं च कृत्वा दत्वा शुभाशिषः ॥८८॥
मध्याह्नोत्तरवेलायां विमानेन ससार्थकः ।
जिगमिषुर्हरिः राज्ञ्या प्रार्थितः कन्यकादिभिः ॥८९॥
पूजितश्च ततः पञ्च कन्यका नृपतेस्तदा ।
पाणिं जग्राह कृष्णस्य मात्रा चाज्ञापितास्तदा ॥९०॥
कृतकृत्या अभवँश्च कुटुम्बं हर्षितं त्वभूत्॥
ब्रह्मप्रियासु ताः पञ्च मिमीलुर्दिव्यविग्रहाः ॥९१॥
अथ राजानमापृष्ट्वा राज्ञीं च तत्प्रजाजनान् ।
हरिर्विमानमारुह्य ससार्थश्चाम्बरं ययौ ॥९२॥
तदा वाद्यान्यवाद्यन्त जयशब्दास्तदाऽभवन् ।
दत्वा स दर्शनं शीघ्रं ययौ प्रयागपत्तनम् ॥९३॥
जयकाष्ठलनृपतेः राजधानीं शुभाश्रयाम् ।
महोद्यानान्वितां रम्यां सायं प्राप प्रभुस्ततः ॥९४॥
जयो राजा पुरो गत्वा स्वागतं प्रजया सह ।
आचरद् वाद्यघोषाद्यैर्ध्वजैः सैन्यैः सुशोभितैः ॥९५॥
सायं दृष्ट्वा पुरीं रम्यां प्रयागाख्यां विमानकम् ।
युगशावोक्तमार्गेण व्योम्नस्तदा भुवं प्रति ॥९६॥
अवातारयदीशेशः श्रीहरिः कृष्णवल्लभः ।
विमानानि चावतेरुः सौधस्य सन्निधौ तदा ॥९७॥
जलेन राजा चरणौ हरेः प्रक्षाल्य वै पपौ ।
हारमालादिभिः कृत्वा स्वागतं सुजलं ददौ ॥९८॥
सर्वान् जलानि मिष्टानि पाययित्वा ससैन्यकः ।
'राजा स्वनगरीं कृष्णं भ्रामयामास सोत्सवः ॥९९॥
प्रजाभिर्मुख्यवर्गैश्च पूजितः परमेश्वरः ।
चरणैर्दर्शनदानैः पावयित्वा पुरीभुवम् ॥१००॥
राजसौधं समायाच्च भोजनादि ततोऽकरोत् ।
सर्वान् वै भोजयित्वैव विशश्राम निशामुखे ॥१०१॥
तद्राज्यगायकैर्गानैस्तोषितः परमेश्वरः ।
तेभ्यो ददौ चोपहारान् पारितोषिकहीरकान् ॥१०२॥
रात्रौ सुप्त्वा प्रगे तूर्यैः प्रबुबोध हरिस्ततः ।
नित्यं विधिं ब्राह्मकाले शीघ्रं चकार माधवः ॥१०३॥
राजा प्रजाः समागत्योपदा न्यधुर्हरेः पुरः ।
भ्रातृत्रयस्य तत्सर्वं युगशावाय सन्ददौ ॥१०४॥
अथ राज्ञी वैष्णवी च पञ्चपुत्रीसमायुता ।
आययौ पूजनार्थं च पञ्चकन्याः प्रपूज्य तम् ॥१०५॥
हरिं जगृहुः कान्तं स्वं मत्वा मोहवशंगताः ।
कुमारदानविधिना विवाह्य परमेश्वरम् ॥१०६॥
कृतकृत्याश्च ता जातास्ततो दुग्धानि वै पपुः ।
पाययामासुरत्यर्थं भगवन्तं कुटुम्बिनम् ॥१०७॥
राजानं च प्रजाः सर्वाः पाययामास माधवः ।
ऋषीन् देवादिकान् सर्वान् ब्रह्मप्रियादिकास्तथा ॥१०८॥
दुग्धादि पाययामास परमात्मा सनातनः ।
अथ गन्तुमनाः कृष्णश्चाशीर्वादान् ददौ तदा ॥१०९॥
सज्जोऽभूच्छीघ्रमेवाथ प्रस्थापितः प्रजादिभिः ।
विमानं शीघ्रमेवादौ दिव्यं समारुरोह सः ॥११०॥
अन्येऽप्यारुरुहुर्नैजविमानानि तदा द्रुतम् ।
जयमंगलशब्दैश्च प्रस्थानं चक्रिरे ततः ॥१११॥
वल्गुरायप्रदेशानां राजा तीराणनामकः ।
सकुटुम्बस्तथा ऋषिर्वल्गुरायः कुटुम्बवान् ॥११२॥
विमानेन हरिं श्रित्वा सह पूर्वं ययौ तदा ।
वल्गुरायप्रदेशाँश्च हरिर्ददर्श चाम्बरात् ॥११३॥
रमणीयान् सेविकाया नद्यास्तटे सुशोभनाम् ।
तीराणां राजधानीं च ततो ददर्श चाम्बरात् ॥११४॥
राधिके च विमानस्था अशृण्वन् मंगलस्वनान् ।
जयध्वानान् तूपशब्दान् जयशब्दान् प्रजोदितान् ॥११५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने उष्ट्रालयस्य हंकारस्य जयकाष्ठलस्य च नृपस्य राजधानीषु विमानैर्गमनं नगरेषु भ्रामणं पूजनं प्रतिपदि प्रातस्ती-
राणाराजधानीं प्रति गमनमित्यादिनिरूपणनामा नवसप्तत्यधिकशततमोऽध्यायः ॥१७९॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP