संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १२३

त्रेतायुगसन्तानः - अध्यायः १२३

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
अथ रासेश्वरि राधे! प्रातः स्नात्वा हरेर्जनाः ।
पूजयित्वा बालकृष्णमूर्तिं प्रद्युम्नमित्यपि ॥१॥
देवतायतनं चापि हितां चक्रुर्विचारणाम् ।
मेषायनाद्याः ऋषयः थर्कूटस्थनृपादयः ॥२॥
राशियानप्रदेशानां भक्ताग्र्याः सात्त्वतोत्तमाः ।
श्रुत्वा पुरा क्रतुं चक्रे भगवान् लाशहातटे ॥३॥
शालावत्यास्तटे चापि पिंगदेशेषु तत्प्रजाः ।
कृपया पावयामास बालकृष्णः परेश्वरः ॥४॥
स्वयमागत्य देवैश्च ब्रह्मप्रियादिभिः सह ।
पितृभ्यां सहितश्चापि तीर्थीचकार तद्भुवम् ॥५॥
तथा चात्र समागच्छेद् भवेयुस्तीर्थभूमयः ।
पवित्राः सुखदा सर्वपापप्रणाशशक्तयः ॥६॥
सर्वदेवनिवासार्हाः सर्वपूज्याः प्रमोक्षदाः ।
सर्वनद्यो भवेयुश्च भगवत्पादपाविताः ॥७॥
तस्माद् यज्ञान् करिष्यामः पञ्च श्रीवैष्णवान् शुभान् ।
आद्यं मखं शिबिराज्ये बालकृष्णसरस्तटे ॥८॥
थर्कूटस्थभूपराज्ये द्वितीयं च क्रतुं शुभम् ।
वीरजारमहाराजराज्ये क्रतुं तृतीयकम् ॥९॥
शक्त्यक्षिनृपराज्ये च मखं चतुर्थकं शुभम् ।
कालिमाशनृपराज्ये मखं श्रेष्ठं च पञ्चमम् ॥१०॥
करिष्यामो धनाद्यैश्चार्पणैः सर्वप्रसाधनैः ।
मुक्तान् तथाऽताराँश्च ईश्वरान् पार्षदाँस्तथा ॥११॥
ईश्वरीर्देवदेवीश्च पितॄन् सिद्धर्षिपुंगवान् ।
मानवान् जडचैतन्याश्रयान् सर्वान् हि देहिनः ॥१२॥
तीर्थानि लोकपालाद्यानाह्वयिष्याम एव च ।
कारयिष्याम उप्कृष्टान्मखान् कृष्णस्य तुष्टये ॥१३॥
तस्मान्नारायणस्वामी बालकृष्णो जनार्दनः ।
समागच्छेच्च नो देशेष्वेवं भक्तविधीयताम् ॥१४॥
इत्युक्तो देवसदृशो देवतायतनो मुनिः ।
बाढं बाढमुवाचैतान् मुमुक्षून् वैष्णवाँस्तदा ॥१५॥
क्षणं विश्रमितुं त्वाज्ञां प्रचकार च भक्तराट् ।
गत्वा श्रीबालकृष्णाख्यसरस्तटे नृपादिकान् ॥१६॥
ऋषयश्च नृपाद्याश्च देवायतनको मुनिः ।
ययुर्विमानमार्गेण बालकृष्णसरोवरम् ॥१७॥
अवतेरुश्च ते भूमौ विमानेनोत्तरे तटे ।
चत्वारोऽपि च राजानो द्वादशाऽपि महर्षयः ॥१८॥
तथा प्रजाग्रमान्याश्च सहस्रशो धनान्विताः ।
वैष्णवास्तेऽवतेरुश्च यज्ञार्थं कृतनिश्चयाः ॥१९॥
प्रद्युम्नश्च ऋषीन् प्राह कुर्वन्तु घोषणां भुवि ।
यज्ञो वै वैष्णवः कार्यो बालकृप्णसरस्तटे ॥२०॥
उत्तरे प्रथमः पश्चाद् द्वितीयस्तु क्रतूत्तमः ।
द्विकलाख्यसरस्तीरे थर्कूटभूभृता पुनः ॥२१॥
तृतीयश्च क्रतुः कार्यो वीरजारेण भूभृता ।
ओबीरात्रीशनद्योश्च संगमे क्षितिविस्तरे ॥२२॥
चतुर्थस्तु क्रतुः कार्यः शक्त्यक्षिभूभृता शुभः ।
आलनौकाब्धिसंयोगे विशाले भूतले तथा ॥२३॥
पञ्चमस्तु क्रतुः कार्यः कालिमाशेन भूभृता ।
कालिमासागरयोगे तेष्वायान्तु हि वैष्णवाः ॥२४॥
तत्राऽनादिकृष्णनारायणः श्रीपुरुषोत्तमः ।
अक्षराधिपतिः श्रीमान् परमात्मा परेश्वरः ॥२५॥
बालकृष्णो हि भगवानस्माकमिष्टदेवता ।
कुंकुमवापिकाक्षेत्रात् स्वयं चैवागमिष्यति ॥२६॥
दर्शनार्थं च सेवार्थं समागन्तव्यमेव ह ।
पूर्णिमावधिपर्यन्तं दत्ता दीक्षा स्थले स्थले ॥२७॥
अथेदानीं मार्गशीर्षे कृष्णैकादशिकादिने ।
प्रथमस्य मखस्यैवारम्भः सम्यग् भविष्यति ॥२८॥
साप्तदैनस्य यज्ञस्य कार्यं कृष्णः करिष्यति ।
द्वितीयस्य तु यज्ञस्य मार्गे वै पञ्चमीदिने ॥२९॥
समारम्भः समाप्तिश्च ह्येकादश्यां सिते दले ।
तृतीयस्य क्रतोश्चाप्यारंभो व तृतीयातिथौ ॥३०॥
पौषकृष्णे समाप्तिश्च नवम्यां संभविष्यति ।
चतुर्थयज्ञारम्भस्तु एकादश्यां भविष्यति ॥३१॥
शुक्लायां तु द्वितीयायां समाप्तिश्च भविष्यति ।
पञ्चमस्य तु यज्ञस्याऽऽरम्भो वै पञ्चमीदिने ॥३२॥
एकादश्यां समाप्तिश्च भविष्यतीति निश्चितम् ।
इत्येवं घोषयन्त्वेव राशियानेषु सर्वथा ॥३३॥
इत्युक्ता राजवर्गाश्च तथा तत्तन्महर्षयः ।
उद्घोषणां तथा चक्रुः स्वस्वदेशेषु सत्वरम् ॥३४॥
वैहायसा तु यानेन ततो राजादयश्च ते ।
शोधयामासुरत्यर्थं सामग्रीर्विविधाः शुभाः ॥३५॥
कारयामासुरेवात्र सञ्चिताः सर्वतो दिशः ।
मण्डपादीँस्तथा शाला निवासान् शिबिराणि च ॥३६॥
दशयोजनभूमौ च कारयामासुरुत्सुकाः ।
प्रद्युम्नः कारयामास यथायोग्यं निरीक्षकः ॥३७॥
देवतायतनश्चापि द्वादशर्षय एव ते ।
विमानेन ययुः श्रीमत्कृष्णनारायणं प्रति ॥३८॥
प्रार्थयामासुरीशेशेश्वरं कृष्णनरायणम्।
तथाऽस्त्वेवं हरिः प्राह प्रसन्नः पितृदेशितः ॥३९॥
लोमशेन तथाऽऽज्ञप्तो देवतायतनो मुनिः ।
ऋषीन् सहस्रशो नीत्वा विमाने प्रययौ क्रतुम् ॥४०॥
ते सर्वे कारयामासुर्बालकृष्णसरस्तटे ।
कुण्डान् विविधान् वेदीश्च स्थापनार्थं च वेदिकाः ॥४१॥
शालाः क्रतोर्वासशाला महीमानाश्रयाँस्तथा ।
मुक्तानां चालयान रम्यानवतारालयाँस्तथा ॥४२॥
ईश्वराणामालयाँश्चेश्वरीणामालयाँस्तथा ।
पितॄणां च तथर्षीणां ब्रह्मप्रियालयाँस्तथा ॥४३॥
ब्रह्मसरसामालयाँश्चाप्सरसामालयाँस्तथा ।
देवानां बहुजातीनामालयान् विविधाँस्तथा ॥४४॥
दासानामालयाँश्चापि भुवर्लोकनिवासिनाम् ।
मानवानां च तीर्थानां स्थावराणां तथालयान् ॥४५॥
अतलादिनिवासानामालयान् बहुभूमिकान् ।
विशाले भूतले चापि व्योम्नि चापि व्यधुस्तदा ॥४९॥
मण्डपं साप्तभौमं च विशालं दशयोजनम् ।
व्यधुस्तु विश्वकर्माणः प्रद्युम्नस्य निदेशतः ॥४७॥
पञ्चाशद्योजने भागे महीमानाश्रयान् व्यधुः ।
प्रत्याश्रयं प्रदीपाश्च मणीनां तु स्वभावजाः ॥४८॥
शीतोष्णादिजलानां च कुल्याः स्वभावजास्तथा ।
पयोदधिवृतानां च कुल्याश्चापि स्वभावजाः ॥४९॥
मधूनां शर्कराणां च रसकुल्याः स्वभावजाः ।
पेयानां शीततोयानां ह्रदाश्चामृतसंज्ञकाः ॥५०॥
ब्रह्मह्रदास्तथा गोपहृदा नारायणह्रदाः ।
सत्यह्रदास्तथा देवह्रदाश्च निहिता ध्रुवाः ॥५१॥
यथापेक्षमनलानां कुण्ठाश्च कुण्डिकाः कृताः ।
नैसर्गा दुग्धपाकाश्च दुग्धसारा निसर्गजाः ॥५२॥
कामधेनुसमूहाश्च रसवल्लीद्रुमालयाः ।
रसशालाः सर्वसृष्टिभोज्यपानप्रदाः शुभाः ॥५३॥
वस्त्राभूषणशृंगारभोग्यद्रव्यादिपेटिकाः ।
गन्धसारप्रचूर्णादिकज्जलालक्तवार्पिकाः ॥५४॥
वाद्यगायननृत्यादिप्रदर्शनप्रदर्शिकाः ।
मनोरञ्जनजालाद्याः प्रस्फोटकानलानिलाः ॥५५॥
यानवाहनशिबिकागारुडहंसगोवृषाः ।
शय्यापर्यंकवितानोल्लोचपटादिभित्तिकाः ॥५६॥
उद्यानानि विचित्राणि सर्वौषधिप्रवाटिकाः ।
भोज्यपेयादिवस्तूनां पर्वता इव सञ्चयाः ॥५७॥
हव्यानां च कणानां च फलानां सञ्चयास्तथा ।
पत्राणां च रसानां च समिधां संचयास्तथा ॥५८॥
व्रीहीणां च यवानां च मुन्यन्नानां विशेषतः ।
तिलानां घृतभागानां पक्वान्नानां समुच्छ्रयाः ॥५९॥
दूरश्रवणयन्त्राणां दूरदर्शनकारिणाम् ।
चन्द्राणां दूरवेधानां स्पर्शबोधनकारिणाम् ॥६०॥
ऋतुबोधकराणां च गोलकान्तरबोधिनाम् ।
वार्तातारगृहाणां च क्लृप्तनं वै स्थले स्थले ॥६१॥
दासीनां सेवकानां च निसर्गलेखकारिणाम् ।
क्लृप्तना कारिता तत्र मखभूमौ स्थले स्थले ॥६२॥
राजमार्गा देवमार्गा हस्त्यश्वहंसगारुडाः ।
येषु प्रयान्ति सुखतस्तथा वै निर्मितास्तदा ॥६३॥
दक्षिणार्थं द्रव्यशाला यज्ञार्थं पात्रमन्दिरम् ।
दानार्थं वस्त्रशालाश्च देवपूजार्हशालिकाः॥६४॥
सर्वोपचारशालाश्च निर्मिता विश्वकर्मभिः ।
स्थाने स्थाने कल्पलताः कोणे कोणे मणिप्रभाः ॥६५॥
चिन्तामणिप्रधानाश्च वासाः सर्वसुखप्रदाः ।
मुक्तानां धवले व्योम्नि चान्तरीक्षे तु नाकिनाम् ॥६६॥
भौमानां भूमिभागेषु भूस्तरे त्वन्यदेहिनाम् ।
निर्मिताः सुखदा वासा बालकृष्णमखोत्सवे ॥६७॥
इत्येवं सर्वथा भूमिः शृंगारिता महालयैः ।
मण्डपस्य शिरोभागे ध्वजोऽष्टशतहस्तकः ॥६८॥
सहस्रं कलशानां तु सौवर्णानां च रोपितम् ।
वेदमन्त्रा झल्लरीषु तोरणेषु प्रलेखिताः ॥६९॥
रंगरंगोलिकाशोभाः स्वर्गोद्यानसमाः कृताः ।
एवं वै भ्राजमानेषु निवासेषु मखाभितः ॥७०॥
आययुश्च महीमानाः पत्रैश्चामन्त्रितास्तदा ।
यज्ञोऽयं श्रीकृष्णनारायणः कारयति स्वयम् ॥७१॥
शिबिदेवनृपद्वारा सर्वैर्गन्तव्यमादरात् ।
इदानीं मार्गशीर्षे वै कृष्णैकादशिकादिने ॥७२॥
बालकृष्णसरस्तीरे यज्ञारंभो विलोक्यताम् ।
अनादिश्रीकृष्णनारायणस्य पटहो महान् ॥७३॥
व्यनदत् सर्वलोकेषु हरिणाऽऽज्ञापितः शुभः ।
दशम्यां सर्वलोकस्थाः श्रुत्वा क्रतुं समाययुः ॥७४॥
अक्षरब्रह्मलोकाद्वै मुक्ताः सर्वे समाययुः ।
धामानि चापि सर्वाणि भगवन्तस्तदाश्रिताः ॥७५॥
भगवत्यः समाजग्मुर्मुक्तान्यश्चाप्यसंख्यिकाः ।
ईश्वरा ईश्वराण्यश्च पितरो मुनयस्तथा ॥७६॥
सिद्धा ब्रह्मप्रशीलाश्च सुराः सुराण्य एव तु।
ब्रह्मसरसोऽप्सरसो देव्यो दिक्पालपुंगवाः ॥७७॥
सांख्ययोगिन्य एवापि भुवर्लोकसुरास्तथा ।
मानवाः ऋषयो विप्राः कुंकुमवापिकाजनाः ॥७८॥
अब्रिक्तजाश्चाजनाभा उरष्ट्रालयादिवासिनः ।
आययुस्तलवासाश्च भूविवरनिवासिनः ॥७९॥
नदा नद्यः समुद्राश्च वृक्षा वल्लय इत्यपि ।
तीर्थानि पशवः पक्षवन्तस्तिर्यक्प्रजातयः ॥८०॥
पार्थिवाश्च जलीयाश्च वाह्नेया वायवीयकाः ।
देहिनश्चाययुस्तत्र यज्ञार्थं कृतनिश्चयाः ॥८१॥
देवदानवदैत्याश्च रुद्राश्च वसवस्तथा ।
विश्वेदेवास्तथा साध्या मनवो ब्रह्मपुत्रकाः ॥८२॥
सनकाद्या साधवश्च नारदाद्या महार्षयः ।
ब्रह्मपुत्रप्रपौत्राद्याश्चाययुस्त्वध्वरे हरेः ॥८३॥
विनेदुश्च दिशः सर्वा विमानानां समागमैः ।
राजानो राशिवर्गाश्च ददुर्वासानि चादरात् ॥८४॥
तावद्देवायनर्षिश्च विमाने कामगे शुभे ।
सर्वस्मृद्धिप्रपूर्णे तु शातभौमे महायते ॥८५॥
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।
ब्रह्मप्रियास्तथा सर्वाः सर्वं कुटुम्बमित्यपि ॥८६॥
लोमशादीन् सप्तर्षींश्च विप्रान् नराँश्च योषितः ।
मातापितरौ देवादीन् तीर्थानि शंकरादिकान् ॥८७॥
क्षेत्रपान् सेविका देवीर्देवताश्चेश्वरादिकान् ।
तत्रत्यदिव्यदेहाँश्च नीत्वा व्योम्ना समाययौ ॥८८॥
अवाद्यन्त सुवाद्यानि जयशब्दास्तदाऽभवन् ।
लाजापुष्पाक्षतैः सर्वे वर्धयामासुरेव तत् ॥८९॥
नेमुश्च परितः सर्वे कोटिसूर्योज्ज्वलं शुभम् ।
विमानं परमेशस्याऽक्षरतुल्यं महोज्ज्वलम् ॥९०॥
दिव्यहस्तिसुशोभाढ्यं दिव्यहंसविराजितम् ।
दिव्यध्वजसुकलशैः राजितं कामगं सुखम् ॥९१॥
यत्पार्श्वे सुविमानानि सुप्रयान्ति सहस्रशः ।
अशब्दं चाऽऽगतं मेघादूर्ध्वं द्विपञ्चयोजनम् ॥९२॥
आकाशे स्थैर्यमापन्नं तस्माद्वै भगवान् स्वयम् ।
अवाततार सहसा कोट्यब्जसार्थशोभितः ॥९३॥
विद्युद्यन्त्रादिनिर्घोषा अवाद्यन्त च सूचकाः ।
आकाशो मूर्तिमान् भूत्वा कृष्णगीतिमगायत ॥९४॥
रागाश्चापि च रागिण्यः सरस्वत्यश्च शारदाः ।
विद्याः सर्वास्तदा कृष्णकृतेऽगायन्त चत्सुकाः ॥९५॥
लक्ष्मीगंगाविरजासुललिताविजयाजयाः ॥९६॥
सुशीलाद्याश्च वै गीतिं तदा चक्रुर्मनोहराम् ।
गन्धर्वा गायनं चक्रुस्तदा कृष्णस्य तुष्टये ॥९७॥
ऋषयो वेदनिर्घोषाँश्चक्रुर्घनरवादिभिः ।
वह्न्याद्या देवताश्चापि जयशब्दान् प्रचक्रिरे ॥९८॥
शिष्याद्याश्च ऋषयश्च सन्मानं दण्डवत्पुरः ।
चक्रुः सर्वे जय कृष्णनारायणेति संजगुः ॥९९॥
तावद्धरिः पृथिव्यां वै सभामण्डपमागमत् ।
पुष्पहारान् ददुस्तस्मै शेखरान् गुच्छकान् ददुः ॥१००॥
पुष्पाणां सञ्चयैः सर्वे वर्धयामासुरच्युतम् ।
मातरं पितरं चापि भगवन्तं शुकं तथा ॥१०१॥
सन्तुष्टां चामृतां चापि देवायतनकं मुनिम् ।
हेमन्तं च भगवन्तं लोमशं शंभुविष्ण्वजान् ॥१०२॥
ब्रह्मप्रियादिका राधे! कुंकुमवापिकाप्रजाः ।
वर्धयामासुरत्यर्थं राशियानप्रजा मुहुः ॥१०३॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालकृष्णसरोवरतटे यज्ञमण्डपादिकरणं महीमानागमो बालकृष्णाद्यागमश्चेत्यादिनिरूपणनामा त्रयोविंशत्य-
धिकशततमोऽध्यायः ॥१२३॥


References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP