संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ७२

त्रेतायुगसन्तानः - अध्यायः ७२

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
निबोध राधिके! चैतद् विज्ञानं परमाद्भुतम् ।
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ॥१॥
आश्रमाः क्रमसम्पन्नाः कारणादन्यथाऽपि ते ।
उत्पन्नज्ञानविज्ञानी वैराग्यं परमं गतः ॥२॥
प्रव्रजेद् ब्रह्मचर्यात्तु गृहस्थाद्वा यथोचितम् ।
दारानाहृत्य विधिवद् यजेच्च विविधैर्मखैः ॥३॥
धर्मेणोत्पादयेत् पुत्रान् वैराग्ये सति सन्न्यसेत् ।
अथ वैराग्यवेगेन स्थातुं नोत्सहते गृहे ॥४॥
वानप्रस्थो भवेत् पूर्वं पश्चात् सन्यासमाश्रयेत् ।
अतिवैराग्यवेगस्तु सन्यासमेव चाश्रयेत् ॥५॥
वानप्रस्थाश्रमं गत्वा यद्वा सन्यासमित्यपि ।
पुनर्न गृहमागच्छेत् न विशेद् दारसंगमे ॥६॥
सर्वेषामेव वैराग्यं सन्यासे तु विधीयते ।
अविरक्तस्तु सन्यासात् पतत्येन न संशयः ॥७॥
एकाश्रमेऽथवा सम्यग् वर्तेताऽऽमरणान्तिकम् ।
तद्धर्मिज्ञानिभक्तस्तु सोऽमृतत्वाय कल्पते ॥८॥
धर्मार्थं दत्तसर्वस्वो ब्रह्मविद्यः प्रशान्तिमान् ।
ज्ञानविज्ञानसम्पन्नो ब्रह्मभूयाय कल्पते ॥९॥
ब्रह्मण्यर्पय्य कर्माणि कामसंगादिवर्जितः ।
प्रसन्नाऽरक्तमनसा कुर्वाणो याति तत्पदम् ॥१०॥
ब्रह्मणा दीयते देयं ब्रह्मैव दीयते हि तत् ।
दीयते ब्रह्मणे दानं ब्रह्मार्पणमिदं परम् ॥११॥
नाऽहं कर्ता सर्वमेतद् ब्रह्मैव कुरुते तथा ।
एतद् ब्रह्मार्पणं कर्म ब्रह्मणि परिधीयते ॥१२॥
पृणोतु श्रीकृष्णनारायणस्वामी स्वकर्मणा ।
एवं मत्वा क्रियते तद् ब्रह्मार्पणमिदं परम् ॥१३॥
फलानां चापि सन्यासं प्रकुर्यात्परमेश्वरे ।
एवं फलप्रदानं च ब्रह्मार्पणमनुत्तमम् ॥१४॥
कार्यमित्येव यत्कर्म नियतं संगवर्जितम् ।
क्रियते विदुषा कर्म तद्भवेदपि मोक्षदम् ॥१५॥
कर्मणां फलसन्न्यासो यदि ब्रह्मणि नेयते ।
तदा फलेन बध्येत मोक्षरोधो भवेत्ततः ॥१६॥
अर्पणात् क्षीयते पापं पुण्यं वा मोक्षबोधकम् ।
ऐहिकं पौर्विकं वापि मनःप्रसन्नता भवेत् ॥१७॥
आत्मवित्त्वं भवेच्चापि ब्रह्मविज्जायते ततः ।
कर्मणा सहिताज् ज्ञानात् सम्यग् योगोऽभिजायते ॥१८॥
योगात् श्रीमत्कृष्णनारायणसान्निध्यमीयते ।
तस्मात् सर्वप्रयत्नेन यत्र तत्राश्रमे रतः ॥१९॥
कर्माणीश्वरतुष्ट्यर्थं कुर्यान्नैष्कर्म्यमाप्नुयात् ।
सम्प्राप्य ब्रह्मविज्ञानं नैष्कर्म्यं तत्प्रसादतः ॥२०॥
निजात्मात्मपरब्रह्मानन्दे मग्नो जितेन्द्रियः ।
एकाकी निर्ममः शान्तो जीवन्नपि समुक्तवत् ॥२१॥
वीक्षते परमात्मानं परब्रह्म परेश्वरम् ।
नित्यानन्दी निरुपाधिः श्रीहरौ लीनतां व्रजेत्। ॥२२॥
तस्मात् सेवेत च राधे नैष्कर्म्ये त्वर्पणात्मकम् ।
तृप्तये परमेशस्य तेन यायात् परं पदम् ॥२३॥
एवं कृता तु या निष्ठा सिद्धिं ददाति शाश्वतीम् ।
न त्वेतां समतिक्रम्य सिद्धिं विन्दति मानवः ॥२४॥
एवं सर्वं ज्यामघोऽपि विचार्य चात्मनो हितम् ।
उक्त्वा पत्न्यै समस्तं तु विज्ञानं ज्ञानपूर्वकम् ॥२५॥
कृत्वा ज्ञानेन च निजां कान्तां तु ब्रह्मरूपिणीम् ।
दत्वा राज्यं स्वानुजाय श्रीमघाय हरिप्रियः ॥२६॥
ज्यामघः स्त्रीसहितश्च पित्रोः पादौ प्रणम्य च ।
भ्रातरं च समाश्लिष्य क्षेममावेद्य सर्वतः ॥२७॥
प्रजाशीर्वादमादाय साभ्रमतीनदीतटे ।
आश्रमे तु सतां नित्यं सत्संगं प्रचकार ह ॥२८॥
भ्रात्रा स्वनामसहितं तच्छ्रीनगरं ख्यापितम् ।
ज्यामघस्तु ततो यज्ञं वैष्णवं परमं शुभम् ॥२९॥
कारयामास स्वभ्रातृद्वारा साभ्रमतीतटे ।
तद्भक्त्या होमसमये श्रीयुतः श्रीनरायणः ॥३०॥
मूर्तिमाँस्तत्र चायातो यज्ञमण्डपमच्युतः ।
वह्निः स्वयं मूर्तिमाँश्च ब्रह्मा शंभुस्तथाऽऽगताः ॥३१॥
देवता बुभुजर्हव्यं ज्यामघेन समर्पितम् ।
श्रीः प्रसन्ना च तं प्राह तव भक्त्या जनार्दनः ॥३२॥
प्रसन्नो मां तव राज्ये स्थातुं चाज्ञां करोति हि ।
नाहमेकाकिनी वासं करिष्ये प्रत्तने तव ॥३३॥
यज्ञतृप्ताऽस्मि सञ्जाता साकं मत्पतिना सुरैः ।
कारयाऽत्राऽऽलयं रम्यं यत्र वसामि नित्यदा ॥३४॥
श्रुत्वा च ज्यामघो भ्रात्रा सह मुमोद भक्तराट् ।
एवमुक्त्वा पुनः प्राह याहि कुंकुमवापिकाम् ॥३५॥
अश्वपट्टसरःक्षेत्रं तत्र वसामि नित्यदा ।
अनादिश्रीकृष्णनारायणसेवापरायणा ॥३६॥
दम्पत्योस्तत्र तु पुनः सेवया दास्ययुक्तया ।
दर्शनं मे स्वामिनश्च भविष्यति न संशयः ॥३७॥
इत्युक्त्वा च तिरोरास सदेवा सनरायणा ।
यज्ञः समाप्तिमगमन्नगरे श्रीर्व्यवर्धत ॥३८॥
श्रीमघं पितरौ नत्वा ज्यामघो दत्तदक्षिणः ।
साभ्रमत्यां नौकया च सपत्नीको विनिर्ययौ ॥३९॥
श्रीमघः कारयामास मन्दिरं सप्तभूमिकम् ।
मेघस्पर्शं सशिखरं नारायणाख्यघट्टके ॥४०॥
तत्र लक्ष्मीयुतो नारायणो वैदिककर्मभिः ।
प्रतिष्ठापित एवादौ राज्ञाऽस्मै वाटिकाऽर्पिता ॥४१॥
पूजानैवेद्यशृंगारोत्सवाश्चापि नियोजिताः ।
एवं भेजे श्रीमघोऽपि श्रीमत्कृष्णनरायणम् ॥४२॥
लक्षवर्षं तु तद्राज्यं भुक्त्वा धाम परं ययौ ।
ज्यामघोऽपि नदीमार्गादाययौ स्तंभवारिधिम् ॥४३॥
ततः श्रीगोपनाथं च कृत्वा तीर्थं ततः परम् ।
नावं विसृज्य यानेन ययौ कुंकुमवापिकाम् ॥४४॥
अश्वपट्टसरो दृष्ट्वा वीक्ष्य श्रीलोमशाश्रमम् ।
भूमिकां दिव्यशोभाढ्यां वीक्ष्याऽऽनन्दं परं ययौ ॥४५॥
दृष्ट्वा श्रीमत्कृष्णनारायणप्रासादमुच्छ्रितम् ।
व्योमचुम्बिशिखराणि ध्वजान् वीक्ष्य सगद्गदः ॥४६॥
दण्डवत् प्रणनामादौ प्रदक्षिणं चकार तम् ।
तावत् तत्र समायातो विप्रो बालस्वरूपवान् ॥४७॥
रमणीयः श्रीनिवासः सर्वसौन्दर्यभाजनम् ।
पद्मपत्रायतनेत्रः सूक्ष्मचक्रान्विताऽङ्गुलिः ॥४८॥
वक्षोधृतोज्ज्वलमणिस्तेजःपरिधिशोभितः ।
स्वागतं प्रचकाराऽसौ तीर्थस्थलानि दर्शयन् ॥४९॥
निनाय मन्दिरे यत्र श्रीकान्तः संविराजते ।
अनादिश्रीकृष्णनारायणं गजासनस्थितम् ॥५०॥
दर्शयामास विप्रः स तत्र चान्तरधीयत ।
ज्यामघस्तस्य राज्ञी च परमाश्चर्यमागतौ ॥५१॥
साक्षान्मानवनाट्यस्य दर्शनं प्राप्य तत्परम् ।
बालकृष्णस्य च तत्र दर्शनं प्राप्य वै पुनः ॥५२॥
द्वयोरैक्यं स्वरूपे च स्वभावे गुणवर्तने ।
मूर्तेरपीति विज्ञायाऽमन्यतां च कृतार्थकौ ॥५३॥
अहो भाग्यमहो भाग्यं ज्यामघस्य च तत्स्त्रियाः ।
साक्षाद् विप्रबटुरूपो बालकृष्णोऽभवत्तदा ॥५४॥
आनिनाय गृहं नैजं बालकृष्णे तिरोऽभवत् ।
अनेकजन्मपुण्यानां सेवया तत्प्रसन्नता ॥५५॥
जायते येन भगवान् स्वयं स्वगृहमाययौ ।
ततो गोपालकृष्णं च मातरं कम्भरासतीम् ॥५६॥
भगवन्तं च सन्तोषां ददृशतुस्ततः परम् ।
शुकं दृष्ट्वा वल्लभं च दृष्ट्वा वै सुरमण्डलम् ॥५७॥
मुमुदतुस्तावत्यर्थं पुपूजतू परमेश्वरम् ।
चन्दनाक्षतकुंकुमोशीरगुलालवारिभिः ॥५८॥
पुष्पतुलसीकल्हारपुण्डरीकसुकेसरैः ।
हारभूषाम्बरद्रव्यैः पूजयामासतुर्हि तौ ॥५९॥
उपदाः स्वर्णपात्रादि न्यधातां पुरतस्तदा ।
मिष्टपक्वान्नपात्रादि ताम्बूलकं जलादिकम् ॥६०॥
ददतुस्तौ श्रीहरये मात्रे च जनकाय च ।
आरार्त्रिकं चक्रतुश्च दण्डवच्च नमस्कृतिम् ॥६१॥
बालकृष्णस्तु पप्रच्छागमने क्षेममित्यपि ।
कुशलं च प्रवासेऽप्यपीडां सुखागमं तथा ॥६२॥
तत आतिथ्यकार्यार्थं निनाय दम्पती हरिः ।
भोजनं कारयामास जलं ताम्बूलकादिकम् ॥६३॥
निवासार्थं स्वतन्त्रं च सौधं हरिः समार्पयत् ।
दम्पतीभ्यां दासदासीर्ददौ वस्तूनि सर्वशः ॥६४॥
विशश्रामाथ राजाऽसौ सायं त्वश्वसरोवरम् ।
स्नातुं प्रययौ विधिना स्नात्वा सन्ध्यां चकार ह ॥६५॥
अश्वपट्टसरसश्च तीर्थकोट्यन्वितस्य च ।
अष्टोत्तरशतवर्तियुक्तं नीराजनं व्यधात् ॥६६॥
जलं पीत्वा निजं सौधं समाययौ च सानुगः ।
रात्रिं निनाय सुखतः प्रातःस्नानोत्तरं नृपः ॥६७॥
पूजयित्वा स्वामिनं श्रीबालकृष्णं श्रियः पतिम् ।
आरार्त्रिकादिकं कृत्वा ददौ दानानि सर्वशः ॥६८॥
स्वर्णभूषाम्बरद्रव्यमुक्तामणीन् ददौ बहून् ।
भोजयामास तीर्थस्थान् विप्रान् ऋषीन् सुकन्यकाः ॥६९॥
सर्वेषां चापि देवानां तीर्थयात्रां चकार ह ।
अश्वपट्टसरःप्रदक्षिणं कृत्वा गृहं ययौ ॥७०॥
धन्यो वै गुन्द्रको वृक्षो धन्या तिन्तिडिका शुभा ।
धन्यो दाडिमवृक्षश्च धन्यौ जम्बुद्वयद्रुमौ ॥७१॥
धन्या सा बदरी यत्र भगवान् संविराजते ।
धन्या सा कुंकुमवापी तीर्थोत्तमोत्तमोत्तमा ॥७२॥
धन्योऽहं ज्यामघश्चापि धन्या धनालसा प्रिया ।
येषामनादिदेवश्रीकृष्णनारायणाश्रये ॥७३॥
वासो वै विद्यते ते तु ब्रह्मलोके वसन्ति हि ।
एवं चिन्तयमानं तं राज्ञी प्राह त्वरान्विता ॥७४॥
मन्दिरं श्रीदर्शितं तत् कारयाऽत्र महत्तमम् ।
यत्र नारायणो देवः सदा नः पूज्यतां व्रजेत् ॥७५॥
श्रुत्वा राजा मन्दिरं च कीदृग् विशालमुच्छ्रितम् ।
कारयितव्यमेवेत्यचिन्तयत् क्षणमात्रकम् ॥७६॥
तावत्तेजः परं श्रेष्ठं श्वेतं ददर्श चायतम् ।
तत्र ददर्श शिखरं चैकं विशालमन्तरे ॥७७॥
तत्र मध्ये शुभां मूर्तिं कृष्णनारायणात्मिकाम् ।
वामे राधां श्रियं लक्ष्मीं पारवतीं प्रभां तथा ॥७८॥
माणिकीं चेति पत्नीस्ता ददर्श दिव्यदर्शनाः ।
दक्षे पितरं जननीं सन्तोषां भगिनीं तथा ॥७९॥
भगवन्तं शुकं चापि वल्लभं हरिबान्धवान् ।
ददर्श मण्डलं चैतत् स्वं राज्ञीं प्रददर्श च ॥८०॥
सेवायां चेति तत्सर्वं ततश्चान्तरधीयत ।
राजा शिल्पिवरं तत्र चाहूयाऽकथयत्तदा ॥८१॥
शिल्पिवर्यश्चित्रपटं चकार तद्यथोदितम् ।
ततो वै मन्दिरं रम्यं चाश्वपट्टस्य पश्चिमे ॥८२॥
कारयामास सम्पूर्णं प्रतिष्ठां विधिनाऽपि च ।
त्रयोदशप्रतिमानां कारयामास भूसुरैः ॥८३॥
स्वसौधं कारयामास समाहूय च लोमशम् ।
दीक्षां जग्राह च सांख्ययोगधर्मान्वितां शुभाम् ॥८४॥
निजसौधे मन्दिरे तं श्रीमत्कृष्णनरायणम् ।
भेजे भक्त्या सपत्नीकश्चोत्तमो वैष्णवो महान् ॥८५॥
पूर्वजन्मस्वभावान् स क्षपयामास भक्तितः ।
व्रतेन तपसा नित्यं ध्यानेन दास्यभावतः ॥८६॥
महाभागवतो भूत्वा सर्वं चकार भावतः ।
चतुर्विंशतितत्त्वानि हर्यर्थं प्रचकार सः ॥८७॥
नृपः श्रीकृष्णदेवाय चार्पयामास चेतनम् ।
सत्त्वं श्रीकृष्णदेवस्य प्रकाशने न्ययोजयत् ॥८८॥
रजस्तस्य प्रवृत्त्यर्थं यथा तुष्टो भवेद्धरिः ।
तमो भूतौ प्रलयार्थं न्ययुङ्क्त श्रीहरेस्तदा ॥८९॥
महत्तत्त्वं बुद्धिरूपं तन्निर्णये न्ययोजयत् ।
चित्तं तु चिन्तने चाहं तस्याऽभिमाननेऽकरोत् ॥९०॥
मनस्तु मनने तस्य श्रोत्रं कथाश्रवे हरेः ।
त्वगस्य स्पर्शनेऽरक्षत् चक्षुस्तद्दर्शनेऽकरोत् ॥९१॥
रसना तत्प्रसादस्य स्वादे जिह्वाऽस्य कीर्तने ।
नासा तत्पुष्पसौगन्ध्ये वागस्य गुणवर्णने ॥९२॥
हस्तौ दास्ये च कैंकर्ये सेवायां सर्वदाऽकरोत् ।
पादौ तमभिगमने प्रादक्षिण्येऽकरोत्तथा ॥९३॥
पाद्यं चासनबन्धेऽस्य लिंगमानन्दनेऽस्य च ।
बलं तद्भारवहने कलास्तत्सेवनेऽकरोत् ॥९४॥
दैहिकं सर्वमेवाऽयं श्रीकृष्णाय समार्पयत् ।
राज्ञी चापि तथा सर्वं बालकृष्णाय चार्पयत् ॥९५॥
तन्मात्राणि विषयाँश्च शुभं चाशुभमित्यपि ।
सर्वं ददौ तु हरये स्वयं प्राघूर्णिकाऽभवत् ॥९६॥
क्रिया सर्वा वर्ष्मणस्तु श्रीकृष्णाय तथाऽऽर्पयत् ।
पूजनं स्मरतां तस्य वन्दनं स्तवनं सदा ॥९७॥
पादसम्मर्दनं विष्णोरर्चनं दास्यमित्यपि ।
सख्यं केलिर्नर्मवाक्यं हसनं हास्यमित्यपि ॥९८॥
कीर्तनं चार्पणं सर्वं श्रीमत्कृष्णेऽकरोत् सदा ।
राज्ञी चापि महाभागवती भक्ता बभूव ह ॥९९॥
मार्जनं लेपनं पक्वनैवेद्यकरणं तथा ।
जलाहरणमेवापि वस्त्राणां क्षालनादिकम् ॥१००॥
पात्राणां मञ्जनं चापि पुष्पानयनमित्यपि ।
मालिकाग्रथनं चापि तुलस्यानयनं तथा ॥१०१॥
वायोरान्दोलनं चापि दोलाऽऽन्दोलनमित्यपि ।
सर्वं चकार हस्ताभ्यां शय्यास्तरणमित्यपि ॥१०२॥
पादसंवाहनं कृष्णनारायणस्य सर्वदा ।
किंकरीव विदधाति सर्वाऽऽर्पणं तदाऽकरोत् ॥१०३॥
एवं संसेवमानौ तौ दिव्यपुण्याश्रितौ शुभौ ।
प्रक्षीणकल्मषौ जातौ बालकृष्णाभ्यनुग्रहात् ॥१०४॥
लोमशेन प्रापितो च मन्त्रं श्रीवैष्णवं परम् ।
'ओं नमः श्रीकृष्णनारायणाय पतये नमः' ॥१०५॥
लब्ध्वा मन्त्रं पूजयित्वा हरिं चाषाढशुक्लके ।
एकादश्यां रव्युदये ध्यानमग्नौ स्थिरौ क्षणम् ॥१०६॥
अभवतां तदा दिव्यं विमानं त्वक्षराच्छुभम् ।
सपार्षदं समायातं कोटिसूर्यसमप्रभम् ॥१०७॥
देहौ त्यक्त्वा ज्यामघश्च धनालसा विमानके ।
पार्षदानामाज्ञया चारोहतां दिव्यवर्ष्मणौ ॥१०८॥
ययौ विमानं त्वरितं चाऽक्षरं परमं पदम् ।
जयशब्दाश्चाऽभवँश्च श्रीनारायणमन्दिरे ॥१०९॥
इत्येवं राधिके तौ तु भक्त्या मोक्षमवापतुः ।
पाठको वाचकः श्रोताऽप्यस्य मोक्षपदं व्रजेत् ॥११०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने ज्यामघराज्ञस्तत्पत्न्या धनालसायाः कुंकुमवाप्यां त्वात्मनिवेदितभक्त्या मोक्षणमितिनिरूपणनामाद्वासप्ततितमोऽध्यायः ॥७२॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP