त्रेतायुगसन्तानः - अध्यायः ३००
लक्ष्मीनारायणसंहिता
श्रीराधिकोवाच-
कृष्णकान्त! कथाः सर्वाः संक्षेपात् कथयाऽस्य मे ।
त्रेताखण्डस्य वै शान्तिः श्रवणे मेऽतिजायते ॥१॥
श्रीकृष्ण उवाच--
राधिके भगवान् श्रीमल्लक्ष्मीनारायणोऽभवत् ।
अनादिश्रीकृष्णनारायणो लक्ष्म्या युतो यदा ॥२॥
तमेनं परमात्मानं हृदयेक्षणवर्जिताः ।
न जानन्ति यथार्थं वै परब्रह्म सनातनम् ॥३॥
सोऽयं समागतः पृथ्व्यां कृपयोद्धारहेतवे।
भक्तानां मानसपूर्त्त्यै नराणां योषितां तथा ॥४॥
धन्यास्तास्तनवश्चात्र याभिः प्राप्तो हरिः स्वयम् ।
धन्यानि तानीन्द्रियाणि हरेर्योगं गतानि वै ॥५॥
धन्यास्ताः ऋद्ध्यश्चापि धन्या देशाश्च ते तथा ।
धन्याः कुटुम्बिनश्चापि पुरुषोत्तमयोगिनः ॥६॥
यत्र वै पठ्यते लक्ष्मीनारायणस्य संहिता ।
धन्यो देशः स एवाऽपि यत्राऽऽस्ते पुरुषोत्तमः ॥७॥
लक्ष्मीनारायणसंहितायाः खण्डे द्वितीयके ।
त्रेतासन्तानके नाम्ना प्रोक्तमाद्यं सुमंगलम् ॥८॥
सार्वभौमं च माहात्म्यं परब्रह्मण ईरितम् ।
ततो हिरण्यमयाण्डस्य कोशकूर्चसमुद्भवौ ॥९॥
हिरण्यकूर्चहिरण्याण्डाभिधावसुरावुभौ ।
युयुधाते सह संकर्षणेन गदया ततः ॥१०॥
मेरोर्भागा व्यवच्छिन्ना ये ये ते त्वभवन् ग्रहाः ।
सर्वधाम्यर्थितः कृष्णः प्रकटीभूय धामतः ॥११॥
सेवां गृह्णाति च पृथ्व्यां कम्भराश्रीगृहेऽपि च ।
प्रादुर्भावजयन्त्यां चोत्सवे दानस्तवादयः ॥१२॥
देवदेवीजननानिवृक्षवल्ल्यादिषु क्षितौ ।
दशमे दिवसे दैत्यैः प्रभोरपकृतिः कृता ॥१३॥
षष्ठीसूतकशेषाद्यैर्बालकृष्णावनं कृतम् ।
सूतकस्य समुत्पत्तिः सूतात्मवरदानकम् ॥१४॥
नामकार्योत्सवे साणासुरो व्याघ्रासुरो हतौ ।
एकादशेऽहनि प्रेंखाऽऽरोहोऽनन्तस्वरूपकैः ॥१५॥
तलाजाराक्षसीनार्या मोहो हरौ सुभक्तता ।
लाजा स मंगलकार्यकरी जाता कृपावशा ॥१६॥
दुग्धपानदिने नैकरूपैर्धेनुपयोऽशनम् ।
गोरूपराक्षसीनां सप्राणस्तन्यस्य पानकम् ॥१७॥
हरेर्भूम्युपवेशाख्यसंस्कारे सिंहिकादरी ।
अन्याश्चापि बालकृष्णं सिषेविरे हरिं प्रभुम् ॥१८॥
कर्णवेधेऽस्य संस्कारे सूच्याद्या देवता अपि ।
सेवां कृत्वाऽभजन् कृष्णं पतिं बहुस्वरूपिणम् ॥१९॥
अन्नप्राशनसंस्कारे ददावन्नानि भूरिशः ।
ओषधयो भोजयित्वा कान्तं कृष्णं प्रपेदिरे ॥२०॥
वृत्तिज्ञानाय वै द्वात्रिंशद्वस्तूनि सहैव सः ।
तावद्धस्तैः प्रजग्राह दिव्यताऽस्य प्रकीर्तिता ॥२१॥
ततो दैत्यस्त्रियो युद्धं विधवाः कर्तुमाययुः ।
राक्षसीनां कन्यकानां तुमुलं युद्धमाभवत् ॥२२॥
कन्यकानां विजये राक्षसीनां शरणागतिः ।
दिव्यता कन्यकाकारात्मता श्रीहरिणा कृता ॥२३॥
ताभ्यः श्रीलोमशः प्राह सेवामोक्षवृषाँस्ततः ।
आश्रमीयाः सर्वकन्याः व्रतं वर्षासु चक्रिरे ॥२४॥
शत्रूञ्जयाद्रिसंवासाः कंकताला हता मृधे ।
कंकताल्यश्च राक्षस्यो युद्धे दिव्या हरिप्रियाः ॥२५॥
अभवँश्च न्युषुर्लोमशाश्रमे चात्मवेदिकाः ।
पितृकन्या हरेः पूजां चक्रिरे प्रेतमोक्षणम् ॥२६॥
राशिभिः कृतपूजा च कृष्णप्रासादवर्णनम् ।
महामण्डपशोभा च हरेः शृंगारवर्णनम् ॥२७॥
प्रह्लादस्य मृधं नारायणेन भक्तितो जयः ।
दानवानां मोक्षणं च कन्यानां वरणं हरेः ॥२८॥
श्रीहरेश्चौलसंस्कारे रोम्णां नारायणात्मता ।
जीवानां रोमरूपाणि त्वघानीति प्रकीर्तितम् ॥२९॥
सालमालासुरनाशस्तत्स्त्रीणां हरिसंग्रहः ।
यज्ञसूत्रोत्सवे दैत्या सालमालादिजातयः ॥३०॥
विनाशितास्तथा मोक्षधर्मा लोमशवर्णिताः ।
सुकेशिनः समाख्यानम् अशून्यशयनव्रतम् ॥३१॥
देवस्वापा भिन्नभिन्नतिथिष्वपि च पूजनम् ।
पातालेशस्य वै कारण्डवस्य नाशनं ततः ॥३२॥
कन्यका रक्षिता लोमशालये स्वस्तिकस्य वै ।
आरक्तदेशीयभूपशावदीनसुतार्थकम् ॥३३॥
पूजनं शावदीनायै देव्यै बालबलिकृतम् ।
देव्या राजादिसंहारः कृतोऽथ बदरीवनम् ॥३४॥
कुरु क्षेत्रं हरेः कुंकुमवापी प्रति चागमः ।
बालार्पणं तत्पितृभ्यो मातॄणां मोक्ष ईरितः ॥३५॥
पुराधर्मे श्वेतकेतोर्मर्यादा सम्प्रदर्शिता ।
सौदासपत्न्यां वासिष्ठोऽश्मको जातस्तथा वृषः ॥३६॥
उतथ्यभार्याभोगं वै चक्रे बृहस्पतिर्बलात् ।
दीर्घतमा बलेः पत्न्यां पुत्रानजनयद् बहून् ॥३७॥
सर्वे बालग्रहाः प्रोक्ता ये ये या याः स्वभावतः ।
अथ व्याघ्रासुराणां वै विनाशो हरिणा कृतः ॥३८॥
पञ्चमाऽब्दोत्सवे गान्धर्वाणां प्रगायनानि च ।
सिंहव्याघ्रादिचर्मभ्यः सिंहाः सजीवनीकृताः ॥३९॥
हरो नटनटीयुक्तो नाट्यानि विदधे ततः ।
प्रसन्नहरिणा तत्र क्षेत्रे संवासिताः सदा ॥४०॥
श्रीहरेः सर्वविद्याप्तिर्वराटकतपोहतिः ।
वराटकाऽनीकनाशो दण्डादि चेरितं तथा ॥४१॥
दिक्फरम्लेच्छसंहारो हरिणा कृत ईरितः ।
शंकरे वस्त्ररहिते ऋष्याश्रमगते द्विजाः ॥४२॥
ताडयामासुरीशं ते सतीशापाद्धि राक्षसाः ।
तेषां विनाशितं राक्षसत्वं श्रीहरिणा ततः ॥४३॥
षष्ठवर्षारम्भमहे कृष्णाद्यैः पूजनं कृतम् ।
देवायनद्विजस्य तत्पत्न्याः श्वपचता हता ॥४४॥
लक्ष्मीनारायणसंहिताकथायां चमत्कृतिः ।
स्तुतिस्तीर्थं चोर्जव्रतऋषिकृतमुदीरितम् ॥४५॥
कन्थाधरस्य चरितं चमत्कारोऽतिमृत्युता ।
हृड्डकायनिकास्वामित्वं नास्तिक्यं कुरुंगतः ॥४६॥
मृतस्य विप्रपुत्रस्य वृषपर्वेतिजीवनम् ।
नास्तिक्येन मरणेऽस्य म्लेच्छजन्म, सुतेन तु ॥४७॥
कृतोद्धारो द्वयोर्भूत्वा वैष्णवो लोमशान्मुनेः ।
रणंगमकृते यज्ञे यक्षकन्यादिवाहनम् ॥४८॥
श्रीहरेश्च कृतः श्रेष्ठः सप्तमो जननोत्सवः ।
रणंगमे गते दक्षिणध्रुवेक्षणवाञ्च्छया ॥४९॥
अन्ताऽर्किदेशभूपेन लक्ष्मणार्येण सत्कृतिः ।
पत्नीमातृद्रोहकर्तृमात्रागस्करराक्षसात् ॥५०॥
पत्नीमातृरक्षणं च श्रीहरिकृतमीरितम् ।
युद्धे रणंगमस्यैव जयोऽथ लक्ष्मणार्पिताः ॥५१॥
सहस्रद्वयकन्या वै लोमशस्योपदेशनम् ।
पुत्रपुत्रीपतिपत्नीशिष्यशिष्यादिवर्णनम् ॥५२॥
वेधःपुत्र्यः सुषुम्णेडापिंगलाः स्वामिभावतः ।
हरिं वीक्ष्य ययुर्देशान् लोकयितुं विमानगाः ॥५३॥
सत्यलोकं ययुस्ताभ्यः श्रुत्वा हरिं सुवीक्षितुम् ।
प्रस्थिता द्वासप्ततिकन्यका यानेन वेधसः ॥५४॥
अब्रिक्तेशेन स्वसैन्यैः रुद्धं विमानमम्बरे ।
दूताद्युक्तिस्तत्र शुक्राऽरजादण्डादिवर्णना ॥५५॥
विश्वकर्मचित्रांगदासुरथानां च वर्णना ।
ततो युद्धे म्लेच्छकोट्यो विनष्टा लक्षशोऽपि च ॥५६॥
सद्विवेकाऽविवेकौ वर्णितौ च शरणागमः ।
पुनः कापट्ययुद्धे च मृता म्लेच्छाः सहस्रशः ॥५७॥
म्लेच्छस्त्रियो लक्षशोऽपि युयुधुर्मुमुहुर्हरौ ।
कृत्याभिर्नाशिताश्चाऽथ राज्ञः श्रीहरिदर्शनम् ॥५८॥
तस्य प्राग्जन्मपुण्यादि चोक्तं प्रसंगतः खलु ।
अब्रिक्तदेशसाम्राज्यं भक्ताभ्यां प्रददौ हरिः ॥५९॥
आरबीजप्रदेशानां राज्यं युद्धे विजित्य च ।
धर्मराट प्रददौ देवमरुद्भ्यो दैत्ययोनिषु ॥६०॥
जन्मान्तरकथा देवमरुतां तत्र कीर्तिता ।
रक्तबीजाऽऽरबीजादिधुन्धुदैत्यकथोदिता ॥६१॥
नदीपूरोढनौकाया उदयाख्यनृपस्य च ।
रक्षा कृता तु हरिणा प्रजानां चेति वर्णितम् ॥६२॥
क्रूरसिंहस्य वै राक्षसत्वं हरिप्रमोचितम् ।
अष्टमाऽब्दे रुग्णव्यंग्यादीनां नैरोग्यमाहितम् ॥६३॥
जलमग्नवसुमेधश्रेष्ठिरक्षोदिता ततः ।
गोपनाथमहातीर्थं सौराष्ट्रे वर्णितं ततः ॥६४॥
बालकृष्णस्योपवीतमहोत्सवस्तु वर्णितः ।
नारदोक्तपराविद्योपदेशस्तत्र वर्णितः ॥६५॥
पारितोषिकदानानि तथोपदार्पणान्यपि ।
प्रभोः सेवार्चनपूजादिफलं परिवर्णितम् ॥६६॥
षड्भिर्जन्मभिर्वै जाड्यमघदृष्टान्तदानतः ।
पूर्वस्वभाववैचित्र्यं विस्तरात् सुनिरूपितम् ॥६७॥
नैष्कर्म्ययोगः सम्प्रोक्तो ज्ञानमाध्यात्मिकं तथा ।
आत्मनिवेदितभक्त्या राजराज्ञ्योः प्रमोक्षणम् ॥६८॥
आमोदनगरावाससुधनाख्यस्य रक्षणम् ।
चौरेभ्यो वै कृतं दिव्यरूपेण हरिणेरितम् ॥६९॥
त्र्यष्टकारोरन्त्यजस्य सस्त्रीकस्यापि मोक्षणम् ।
कौशिकाम्बर्षियोगेन कुष्ठजलोदरक्षयः ॥७०॥
विप्रबालषट्शतानां नाशकान् राक्षसान् हरिः ।
नाशयामास युद्धे जीवयामासाऽर्भकान् पुनः ॥७१॥
तिथीकरण सरितां, घोरप्रतिग्रहैः फलम् ।
विप्राणां नाशितं प्रोक्तं हरिणा कृपयेरितम् ॥७२॥
बालेश्वरनृपस्यापि परीक्षा पुत्ररन्धनात् ।
कन्यापत्नीग्रहणाच्च कृता श्रीहरिणेरितम् ॥७३॥
जयध्वजस्य यज्ञे श्रीहरेर्दर्शनमीरितम् ।
द्रोणादिपर्वतानां चावभृथे पापनाशनम् ॥७४॥
कोलारचिलशंभलनारायणसरास्यपि ।
दिव्यतां मोक्षणं प्रापुः कथा चेयं सुवर्णिता ॥७५॥
धर्माश्चतुर्युगाणां वै पुलस्त्योक्ताः प्रदर्शिताः ।
अक्षरक्षेत्रमाहात्म्यं प्रोक्तं कौंकुमवापिकम् ॥७६॥
हरिवंशीयप्रजानां सह्याद्रौ वास ईरितः ।
खरपुत्राऽधर्मजीवाऽसुरनास्तिकता हरौ ॥७७॥
दर्शिताऽसद्गतिः पश्चाद् गत्यर्थं वरदानकम् ।
अथ कुंभे प्रयागे चागततीर्थादिकोटयः ॥७८॥
सनत्कुमारवचनात् कुंकुमवापिकां ययुः ।
अथ सिंहलवासानां राक्षसीनामुपद्रवः ॥७९॥
महामार्यादिभिर्विनाशितौ बद्रीं गते हरौ ।
आगत्य हरिणा प्रजीविता मृतास्तु ये पुरा ॥८०॥
अथ ज्ञानं विशेषाऽद्वैताऽद्वैतं मोक्षदं मतम् ।
हरेर्विभूतयो मोक्षप्रदास्ततोऽभिवर्णिताः ॥८१॥
व्यूहचतुष्टयस्याऽपि स्वतःप्रकाशरूपता ।
वर्णिता कुंकुमवाप्यां तीर्थरूपेण वासिता ॥८२॥
उष्ट्रालये महाखण्डे झंझावाते महत्यथ ।
कृता श्रीहरिणा रक्षा जीविता ये मृतास्तदा ॥८३॥
उर्वश्याश्चक्रवाकीत्वं मार्जारीत्वं तथा ऋषेः ।
सनत्सुजातसंज्ञस्य मिथः शापान्निवारितम् ॥८४॥
चक्रवाक्यै पायितं वै वारि शृंगे गिरेस्तथा ।
मार्जारिकाबालकानां भ्राष्ट्रे रक्षाऽग्नितः कृता ॥८५॥
कृतं च मोक्षणं शापात् कृष्णनारायणेन वै ।
मातुर्माहात्म्यमप्युक्तं ततो वैकुण्ठधामनि ॥८६॥
नारायणस्य वै लक्ष्मीशयने संरतस्य तु ।
दर्शनार्थं चागतेषु धेनुपालादिकेषु च ॥८७॥
नृत्यादावधिके काले याते लक्ष्मीः रुषाऽशपत् ।
ततः शिवादयः पृथ्व्यामवापुर्मानवीं जनुम् ॥८८॥
लक्ष्मीं विहाय भगवान् ययौ यत्र शिवादयः ।
लक्ष्मीः सख्यश्च शोकं वै कृत्वा जन्मानि चाददुः ॥८९॥
लक्ष्म्युर्वश्यौ तपोऽर्थं जग्मतुः श्रीहनुमद्वने ।
नारायणः प्रसन्नस्तत्फलं दातुं समाययौ ॥९०॥
चक्रवाक्यै जलपानं शिखरे हरिणाऽर्पितम् ।
शिववर्मकुटुम्बादेः काश्यामागमनं तथा ॥९१॥
राजमानं निवासादि लब्ध्वा हरिर्निजालयम् ।
आययौ कुंकुमवापीक्षेत्रं चेति समीरितम् ॥९२॥
उष्ट्रालये महादेशे हेमशालायनगृहे ।
विष्णुयज्ञः कृतो राज्ञा दक्षजवंगरेण वै ॥९३॥
राजकन्याशतं प्रजाकन्यकानां सहस्रकम् ।
प्रार्प्य कृष्णाय राजाद्याः कुंकुमवापिकां ययुः ॥९४॥
तीर्थं कृत्वा पुनरुष्ट्रालयं ययुर्विमानकैः ।
अथाऽऽययुर्दर्शनार्थं पितृकन्याश्च तास्तदा ॥९५॥
तासां विमाने रुरुधुः, राक्षसाः हरिणा हताः ।
प्राग्ज्योतिषप्रदेशेषु विमानेनागमो हरेः ॥९६॥
यज्ञस्याऽन्ते महायुद्धं तत्राऽसुरास्तु कोटिशः ।
विनाशितास्ततो राज्ये स्थापिता वैष्णवा नृपाः ॥९७॥
यज्ञं कृत्वा हरिः स्वीयं नगरं स्वतनौ तदा ।
दर्शयित्वा कन्यकाभ्यः स्वाकृष्टास्ताश्चकार ह ॥९८॥
लाशहासरितां मूर्तिप्रतिष्ठामहिमोदितः ।
नवधा भक्तिरूपाणि विघ्ननाशाः फलानि च ॥९९॥
साधूनां स्वात्मरूपत्वं श्रैष्ठ्यं सर्वत ईरितम् ।
भूतालयाऽऽसामकामरूपश्यामादिराज्यकम् ॥१००॥
निर्णीतं ब्रह्मराज्यं चाऽक्षरक्षेत्रागमस्ततः ।
पुष्पदोलोत्सवं चक्रे, जन्मोत्सवं चकार च ॥१०१॥
समीरणनृपस्यापि मृगयार्थं गतस्य वै ।
वने पार्ष्णिगृहर्षेस्तु शापेन शरभत्वकम् ॥१०२॥
रैवताद्रौ हरिदत्तात्रेयदर्शनतो गतम् ।
अश्वपट्टसरस्येतद् दत्तात्रेयसुतीर्थकम् ॥१०३॥
वाराहतीर्थकं चापि सोपाख्यानं समीरितम् ।
पवमानाख्यतीर्थं च जातमश्वसरोवरे ॥१०४॥
कच्छपरूपिणा सन्तारणाद्या ब्राह्मणा जले ।
मग्ना उद्धारिताः कच्छपाख्यतीर्थं ततोऽभवत् ॥१०५॥
देवायतनभक्तेन दिक्पालानां प्रजाः कृताः ।
मुक्ताः श्रीहरिनाम्नां वै श्रावणेनेति चेरितम् ॥१०६॥
राशियानादिदेशेषु राशिद्वादशकस्य वै ।
कथेरिता, च मुक्तिश्च, बालकृष्णसरोवरे ॥१०७॥
महायज्ञश्च कथितो देवायनाटनं तथा ।
यज्ञान्ते शिबिना कन्याशतदानं हि शार्ङ्गिणे ॥१०८॥
कृतं चाथ गुणार्थाः सम्वर्णिताः साधुयोगिनाम् ।
तीर्थान्युक्तनि सरसि पित्रुद्धारस्तथा कृतः ॥१०९॥
द्विकलाख्यसरोभूमौ यज्ञार्थं श्रीहरिर्ययौ ।
तत्र धर्मोपदेशश्च प्रेतानामुद्धृतिस्तथा ॥११०॥
राज्ञे नीत्युपदेशश्च तृतीयाध्वरमागतिः ।
यज्ञेऽर्कलोकवासानां वीरजारादिद्युसदाम् ॥१११॥
मुक्तिः प्रोक्ता तथा दानं कन्यानां चोपदेशनम् ।
अवभृथस्य तत्त्वार्थः कथितस्तत्फलादिकम् ॥११२॥
चतुर्थे तु क्रतौ पश्चात् स्वस्य मूर्त्यादि देशितम् ।
पञ्चमे तु क्रतौ सर्वाः पिशाचिन्यो हि तारिताः ॥११३॥
पिशाचित्वे कारणानि प्रोक्तानि मन्त्रदीक्षणम् ।
पूजाश्च दिव्यसद्रूपं स्वस्य तत्र प्रदर्शितम् ॥११४॥
लालासनाख्यसाधुर्वै यज्ञान्ते समुपाययौ ।
वैष्णवीं साधवीं दीक्षां स जग्राह हरेस्तदा ॥११५॥
अन्ये पञ्चसहस्राणि दीक्षामापुश्च साधवीम् ।
लालायनो ययावुत्तरान् कुरून् कृष्णवाञ्च्छया ॥११६॥
श्रीहरिः स्वकुटुम्बेन विमानेनाऽक्षरस्थलीम् ।
आययौ तत्र वै देवायनस्य मन्दिरात्मता ॥११७॥
दर्शिता हरिणा सांगदेवालयस्वरूपिता ।
देवालयस्य खाताद्यारभ्य ध्वजान्तमीरितम् ॥११८॥
स्वरूपं चान्तरीयका विभागाश्च स्फुटीकृताः ।
सिंहासनानि देवाद्याः प्रासादाभिन्ननामिनः ॥११९॥
मेरुजातीयप्रासादाः कार्त्स्न्येनापि प्रवर्णिताः ।
वेदानां देवतानां च मूर्तिमानानि वै तथा ॥१२०॥
आयुधादीनि वै चापि वर्णितानि ततः परम् ।
ध्वजादयश्च कथिताः कुण्डाश्च होमसंख्यया ॥१२१॥
वास्तुपुरुषसंस्थानं देवकर्माढ्यमीरितम् ।
आचार्यवरणं श्रीमद्गणेशादिप्रपूजनम् ॥१२२॥
देवानां स्थापनं नान्दीश्राद्धाद्यं च प्रपूजनम् ।
वास्तुपीठस्थदेवानां स्थापनं स्वस्तिवाचनम् ॥१२३॥
पूजनं योगिनीनां च क्षेत्रपालादिपूजनम् ।
स्तंभदेवार्चनं शाखातत्तद्देवादिपूजनम् ॥१२४॥
अग्निस्थापनकुण्डाङ्गयोनिग्रहादिपूजनम् ।
षट्पञ्चाशद्देवपूजा प्रत्यधिदेवतार्चनम् ॥१२५॥
लोकपालग्रहावाहनादिपूजनमीरितम् ।
योगिनीक्षेत्रपालादिनैकदेवाहुतिस्तथा ॥१२६॥
राधादिषट्कं पराविद्यादिचत्वारिंशदयुक्शतम् ।
परमेशावतारादि बलिदानेन चार्चितम् ॥१२७॥
नेत्रांजनाभरणादिनैकन्यासादि वर्णितम् ।
पूर्णाहुतिः शृंगस्नानं चरुश्रपणप्रभति ॥१२८॥
रथोपवेशनं ग्रामे भ्रामणं प्राणयोजनम् ।
आरार्त्रिकं पूर्णहोमश्चाशीर्वादा अवभृथम् ॥१२९॥
कलशारोहणं मानस्तंभध्वजाधिरोहणम् ।
चलमूर्तिप्रतिष्ठादि जोर्णोद्धारश्च कीर्तिताः ॥१३०॥
धनमेधधीवरस्य तुरीलक्ष्मीप्रसादतः ।
कुंकुमवापिकातीर्थान्मोक्षः श्रीहरिणा कृतः ॥१३१॥
शिबिकावाहवोढोश्च ज्ञानाप्तिस्तपसोदिता ।
द्युविश्रामकृषिकारगोधनं सिंहतोऽवितम् ॥१३२॥
हरिणा चेति कथितं चाथ वृकायनादयः ।
केतुमाले गतास्तत्र षष्टिगांगेयमेलनम् ॥१३३॥
केतुमाले महायज्ञः कथितो हरिणा कृतः ।
सर्वभूभृदुपप्राप्तिस्तद्देशेषु हरेर्गतिः ॥१३४॥
सर्वसृष्टिजनाऽऽयश्च मनोरञ्जनकान्यपि ।
रात्रौ, प्रातर्भोंजनानि मन्त्रदानानि कार्त्स्न्यतः ॥१३५॥
विधिवत् सर्वदेवादिपूजनं हवनं मखे ।
धृतानि हरिणा कोट्यब्जादिरूपाणि तत्र च ॥१३६॥
अवभृथकुमारोत्पत्तिश्च तृप्तिकुमारिका ।
उत्पन्नाऽस्यै कुमारस्य दानं विवाहतः कृतम् ॥१३७॥
अथोरलकेतुराजधान्यां सुस्वागतं हरेः ।
मोक्षणं भूभृत्पूर्वजानां श्रीहरिणा कृतम् ॥१३८॥
निजस्वरूपविज्ञानं सम्प्रदायस्य संस्थितिः ।
कथिताऽथ क्रथकस्य राजधान्यां हरेर्गतिः ॥१३९॥
मन्दिरादिककार्येषु कालाद्याः कीर्तिताः शुभाः ।
नक्षत्रयोगकरणचक्रचन्द्रभतारकाः ॥१४०॥
शुभाऽशुभाः सुकथिता मुहूर्तानीरितानि च ।
जरस्थाल्यां राजधान्यां स्वागतं पूजनं हरेः ॥१४१॥
षड्विंशतिनृपाणां प्राग्जन्मवृत्तान्त ईरितः ।
अथ प्रभुर्ययावुष्ट्रालराष्ट्रं सकुटुम्बकः ॥१४२॥
सत्कारं प्राप्य तीराणाराजधानीं ययौ ततः ।
योगिभ्यो गृहधर्माद्या इन्द्रेणोक्ताः प्रमोक्षदाः ॥१४३॥
पूजां प्राप्याऽऽययावल्वीनरराज्यं हरिस्ततः ।
अर्थश्रीनगरीं गत्वा मुक्तिं तुषितराक्षसे ॥१४४॥
दत्वाऽथ जिनवर्द्धिभूभृद्राजधानिकां ययौ ।
रामपुर्यां परिभ्रम्य जनहार्याख्यरक्षसः ॥१४५॥
विनाशार्थं ययौ चापिनायाऽद्रिं परमेश्वरः ।
राक्षसान् हतवान् रुद्रद्वाराऽद्रेश्चक्रवह्निना ॥१४६॥
आरसमयिता, कन्यादानग्रहोऽथ रक्षणम् ।
प्रजानां निगडस्थानां ततोऽवनमुदीरितम् ॥१४७॥
मृताऽस्थिभ्यो जीवदानं, जीवनीनगरीं गतिः ।
लिखितस्य शंखवाट्यां चौर्यं हस्तसुछेदनम् ॥१४८॥
बाहुदायां स्नानतस्तु हस्तयो रोहणं पुनः ।
जयकृष्णवभूपस्य वरणानगरीक्षणम् ॥१४९॥
कृत्वा हरिर्ययौ परीशानराज्यं ततोऽभ्रमत् ।
पावयित्वा ययौ परीजराष्ट्रं चापपूजनम् ॥१५०॥
वायूनानगरीयानम् इन्दिरावारिणा हरेः ।
स्नानं तत्र च वेतालानां तु प्रमोक्षणं कृतम् ॥१५१॥
राज्ञे चतुर्भुजं दत्तं दर्शनं च ततः परम् ।
मुद्राण्डराष्ट्रागमनं मद्रिरापुरिकेक्षणम् ॥१५२॥
पूजां प्राप्योपदिश्याऽथ शैवालनगरीक्षणम् ।
कृत्वा लीशवनं प्राप पत्तनं गण्डकेशितुः ॥१५३॥
पूजां प्राप्योपदिश्याऽथ ययौ लीनोर्णराष्ट्रकम् ।
भ्रमित्वा वारुणीपुर्यां धीवरापुरिकां ययौ ॥१५४॥
मिलीन्दानगरीं चापि भ्रमित्वा वालिनीपुरीम् ।
बललीननृपराष्ट्रे बहुमानमवाप ह ॥१५५॥
व्रतोपदेशनं वाशीलापुरीं गमनं ततः ।
पूजोपदेशो भ्रमणं रायगामलराष्ट्रके ॥१५६॥
गमनं तत्र च रिमानगर्यां स्वागतं महत् ।
फेनतन्तुनृपराष्ट्राऽऽगमनं पूजनादिकम् ॥१५७॥
भ्रामणं त्रिनयापुर्यां चोपदेशः प्रपूजनम् ।
ध्वांक्षदृष्टान्तमत्रोक्तं स्तोकहोमभुवं गतिः ॥१५८॥
उमापुर्यां विचरणं काष्ठयानस्य राष्ट्रकम् ।
भ्रमित्वा च तुन्नवायां नगर्यां चोपदेशनम् ॥१५९॥
ततः कोलकभूपस्य राष्ट्राभिगमनं हरेः ।
मुरमाषानगर्यां सुस्वागतं पूजनादिकम् ॥१६०॥
हरेः स्नानं बहुरूपैर्गांगेयकन्यकादिषु ।
ततो हारितदेशेषु त्वपरानाविकापुरे ॥१६१॥
दिनमानार्कराजर्षेर्गरिमापृथिवीतले ।
विमानेन ययौ स्वामी कृष्णनारायणः प्रभुः ॥१६२॥
अपरानाविकापुर्यां स्वागतं देशलोकनम् ।
केनाटकप्रदेशेषु विनिपारसरोगतिः ॥१६३॥
यज्ञार्थपत्रिकासम्प्रेषणं च यज्ञपत्तने ।
यज्ञे कार्यकराः प्रोक्ताः प्रतिमाः कृष्णयोषिताम् ॥१६४॥
स्फूर्तिनारीनगर्यां तु रायरोकीश्वरेच्छया ।
भ्रामणं चाप्यध्वरस्य स्थलीं प्रत्यागमः पुनः ॥१६५॥
विप्रस्वतःप्रकाशस्य सर्वद्रष्टृत्वमध्वरे ।
साक्षाद् देवा व्यराजन्त देवपूजाहवोऽनले ॥१६६॥
पूर्णाहुतिस्ततो रायरणजिद्राष्ट्रलोकनम् ।
विंशतिकन्यकापूजापुष्पमालाग्रहादिकम् ॥१६७॥
रायवाकक्षकभूभृद्राज्ये द्वीपत्रये गतिः ।
रायमारीशभूपभ्वां व्यचरद् द्वीपतुर्यके ॥१६८॥
रायबालेश्वरराष्ट्रे वायुफेनाख्यपत्तने ।
स्वागतं च ततो यज्ञमहापूर्णाहुतिः कृता ॥१६९॥
आशीर्वादा दक्षिणाद्या अवभृथं विदायकम् ।
रायलम्बरराज्येऽपि किमुवक्रापुरीं गतिः ॥१७०॥
रायनवार्कनृपतेः स्वर्लतिकापुरीं गतिः ।
रायहण्डेश्वरराष्ट्रे मक्षिकानगरीं गतिः ॥१७१॥
रायकूपेश्वरराष्ट्रे हवानायापुरीं गतिः ।
कालीमण्डलीनराष्ट्रे विगोष्ठिकापुरीं गतिः ॥१७२॥
वनज्वालाराष्ट्रके च सानुज्योष्ट्रीपुरीं गतिः ।
ततो गतैनसराष्ट्रे कायनीनगरीं गतिः ॥१७३॥
कोटीश्वरक्ष्मेशराष्ट्रे पेयिस्थायां गतिर्हरेः ।
पारूपराष्ट्रे सञ्जालानगर्यां स्वागतादिकम् ॥१७४॥
बालावित्तकराष्ट्रेऽगात् फान्कलाशीपुरे हरिः ।
आण्डजरानृपराष्ट्रे आन्तःप्रागस्थपत्तने ॥१७५॥
स्वागतं च ततो बाल्यरजोनृपस्य पत्तने ।
मन्त्रिणांगानगर्याख्ये स्वागतादि ततः पुनः ॥१७६॥
रायसोमननृपतेर्वायुमानापुरेऽपि तत्॥
पात्रगोनयराष्ट्रीयप्रजाभ्य उपदेशनम् ॥१७७॥
राजारायपतिराज्यम् आर्षजतनुराष्ट्रकम् ।
उरोगमनराष्ट्रं च ययौ श्रीभगवाँस्ततः ॥१७८॥
रायग्रामानगर्यां स्वागतं चाशासनापुरे ।
पराङ्व्रतनृपराज्ये स्वागतं भ्रमणं तथा ॥१७९॥
उपदेशोऽथ च ब्राह्मीलाख्यराष्ट्रे मखस्थले ।
आगमनं च देवानां स्थापनं पूजनादिकम् ॥१८०॥
आहुतिदानमंत्राऽथोपदेशादि प्रकीर्तितम् ।
ब्रह्मचर्यस्य माहात्म्यं तत्र यज्ञे प्रकीर्तितम् ॥१८१॥
सर्वात्मकत्वं स्वस्याऽपि महापूर्णाहुतिस्तथा ।
परिहारोऽध्वरस्याऽपि सप्तसरित्सु तीर्थता ॥१८२॥
लापलात्रीपुरीयानं सामुद्रदैत्यनाशनम् ।
विद्युन्मणिकरग्राहो द्विनेदिष्ठपुरे गतिः ॥१८३॥
त्रासमानद्वीपे वृन्दारुकाद्वीपे च सिंहले ।
पम्पासरसि चागत्य कुंकुमवापिकागमः ॥१८४॥
शरत्पूर्णारासखेलः स्वांगनाभिर्हरेस्ततः ।
चतुर्दशजन्मजयन्त्यष्टम्यामुत्सवः कृतः ॥१८५॥
दिव्यसभाऽद्भुततावर्णनं महःसमापनम् ।
तामसाक्षिश्वपचस्य सकुटुम्बस्य मोक्षणम् ॥१८६॥
अश्वरूपधरस्याऽऽश्वलायनर्षेः प्रशापतः ।
बर्बुरनृपतेर्बर्बुरद्रुत्वान्मोक्षणं कृतम् ॥१८७॥
कालीचतुर्दशीरात्रौ शंकरादिप्रपूजनम् ।
दीपावल्यां शारदाया उत्सवो हरिणा कृतः ॥१८८॥
सम्पर्कनृपरोगस्य नाशः श्रीहरिणा कृतः ।
दत्तात्रेयस्वरूपेण तीर्थं चापि कृतं शुभम् ॥१८९॥
अन्नकूटोत्सवः प्रोक्तस्ततो हंसस्वरूपिणा ।
पुण्डरीकनृपमुक्तिस्ततो नृहरिरूपिणा ॥१९०॥
चोलराज्ञोऽपि मुक्तिश्चेरिता तीर्थद्वयं तु तत्॥
वीतिहोत्रयोगिना वै सहस्ररूपधारिणा ॥१९१॥
सहस्ररूपतश्चापि ऋषभस्यापि रूपतः ।
दर्शनं हरिणा दत्तं स्तुतिश्चापि समीरिता ॥१९२॥
सरस्तीरे कृते वैवस्वतेन शेषमन्दिरे ।
शेषसंकर्षणपतञ्जल्यादिस्थापनोदिता ॥१९३॥
तत्तत्तीर्थं तथा प्रोक्तं वामनांगुष्ठतीर्थकम् ।
पंकिलर्षिप्रसंगेन जातं समभिव्याहृतम् ॥१९४॥
हैमकल्गिनृपात् प्रोक्तः पर्शुरामपराभवः ।
अश्वपारत्ननृपकृत् सोमयागो निरूपितः ॥१९५ ॥
प्रवर्ग्योपसदौ सुब्रह्मण्याह्वानं निरूपितम् ।
सवनानि महापूर्णाहुतिश्चावभृथादि च ॥१९६॥
श्रद्धोपनिषद्विज्ञानं विशालिकनिदर्शनम् ।
लोमशर्षेराश्वपाटलयोः संवाद ईरितः ॥१९७॥
सेयं लोमशगीतोक्ता सर्वमोक्षनिदर्शिनी ।
अस्यामानर्तराजस्य कुशलायोगिनीस्त्रियाः ॥१९८॥
संवादोऽपि दर्शितोऽथ स्वतःप्रकाशयोगिनः ।
पूर्ववृत्तान्त उदितश्चोपदेशो गुरोरपि ॥१९९॥
भाणवीर्यभक्तकथा रामादित्यनिमित्तजा ।
ऊर्जव्रतस्य कायस्थस्य कुष्ठरोगनाशनम् ॥२००॥
शूद्रस्य मूकविप्रस्य शार्ङ्गधराख्यसंहिता ।
कृतिरुक्ताऽऽख्यानयुक्ता तपसा भावितात्मनः ॥२०१॥
पार्ष्णिरदस्य शूद्रस्य क्षयरोगो निवारितः ।
अर्कपुरीशितुर्विप्रशापेन सर्पता ततः ॥२०२॥
विप्रस्य सर्पदंशश्च मृतिः कृष्णात्तु जीवनम् ।
रक्षांगारकनृपतेः राणिकायाः कथेरिता ॥२०३॥
अमोहाक्षनृपमोक्षः प्रबुद्धगुरुवाक्यतः ।
अभयाक्षनृपस्यापि त्यागिदीक्षानिरूपणम् ॥२०४॥
सरोवारिमग्नदेवानीकरक्षोदिता ततः ।
ब्रह्मस्तम्बाख्यविप्रस्य पुरुषोत्तमदर्शनम् ॥२०५॥
अमरीं कन्यकां तुष्टो महाविष्णुः समुद्वहत्॥
गजतो रक्षणं कूप्यवालकाष्ठहरस्य च ॥२०६॥
कुंकुमस्य सतीशाया धन्येश्वर्या उदन्तकम् ।
चैत्यब्रह्मद्विजस्यापि चमत्काराः प्रकीर्तिताः ॥२०७॥
हरिकृष्णनरनारायणतीर्थं तथोदितम् ।
माणिकीतीर्थमय चाश्वपट्टाभिधनिश्चयः ॥२०८॥
अश्वपाटलसंज्ञस्य साधुदीक्षोदिता ततः ।
काशीतः शिवशंभुप्रेषितयोगाख्यपत्रिकाम् ॥२०९॥
नीत्वा बृहस्पतिश्चापि नारदः प्रापतुर्हरिम् ।
कन्यैश्वर्यगुणदिव्यलक्षणान्याह नारदः ॥२१०॥
योगपत्री प्रतिपत्री दर्शिते गुणगर्भिते ।
मण्डपो वर्णितो दिव्यो माणिक्यस्तंभपूजनम् ॥२११॥
कलशस्य गणेशस्य मातृकाणां च पूजनम् ।
वास्तोर्विष्णोः कुलदेवसर्वतोभद्रपूजनम् ॥२१२॥
फलादेशान्वितं प्रोक्तं महामण्डपवर्णनम् ।
कुंकुमपत्रिकासम्प्रेषणं ताम्बूलकोत्सवः ॥२१३॥
रात्रौ गीतिनृत्यवाद्यमल्लकाव्याऽदनोत्सवाः ।
पिष्टिकामर्दनं शृंगारो हरेश्च जनागमः ॥२१४॥
काशीयात्रासज्जता चाऽसंख्यकन्यासुसज्जता ।
योगवाहिनिका काशीं प्राप्ता शिवपुरे स्थिता ॥२१५॥
पार्वतीपुरमप्यत्र वर्णितं शिवपत्तनम् ।
सम्मानं कुशलप्रश्नाः कैलासस्याऽवतारणम् ॥२१६॥
शिवपुर्यामथ पूजा कुलदेव्यास्तथा हरिः ।
कृष्णरूपेण च राधारूपेण च परीक्षणम् ॥२१७॥
चक्रे कन्या न देयैति बालकृष्णाय सर्वथा ।
शिवशंभुपुरोऽथाऽपि गिरिजायाः पुरोऽपि च ॥२१८॥
लक्ष्म्याः पुरोऽपि हरिणा प्रोक्त्वा दार्ढ्यं परीक्षितम् ।
कन्यार्थाऽम्बरभूषादिप्रेषणं समवर्णितम् ॥२१९॥
वर्णनं योगवाहिन्या पार्वत्यै दर्शितं ऋचा ।
मुमुहुर्दर्शकनार्यः कृष्णांगेषु प्रवीक्ष्य तम् ॥२२०॥
विश्रान्तिमन्दिरे कृष्णस्याऽभवन्मधुपर्ककः ।
कन्यकानां सुशृंगारो हरेर्मण्डप आगमः ॥२२१॥
कोट्यर्बुदाब्जरूपैश्च हरिः कन्याः समग्रहीत् ।
विधिः सर्वः कृतश्चापि कान्तोद्देशः प्रकीर्तितः ॥२२२॥
सर्वरूपादिविलयो प्रोद्वाहविधिपूर्णता ।
सर्वाभिः सह शयने विहारे नैकरूपतः ॥२२३॥
प्रातः फुल्लकयात्रा च योगग्रन्थिविमोचनम् ।
गंगायां सर्ववर्गेभ्यः पारितोषादिकाऽर्पणम् ॥२२४॥
पञ्चगंगातटे बालकृष्णाभिधसुतीर्थकम् ।
शंभवे भिक्षिकादानं शिवपत्तनमागमः ॥२२५॥
सत्कारपूजनं चापि विदायः क्षान्तियाचना ।
कुंकुमवापिकाक्षेत्रमागमो योगयात्रिणाम् ॥२२६॥
गृहप्रवेशः कान्तानां विहारोऽथ विनोदनम् ।
गुरुमन्त्रग्रहणं च वनानामवलोकनम् ॥२२७॥
द्यौः कन्यारूपिणी लीलां कोट्यर्बुदाब्जरूपिणः ।
कान्ताभिः रममाणस्य हरेर्दृष्ट्वा मुमोह सा ॥२२८॥
अथ सर्वकन्यकानां समाधिं हरिरैरयत् ।
सृष्टित्रयाक्षरधामादिकं त्वदर्शयद्धरिः ॥२२९॥
महीमानविदायं च मिथः क्षमादियाचनम् ।
मातृभिर्भिक्षिताः कन्याः सर्वाः श्रीहृरिणाऽर्पिताः ॥२३०॥
मण्डपादिपरिहारो लक्ष्मीसेवा सुरीतिका ।
जन्मोत्सवे षोडशे स्वसतीनां पुनरागमः ॥२३१॥
शिवशंभ्वादिमोक्षस्त्रेतासन्तानश्रुतेः फलम् ।
त्रेतासन्तानविषयोद्देशः खण्डसमापनम् ॥२३२॥
त्रेतामाहात्म्यमुक्तं च संक्षिप्ता विषयास्त्विमे ।
त्रेतासन्तानके राधे वर्णिता मोक्षदाः खलु ॥२३३॥
नृपाणां चापि भक्तानां यज्ञानां योषितां तथा ।
तीर्थानां च कथा दिव्याः सन्ति चात्र सहस्रशः ॥२३४॥
वै द्वात्रिंशत्सहस्राणि श्लोकाः सन्तानकेऽत्र च ।
अध्यायास्त्रिशतान्येव परब्रह्मपरायणाः ॥२३५॥
पठनाच्छ्रवणाच्चापि स्मरणात् कीर्तनादपि ।
रक्षणाद्वा गृहे भुक्तिमुक्तियुक्ता भवन्ति हि ॥२३६॥
कृताध्यायाः पञ्चशतं नवतिश्चेति संहिताः ।
त्रेताध्यायैस्तेऽष्टशतं नवतिश्च भवन्ति हि ॥२३७॥
सप्ताशीतिसहस्राणि श्लोका भवन्ति संहिताः ।
अथोत्तरं तृतीयो द्वापरसन्तानकाभिधः ॥२३८॥
खण्डः सम्पत्स्यते राधे! कृष्णन्रायणगोचरः ।
षोडशाब्दात्मकावस्थकृष्णस्वरूपवर्णनः ॥२३९॥
कृष्णकान्ता योषितश्च नराः कृष्णस्य सेवकाः ।
भवन्त्येतत्कथायोगाच्छ्रीकृष्णोऽहं ब्रवीमि वै ॥२४०॥
स्वस्ति वोऽस्तु परब्रह्म श्रीकृष्णः स्वस्ति वः क्रियात् ।
माता पिता पतिः पत्नी स्वस्ति वंशा भवन्तु वः ॥२४१॥
वाचकायाऽस्य सर्वस्वं देयं व्यासाय मुक्तये ।
स्मृद्धये श्रद्धया दिव्यबुद्ध्या श्रोतृभिरो नमः ॥२४२॥
स्वर्णं रत्नानि शय्यादि हीरका मौक्तिकानि च ।
गजवाजिगवादीनि विमानं वाहनानि च ॥२४३॥
यानं सौधं वाटिकादि देयं व्यासाय शार्ङ्गिणे ।
श्रीकृष्णोवल्लभःस्वामिस्वरूपो व्यास एव यत् ॥२४४॥
सौभाग्यानि समस्तानि देयान्यस्मै प्रशृण्वता ।
धनसम्पत्पुत्रपत्नीराज्यमानं हि लभ्यते ॥२४५॥
ब्रह्मप्राप्तिकरं शास्त्रं सर्वविद्याप्रसंभृतम् ।
त्रेतासन्तानकं कृष्णात्मकं विजयतेतमाम् ॥२४६॥
सर्वदुःखविनाशोऽस्य श्रवणाद् दानतस्तथा ।
सर्वशान्तिसमायोगः सर्वसिद्धिप्रसंजनम् ॥२४७॥
विद्याभूकन्यकास्वर्णदानानां फलदा श्रुतिः ।
मोक्षदानफलदा च कृष्णस्वाम्यप्रदायिनी ॥२४८॥
ओमार्यः कम्भराबालः सर्वस्वामी सतीश्वरः ।
सतां रूपः परमात्मा जयत्यहर्निशं प्रभुः ॥२४९॥
तस्मिन्नेव परे ब्रह्मण्यर्पितोऽयं द्वितीयकः ।
सन्तानः सन्तनोत्वत्र शश्वत्त्वं सुभगं व ओम् ॥२५०॥
वै द्वात्रिंशत्सहस्राणि द्वे शते च शतार्धकम् ।
चत्वारश्च भवन्त्यत्र श्लोकास्त्रेतासुतानके ॥२५१॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लक्ष्मीनारायणमहिमा, त्रेतासन्तानखण्डस्थविषयाणां संक्षिप्तनिर्देशः, द्वापरसन्तानप्रस्तावः, आशीर्वादाश्चेति निरूपणनामा त्रिशततमोऽध्यायः ॥३००॥
इतिश्रीलक्ष्मीनारायणसंहितायां द्वितीयस्त्रेतायुगसन्तानखण्डः समाप्तः
ॐ श्रीकृष्णनारायणस्वाम्यर्पणमस्तु
N/A
References : N/A
Last Updated : May 02, 2021
TOP