संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २४३

त्रेतायुगसन्तानः - अध्यायः २४३

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
श्रूयतां च त्वया राधे वामदेवस्य कन्यकाः ।
पञ्च विज्ञाय वै भ्रातुर्वासं त्वश्वपट्टसरोवरे ॥१॥
मातरं दिव्यमुक्तानीं सत्यलोके स्थितां सदा ।
पृष्ट्वा समाययुः सर्वाश्चाऽश्वपट्टसरोवरम् ॥२॥
अनादिश्रीकृष्णनारायणं श्रीकृष्णवल्लभम् ।
द्रष्टुं च वरितुं चापि लब्धुं च कृतकृत्यताम् ॥३॥
दिव्यदेहाः कौमुदिका यथा चान्द्र्यस्तथाविधाः ।
कृतशृंगारसर्वस्वा नारायणस्य तुष्टये ॥४॥
मायांशवर्जिताश्चापि परब्रह्मांशमोहिताः ।
व्योममार्गेण सहसा चिरंजीव्यः समाययुः ॥५॥
मार्गशीर्षस्य वै षष्ठ्यां कृष्णे दलेऽक्षरक्षितौ ।
आगत्य भ्रातरं नैजं नेमुश्च वामनं प्रभुम् ।
पुपूजुः परया प्रीत्या भ्राता स्वागतमाचरत् ॥६॥
मात्राज्ञां चानुजायापि कथयामासुरेव ताः ।
भ्राता प्रसन्नतां प्राप्तो भगिन्यो यद्धरिप्रियाः ॥७॥
यासां प्रसादतो जाता पञ्चकल्पान्तजीविता ।
तासां नारायणीत्वं वै श्रुत्वा मुमोद चाति हि ॥८॥
सप्तम्यां प्रातरेवैताः कृत्वा शृंगारशोभनाम् ।
मात्रा समं ययुः श्रीमद्बालकृष्णालयं प्रगे ॥९॥
सपूजाद्रव्यहस्ताश्च वरमालान्वितास्तथा ।
सर्वस्वार्पणभावाश्च कृष्णवल्लभसन्निधौ ॥१०॥
तत्र स्थितां मातरं श्रीकम्भरां प्रथमं तु ताः ।
पुपूजुः परया प्रीत्या ददुः परिचयं निजम् ॥११॥
पितरं चापि नत्वैव स्वसारं चाग्रजावपि ।
अमृतां भ्रातृपत्नीं च ततो नारायणं मुहुः ॥१२॥
नत्वा नत्वा पूजनं सप्रचक्रुर्बहुवस्तुभिः ।
भ्रात्रा निवेदितास्तास्तु सर्वस्वार्पणमागताः ॥१३॥
हरिर्भावं विलोक्यैव तथास्त्विति समग्रहीत् ।
भ्रात्रा पंकिलमुनिना तासां करा हरेः हरे ॥१४॥
अर्पिताः श्रीहरिं प्रेम्णा करान् जग्राह वै तदा ।
आपस्तम्बी प्रथमा च द्रुमस्तम्बी द्वितीयका ॥१५॥
मरुत्स्तम्बी तृतीया च फेनस्तम्बी चतुर्थिका ।
धूम्रस्तम्बी पञ्चमीति पत्न्योऽभवन् हरेः प्रियाः ॥१६॥
पूजयित्वा निजं कान्तं वरमाला ददुर्गले ।
हरिः पार्श्वे निजे ताश्च निषाद्य वरमालिकाः ॥१७॥
तासां कण्ठेष्वधात्तत्र प्रसादं प्रददौ ततः ।
ताश्च भुक्त्वा सह भ्रात्रा लोमशस्याऽऽश्रमं ययुः ॥१८॥
निदेशतो हरेः राधे ब्रह्मप्रियासु चाऽवसन् ।
इत्येवं प्राप्य राधेशं राधावत् ताः सदाऽभवन् ॥१९॥
अथाऽन्यत्पावनं रम्यं प्रिये शृणु कथानकम् ।
स्वर्णांगदस्य राज्ञो वै सौराष्ट्रीयस्य वंशजः ॥२०॥
हैमकल्गिनामवाँश्च राजाऽभूद् धर्मवर्मवान् ।
अनादिश्रीकृष्णनारायणभक्तो हि सात्त्वतः ॥२१॥
भजते श्रीपतिं नित्यं क्रियास्वपि दिवानिशम् ।
मालां न दूरमाधत्ते स्मरणं न त्यजत्यपि ॥२२॥
भोजने शयने कृष्णं हृदये संप्ररक्षति ।
बालकृष्णेति कृष्णेति हरिकृष्णेति वै मुहुः ॥२३॥
अनादिश्रीकृष्णनारायणेत्याह दिवानिशम् ।
वाक्यान्ते बालकृष्णेति कांभरेयेति सर्वदा ॥२४॥
प्रवक्त्येवेति रटणं करोति परमात्मनः ।
तस्य पूजनवेलायां यत्र क्वापि गृहे वने ॥२५॥
सरस्तटे समुद्याने मण्डपे मन्दिरेऽथवा ।
निर्जने सजने मर्दे रहो वा प्रेमबन्धनः ॥२६॥
बालकृष्णो हि साक्षाद्वै गत्वा तिष्ठति चाग्रतः ।
गृह्णात्येवाऽर्पितद्रव्याण्यखिलानि प्रपूजने ॥२७॥
नैवेद्यं च फलं खाद्यं पायसाद्यं च पूरिकाः ।
सर्वं भुक्त्वा बालकृष्णः शेषं ददाति भूभृते ॥२८॥
ततस्तिरोभवत्येव राजा गृह्णाति भोजनम् ।
इत्येवं हेमकल्गेर्वा भक्त्या श्रीपतिरीश्वरः ॥२९॥
वशस्तस्य वर्तते स्म राधिके सुप्रसादितः ।
राज्ञी तस्य कुमुदाक्षीनाम्नी तथैव वर्तते ॥३०॥
सापि शीघ्रं समुत्थाय स्नात्वाऽन्नं मिष्टमुत्तमम् ।
पाचयत्येव भक्त्याढ्या बालकृष्णस्य तुष्टये ॥३१॥
पायसान्नं गवां क्षीरं सशर्करं सहौदनम् ।
पूरिका घृतपक्वाश्च तथाऽन्यद् ऋतुसम्मतम् ॥३२॥
गुन्द्रपक्वान्नमेवापि लड्डुकान् माषपिष्टजान् ।
कृत्वा ददाति प्रातर्वै राज्ञे पूजानिवेदने ॥३३॥
ताम्बूलकं जलं मिष्टं मधुरं शीतमुष्णकम् ।
यथाकालं ददात्येवाऽभ्यंगद्रव्याणि यानि च ॥३४॥
नित्यं सा गायति सौधे सखीमध्ये सुकीर्तनम् ।
सख्यस्तामनुगायन्ति तालीवादयुताः सह ॥३५॥
श्रीबालकृष्णो जनसौख्यकारीश्रीकांभरेयो जनपापहारी ।
राजाधिराजो मम भाग्यधारी गोपालबालो जयते मुरारिः ॥३६॥
राधाविहारी भवभीतिहारी गोपीविचारी मम भोज्यकारी ।
स्नेहप्रसारी निजभक्ततारी नारीजनाऽऽर्तिक्षपणप्रकारी ॥३७॥
चक्षुःप्रकाशी हृदयाभिकाशी विज्ञानवासी बहुधामवासी ।
मायाविपाशी निजभक्तदाशी सेवाभिलाषिप्रसरत्प्रकाशी ॥३८॥
भक्तेर्विकासी निजरूपवासी लोकेऽस्युदासी वदतीति दासी ।
सा पालनीया सततप्रवासी गृहाभिवासी भव मेऽन्तरासी ॥३९॥
इत्येवं राधिके नित्यं राज्ञीं सखीसमायुता ।
गायत्येवाऽर्थयत्येव गुणान् गुणिनमेव तम् ॥४०॥
बालकृष्णोऽपि तच्छ्रुत्वा जायते तुष्टमानसः ।
एवं काले गते कृष्णो ददौ वर्मभयच्छिदम् ॥४१॥
यद् धृत्वा निर्भयश्चास्ते राजा राज्ञीयुतः सदा ।
महाकालोऽपि तद्वर्म दृष्ट्वा प्रयाति दूरतः ॥४२॥
योगसिद्धिप्रबन्धं तन्मध्यकौस्तुभराजितम् ।
परितः प्रान्तभागेषु चाष्टैश्वर्यसमन्वितम् ॥४३॥
मस्तके वर्मणो यस्य राजते तु सुदर्शनम् ।
स्कन्धे गदा च कुक्षौ तु पाशो यस्य विराजते ॥४४॥
एतादृशं सुवर्णातिसुवर्णं तैजसं मृदु ।
क्रूरं च रक्षणे सौम्यं दर्शने धारणे लघु ॥४५॥
वर्म वस्त्रस्वरूपं वै बालकृष्णेन चार्पितम् ।
राजा दधार तद्वर्म नैरन्तर्येण कञ्चुकम् ॥४६॥
यस्माज्जरा प्रयात्येव दूरं दण्डो यमस्य च ।
संकर्षणस्य संहारो दूरं यात्यपि वर्मतः ॥४७॥
पाशो वरुणदेवस्य भयं प्राप्नोति वर्मणः ।
कवचाच्छंकरगणा वेपन्ते मार्गगा अपि ॥४८॥
मृत्युर्मृत्युपदं याति यदि वर्मपथं गतः ।
तादृशं बालसामर्थ्ययुतं तु कवचं हि तत्। ॥४९॥
राधिके नृपतिर्धृत्वा मुक्तवन्मोदते भुवि ।
यस्य कृष्णः स्वयं पार्श्वे का भीतिर्वद राधिके ॥५०॥
यस्य नारायणः पार्श्वे का भीतिर्वद भामिनि ।
राधिकेव रमेवाऽयं निर्भीको नृपतिर्वने ॥५१॥
अरण्ये विहरत्येव भजन् कृष्णनरायणम् ।
अथ राजा ययौ व्याघ्रारण्ये विहर्तुकाम्यया ॥५२॥
सिंहारण्यं ततश्चापि ययौ व्योम्ना विमानगः ।
प्रययौ दण्डकारण्यं धर्मारण्यं ततो ययौ ॥५३॥
नैमिषारण्यकं चापि माहेन्द्रारण्यमित्यपि ।
एवं विहृत्य वै राज्ञ्या साकं सौराष्ट्रकं ययौ ॥५४॥
तद्विमानं महत् क्षात्रतेजोभृतं विलोक्य तु ।
पर्शुरामः क्षत्रहन्ता चकम्पे कालनोदितः ॥५५॥
महेन्द्रपर्वताच्छ्रीघ्रं गृहीत्वा परशुं निजम् ।
धनुर्धृत्वा शराँश्चापि खड्गं धृत्वाऽतिरोषवान् ॥५६॥
निपपात विमानस्य पृष्ठे व्योम्ना स सत्वरम् ।
महातेजःप्रगोलो वै पृष्ठे त्वायाति शीघ्रगः ॥५७॥
राजा नैतत्प्रजानाति निर्भयो हि विमानगः ।
प्रजानां हृदयेष्वासीत् क्षोभोऽनिलेऽन्तरीक्षके ॥५८॥
ग्रहचक्रं तदाक्षुब्धं चासीत् भाविभयंकरम्।
चकम्पे पृथिवी चापि तदा तेजोद्वयाऽसहा ॥५९॥
सम्पाते प्रलयो भावी तेजसोरविनाशिनोः ।
एवं त्रेसुस्तदा देवा दिव्यनेत्राश्च योगिनः ॥६०॥
महर्षयोऽतिसंविग्नास्तदासन् भाविभीतितः ।
दिक्पालाः क्षेत्रपालाद्याः क्षयं लोकस्य मेनिरे ॥६१॥
प्रतुष्टुवुस्तदा सिद्धा विष्णुं नारायणं प्रभुम् ।
मा भूद्वै जगतां नाशः पर्शुवर्मसमागमे ॥६२॥
अथ राज्ञो विमानं तु मनोवेगं क्षणाद् द्रुतम् ।
अश्वपट्टसरस्तीरं समायातमवातरत् ॥६३॥
राजा चक्रे जलपानं बालकृष्णं मुदा स्मरन् ।
राज्ञी पानं प्रचक्रेऽपि पाययित्वा निजं प्रभुम् ॥६४॥
तावदाकाशमार्गेण सूर्यवत् क्रूरगोलकः ।
तेजोमयो रक्तवर्णः सत्वरं समवातरत् ॥६५॥
पृथिवी चुक्षुभे वारि सरसश्चुक्षुभे तदा ।
भयं तु मेनिरे तीर्थवासिनः कष्टमागतम् ॥६६॥
तर्कयन्ति व्योममार्गे दृष्ट्वा परशुगोलकम् ।
ग्रहो वा क्षुभितश्चायं भ्रष्टो वा स्थानतो निजात् ॥६७॥
सूर्यखण्डोऽथवाऽऽयाति वह्निज्वालासमन्वितः ।
यद्वा वह्निः स्वयं चास्ते किं वा कोपसमन्वितः ॥६८॥
किंवा संकर्षणो देवः शेषो वाऽऽयाति रोषवान् ।
ब्रह्मशस्त्रं च वा क्षिप्तं केनचिदप्यवारितम् ॥६९॥
लोकानामपुनर्भावायाऽऽयात्यत्र तु वा किमु ।
यद्वा वै वाडवश्चाग्निः समुद्रादुत्थितः पुनः ॥७०॥
दग्धुं लोकान् समायाति को वाऽयं क्रूरदर्शनः ।
इत्येवं चाऽतर्कयँश्च मानसानि हि देहिनाम् ॥७१॥
तावत् सन्निधिमापन्नः स्फुटमूर्तिरदृश्यत ।
विकरालाननो हस्ते परशुध्रग्जटाधरः ॥७२॥
सकच्छः सायुधश्चापि ब्रह्मसूत्रसमन्वितः ।
स्फारचक्षुःप्रदंष्ट्रौष्ठप्रान्तश्चोत्फुल्लविग्रहः ॥७३॥
कोऽयं क्षात्रकुले चास्ते जीवति पर्शुयोगिनि ।
विमानेन विनाशाय प्रच्छन्नोऽत्र प्रकाशते ॥७४॥
इत्येवं व्याहरँस्तूर्णं सरस्तटमवातरत् ।
तावक्त्रोकैः स विज्ञातः पर्शुरामोऽन्तकृद् द्विजः ॥७५॥
दुद्रुवुर्मानवा भीताः पशवः पक्षिणोऽपि च ।
हैमकल्गेर्विमानाग्रे पर्शुध्रः समुपस्थितः ॥७६॥
आश्वपट्टतटे रम्ये गर्वगंजनशार्ङ्गिणः ।
बालकृष्णस्याऽऽक्षराख्ये क्षेत्रे कौपीनभूसुरः ॥७७॥
यावद् भूमौ पदं नैजं धृतवान् पर्शुधारकः ।
तावदंगुष्ठस्य नखः कंकरेण विभेदितः ॥७८॥
जातं विप्रस्य वै तच्चाऽमांगल्यं विजयार्थिनः ।
तथापि मानभावेन हन्तुं हैमं समाययौ ॥७९॥
कस्त्वं क्षत्रियदायाद मत्पर्शुक्षुत् प्रशिष्यसे ।
वद शीघ्रं प्रयुद्धस्व यमलोकाभिगो भव ॥८०॥
इत्युक्तो नृपतिर्हैमः शीघ्रं क्षात्रेण तेजसा ।
विप्रस्य तु यथा न स्यादपराधो जगाद तम् ॥८१॥
विप्राः पूज्या जामदग्ने मा क्षत्रेण पराभवः ।
मा त्वं पूज्यश्च प्रयुङ्क्ष्वाऽत्राऽस्थाने पर्शुं बलं च वा ॥८२॥
सम्भावितस्य चाऽस्थाने पराभवो गुरुर्मृतः ।
क्षात्रोऽहं ब्राह्मणे विप्र नापराद्धुं प्रकांक्षये ॥८३॥
मा रोषं कुरु विप्रेन्द्र मा पुण्यं क्षालय द्विज ।
पूज्योऽस्यवध्य एवासि चातताय्यसि भूसुर ॥८४॥
तस्मात्पूजां प्रगृह्णासि क्षन्तुमर्हसि चानयम् ।
इत्युक्त्वा हैमराजो वै विप्रं पूजयितुं पुरः ॥८५॥
यावद्गच्छति राधे स तावत्पर्शुधरो द्विजः ।
हन्तुं प्रतत्परो जातो रोषतो युद्धमुद्रया ॥८६॥
हैमकल्गिद्रुतं स्मृत्वा श्रीमत्कृष्णनरायणम् ।
पर्शुध्रं बन्धयामास सुदर्शनीयरश्मिभिः ॥८७॥
चक्रं सुदर्शनं दिव्यं श्रीहरिणाऽर्पितं तु यत् ।
तत् स्वकिरणैर्वाह्नेयैर्जालं कृत्वा बबन्ध तम् ॥८८॥
पर्शुरामं सरोषं वै सायुधं सबलं क्षणात्॥
पर्शुध्रस्तेजसा तत्र चक्रस्याऽऽवृतशक्तिकः ॥८९॥
जड इव क्षणाज्जातः पतात पृथिवीतले ।
राजा प्राह क्षमस्वाऽत्र श्रीमान् मामपराधिनम् ॥९०॥
विप्रेऽवमानकर्तारं मुञ्च क्रोधं द्रुतं व्रज ।
पर्शुध्रः प्राह मुञ्चस्व न मे शक्तिः प्रवर्तते ॥९१॥
राजँस्तव प्रसन्नोऽस्मि वरदानं ददामि ते ।
पाशान् जालान् चक्रदेवं पूजयामि व्रजामि च ॥९२॥
द्रुतं मुञ्चस्व मां दह्यमानं चक्रस्य रश्मिभिः ।
राजा प्राह हरेर्भक्तं मा जिघांसतु वै भवान् ॥९३॥
क्षात्रं विप्रात् समुत्पन्नं भक्तं विप्रो न हन्तु तत् ।
वरं त्वेकं पालयस्वाऽपरं चात्रैव संवस ॥९४॥
अश्वपट्टसरःक्षेत्रे तिष्ठ मूर्तिस्वरूपधृक् ।
इत्युक्तः पर्शुरामो वै वरौ द्वौ प्रददौ तदा ॥९५॥
राज्ञा तु मन्दिरे पर्शुरामः संस्थापितस्ततः ।
स्नापितोऽश्वजले चापि पूजितश्चोपचारकैः ॥९६॥
राधिके तु ततस्तत्र परशुरामतीर्थकम् ।
पूर्वदिशि समभवत् हैमकल्गिप्रतीर्थकम् ॥९७॥
पर्शुरामो हरिं पूजयित्वा ययौ हि मन्दरम् ।
मूर्तिरूपस्तत्र नित्यं त्वास्तेऽश्वपट्टसागरे ॥१८॥
राजा ततो ययौ श्रीमत्कृष्णनारायणं प्रभुम् ।
पूजयित्वा हरिं नत्वा कथयित्वा ह्युदन्तकम् ॥९९॥
कृत्वा तीर्थं ययौ नैजां राजधानीं हिमावतीम् ।
अत्र तीर्थे स्नानदानाचमनैर्विजयो भवेत् ॥१००॥
पठनाच्छ्रवणाद् वाऽस्य दोषा नश्यन्ति वै हृदः ।
भुक्तिर्मुक्तिर्भवेच्चाप्यारोग्यं धनं सुतं लभेत् ॥१०१॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वामदेवीयपञ्चकन्यानां श्रीकृष्णनारायणकान्तलब्धिः, हैमकल्गिनृपस्य भक्त्या हरेर्नित्यं प्रत्यक्षम्, नृपात्
पर्शुरामपराभवः, अश्वपट्टसरसि परशुरामतीर्थं हैमकल्गितीर्थं चेत्यादिनिरूपणनामा त्रिचत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४३॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP