त्रेतायुगसन्तानः - अध्यायः १२५
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
एवं बालकृष्णसरस्तटे कृत्वा क्रतुं हरिः ।
बालकृष्णः स्वनाम्नैव वालकृष्णसरोऽकरोत् ॥१॥
असंख्यदेहधारिभ्यो दत्वा मनुं च दर्शनम् ।
कृत्वा तान्पावनान्पश्चाद्भोजयित्वा जनानपि ॥२॥
तृतीयायां जनान् सायं चाजिज्ञपत्प्रभुः स्वयम् ।
शिबिदेवो महाराजो मुक्तवद् वर्तते भुवि ॥३॥
शिबिराज्यं वैष्णवं च मत्कृपावशतोऽभवत् ।
श्रीसम्पद्द्रव्यभोग्यादिसंभृताश्च शिबेः प्रजाः ॥४॥
भवन्तु सुखपात्राणि मा तासां स्याद्धि निम्नता ।
मा स्याद् दुःखं क्वचिच्चापि स्यात् सदाऽभ्युदयः किल ॥५॥
भवतीनां प्रजानां च राज्ञोऽपि भवतात् सदा ।
राजवंशे प्रजानां च मम भक्तिः सदाऽस्तु च ॥६॥
अथ कर्तुं द्वितीयं तु मखं यान्तु प्रजाजनाः ।
सेवकाः ऋषयश्चापि थर्कूटस्थनृपादयः ॥७॥
थर्कूटस्थभूपराज्ये साहाय्यार्थं प्रयान्तु च ।
नैजो धर्मः पालनीयो भवद्भिर्भक्तिसंयुतैः ॥८॥
सतां गुणाश्चार्जनीयाः सुखदा दिव्यशान्तिदाः ।
स्वस्वरूपे ब्रह्मरूपे स्थितिः कार्या हि सर्वदा॥९॥
सत्यं यथार्थवक्तृत्वं पालनीयं हितप्रदम् ।
शौचं सदात्मनः शुद्धिश्चान्तराणां प्रशुद्धितः ॥१०॥
पालनीया सदा भक्तैरकालुष्यं तु पापकैः ।
दया कार्या तु जीवेषु तेषां दुःखनिवारिका ॥११॥
क्षान्तिः रक्ष्या सापराधजनेष्वपि सहिष्णुता ।
चित्तसंयमरूपा च सदाऽनुद्वेगशालिनी ॥१२॥
त्यागो रक्ष्यः सदा दानं पूर्णकामत्वयोगतः ।
मायिकेषु तु भोग्येषु त्वनादरः प्रशान्तिदः ॥१३॥
अर्थिषु मुक्तकरता प्राप्तेष्वपि न लुब्धता ।
सन्तोषश्च निजानन्दपरिपूर्णत्वमित्यपि ॥१४॥
यथालब्धेष्वलंभावस्तृष्णाराहित्यमित्यपि ।
क्लेशराहित्यमेवाऽपि रक्षणीयं सदा जनैः ॥१५॥
आर्जवं चापि सारल्यं त्रयाणामेकरूपता ।
मनोवाणीशरीराणां भावानां चैकरूपता ॥१६॥
रक्षणीया प्रयत्नेन भक्तैर्भागवतैः सदा ।
शमः शाश्वतिकी शान्तिर्विषयेभ्यो निवर्तनम् ॥१७॥
अतिप्राकृतसंज्ञेभ्यो दुःखदेभ्यो निरन्तरम् ।
दमश्चेन्द्रियनियमः कर्तव्यः श्रेयसे सदा ॥१८॥
तपो विज्ञानलब्ध्यर्थं यत्नः कार्यः सदा जनैः ।
व्रतोपवासरूपं च कर्तव्यं वृद्धसेवनम् ॥१९॥
साम्यं रक्ष्यं शुभे दुष्टेऽनादरो मायिके सदा ।
तितिक्षा सहनं रक्ष्यं द्वन्द्वाख्यैर्दुःखसंस्थितौ ॥२०॥
आत्मरूपेण वै स्थेयं चाऽप्रतिक्षतिभावतः ।
उपरमः सदा रक्ष्यो व्यर्थव्यापारवर्जनम् ॥२१॥
श्रुतं ज्ञानं प्रापणीयं शास्त्रसद्गुरुदेवतः ।
स्वयं चापि परश्चापि वेदनीयो विशेषतः ॥२२॥
वैराग्यं सर्वविषये निस्पृहत्वं तथा सदा ।
अनाकृष्टमनस्त्वं च रक्षणीयं विशेषतः ॥२३॥
ऐश्वर्यं भगवद्योगात् सार्ष्टि प्राप्यं हरेः पुरः ।
शौर्यं स्वभावविजयः कर्तव्यः सर्वथा जनैः ॥२४॥
तेजो रक्ष्यं भक्तजनैरन्यैः प्रधृष्यशून्यता ।
बलं चात्मबलं सर्वनियन्तृयोगतः सदा ॥२५॥
रक्षणीयं हि सामर्थ्यं बालकृष्णस्य मे कृपा ।
स्मृतिः कर्तव्यविषयेऽनुसन्धानं शुभाश्रये ॥२६॥
रक्षणीयं प्रयत्नेन परमेशप्रसंगतः ।
स्वातन्त्र्यं च पराऽनपेक्षता रक्ष्या तु सात्वतैः ॥२७॥
कौशलं सर्वकार्येषु नैपुण्यं रक्ष्यमुत्तमम् ।
कान्तिः रक्ष्या ब्रह्मचर्यबलजा शोभनात्मिका ॥२८॥
धैर्यं विषमभावेऽपि व्याकुलत्वविवर्जनम् ।
मार्दवं सर्वदा रक्ष्यं रोक्ष्यकाठिन्यवर्जनम् ॥२९॥
प्रागल्भ्यं प्रतिभा रक्ष्या मोक्षविचारदायिनी ।
प्रश्रयो विनयो रक्ष्यः सद्वृत्तिः शीलकारिणी ॥३०॥
सहनं मनसा कार्यं सर्वघातेऽप्यघातिता ।
ओजः रक्ष्यं चक्षुरादौ ज्ञानेन्द्रियेषु सर्वथा ॥३१॥
प्रभावश्च बलं रक्ष्यं कर्मेन्द्रियेषु वै तथा ।
भगो रक्ष्यो मद्दैश्वर्यं सर्वोत्कर्षादिसंस्थितिः ॥३२॥
गाम्भीर्यं रक्षणीयं च दुर्गाह्याऽऽन्तरमन्त्रणम् ।
स्थैर्यं रक्ष्यं सदा भक्तैश्चाञ्चल्येन विहीनता ॥३३॥
आस्तिक्यं धर्ममोक्षादौ हरौ मयि स्थिरा मतिः ।
शास्त्रोक्तेऽर्थे च विश्वासः श्रद्धा च परमात्मनि ॥३४॥
कीर्तिः प्राप्या शुभा भक्तिः ख्यातिर्धामप्रदा जनैः ।
मौनं रक्ष्यं वृथालापवर्जनं सात्त्वतैः सदा ॥३९॥
गर्वाभावः सदा रक्ष्यो गुणाद्यहन्त्वहीनता ।
मानाभावस्तथा रक्ष्योऽवृथास्वरूपहानिता ॥३६॥
दंभाभावस्तथा रक्ष्यो वञ्चकत्वविहीनता ।
योग्याहारस्तथा कार्यो यो मोक्षे फलदो भवेत् ॥३७॥
दाक्ष्यं रक्ष्यं हितवाक्योपदेष्टृत्वं न चेतरत् ।
मैत्री रक्ष्या च विश्वासाधारता सर्वदेहिनाम् ॥३८॥
उपकारश्च सर्वेषां कर्तव्योऽतिवाञ्च्छया ।
अक्षोभश्च सदा रक्ष्यो वेगेन तृष्णयाऽपि वा ॥३९॥
क्षुब्धव्यं नैव विषये सात्त्विकैर्भक्तियोगिभिः ।
पीडनं प्राणिनां नैव कर्तव्यं वैष्णवैः क्वचित् ॥४०॥
सर्वसत्कारकारित्वं ग्रहणीयं समन्ततः ।
अनिष्टाप्तपराभूतिराहित्यं कार्यमेव च ॥४१॥
ब्रह्मज्ञानां सहवासः कर्तव्यश्च सतामपि ।
साधुता रक्षणीया च शरणागतपालिता ॥४२॥
फलेच्छाशून्यता रक्ष्या परिग्रहविवर्जिता ।
अनादिश्रीकृष्णनारायणे मयि परात्मनि ॥४३॥
सर्वस्वार्पणभक्तिश्च कर्तव्या मम सात्त्वतै ।
यथा भक्तिर्मम कार्या तथा कार्या सतां मम ॥४४॥
निर्दंभप्रेमभावेन गुरोः शुश्रूषणं तथा ।
गुरोः सेवा मम सेवा भुक्तिमुक्तिप्रदा सदा ॥४५॥
मम पूजा प्रकर्तव्या सतां ममाऽर्चनं तथा ।
भुक्तिमुक्तिप्रदं चैतत् सर्वपापप्रणाशकम् ॥४६॥
पत्नी रक्ष्या सदा सौख्ये पीडनीया न वै क्वचित् ।
पतिः पूज्यः सदा पत्न्या पीडनीयो न वै क्वचित् ॥४७॥
वृद्धाः सेव्याः सदा मध्यावस्थैः पुत्रादिभिः खलु ।
गावः सन्तः सदा रक्ष्या भक्तिबोधकरा अपि ॥४८॥
देवा रक्ष्या गृहे मूर्तिस्वरूपा दृष्टिपावनाः ।
गुरवश्च सदा रक्ष्या गेहे संसारतारकाः ॥४९॥
भजनं च सदा कार्यं मम नारायणस्य वै ।
शरणं च मम ग्राह्यं पुरुषोत्तमशार्ङ्गिणः ॥५०॥
गुरोराज्ञा सदा पाल्या शुभा वा मोक्षदायिनी ।
स्वेषां शान्तिकरी मान्या वाचो गुरोः सदाऽनुजैः ॥५१॥
पूजनं सर्वदा कार्यं कृष्णनारायणस्य मे ।
परब्रह्म एवाऽत्र मूर्तौ मे भक्तपुंगवैः ॥५२॥
स्नानं सरोवरे चात्र कर्तव्यं बालकृष्णके ।
मार्गैकादशिकायां चाऽमायां द्वितीयके दिने ॥५३॥
सप्ताहेषु प्रकर्तव्यं सर्वपापप्रणाशनम् ।
अत्र दानं प्रकर्तव्यं गवां मोक्षप्रदायकम् ॥५४॥
मम मूर्तेः प्रदानं च भवेत् सर्वार्थसाधकम् ।
इस्तिदानं चाश्वदानं वृषभस्य प्रदानकम् ॥५५॥
महिषीदानमार्प्यं च रेण्डीवृषभदानकम् ।
शकटस्य च यानस्य विमानस्य प्रदानकम् ॥५६॥
शिबिकायाः प्रदानं च वाहनानां प्रदानकम् ।
वस्त्राणां कम्बलानां च शाटीनां च प्रदानकम् ॥५७॥
कर्तव्यं कञ्चुकीनां च दान कोटिगुणार्थकम् ।
स्वर्णदानं रूप्यदानं ताम्रदानं श्रियःप्रदम् ॥५८॥
पात्रदानं प्रकर्तव्यं चान्नदानं महत्तमम् ।
जलदानं मिष्टदानं चेष्टदानं शुभावहम् ॥५९॥
शाकदानं प्रकर्तव्यं कन्यादानं दिवस्पदम् ।
ज्ञानदानं तथा यज्ञोपवीतस्य प्रदानकम् ॥६०॥
गृहदानं तथा दानं गृहोपकरणादिजम् ।
प्रकर्तव्यं वाटिकाया दानं क्षेत्रप्रदानकम् ॥६१॥
यद्यत् स्वेष्टं भवेत्तस्य दानं कर्तव्यमत्र वै ।
साधुभ्यो भोजनं देयं महर्षिभ्यश्च पूजनम् ॥६२॥
भोजनं वल्कलाद्यं च दातव्यं श्रेय इच्छता ।
पितॄणां पिण्डदानादि कर्तव्यं पितृतृप्तये ॥६२॥
बालकृष्णसरस्येव शाश्वतीतृप्तिदं भवेत् ।
देवानां पूजनं कार्यं बालकृष्णसरस्तटे ॥६४॥
मन्दिराणि सुराणां च कारणीयानि तत्तटे ।
मुक्तानामवताराणामीश्वराणां तथाऽऽलयाः ॥६५॥
ऋषीणां चापि पितॄणां प्रासादा मोक्षदाः शुभाः ।
कारणीया धर्मशाला भक्तिशालाः शुभावहाः ॥६६॥
उद्यानानि वाटिकाद्याः कारणीया हरेः कृते ।
मन्दिरं कारयित्वाऽत्र मम मूर्त्या समं सुरान् ॥६७॥
स्थापयिष्यन्ति ये भक्तास्तेभ्यो धाम ददाम्यहम् ।
जीविकां वृत्तिकां चापि पूजायाश्च प्रवाहिकाम् ॥६८॥
कारयिष्यन्ति ये भक्तास्तेषां पुण्यमनन्तकम् ।
सर्वं दास्येऽहमेवाऽस्मै धाम्नि मे पुरुषोत्तमः ॥६९॥
सर्वे देवास्तथा मुक्ता ईश्वराश्च नरायणाः ।
अवतारा ईश्वराण्यो मुक्तान्यो देवपुंगवाः ॥७०॥
देव्यो देवाः ऋषयश्च तीर्थानि च वसन्त्विह ।
बालकृष्णः परब्रह्म स्वयं वसामि चात्र हि ॥७१॥
मार्गशीर्षकृष्णपक्षैकादशिकादिनेऽनिशम् ।
प्रतिसम्वत्सरं सर्वतीर्थैंर्देवैश्च साधुभिः ॥७२॥
मुक्तैस्तथेश्वरैश्चात्राऽऽगन्तव्यं लोकहेतवे ।
सर्वपावित्र्यलाभार्थं सप्ताहं तीर्थभावतः ॥७३॥
कोटिशश्च जनास्त्वत्र स्नास्यन्ति हि सरोवरे ।
तेषां पापविनाशश्च पुण्यं स्यादप्यनन्तकम् ॥७४॥
एतत्तीर्थवरं श्रेष्ठं सर्वतीर्थोत्तमोत्तमम् ।
मया सम्पाद्यते चात्र वासं कृत्वा तु शाश्वतम् ॥७५॥
अत्र तीर्थप्रकर्तॄणां रोगा यास्यन्ति वै क्षयम् ।
दारिद्र्यं नाशमायाच्च दुर्भाग्यं नाशमाप्नुयात् ॥७६॥
लक्ष्मीस्तेषां गृहे स्याच्च सौभाग्यं वर्धयेत्तथा ।
पुत्रपौत्रादिवंशश्च तैर्थिकानां भवेदिह ॥७७॥
यथेष्टः स्यात्तस्य लाभः पुरुषार्थचतुष्टये ।
मार्गशीर्षातिरिक्तेऽपि मासे तीर्थविधायिनाम् ॥७८॥
प्रणश्यन्ति च पापानि पुण्यं स्वर्गप्रदं भवेत्॥
अत्र वार्धौ मृतानां वै भस्माऽस्थिक्षेपणेऽपि च ॥७९॥
सर्वपापविनाशोऽपि मुक्तिश्च शाश्वती भवेत् ।
एतत्सरोजलस्यापि कणं पास्यति यो जनः ॥८०॥
मृत्यवस्थागतस्यापि मुक्तिस्तस्य तु शाश्वती ।
सरसश्चास्य संभूतः स्वाम्यहं परमेश्वरः ॥८१॥
अनादिश्रीकृष्णनारायणः श्रीबालकृष्णकः ।
सरोजलस्य योगेन मम योगो ध्रुवो भवेत् ॥८२॥
स्नानात् पानाद् दर्शनाच्चाऽऽचमनात् स्पर्शनादपि ।
स्मरणादस्य यज्ञस्य सरसश्च प्रमोक्षणम् ॥८३॥
भवत्येव न सन्देहो दास्येऽहं पुरुषोत्तमः ।
तपस्तीर्थं व्रतं होमः कार्याश्चात्र मुमुक्षुभिः ॥८४॥
समर्पणं क्रियाणां च कर्तव्यं मयि शार्ङ्गिणि ।
शाश्वतं पुण्यमेव स्यादर्पितस्य मयि ध्रुवम् ॥८५॥
मुक्ततीर्थं ब्रह्मतीर्थं ब्रह्मप्रियादितीर्थकम् ।
अवतारादितीर्थानि भूमतीर्थं तथाऽत्र च ॥८६॥
वासुदेवाऽभिधं तीर्थं प्राद्युम्नं तीर्थमित्यपि ।
देवायतनकं तीर्थं वैराजतीर्थमित्यपि ॥८७॥
कृष्णतीर्थं तथा राधातीर्थं श्रीतीर्थमित्यपि ।
नारायणं परं तीर्थं लक्ष्मीतीर्थं शुभं परम् ॥८८॥
ब्रह्मतीर्थं विष्णुतीर्थं शिवतीर्थं सतीयुतम् ।
रुद्रतीर्थं राशितीर्थम् ऋषितीर्थं तथोत्तमम् ॥८९॥
पितृतीर्थं देवतीर्थं दिक्पालानां च तीर्थकम् ।
इन्द्रतीर्थं वह्नितीर्थं धर्मतीर्थं शुभोत्तमम् ॥९०॥
वायुतीर्थं यमतीर्थं कुबेरतीर्थमुत्तमम् ।
ईशानतीर्थमुत्कृष्टं बृहस्पतिप्रतीर्थकम् ॥९१॥
लोमशाख्यं शुभं तीर्थं यज्ञतीर्थं शुभोत्तमम् ।
कम्भरातीर्थमेवाऽपि सन्तोषातीर्थमित्यपि ॥९२॥
श्रीमद्गोपालतीर्थं च माणिकीतीर्थमित्यपि ।
सभातीर्थं तथा पारवशंतीर्थं शुभं प्रियम् ॥९३॥
वेदतीर्थं च गायत्रीतीर्थं सावित्रिकाह्वयम् ।
कुंकुमवापिकातीर्थं बालकृष्णप्रतीर्थकम् ॥९४॥
कल्पवल्लीमहातीर्थं शुभं सर्वेष्टदायकम् ।
ग्रहतीर्थं सूर्यतीर्थं देवायतनतीर्थकम् ॥९५॥
वसुतीर्थं साध्यतीर्थं विश्वेतीर्थं शुभास्पदम् ।
सामुद्रतीर्थमेवापि कैलासतीर्थमित्यपि ॥९६॥
वैकुण्ठतीर्थमेवापि गणेशतीर्थमित्यपि ।
गणतीर्थं सतीतीर्थं साध्वीतीर्थोत्तमोत्तमम् ॥९७॥
व्रततीर्थं विमानाख्यतीर्थं च शिबितीर्थकम् ।
अवभृथं महत्तीर्थं सर्वतीर्थाऽधिवासितम् ॥९८॥
एतान्यन्यानि सर्वाणि मूर्तान्यत्र वसन्ति हि ।
ममाऽऽज्ञयाऽद्याऽरभ्यैव पावनानि तु देहिनाम् ॥९९॥
धर्मकार्यं सदा चात्र कर्तव्यं मानवैस्ततः ।
अथ सर्वे प्रयान्त्येव थर्कूटस्थस्य राज्यके ॥१००॥
यत्र यशः प्रकर्तव्यस्तत्र कुर्वन्तु तत्स्थितिम् ।
अहं तत्रागमिष्यामि श्वो वा परश्च एव तु ॥१०१॥
इत्युक्तास्तीर्थदेवाश्च कृत्वा रूपं द्वितीयकम् ।
तत्र तीर्थस्वरूपेण स्थिताः सदा हि राधिके! ॥१०२॥
अथ सर्वे ययुस्तत्र द्विकलाख्यसरोवरे ।
थर्कूटस्थमहाराजराज्ये यज्ञार्थमेव ह ॥१०३॥
व्योमयानेन वै सर्वे ईशा देवाश्च मानवाः ।
कोट्यर्बुदाब्जसंख्या हि सतीसाध्वीहरिप्रियाः ॥१०४॥
बालकृष्णः समुवास शिबिराजगृहे दिनम् ।
विश्रान्त्यर्थं तथा राज्ञः सेवास्वीकरणाय वै ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालकृष्णमूर्तिना श्रीहरिणा प्रदत्तोपदेशाशिषो, द्वितीययज्ञार्थमाज्ञा, बालकृष्णसरस्तीर्थानि चेतिनिरूपणनामा पञ्चविंशत्यधिकशततमोऽध्यायः ॥१२५॥
N/A
References : N/A
Last Updated : May 01, 2021
TOP