त्रेतायुगसन्तानः - अध्यायः १७४
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु त्वं राधिके कृष्णनारायणः परः प्रभुः ।
क्रथकस्य राजधान्याम् ओंकारेष्टाभिधाजुषि ॥१॥
नगरे शोभिते कृष्णनामधुन्यनिनादिते ।
रोमायनेनर्षिणा च क्रथकेन च भूभृता ॥२॥
दर्शिते बहुविधिभिः शृंगारितहरित्स्थले ।
अवातारयदुद्याने विमानं जनसंकुले ॥३॥
नृपालये विमानाच्चावतीर्य भगवान् यदा ।
प्रविवेश तदा पुष्पाक्षतवृष्टिर्बभूव ह ॥४॥
तूर्याणि राजरीत्यैवाऽवाद्यन्त मिष्टसुस्वरैः ।
अगीयन्त सुगीतानि जयशब्दास्तथाऽभवन् ॥५॥
कुटुम्बं श्रीहरेः सर्वं ब्रह्मप्रिया महर्षयः ।
अवतेरुर्विमानात्तु स्वर्णाढ्ये -भूभृदालये ॥६॥
विद्युत्प्रकाशकैः समुज्ज्वले सुगन्धशालिनि ।
सर्वसामग्रिकारम्ये दासदासीसभाजिते ॥७॥
भृत्यैः प्रधानकै राजकुटुम्बकैः प्रजाजनैः ।
संकुलितेऽतिसम्मर्दे कृष्णः सौधे विवेश ह ॥८॥
प्रवेशनस्य समये वर्धितः स्वागतेन तु ।
नमनैर्वन्दनैः प्रेम्णा दर्शनेन सुमाऽक्षतैः ॥९॥
राज्ञा राज्ञ्या कुमारैश्च पुत्रीभिर्भ्रातृबान्धवैः ।
श्रीहरिः सलिलेनापि शीतलैरनिलैरपि ॥१०॥
फलै रसैः सुपेयैश्च सत्कृतः क्षणमात्रतः ।
कुटुम्बादिसार्थजनः सत्कृताः सर्व एव ते ॥११॥
पुष्पहारैस्तथा गुच्छैः सुगन्धिद्रवसेचनैः ।
रञ्जितो भगवान् कृष्णनारायणः परः प्रभुः ॥१२॥
एवं क्षणं प्रविश्रम्य रोमायनेन बोधितः ।
अनादिश्रीकृष्णनारायणो राजसभां ययौ ॥१३॥
रात्रावपि तु दिनवद् भ्राजमानां प्रदीपकैः ।
मणीनां किरणैश्चापि क्लृप्तचन्द्रकरैस्तथा ॥१४॥
विशालां परितो भित्तिपटलेषु सुरैः स्थिताम् ।
उद्यानदृश्यशोभाढ्यां स्वर्गवत्सुकलेवराम् ॥१५॥
सभामासाद्य तु हरिर्निषसाद गजासने ।
स्वर्णहीरकशोभाढ्ये छत्रचामरभूषिते ॥१६॥
अन्ये पित्रादयश्चापि निषेदुर्योग्यकासने ।
भगवान् सर्वलोकानां कुशलं सुखसम्पदम् ॥१७॥
समपृच्छत्तथाऽऽरोग्यं जनाश्च सुखिनोऽभवन् ।
राजा राजकुटुम्बं च पादौ प्रक्षाल्य वै हरेः ॥१८॥
प्रासादिकं पयः सर्वे पपुस्ततः सुगन्धिभिः ।
चन्दनैः पुष्पहाराद्यैः सौवर्णैर्हारकैस्तथा ॥१९॥
हीरकैर्मौक्तिकैश्चापि पुपूजुः परमेश्वरम् ।
प्रजाजनाः पुपूजुश्च प्रधानाः श्रेष्ठिनस्तथा ॥२०॥
कृतकृत्याः कृता नाथ वयमागमदर्शनैः ।
भगवता श्रीहरिणा पावनी नगरी कृता ॥२१॥
अद्य विश्रान्तिमासाद्य प्रातर्देहि स्वदर्शनम् ।
इत्युक्त्वा त्वभिवन्द्यैव ययुः सर्वप्रजाजनाः ॥२२॥
महिमानास्ततः सर्वे निवासानाययुर्द्रुतम् ।
श्रीहरिः सकुटुम्बश्च नृपसौधे सुशोभने ॥२३॥
विश्रान्त्यर्थं ययौ राज्ञा क्रथकेन तथर्षिणा ।
दर्शिते शयने कृष्णः सुष्वाप निद्रितोऽभवत् ॥२४॥
महीमाना दुग्धपानादिकं कृत्वा विशश्रमुः ।
राजा ययौ निजं सौधं विश्रान्त्यर्थं तु राधिके ॥२५॥
चतुर्दश्यां प्रगे समुत्थाय श्रीभगवान् प्रभुः ।
बोधितो मंगलशब्दैः शुश्राव स्वयशोऽमलम् ॥२६॥
ध्यात्वा स्वं च ततो नित्यविधिं चकार सर्वशः ।
दर्शनार्थं समाजग्मुर्लोमशाद्याः प्रजास्तथा ॥२७॥
स राजा क्रथको राज्ञी पुत्र्यः पुत्राः समाययुः ।
पूजनार्थं हरेः सर्वसामग्रीभिः समुत्सुकाः ॥२८॥
पादप्रक्षालनं चक्रुः पयसा तज्जलं पपुः ।
वस्त्रालंकारभूषाद्यैर्हीरकैर्मौक्तिकैस्तथा ॥२९॥
चन्दनाऽक्षतपुष्पाद्यैर्मणिभिश्चार्चयन् हरिम् ।
मातरं पितरं चापि सन्तुष्टां शुकवल्लभौ ॥३०॥
ब्रह्मप्रियाश्च कन्याश्च लोमशादीन् समार्चयन् ।
तत आरार्त्रिकं चक्रुर्दण्डवच्च प्रदक्षिणम् ॥३१॥
उपदा सन्न्यधुस्त्वग्रे विविधा भावतस्तदा ।
राजा प्राह हरिकृष्णनारायणं जगद्गुरुम् ॥३२॥
पावितं मम राष्ट्रं संपावितोपि मदालयः ।
कुटुम्बं पावितं मेऽत्र वसाऽत्र भगवन् सदा ॥३३॥
भवतोऽस्मि कुटुम्बेन सहितोऽहं कृपानिधे ।
भगवाँश्च नृपं प्राह मूर्तिरूपेण सर्वदा ॥३४॥
राजंस्तव गृहे निवत्स्यामि प्रत्यक्षवत् सदा ।
कारय त्वं मन्दिरं मे स्थापयाऽत्र च मां प्रभुम् ॥३५॥
नृपः पप्रच्छ च हरिं कदा कार्यं नु मन्दिरम् ।
कः कालो हि मुहूर्तादिः दिननक्षत्रराशयः ॥३६॥
उत्तमा हि शुभे कार्ये मन्दिरादौ सुकर्मणि ।
भवत्स्थापनकालाश्च तद् वदात्र तु मे प्रभो ॥३७॥
हरिः प्राह यदा राजन् भगवान् भुवि वर्तते ।
धृतमानुषरूपो वै तदाज्ञा तु यदा भवेत् ॥३८॥
रात्रौ वा दिवसे वापि सन्ध्यायां सूतकेऽपि वा ।
अकाले वा तथाऽनिष्टे शोके क्लेशमयेऽपि वा ॥३९॥
यादृशस्तादृशः कालस्तन्मतः शुभ एव सः ।
हर्यधीनाः सर्वकालास्तदिच्छया शुभा हि ते ॥४०॥
देशः सर्वविधश्चापि हर्याश्रितः शुभो हिं सः ।
कृष्णतुल्याः समर्था ये सन्तस्तेषां वचांसि च ॥४१॥
यस्मिन् काले तु लब्धानि कालः सर्वः शुभो हि सः ।
नैसर्गेण तु ते वच्मि शृणु श्रैष्ठ्यं तु कालिकम् ॥४२॥
वर्षं मासास्तथा पक्षाः सप्ताहानि दिनानि च ।
नक्षत्राणि ग्रहा वाराश्चतुर्घट्यो मुहूर्तकम् ॥४३॥
योगाश्च तिथयः क्लृप्ता व्यवहारस्य सिद्धये ।
वर्ज्यान् वच्म्यपि प्रथमं शृणु राजन् यथायथम् ॥४४॥
तिथिनक्षत्रवारेश्चोत्पन्नान् योगान् हि दूषितान् ।
वर्जयेच्छुभकार्ये वै व्यतीपातादिकांस्तथा ॥४५।
दुर्योगानथ भद्रां चामावास्यां सूर्यसंक्रमम् ।
जन्मर्क्षं जन्मतिथिकां जन्ममासं विवर्जयेत् ॥४६॥
तिथेर्वृद्धिं क्षयं चापि विवर्जयेत् सुकर्मणि ।
पापग्रहैः प्रभुक्तानि भुज्यमानानि चापि च ॥४७॥
भोग्यान्यपि च ऋक्षाणि वर्जयेच्छुभकर्मसु ।
उत्पातर्क्षं पापग्रहविद्धर्क्षं च विवर्जयेत् ॥४८॥
ऋतं च भेदितं पापग्रहेण तद्विवर्जयेत् ।
खग्रासग्रहणर्क्षं तु षण्मासावधि वर्जयेत् ॥४९॥
अर्धग्रासस्य नक्षत्रं त्रिमासावधि वर्जयेत् ।
पादग्रासस्य नक्षत्रं मासावधि विवर्जयेत् ॥५०॥
ग्रासात् प्राक् त्रिदिनं त्याज्यं पश्चात् सप्ताहकं त्यजेत् ।
ग्रस्तास्ते प्राक् त्रिदिनं ग्रस्तोदये त्र्यहमुत्तरम् ॥५१॥
पूर्णग्रासे प्राक् च पश्चाद् दिनत्रिकं विवर्जयेत् ।
मासान्तैकदिनं चापि नक्षत्रान्तघटीद्वयम् ॥५२॥
तिथ्यन्तघटिकैकं च लग्नान्तार्धघटीं तथा ।
नक्षत्राणां विषां नाडीं वर्जयेच्छुभकर्मसु ॥५३॥
पातदोषं तथा चैकार्गलं दग्धदिनात्मकम् ।
संक्रान्तिसमयं चापि वर्जयेच्छुभकर्मसु ॥५४॥
लग्नस्वामी भवेत् स्थाने शत्रोर्मृत्योश्च वा यदा ।
मध्याह्नं मध्यरात्रिं च सन्ध्यासन्धिं विवर्जयेत् ॥५५॥
अधिमासं च शुक्रस्य गुरोश्चास्तं विवर्जयेत् ।
शुक्रस्य च गुरोर्बाल्यं वार्धक्यं च विवर्जयेत् ॥५६॥
जन्मेशास्तं मनोभंगं सूतकं मातुरार्तवम् ।
रोगोत्पाताद्यरिष्टानि शुभकार्येषु वर्जयेत् ॥५७॥
सिंहस्थे तु गुरौ त्याज्या विवाहो वपनं व्रतम् ।
यात्रा दीक्षा प्रतिष्ठा च यतस्तत्र सविघ्नकाः ॥५८॥
क्रूरग्रहेण यद्भुक्तं भोक्तव्यं भोज्यमेव वा ।
नक्षत्रं सर्वकार्येषु सिद्धिकृद्ग्राह्यमेव तत्। ॥५९॥
किन्तु राहुयुतमृक्षं त्याज्यं वै शुभकर्मसु ।
ग्रहदुष्टं तु नक्षत्रं सूर्यभुक्तं यदा भवेत् ॥६०॥
चन्द्रभुक्तं च वा स्याच्च ततः शुभप्रदं भवेत् ।
ग्रहणेन हतमृक्षं षण्मासान्ते शुभं भवेत् ॥६१॥
एकमासे चोपरागद्वये प्राथमिकं तु भम् ।
द्वितीयग्रासपूर्वं स्याच्छुद्धं षाण्मासिकेऽपरम् ॥६२॥
खातं चैत्रेशोकद स्याद् वैशाखे धनदं स्मृतम् ।
ज्येष्ठे ग्रहप्रपीडादम् आषाढे पशुनाशनम् ॥६३॥
श्रावणे धनवृद्धिकृत् भाद्रपदे तु शून्यकृत् ।
आश्विने क्लेशदं स्याच्च कार्तिके भृत्यनाशकम् ॥६४॥
मार्गशीर्षे धनदं स्यात् पौषे कामर्द्धिसम्प्रदम् ।
माघे त्वग्निभयदं स्यात् फाल्गुने श्रीप्रदं मतम् ॥६५॥
गृहारंभस्तु मेषस्थे सूर्ये सर्वशुभप्रदः ।
वृषस्थे धनवृद्धिकृत् मिथुनस्थे मृतिप्रदः ॥६६॥
कर्कस्थे शुभदः स्याच्च सिंहस्थे भयवर्धकः ।
कन्यास्थे रोगदः स्याच्च तुलास्थे सुखदो भवेत् ॥६७॥
वृश्चिकस्थे धनवृद्धिर्धनुःस्थे महती क्षतिः ।
मकरस्थे धनाऽऽयः स्यात् कुंभस्थे रत्नदो मतः ॥६८॥
मीनस्थे भयदः स्याच्च विचार्याऽऽरंभमाचरेत् ।
देवप्रतिष्ठा माघे च फाल्गुने धनदा तथा ॥६९॥
आयुष्यारोग्यदा भर्तुः कीर्तिकरी भवेद्धि सा ।
चैत्रे सा भयदा रोगप्रदा बोध्या तु सर्वथा ॥७०॥
वैशाखे सा तथा ज्येष्ठे धनपुत्रादिदायिनी ।
दक्षिणायनगे सूर्ये वाराहं मातृकास्तथा ॥७१॥
भैरवं वामनं दुर्गां नृसिंहं स्थापयेत् सुखम् ।
श्रावणे शिवलिंगं चाश्विने तु जगदम्बिकाम् ॥७२॥
मार्गशीर्षे हरिं विष्णुं नारायणं च मां प्रभुम् ।
स्थापयेत् पौषमासे तु स्थापयेत् सर्वदेवताः ॥७३॥
नीत्यं गीतं कृषिं चित्रमुत्सवं च गृहादिकम् ।
वस्त्रालंकारभूषादि शिल्पिता च कलादिकम् ॥७४॥
एकादश्यां प्रतिपदि षष्ठ्यां नन्दाख्यतत्तिथौ ।
विधापयेत् शिक्षयेत् स्वोऽधीयीत शुभदं भवेत् ॥७५॥
विवाहश्चोपनयनं यात्रा भूषादिधारणम् ।
शिल्पकार्यं कलाशिक्षा हस्तिरथाश्वचालनम् ॥७६॥
आवाहने समारोहो सिद्धिदास्तु यथा शृणु ।
द्वितीयायां च सप्तम्यां द्वादश्यां भद्रिकातिथौ ॥७७॥
सैन्यसंग्रामशस्त्रादिधृत्यभ्यासप्रयोधनम् ।
यात्रोत्सवगृहारंभौषधिव्यापारकर्म च ॥७८॥
जयाख्यायां तृतीयायामष्टम्यां च तथा शृणु ।
त्रयोदश्यां प्रकर्तव्यं सर्वसिद्धिप्रदायकम् ॥७९॥
शत्रूणां मारणं बन्धनं तथा विषयोजनम् ।
शस्त्राग्नियोजनं कार्यं रिक्ताख्यायां तिथौ शृणु ॥८०॥
चतुर्थ्यां च नवम्यां च चतुर्दश्यां च सिद्ध्यति ।
रिक्तायां मंगलं कार्यं न कर्तव्यं कदाचन ॥८१॥
राज्याभिषेको यात्रा च विवाहश्चोपवीतकम् ।
शान्तिकर्म पुष्टिकर्म पूर्णाख्यायां तिथौ शृणु ॥८२॥
पञ्चम्यां च दशम्यां च पूर्णिमायां हि सिद्धिदम् ।
इत्येवं करणे कार्यसिद्धिर्भवति निश्चिता ॥८३॥
द्वितीया पंचमी चापि तृतीया सप्तमी तथा ।
दशम्येकादशी कृष्णप्रतिपच्च त्रयोदशी ॥८४॥
पूर्णिमा तिथयो ह्येताः सर्वकार्ये शुभावहाः ।
अन्यास्तु तिथयो नैव शुभदा वै मताः क्वचित् ॥८५॥
कृष्णा चतुर्दशी शुक्ला प्रतिपत् दर्शसंज्ञका ।
वर्जनीयाः शुभे कार्ये तिथयस्ता भयावहाः ॥८६॥
आदित्यश्चन्द्रमा भौमो बुद्धश्चापि वृहस्पतिः ।
शुक्रः शनैश्चरश्चेति वासराः सप्त योजिताः ॥८७॥
गुरुश्चन्द्रो बुधः शुक्रः शुभाः शुभे तु कर्मणि ।
रविः शनिर्मंगलश्च क्रूराः क्रूरे तु कर्मणि ॥८८॥
स्थिरः सूर्यश्चरश्चन्द्रो भौमश्चोग्रो बुधः समः ।
लघुर्गुरुर्मृदुः शुक्रः शनिस्तीक्ष्णः स्वभावतः ॥८९॥
रवौ देवप्रतिष्ठा तु तेजःप्रभावदायिनी ।
चन्द्रे क्षेमकरी भौमे वह्निदाहप्रदायिनी ॥९०॥
बुधे चेष्टफलदा स्याद् गुरौ स्थिरत्वदायिनी ।
शुक्रे चानन्ददा स्याच्च शनौ कल्पनिवासिनी ॥९१॥
राज्याभिषेको मांगल्यं यानवाहननिर्मितिः ।
सैन्यस्वारी मन्त्रसिद्धिरस्त्रशस्त्रावमोचनम् ॥९२॥
भेषजस्य प्रयोगश्च युद्धं चापणपण्यकम् ।
अग्निदानं सेवनं च सौवर्णकार्यमित्यपि ॥९३॥
आभूषाधारणं चापि रवौ वारे शुभानि हि ।
अथ चन्द्रे वासरे तु शंखमौक्तिकरूप्यकैः ॥९४॥
आभूषणविधानं च भूषाधारणमित्यपि ।
संगीतविद्याध्ययनं यज्ञकार्यं कृषिक्रिया ॥९५॥
भोज्यं स्त्रीसेवनं चेक्षुरसपाकविधापनम् ।
जलप्रवाहकूपादिकोषवहनमुत्तमम् ॥९६॥
अथ भौमे वासरे तु भेदभावस्तथाऽनृतम् ।
चौर्ये शाठ्यं विषशस्त्रवह्निघातनमित्यपि ॥९७॥
करदण्डाऽऽदानदानं स्वर्णप्रवालधारणम् ।
एवमेतानि कार्याणि शुभान्युक्तानि मंगले ॥९८॥
अथ वारे बुधे शिक्ष्यं वाणिज्यं च कलादिकम् ।
सम्बन्धश्च भृत्यता च व्यायामो वेदघोषणम् ॥९९॥
शास्त्रस्य लेखनारम्भश्चैताः क्रियाः शुभा मताः ।
गुरौ वारे यज्ञकार्यं धर्मः सत्कार इत्यपि ॥१००॥
मांगल्यं पौष्टिकं विद्या यात्रा गृहविधापनम् ।
भैषज्यं चाऽलंकरणं कर्तव्यानि शुभानि वै ॥१०१॥
शुक्रे गीतं स्त्रीसंगश्च रत्नधारणमित्यपि ।
शय्यापर्यंककरणं वस्त्रभूषादिधारणम् ॥१०२॥
उत्सवो भूक्रयविक्रयौ कृषिश्चापणक्रिया ।
कोशसंरक्षणं चेति शुभानि तानि शुक्रके ॥१०३॥
शनौ गृहप्रवेशश्च मन्त्रदीक्षा तथोत्तमा ।
हस्तिप्रभृतिगृहणं भृत्यतानिर्णयस्तथा ॥१०४॥
शस्त्रोपयोगश्चाऽसत्यवदनं चौर्यमित्यपि ।
कर्तव्यानि स्थिरकर्माण्यपि शुभानि वै शनौ ॥१०५॥
रोहिण्यश्विमृगाः पुष्यो हस्तश्चित्रोत्तरात्रयम् ।
रेवती श्रवणं चैव धनिष्ठा च पुनर्वसूः ॥१०६॥
अनुराधा तथा स्वाती शुभान्येतानि भानि वै ।
शुभकार्याणि सर्वाणि सिद्ध्यन्त्येतेषु भेषु च ॥१०७॥
पूर्वात्रयं विशाखा च ज्येष्ठाऽऽर्द्रामूलमित्यपि ।
शतताराभमेतेषु कृत्यं साधारणं भवेत् ॥१०८॥
भरणी कृत्तिका चापि मघाऽऽश्लेषा तथैव च ।
अत्युग्रं दुष्टकार्यं तत् कर्तव्यमेषु भेषु तु ॥१०९॥
इत्येवं राधिकेऽनादिकृष्णनारायणः प्रभुः ।
क्रथकाय तदा प्राह रोमायनर्षिसन्निधौ ॥११०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने क्रथकराजधान्याम् ओंकारेष्टायां गत्वा पूजां प्रगृह्य विश्रम्य चतुर्दश्यां प्रगे नृपपृष्टो हरिर्मन्दिरादिनिर्माणे शुभकालादीन् प्राहेत्यादिनिरूपणनामा चतुःसप्तत्यधिकशततमोऽध्यायः ॥१७४॥
N/A
References : N/A
Last Updated : May 01, 2021
TOP