संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १३

त्रेतायुगसन्तानः - अध्यायः १३

लक्ष्मीनारायणसंहिता

श्रीकृष्ण उवाच-
शृणु राधे ह्यसुराणां पावकः श्रीनरायणः ।
सर्वान् दैत्यान् निजलीनान् कृत्वा धाम्नि स्वकोऽनयत् ॥१॥
अधमोद्धार एवं श्रीभगवान् पुरुषोत्तमः ।
दैत्यानां दानवानां रक्षसां द्विषां विरोधिनाम् ॥२॥
शरणं स्वं प्रपन्नानामार्त्तिहा मोक्षदो हि सः ।
अनुग्रहोऽयं कृष्णस्य श्रीपतेः परमात्मनः ॥३॥
कृपासाध्यो ह्ययं मोक्षः पारितोषिकवन्मतः ।
शृणु त्वं राधिके दैत्या मोक्षं गता मृता इति ॥४॥
श्रुत्वा दमनपत्नी च शीलहाख्या तथाऽपराः ।
मार्तण्डादिप्रधानानां वीरश्मिद्युहनादिकाः ॥५॥
धीभक्ष्या वानसी शौण्डी मातीर्या कण्डिका हृति ।
कुण्ठा कालुषिकी धूम्रा पाधूली च रजोऽण्डिका ॥६॥
करंधमी च विकटी दत्कटी दामनी रुखा ।
दामिनी तालजंघा च दीर्घिका दण्डिका घटी ॥७॥
होरा आया दमा दिष्टिः पिष्टिः पाम्पी प्रकुण्डिका ।
करण्डिकाद्याश्च तथा प्रधानानां प्रियास्तु ताः ॥८॥
समाकर्ण्य तु दैत्यानां मृत्युं रुरुदुरुत्स्वराः ।
हा हताःस्मेति चुक्रुशुर्व्यस्तकेशा विमूर्छिताः ॥९॥
विनष्टसर्वशृंगाराः सर्वसौभाग्यवर्जिताः ।
प्राणहीना इव लक्षाधिका वैधध्यपीडिताः ॥१०॥
अथाऽऽयात् तत्र वै तासां गुर्वी वै शुक्रजीवनी ।
सान्त्वयामास बोधेन वैरनिर्यापनं तथा ॥११॥
वयं सर्वा गमिष्यामो हनिष्यामश्च लोमशम् ।
बालं हत्वा करिष्यामो विनाथाः सर्वकन्यकाः ॥१२॥
सज्जाभवथ सर्वाश्च पत्यर्थं प्राणदायिकाः ।
स्वामिमार्गं गमिष्यामः कृत्वा वैरस्य तर्पणम् ॥१३॥
या न पत्युः कृते नष्टा जीविताऽपि मृता हि सा ।
पतिर्धनं हि नारीणां तद्गते विगतं धनम् ॥१४॥
पतिर्दैवं पतिर्भाग्यं सौभाग्यं पतिरेव च ।
स्वामी मानं पतिः शोभा प्रतिष्ठा स्वामिनि स्थिता ॥१५॥
केशाः कंकणमाभोगाः शोभन्ते पतिजीवनाः ।
तेषां नाशे जीवनं तु नष्टं स्त्रीणां ततो जनुः ॥१६॥
निरर्थकं भवेत् पश्चान्मरणं सार्थकं भवेत्॥
सतीरूपेण मर्तव्यं वैरनिर्यापनं विना ॥१७॥
निरर्थिका मृतिः साऽत्र न सा पत्युः प्रशान्तये ।
वैरनिर्यापनं कृत्वा सृतिः पत्युः प्रशान्तिदा ॥१८॥
तस्मादायात सर्वाश्च सम्भूय कृतनिश्चयाः ।
सन्नह्य सर्वा योत्स्यामो हनिष्यामश्च कन्यकाः ॥१९॥
लोमशस्य जटाजूटान् त्रोटयिष्याम एव च ।
बालकृष्णं हरिष्यामो मारयिष्याम एव वा ॥२०॥
इत्यामन्त्र्य तदा दैत्यपत्न्यो लक्षाऽतिलक्षकाः ।
शीलहाद्याः शस्त्रयुक्ताः समुत्पेतुर्विहायसा ॥२१॥
शक्तितोमरखङ्गाऽसिभूशुण्डीमुद्गराऽऽयसान् ।
चिपीटकान् मुशलांश्च दण्डान् दन्त्रान् त्रिशूलकान् ॥२२॥
कुन्तान् सिताः कृपाणाँश्च चक्राणि पट्टिशान् शरान् ।
कुन्तलान् छुरिका वेधान् दृषदो यष्टिकाः कशान् ॥२३॥
शंकूनंकुशकान् भल्लान् वंशानग्निमुखान् करान् ।
क्षेपणान् बन्धनान् पाशान् रश्मीन् पन्निगडान् कटान् ॥२४॥
कुठारान् परशून् काष्ठोपलाः पादाँश्च शृंखलाः ।
एवं बहुविधान् शस्त्रहेतीन् धृत्वाऽसुरस्त्रियः ॥२५॥
वर्मयुक्ताश्चर्मयुक्ताः स्थालीगोपितमूर्धजाः ।
सकच्छा बद्धकटिकाः सुदृढाम्बरबन्धनाः ॥२६॥
सत्राणसाधना यानैर्व्योम्ना वादित्रनिःस्वनैः ।
त्रासयन्त्यो जगत्सर्वं चाययुर्लोमशाश्रमम् ॥२७॥
मद्यपानारक्तनेत्रा मांसादनप्रमादिकाः ।
उन्मत्तवत्प्रलापिन्यश्चावतेरुर्भुवं प्रति ॥२८॥
कृष्णकज्जलशृंगादिकृतचित्राननास्तदा ।
स्तनयोः रक्तचन्द्राभिचक्रादिभिर्भयंकराः ॥२९॥
छिन्धि मारय भिन्धीति खादयैनं च मर्दय ।
चर्वय प्राणतश्चैनं प्रचूर्णय मदादिभिः ॥३०॥
आन्त्राण्यासां कर्षयन्तु पेषयन्तु शिलातले ।
मस्तकानि स्फोटयन्तु पिबन्तु रुधिराणि च ॥३१॥
चर्वयन्तु च मांसानि कन्यकानां हरेस्तथा ।
लोमशं खण्डशः सख्यः कुर्वन्तु भवतीव्रजाः ॥३२॥
अनेनाऽस्मत्स्वामिनो वै हता भस्माऽत्र विद्यते ।
लोमशं प्रथमं चात्र मारयन्तु प्रहारकैः ॥३३॥
कर्षयन्तु ततो मूत्रकर्दमे मलमिश्रितम् ।
कर्दमं चास्य च मुखे निक्षिपन्तु च चक्षुषोः ॥३४॥
नेत्रे चोत्पाटयन्त्वस्य शूले चारोपयन्तु च ।
द्वेधा पद्भ्यां विनिष्पीड्य द्विदलं कारयन्तु च ॥३५॥
एवं ता वदमाना वै लोमशस्याऽऽश्रमं गताः ।
परितो वनवृक्षाद्यान् नाशयामासुरुग्रगाः ॥३६॥
वल्लीर्विनाशयामासुर्ग्राहयामासुरुत्कराः ।
मयूरादीन् शुकान् हंसान् हरिणान् जघ्नुरुल्बणाः ॥३७॥
लोमशर्षिर्योषितां तान् गणान्नैवाऽवलोकयत् ।
स्त्रीणामभिभवः पुंसा नैव कार्यः कदाचन ॥३८॥
तत्रापि मुनिना नैवं विचार्येति ददौ न हृत्॥
तावत्तास्तु समायाताः सशस्त्रा धर्तुमेव तम् ॥३९॥
ऋषिं सर्वाः कन्यकाश्च नाशयितुं प्ररेभिरे ।
विलोक्यैतत्तु ऋषिणा जलमादाय सर्वतः ॥४०॥
स्वस्य रक्षा कन्यकानां तथा रक्षा कृता तदा ।
क्षिप्तं जलं वह्निरूपं व्यजायत ददाह ताः ॥४१॥
वह्निः प्राकाररूपेणाऽव्याप्नोत् संपरितस्तदा ।
दैत्यस्त्रीणां महत् सैन्यं वर्तुलाकारवह्निराट् ॥४२॥
ऊर्ध्वं वितानरूपश्च भूत्वा रुरोध राक्षसीः ।
दद्रुवुर्दह्यमानास्ता बालकृष्णालयं प्रति ॥४३॥
अथ कन्या अपि सर्वा लोमशो मुनिराडपि ।
मिथो जगुरिमा राक्षस्यो वै यान्ति हरिं प्रति ॥४४॥
मारयिष्यन्ति तं बालं मातरं पितरं च वा ।
अथ स्त्रीभिर्न योद्धव्यं पुरुषैः सर्वथा यतः ॥४५॥
स्त्रीभिः साकं सुयोद्धव्यं स्त्रीभिरेव हि धर्मतः ।
भवत्यः कन्यकाः सर्वा धारयन्तु हि वर्म च ॥४६॥
शस्त्राणीमानि सर्वाणि धारयन्तु यथायथम् ।
मन्त्रान् दिव्यान् धारयन्तु नाशयन्तु च ता द्रुतम् ॥४७॥
इत्युक्त्वा लोमशः शीघ्रं पत्यर्थप्राणरक्षिकाः ।
कन्यकाः श्रावयामास श्रीस्वामिकवचं तदा ॥४८॥
त्रिराचम्य हरिं ध्यात्वा प्राणानायम्य त्रिस्तथा ।
मस्तके मे हरेरस्तु मस्तकं च मुखे मुखम् ॥४९॥
नेत्रयोर्मेऽस्य नेत्रे स्तां श्रवसोर्मेऽस्य वै श्रवौ ।
ममकण्ठे हरेः कण्ठो हस्तयोर्मे हरेः करौ ॥५०॥
वक्षसि स्तनयोर्मे च हरेर्वक्षःस्तनौ तथा ।
उदरे मे हरे रस्तूदरं कट्यां हरेः कटिः ॥५१॥
पृष्ठे पृष्ठं नितम्बयोर्मे नितम्बौ हरेस्तथा ।
गुप्ते गुप्तं तथा सक्थ्नोः सक्थिनी पादयोः पदे ॥५२॥
सर्वा मूर्तिर्हरेरस्तु मयि सर्वांगमूर्तिके ।
इतिन्यासान् विधायैव स्वामिकवचमुच्चरेत् ॥५३॥
ओम् अनादिश्रीकृष्णनारायणः सर्वप्रहेतिमान् ।
दिव्यविमानमारूढः सर्वरक्षां करोतु नः ॥५४॥
शंखचक्रगदापद्मचर्मासिचापपाशवान् ।
धनुस्त्रिशूलशरवान् शस्त्रेभ्योऽवतु नो हरिः ॥५५॥
व्योम्नि दिव्यक्रमोऽव्यान्नोऽनले कृष्णनरायणः ।
वायौ प्राणपतिः पायाज्जले स्वामी परात्परः ॥५६॥
पृथ्व्यामव्याद् बालकृष्णो युद्धेऽव्यात्पुरुषोत्तमः ।
शस्त्रास्त्रमन्त्रपातेभ्योऽव्यान्नः पतिः फलस्थितः ॥५७॥
इन्द्रजालादिमायाभ्योऽन्तरात्माऽव्यात् श्रियः पतिः ।
प्रियस्वामी कृष्णनारायणोऽव्यात्कालवेगतः ॥५८॥
राक्षसीभ्यः कृष्णकान्तश्चाव्यादनवधानतः ।
मृप्युरोगाऽचिन्त्यभीभ्यः पातु न कृष्णवल्लभः ॥५९॥
भौतिकेभ्यो विकारेभ्यः पातु नोऽक्षरधामपः ।
सर्वावस्थासु सर्वेभ्यः पातु त्वन्तरगः प्रभुः ॥६०॥
संहर राक्षसीसैन्यं रक्षय कन्यकाकुलम् ।
आनन्दय ततो नश्च जयं देहि परेश्वर ॥६१॥
ओमनादिकृष्णनारायणोऽस्य देवताऽवतु ।
लोमशाय नमः स्वामिकवचस्यर्षये सदा ॥६२॥
कम्भराश्रीमहालक्ष्म्यै रक्षाकर्त्र्यै नमोऽवतु ।
नारायणाय गोपालकृष्णाय च नमोऽवतु ॥६३॥
इत्युच्चावितमेवैतत् कवचं कोटिरूपधृक ।
क्षणादजायत कोटिसूर्यवर्चुलमुज्ज्वलम् ॥६४॥
कन्यास्ता धारयामासू राधिके च त्वया सह ।
मञ्जुला पार्वती लक्ष्मीः प्रभा हंसा च माणिकी ॥६५॥
कोटिकोट्यः स्वर्णवर्णं दध्युस्तच्छेदवर्जितम् ।
अवृणं चाऽवियुक्तं च वर्म वर्ष्मसु पूरितम् ॥६६॥
कोमलं निष्ठुरं चापि सुखस्पर्शं च रक्षकम् ।
धृत्वा जलेन साकं च शस्त्रास्त्रमन्त्रकान् पपुः ॥६७॥
कन्यकावर्ममन्त्राढ्या युगपत् कृपयाऽभवन् ।
'ग्रसत्वेतत् कृष्णकान्तः कान्तार्थमों क्षः फट् स्वाहा' ॥६८॥
जजपुस्ता मन्त्रमेवं चाष्टोत्तरशतं तदा ।
युद्धे सर्वत्र चान्यत्र यः स्मृतो रक्षकोऽस्ति वै ॥६९॥
मन्त्रश्चायं धृतस्ताभिर्जप्तश्चापि ततः परम् ।
लोमशः प्रददौ ताभ्योऽणिमाद्याः सिद्धयस्तथा ॥७०॥
ऐश्वर्याणि समस्तानि चाऽप्रधृष्याणि यान्यपि ।
सन्धिनीयोजिनीक्षतवारिणीशूलहारिणीः ॥७१॥
जलाऽऽचमनसार्धं वै ददौ विद्याः सहस्रशः' ।
अनेकरूपभवनं मृषासत्यविधारणम् ॥७२॥
अन्तर्धानं पुनर्भावं सर्वविद्या ददौ तदा ।
कोट्यर्बुदानां कन्यानां सैन्यवेषाँस्तदा द्रुतम् ॥७३॥
जलबिन्द्वभ्युक्षणेन कृतवान् लोमशो मुनिः ।
तूर्यवादित्रयानानि गजसिंहाऽश्वकानि च ॥७४॥
हंसगरुडयानानि क्षणाज्जलेन चाऽकरोत् ।
तावत् तूर्याण्यवाद्यन्तोत्पेतुर्व्योम्नि कुमारिकाः ॥७५॥
यत्राऽस्ते भगवान् कृष्णो बालः स्वामी गृहान्तरे ।
क्षणध्यानेन गत्वैताश्चाऽम्बरं प्राप्य चाग्रतः ॥७६॥
राक्षसीनां तु सैन्यानां वारणार्थं व्यवस्थिताः ।
राधा लक्ष्मीः रमा श्रीश्च पार्वती माणिकी प्रभा ॥७७॥
मंगला मनसा रेवा भार्गवी च सरस्वती ।
गंगा च मञ्जुला भक्तिर्मुक्तिरेकादशी रतिः ॥७८॥
हंसा सगुणा तुलसी कमला विरजा सती ।
मूर्तिश्च गोमती स्वर्णरेखा जया च नन्दिनी ॥७९॥
दुर्गा ललिता सावित्री दोला पुष्पा कलावती ।
बदरी माधवी पम्पा षष्ठी प्रीतिः ऋतध्वजी ॥८०॥
मौक्तिका लाडकी देवी मनुः कस्तूरिका सिता ।
हैमी शान्तिः प्रशान्ता च चम्पा गोदावरी यमी ॥८१॥
ओजस्वती च सविता रत्ना मिष्टाऽमृता धनिः ।
चतुरा वज्रिका मुक्ता सुशीला श्यामिकाऽमला ॥८२॥
सन्तुष्टा चन्द्रिका कान्तिः कुंवरी च शिवादिकाः ।
एताश्चान्याः शतं चापि चत्वारिंशत्तद्ग्रगाः ॥८३॥
सैनापत्येऽभवन्नग्रगताः कोट्यो बलात्मिकाः ।
हर्षनादाँस्तदा चक्रुर्जयकृष्णनरायण ॥८४॥
जय कान्त महाकान्त परमेश्वर वै जय ।
जय स्वामिन् जय नाथ, लोमशोऽपि जयत्विह ॥८५॥
 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
एवं मन्त्रं रटन्त्यश्च रोधयामासुरासुरीः ॥८६॥
'ग्रसत्वेतत् कृष्णकान्तः कान्तार्थम् ओं क्षः फट् स्वाहा' ।
मन्त्रजापं तदाऽकुर्वन् वारयामासुरासुरीः ॥८७॥
आकस्मिकं राक्षसीनां सैन्यं चाम्बरमार्गतः ।
समायातं वीक्ष्य मातापितरौ वासिनोऽपरे ॥८८॥
भयं प्रापुस्तदा बालकृष्णो भूत्वा किशोरकः ।
पितृभ्यामाह भेतव्यं नैव नैव च नैव च ॥८९॥
निर्यातुं विधवा वैरं राक्षस्यो योद्धुमागताः ।
स्त्रियो नैव प्रहन्तव्या मया क्वापि नरेण यत् ॥९०॥
लोमशेनापि हन्तव्या नैव नैव कदाचन ।
वह्निनाऽऽश्रमरक्षां स चकार गुरुराड् यतः ॥९१॥
ता भीताश्च ततोऽत्रापि मां हन्तुं चागताः खलु ।
लोमशप्रेषितास्ताभिर्युद्ध्यन्तां कन्यकास्त्विमाः ॥९२॥
सन्नद्धा मन्त्रशस्त्रास्त्रयुद्धर्मोदिबृंहिताः ।
कोटिशस्ता इमाः सैन्यरूपेणाऽम्बरसंस्थिताः ॥९३॥
युयुत्सन्तीच्छया मेऽम्ब! नाऽत्र चित्रं कथंचन ।
इति कृष्णे प्रवदिते गरुडान् हंसवाजिनः ॥९४॥
गजान् यानानि दिव्यानि ब्रह्मविष्णुमहेश्वराः ।
ददुर्व्योम्नि कन्यकाभ्यो रथान् विमानकानि च ॥९५॥
वीरकन्यामहासैन्यं वाहनैरुपशोभितम् ।
यावत् तावत्तु राक्षस्यः समुत्पेतुः समन्ततः ॥९६॥
ताडयामासुरत्युग्रं वीरकन्यागणं तदा ।
कन्यका रणचण्ड्यस्ताः प्रतिताडनमाचरन् ॥९७॥
गजानां वाजिनां हंसगरुडानां निनादनम् ।
सिंहानां देवयानानां गर्जनं चाण्डमावृणोत् ॥९८॥
गर्दभानां तथोष्ट्राणां कुक्कुटानां च रक्षसाम् ।
शुनां च जम्बुकानां चाऽक्रोशास्तत्राऽभवन् प्रति ॥९९॥
हेतीनां चाऽऽयुधानां च शराणां पातनानि वै ।
हन्त्रीणां योषितां चान्योन्यं देहेष्वभवन् मुहुः ॥१००॥
निजघ्नुस्तोमरैः काश्चित् काश्चिज्जघ्नुः कृपाणकैः ।
काश्चित् केशान् प्रगृह्यैव चिक्षिपुः पृथिवीतले ॥१०१॥
अन्या जघ्नुर्गदाभिश्च तथाऽपरास्तु मूशलैः ।
भिन्दीपालैश्चेतराश्च निजघ्नुश्चाऽसिभिः पराः ॥१०२॥
खड्गैश्चान्या उपलाभिः पाषाणैः क्षेपणैस्तथा ।
शृंखलाभिस्तथा दण्डैर्नाराचैश्च शरैः पराः ॥१०३॥
हन्यन्ते तत्र राक्षस्यो जीवतो न तु कन्यकाः ।
शक्तिभिर्मुद्गरैश्चान्या भूशुण्डीभिस्तथाऽपराः ॥१०४॥
घ्नन्ति क्रोधानलदग्धा ओष्ठचर्वणरोषिताः ।
दण्डैर्दन्तैस्त्रिशूलैश्च चिपीटकैश्च पट्टिशैः ॥१०५॥
मूढमाराण्यपतन् वै सिताभिश्च कृपाणकैः ।
कुन्तैः कुन्तलकैश्चापि शरैश्चक्रैश्च मूशलैः ॥१०६॥
छुरिकाभिर्दृषद्भिश्च यष्टिकाभिश्च वेधनैः ।
भिद्यन्ते ब्रह्मरन्ध्राणि छिद्यन्ते सक्थिबाहवः ॥१०७॥
शंकुभिः कुशकैर्भल्लैर्वंशैरग्निमुखैः करैः ।
विदीर्यन्ते हृदयानि स्तनानि मस्तकानि च ॥१०८॥
बद्ध्यन्ते रश्मिपाशैश्च क्षिप्यन्ते कटकादिभिः ।
कुठारैः परशुभिश्च विभिद्यन्ते कबन्धकाः ॥१०९॥
शृंखलाभिः प्रताड्यन्ते ज्वाल्यन्ते चानलैस्तदा ।
राक्षस्यः कन्यका हन्यन्तेऽन्धताडनकैर्मिथः ॥११०॥
एवं वै तुमुलस्तत्र संग्रामः समजायत ।
न कस्याश्चिच्छ्रूयतेऽत्र शब्दे युद्धप्रगर्जनैः ॥१११॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने राक्षसीनां कन्यकानां च अश्वपट्टसरःसन्निधौ तुमुलयुद्धारंभो नाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : April 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP