संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २२

त्रेतायुगसन्तानः - अध्यायः २२

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके त्वेकदा पूर्वे महान् वै तपसां निधिः ।
ऋषिवर्यश्च्यवनाख्यो भार्गवेन्द्रो महातपाः ॥१॥
कुर्वन् तीर्थानि पातालं ययौ यदृच्छया स्वयम् ।
ततो रसातलं प्राप तत्र ददर्श शोभनम् ॥२॥
महत् पुरं दानवानां प्रविवेश स तत्पुरम् ।
चचार नागकन्याभिः पूज्यमानः समन्ततः ॥३॥
तमेनं च्यवनं वीक्ष्य प्रह्लादाख्यो रसाधिपः ।
भृगुपुत्रस्य सम्पूजां चक्रे त्वग्र्यां यथार्हतः ॥४॥
परस्परं सुकुशलं पप्रच्छतुर्निरामयम् ।
उपविष्टं मुनिं नत्वा प्रह्लादः प्राह भार्गवम् ॥५॥
अद्य ते दर्शनादस्मि सम्प्राप्तः कृतकृत्यताम् ।
साधूनां दर्शनं पापहरं पुण्यप्रदं शुभम् ॥६॥
साधवस्त्वादृशा लोकाँस्तारयन्ति च मादृशान् ।
कृपालवः पर्यटन्ति पापिनां तारणाय ते ॥७॥
मदुद्धारपरः साधो त्वमत्र यदुपागतः ।
पावितोऽस्मि ऋषे चाऽहं दैत्यदानवमध्यगः ॥८॥
वसाऽत्र चर धर्मं च क्रतुं चापि जपादिकम् ।
तवैवेदं मम राज्यं सेवयिष्यामि दासवत् ॥९॥
ऋषिः प्राह तव भक्त शोभते वैष्णवो यतः ।
त्वयि शासति भक्तेन्द्रे देवब्राह्मणपूजके ॥१०॥
मखान् भूमौ नृपतयो यजन्ते विधिवत् सदा ।
ब्राह्मणाद्यास्तपो धर्मं तीर्थं यात्रां च कुर्वते ॥११॥
देवाः सन्ति च निश्चिन्ताः सन्ति धर्माः प्रजासु च ।
त्वयि राज्ये स्थिते दैत्य धर्मस्थे तिष्ठते वृषः  ॥१२॥
रसातलेऽथवा भूमौ स्वर्गे वा समता मम ।
यत्र भक्तस्तत्र सर्वं स्वर्गं मे सम्मतं नृप ॥१३॥
तवेच्छापूरणार्थं वै स्थास्याम्यत्रोत्तरायणम् ।
ततो यास्यामि वै दर्शनार्थं बालप्रभोर्ध्रुवम्  ॥१४॥
प्रह्रादस्तु तदा प्राह यद्यप्येतन्मया श्रुतम् ।
दैत्यमुखाद्धरिस्तत्र कृष्णनारायणः प्रभुः ॥१५॥
पृथ्व्यां संराजते बालस्तथापि वद मेऽधिकम् ।
कः कथं कीदृशश्चाऽऽस्ते पावनः पुरुषोत्तमः ॥१६॥
द्रष्टुमिच्छाम्यहं त्वेनमनादिपुरुषोत्तमम् ।
चमत्कारान् वद तस्य तीर्थान्यन्यानि मे वद  ॥१७॥
श्रेष्ठानि कानि तीर्थानि पृथिव्यां कानि चाम्बरे ।
रसातले च कानि स्युरेतद् वद ततोऽप्यहम् ॥१८॥
तीर्थयात्रां गमिष्यामि कर्तुं कर्तुं च दर्शनम् ।
अनादिश्रीकृष्णनारायणस्य परमात्मनः  ॥१९॥
च्यवनो हि तदा प्राह प्रह्लादं भक्तपुंगवम् ।
सौराष्ट्रे परमं तीर्थं चाऽश्वपट्टसरोवरम् ॥२०॥
पृथिव्यां नैमिषारण्यं चान्तरीक्षे तु पुष्करम् ।
रसातले चक्रतीर्थं पाताले हाटकेश्वरम् ॥२१॥
पर्वते बदरीतीर्थं चारण्ये नारसिंहकम् ।
जले क्षीरोदशायि स्वर्गे च मेरौ हरेर्गृहम् ॥२२॥
इत्येवं सन्ति तीर्थानि पावनानि तु पापिनाम् ।
श्रत्वैवं भार्गववाक्यं दैत्यराजस्तु राधिके ॥२३॥
तीर्थानि गन्तुकामोऽभूद् दानवानिदमब्रवीत् ।
उत्तिष्ठध्वं गमिष्यामः स्नातुं तीर्थानि वै भुवि ॥२॥
द्रक्ष्यामः परमात्मानं कृष्णनारायणं प्रभुम् ।
इत्युक्ता दानवा दैत्या आसुरा राक्षसास्तथा ॥२५॥
चक्रुरुद्योगमतुलं निर्जग्मुश्च रसातलात् ।
सहितास्ते च्यवनेन ययुः श्रीहाटकेश्वरम् ॥२६॥
विधिना स्नानपूजादि कृत्वा श्रीहाटकेशितुः ।
पातालादूर्ध्वमायाताः सौराष्ट्रे विवरैर्भुवम् ॥२७॥
कुंकुमवापिकाक्षेत्रे चाऽश्वपट्टसरोवरे ।
लोमशस्याऽऽश्रमपूर्वे स्नानं चक्रुर्मुदान्विताः ॥२८॥
स च्यवनः स प्रह्रादः सर्वदैत्यसमन्वितः ।
अनादिश्रीकृष्णनारायणं बालस्वरूपिणम् ॥२९॥
सर्वावतारसंजुष्टं मुक्तकन्यादिसेवितम् ।
ददर्श पूजयामास दध्यौ सर्वमनोहरम् ॥३०॥
ततः श्रीकम्भरालक्ष्मीं नत्वा गोपालकृष्णकम् ।
लोमशं पूजयित्वा च सरो वै पुष्करं ययौ ॥३१॥
सरस्वतीं चावगाह्य धर्मारण्यं गतोऽभवत् ।
मेरोः कृत्वा सुतीर्थानि ततः श्रीबदरीं ययौ ॥३२॥
नरनारायणौ यत्र तेपाते तप उत्तमम् ।
समुन्नतजटाभारौ तपस्यासक्तमानसौ ॥३३॥
अतिसौम्यस्थरूपौ च कृष्णाजिनधरौ मुनी ।
ददर्श विमलौ देवौ पुपूजाऽतीव भावतः ॥३४॥
स्नात्वा गंगां शालवृक्षं नैमिषारण्यसन्निधौ ।
ययौ दैत्येन्द्र एवासौ ददर्श तत्र तौ पुनः ॥३५॥
शालद्रुमकृतावासौ तापसा तौ नरोत्तमौ ।
तयोश्च पार्श्वयोर्दिव्ये धनुषी लक्षणान्विते ॥३६॥
शार्ङ्गमाजगवं चाप्यक्षय्यावपि महेषुधी ।
शालवृक्षं महाशाखं शरैश्चितं च हेतिभिः ॥३७॥
ददर्श बाणानपरान् मुखे लग्नान् परस्परम् ।
ततस्तानद्भुताकारान् बाणान्नागोपवीतकान् ॥३८॥
दृष्ट्वाऽतुलं रुषं चक्रे दैत्यो द्विरूपदर्शनात् ।
तापसौ तौ सशस्त्रौ च दृष्ट्वाऽमन्यत दाम्भिकौ ॥३९॥
बलगर्वेण च व्याप्तः प्रोवाच पुरुषोत्तमौ ।
किं भवद्भ्यां समारब्धो दम्भो धर्मविनाशनः ॥४०॥
क्व तपः क्व जटाभारः क्व चेमौ प्रवरायुधौ ।
अथोवाच नरो दैत्यं का ते चिन्ता परकृते ॥४१॥
सामर्थ्ये सति यत् कुर्याद् घटते तस्य तत्तथा ।
आवां वै तापसौ रक्षाकरौ दैत्यनिषूदनौ ॥४२॥
उभयं कुर्वो दैत्येन्द्र याहि मा वह गर्वकम् ।
अथोवाच दितीशस्तौ का शक्तिर्युवयोरिह ॥४३॥
दैत्यनाशकरी धर्मरक्षके मयि तिष्ठति ।
नरः प्राह च दैत्येन्द्र आवाभ्यां शक्तिरर्जिता ॥४४॥
न कश्चिच्छक्नुयाज्जेतुं नरनारायणौ युधि ।
अनादिश्रीकृष्णनारायणात्मानौ परेश्वरौ ॥४५॥
प्रह्लादस्तु ततो गर्वात् प्रतिज्ञामकरोत् पुरः ।
यथाकथञ्चिद् जेष्यामि नरनारायणौ रणे ॥४६॥
च्यवनस्तं तदा प्राह मा वोचः श्रीहरिं प्रति ।
नाऽयं जय्यो हि भगवान् क्षय्येन तु त्वया क्वचित् ॥४७॥
दैत्यः प्राह प्रतिज्ञा सा मयोक्ता नान्यथा भवेत् ।
करिष्ये सर्वथा यत्नं विजेष्यामि ध्रुवं हि तौ ॥४८॥
इत्युक्त्वा च्यवनं नत्वा सज्यं चापं वितत्य च ।
चकार गर्जनं ज्यायास्तलध्वनिं चकार च ॥४९॥
संक्षिप्तं स्वबलं स्थाप्य वने युद्धार्थमुद्यतः ।
ततो नरस्त्वाजगवं चापमानम्य वै शरान् ॥५०॥
मुमोच तान् पृषत्कैश्च चिच्छेद दैत्यपुंगवः ।
छिन्नान् समीक्ष्याऽथ नरो बाणान् दैत्येन तत्क्षणम् ॥५१॥
महाबाणान् मुमोचापि क्रमशो दैत्यनाशकान् ।
नरश्चैकं दितिजो द्वौ नरस्त्रीन् चतुरोऽसुरः ॥५२॥
नरः पञ्च दितिजः षड् बाणान् मुमोच नाशकान् ।
नरः सप्त दितिजोऽष्टौ नरो मुमोच त्रीणि षट् ॥५३॥
दैत्यो दश नरश्चैकादश दैत्यश्च षोडश ।
नरो द्वात्रिंशत्पृषत्कान् दैत्यः षष्टिशराँस्तदा ॥५४॥
शतं नरो मुमोचाऽपि दैत्यः शतद्वयं पुनः ।
नरः शतत्रयं दैत्यः षटशतानि ससर्ज वि ॥५५॥
नरः सहस्रं दैत्यश्च पारेसहस्रमाहिनोत् ।
एवं चाऽसंख्यबाणाँस्तौ मिथो गर्वान्ममोचतुः ॥५६॥
नरोंसख्यशरव्रातैरवास्तरत् खदिग्भुवः ।
दैत्योऽप्यसंख्यबाणैस्तान् छिच्छेद बहुयत्नतः ॥५७॥
तदा वरास्त्रैर्युध्येतां समन्त्रेर्नरदानवौ ।
वह्निं नरो जलं दैत्यो वाय्वस्त्रं पर्वतास्त्रकम् ॥५८॥
नागास्त्रं गारुडास्त्रं च धूमास्त्रं तैजसास्त्रकम् ।
नार्यस्त्रं च नरास्त्रं च षण्ढास्त्रं यौवनास्त्रकम् ॥५९॥
एवं परस्परं तौ च चिक्षिपतुर्जिघांसया ।
ब्रह्मास्त्रं दैत्यवर्यः स मुमोचातिभयंकरम् ॥६०॥
नारायणाऽस्त्रमग्रं च नरो मुमोच तत्क्षणम् ।
संहृते ते ह्युभे चाथ प्रल्हादः क्रोधमूर्छितः ॥६१॥
गदां प्रगृह्य तरसा प्रचस्कन्द रथोत्तमात् ।
नारायणश्च तं वीक्ष्य समायान्तं गदायुतम् ॥६२॥
नरं स्वपृष्ठतः कृत्वा योद्धुमग्रगतोऽभवत् ।
दैत्यो भ्रान्त्वा गदां वेगान्मूर्ध्नि कृष्णमताडयत् ॥६३॥
ताडितस्य हरेर्नेत्रद्वयाद् वार्यपतद् बहु ।
गदापि शतधा भिन्ना न्यपतद् भुवि खण्डशः ॥६४॥
दैत्यस्तूर्णं रथे स्थित्वा कार्मुकं प्रसमाददे ।
बाणान् शिलीमुखान् तीक्ष्णान् मुमोचार्धशशिप्रभान् ॥६५॥
हरिविच्छेद् तान् बाणैर्निर्बिभेद च दानवम् ।
दानवोऽपि हरिं बाणैर्विव्याध च शिलीमुखैः ॥६६॥
एवं परस्परं चाविध्येतां मर्मसु रोषतः ।
तदाऽम्बरे दिदृक्षूणा देवानां देहिनां तथा ॥६७॥
सन्निपातोऽभवद् व्योम्नि दुन्दुभयो महास्वनाः ।
अवाद्यन्त तथा पुष्पवर्षं चाभूत् तयोः कयोः ॥६८॥
अथैवं बलमापन्नौ दैत्यनारायणावुभौ ।
बबन्धतुस्तदाऽऽकाशं सुतीक्ष्णशरवृष्टिभिः ॥६९॥
सर्वदिशोऽच्छादयतामयुध्येतामसुग्लहम् ।
नारायणस्तु दैत्यं तं शरैर्बिभेद मर्मसु ॥७०॥
दैत्यो बिभेद हृदये बाह्वोर्मुखे नरायणम् ।
नारायणोऽर्धचन्द्रेण चिच्छेद दैत्यकार्मुकम् ॥७१॥
दानवश्चापरं सज्यं धनुः कृत्वा शरैर्हरिम् ।
ववर्ष तान् हरिश्छित्वा दैत्यं बाणैरवाकिरत् ॥७२॥
कार्मुकं च क्षुरप्रेण चिच्छेद चापरं ततः ।
तृतीयं च चतुर्थं च चिच्छेद पञ्चमं धनुः ॥७३॥
अथ दैत्यो लोहमयं जग्राह परिघं दृढम् ।
भ्रामयामास यावत्तं चिच्छेद भगवान् शरैः ॥७४॥
प्रह्लादो मुद्गरं भ्रान्त्वा चिक्षेप च नरायणे ।
हरिर्दशभिर्नाराचैश्चिच्छेद मुद्गरं यदा ॥७२॥
दैत्यः पाशयुतस्तूर्णं दुद्राव श्रीहरिं प्रति ।
हरिः पाशं तु बाणेन चिच्छेद बहुखण्डशः ॥७६॥
दैत्यः शक्तिं सप्ततालदीर्घामादाय माधवम् ।
प्रति चिक्षेप च हरिस्तां चिच्छेद क्षुरप्रकैः ॥७७॥
दैत्यश्च पर्वतशृंगं चिक्षेप माधवोपरि ।
हरिः शक्त्या विदार्यैतद् दानवस्य तु वक्षसि ॥७८॥
शूलं शक्तिसमं वेगात् प्राहिणोद् दानवस्तदा ।
प्रभिन्नहृदयो राधे पपात रथमध्यगः ॥७९॥
विसंज्ञं सारथिर्ज्ञात्वा तमपोवाह वै रणात् ।
नारायणो विशश्राम तावत् संज्ञान्वितोऽसुरः ॥८०॥
सुदृढं चापमादाय भूयो योद्धुमुपागतः ।
तावत् सायं हरिर्दृष्ट्वा प्रत्युवाच महासुरम् ॥८१॥
गच्छ दैत्येन्द्र योत्स्यामः प्रातस्त्वाह्निकमाचर ।
एवमुक्तो ययौ नत्वा नैमिषं चाह्निकं व्यधात् ॥८२॥
एवं नित्यं महायुद्धं प्रववृते तयोर्दिने ।
रात्रौ विश्रान्तिसमये चिन्तयत्यपि दानवः ॥८३॥
कथं जेष्यामि तं वीरं दाम्भिकं साध्यमीश्वरम् ।
अथैवं दानवस्तेनाऽयुध्यत बहुवत्सरान् ॥८४॥
न चाऽजयत् तदा वर्षसहस्रान्तेऽजितं हरिम् ।
नारायणं समभ्येत्य दानवो वाक्यमब्रवीत् ॥८५॥
किमर्थं देवदेवेश त्वामहं साध्यमीश्वरम् ।
विजेतुं नात्र शक्नोमि तस्य मे कारणं वद ॥८६॥
नारायणश्च तं प्राह दुर्जयोऽहं सुराऽसुरैः ।
अपि कोट्यस्त्रशस्त्राद्यैर्बलैः सर्वविधैरपि ॥८७॥
प्रह्लादस्तु तदा प्राह यद्यसाध्यश्च दुर्जयः ।
प्रतिज्ञातं मया जेतुं तदसत्यं भवेदिह ॥८८॥
ख्यातो हतप्रतिज्ञोऽहं कथं जीवेयमीश्वर ।
तस्मात्ते सन्निधौ विष्णो सन्त्यक्ष्ये जीवनं मम ॥८९॥
इत्युक्त्वा निषसादाऽग्रे गृणन् ब्रह्मसनातनम् ।
हरिः प्राह कृपालुः स्वं भक्तं श्रद्धान्वितं परम् ॥९०॥
गच्छ जेष्यसि भक्त्या मां न युद्धेन कदाचन ।
प्रह्लादश्च तदा प्राह त्रैलोक्यं विजितं मया ॥९१॥
परं न विजितोऽसि त्वं लोकरक्षाकरो यतः ।
धर्मप्रवर्तनार्थाय तपश्चर्यां समास्थितः ॥९२॥
तत्त्वां जेतुं परां भक्तिं करिष्ये जयदां शुभाम् ।
शुश्रूषां तव देवेशाऽऽराधनां सेवनादिकम् ॥९३॥
करिष्ये येन युद्धेन त्वं पराजयमाप्नुयाः ।
तद् युद्धं वै प्रतिज्ञातं फलदं मे भविष्यति ॥९४॥
शस्त्रं भक्त्यात्मकं कृष्णे योजयिष्ये ह्यतः परम् ।
इत्युक्त्वा दैत्यवर्यः स हिरण्याक्षसुताऽन्धकम् ॥९५॥
समाहूयाऽब्रवीत् हृष्टः साध्यं साधयितुं व्रती ।
दैत्याश्च दानवाश्चापि परिपाल्यास्त्वयाऽन्धक ॥९६॥
मयोत्सृष्टमिदं राज्यं प्रतीच्छ परिपालय ।
अहं युद्धेन तपसा भक्त्याऽऽराधनया तथा ॥९७॥
विजेष्ये श्रीहरिं देवेश्वरं दाम्भिकमीश्वरम् ।
इत्युक्तोऽन्धकदैत्यश्च जग्राह राज्यमुत्तमम् ॥९८॥
प्रह्लादः प्रययौ पुण्यं हरेर्बदरिकाश्रमम् ।
यावास्तां नैमिषे क्षेत्रे शालग्रामे च यौ प्रभू ॥९९॥
तावेव वीक्ष्य देवौ स नरनारायणावुभौ ।
कृताञ्जलिपुटो -भूत्वा ववन्दे चरणौ तयोः ॥१००॥
नारायणश्च तं प्राह मामजित्वा महासुर ।
किमर्थं प्रणतोऽस्यत्र वद यत्ते समीहितम् ॥१०१॥
प्रह्लादः प्राह भगवन् कस्त्वां जेतुं प्रभुः पुमान् ।
कस्त्वत्तोऽस्ति पुमान् श्रेष्ठस्त्वमेव पुरुषोत्तमः ॥१०२॥
त्वमेव तपसा द्योतज्जटाजूटधनुर्धरः ।
त्वां योगिनश्चिन्तयन्ति चार्चयन्ति मनीषिणः ॥१०३॥
जपन्ति स्नातकास्त्वां च यजन्ते त्वां च याज्ञिकाः ।
रामयन्ति च रामास्त्वां पूजयन्ति पतिव्रताः ॥१०४॥
ऐन्द्रियिकस्तपर्यन्ति त्वामेव परमेश्वरम् ।
त्वममर्त्यो हृषीकेशश्चक्रपाणिर्धराधरः ॥१०५॥
महामीनो हयशिरास्त्वमेव कच्छपाकृतिः ।
क्रोडरूपः केसरी त्वं ब्रह्मा श्रीशः सतीपतिः ॥१०६॥
कुबेरो वरुणस्त्वं च समीरो भास्करः शशी ।
सर्वभूतात्मभूतस्त्वं कस्त्वां जेष्यति माधव ॥१०७॥
भक्त्या चेत् त्वं वशं याहि भक्तिं कर्तुं समागतः ।
इत्युक्त्वा च पुनस्तस्य पादयोः प्रणनाम सः ॥१०८॥
नारायणश्च तं प्राह परितुष्टोऽस्मि तेऽनघ ।
भक्त्या त्वनन्यया चाहं त्वया चाद्य पराजितः ॥१०९॥
पराजितश्च पुरुषो जेत्रे दण्डं प्रयच्छति ।
दण्डार्थं ते प्रदास्यामि वरं वृणु यमिच्छसि ॥११०॥
प्रह्लादः प्राह मे पापं शारीरं मानसं च वा ।
वाग्भवं नाशमायातु यन्मया युध्यता कृतम् ॥१११॥
या या जायेत मे बुद्धिः सा सा विष्णो त्वदाश्रिता ।
देवार्चनेऽतिनिरता त्वच्चित्ता त्वत्परायणा ॥११२॥
त्वत्पादपद्मयोर्नित्यं रतिश्चास्तु परा मम ।
नारायणश्च तं प्राह तथैवाऽस्तु सदा तव ॥११३॥
अपरं चास्तु भक्तेन्द्रो नित्यमेवाऽक्षयोऽव्ययः ।
अजरश्चामरश्चापि मत्प्रसादाद्भविष्यसि ॥११४॥
इतो गच्छ परं श्रेष्ठं चाश्वपट्टसरोवरम् ।
कुंकुमवापिकाक्षेत्रे यत्राऽऽस्ते पुरुषोत्तमः ॥११५॥
अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः ।
तं दृष्ट्वा श्रीहरिं ध्यात्वा निधाय हृदि तं प्रभुम् ॥११६॥
लोमशाच्च महामन्त्रं गृहीत्वा पावनस्ततः ।
गच्छ त्वं भक्तशार्दूल स्वमावासं क्रियारतः ॥११७॥
प्रशासयन् सर्वदैत्यान् राज्यं पालय शाश्वतम् ।
स्वजातिसदृशं दम्भं कुरु भक्तिं च शासनम् ॥११८॥
न कर्मबन्धो भवतो मच्चित्तस्य भविष्यति ।
हितोपदेष्टा दैत्यानां दानवानां गुरुर्भव ॥११९॥
एवमुक्तो हरिं नत्वा क्षमाप्य श्रीहरिं नरम् ।
ययौ च्यवनसंयुक्तः सौराष्ट्रे लोमशाश्रमम् ॥१२०॥
कुंकुमवापिकाक्षेत्रे ददर्श पुरुषोत्तमम् ।
अश्वपट्टसरोवारिस्नानं कृत्वाऽऽर्च्य केशवम् ॥१२१॥
औं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
मन्त्रं प्राप्य मासमात्रमुषित्वा प्रययौ गृहम् ॥१२२॥
अश्मकं नाम नगरं शशास च रसातलम् ।
दृष्टः सभाजितश्चापि दानवैरन्धकादिभिः ॥१२३॥
भक्तिं चकार नवधा ध्यानमाराधनादिकम् ।
अनादिश्रीकृष्णनारायणमूर्तिं प्रपूजयन् ॥१२४॥
इत्येवं कथितं राधे भक्त्या जय्यो जनार्दनः ।
दैत्येनापि पराभक्त्या विजितः परमेश्वरः ॥१२५॥
द्वितीयेऽब्दे हरेर्दैत्यश्च्यवनो मार्गशीर्षके ।
न्यूषतुस्तन्महत्तीर्थं च्यावनं दक्षिणे तटे ॥१२६॥
अश्वपट्टसरसो वै प्राह्लादिकं तथोच्यते ।
प्रह्लादो दैत्यदनुजान् बोधयामास तन्मनुम् ॥१२७॥
रसातलमतास्तेऽपि भक्ता बभूवुरैश्वराः ।
अनादिश्रीकृष्णनारायणं भेजुरहर्निशम् ॥१२८॥
इत्येतत् कथितं राधे सर्वपातकनाशकम् ।
परमं साधनं दैत्योद्धारकं चाक्षयं दृढम् ॥१२९॥
जयदं शान्तिदं स्मृद्धिप्रदं शाश्वतमोददम् ।
हरेश्चरणदं पाठश्रुतिभ्यां मोक्षदं परम् ॥१३०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने च्यवनयोगेन प्रह्लादस्य रसातलात्तीर्थार्थं भूमावागमनं नरनारायणेन सह युद्धं भक्त्या नारायणपराजयः, प्रह्लादच्यवनयोर्लोमशाश्रमागमश्चेत्यादिनिरूपणनामा द्वाविंशतितमोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : April 30, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP