त्रेतायुगसन्तानः - अध्यायः ८०
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
श्रूयतां च त्वया राधे चमत्कारो हरेः परः ।
तारिता दुःखतो भक्ता भीमासरित्तटे पुरा ॥१॥
दक्षिणे पौंड्रकसंज्ञे पत्तने क्षत्रियर्षभः ।
नाम्ना बलेशवर्माऽभूद् राजा खण्डधरापतिः ॥२॥
वैष्णवः परमो भक्तो योगक्रियाविशारदः ।
कपिलस्याऽभवच्छिष्यः सांख्यज्ञानविवेकवान् ॥३॥
भीमातटे नातिदूरे पर्वते कपिलाश्रमे ।
सांख्यानां योगिनां योगं समागमं करोति सः ॥४॥
यदाश्रमे पुरा देवः कपिलस्तीर्थयोगकृत् ।
दशवर्षाणि तत्रैव तस्थौ रम्ये वने शुभे ॥५॥
अद्रिभागेऽतिशुभगे शान्तिदे निर्जनेऽमले ।
तदा बलेशवर्माऽसौ संसेव्य कपिलं मुनिम् ॥६॥
प्राप्तवान् सांख्ययोगौ च परमैश्वर्यसम्पदः ।
सिद्धीश्चाऽदृश्यभावं च बहुरूपभवादिकम् ॥७॥
कपिलस्तु तथैश्वर्यं दत्वा ययौ स्थलान्तरम् ।
राजा नित्यं समायाति तदाश्रमं विलोकितुम् ॥८॥
क्षणं ध्यात्वा पदं तच्च गुरुं संस्मृत्य वै मुहुः ।
प्रपूज्य पीठमेतच्च ततो योगिजनान् परान् ॥९॥
साधून् वने स्थिताँश्चापि नत्वा याति निजं गृहम् ।
एवं करोति नित्यं स सांख्ययोगपरायणः ॥१०॥
अथैकदा व्रतं कर्तुं राजा श्रीकपिलाश्रमे ।
समाययौ सपत्नीकः कार्तिके न्यवसद् बहिः ॥११॥
वृक्षच्छायां समाश्रित्य भूशयानः फलाशनः ।
ब्रह्मचर्यपरः कृच्छ्रव्रतस्थिता च तत्प्रिया ॥१२॥
आतिथ्यधर्मनिरतश्चान्नसत्रप्रबन्धनः ।
नित्यं होमपरश्चापि सहस्रदीनभोजनः ॥१३॥
दानधर्मपरश्चातुर्मास्यान्तव्रततत्परः ।
बहवः साधवस्तत्र सिद्धाः साध्यश्च योगिनः ॥१४॥
यात्रिणो वनवासाश्च समायान्ति सदाव्रते ।
अन्नार्थिभ्यो ददात्यन्नं वस्त्रार्थिभ्यस्तथाऽम्बरम् ॥१५॥
पात्रार्थिभ्यश्च पात्राणि धनार्थिभ्यो धनानि च ।
यद्यदिष्टं भवेद् यस्याऽर्थिनस्तस्मै तदिष्टकम् ॥१६॥
ददात्येव बलेशः स दक्षिणां प्रददाति च ।
कार्तिके धृतवान् श्रेष्ठं व्रतं यो यत्प्रयाचते ॥१७॥
तत्तस्मै सम्प्रदेयं वै नकारो वाच्य एव न ।
राज्ञः पुत्रोऽभवत्तत्र द्वादशाब्दोऽतिकोमलः ॥१८॥
राज्ञी शीलवती नाम्ना पातिव्रत्यं प्ररक्षति ।
पुत्रश्च पुण्ड्रको नाम्ना ब्रह्मभक्तिं करोति हि ॥१९॥
त्रयस्ते लोकसाधूनां सेवापरा भवन्ति वै ।
तारकायननामा च महर्षिर्वैष्णवो महान् ॥२०॥
तत्रैव वसति योगी योगध्यानपरायणः ।
वैहायसगतिर्दिव्यः कामरूपधरो यतिः ॥२१॥
अष्टसिद्ध्याश्रयश्चास्ते सर्वकामान्यवर्जितः ।
स मुनिर्ध्यानयोगेन ज्ञात्वा कुंकुमवापिकाम् ॥२२॥
साक्षादनादिश्रीकृष्णनारायणसमाश्रिताम् ।
लोमशस्याश्रमं गत्वा कृत्वा श्रीकृष्णदर्शनम् ॥२३॥
गृहीत्वा च मनुं मोक्षप्रदं श्रीपतिमाधवात् ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥२४॥
जजाप नित्यदा नैजाश्रमे स्थित्वान्तरे स्थले ।
नित्यं व्योम्ना प्रगे याति चाश्वपट्टसरोवरम् ॥२५॥
कृत्वा हरेर्दर्शनं च पुनः प्रयाति चाश्रमम् ।
तारकायनसंज्ञोऽयं महर्षिर्व्योमतो भुवम् ॥२६॥
अवातरत् तदा राजा दर्शनार्थं ययौ द्रुतम् ।
पप्रच्छ विनयी भूत्वा प्रणतार्तिहरं मुनिम् ॥२७॥
गम्यते क्व ऋषे! नित्यं प्रातः कल्याणकृद् यदि ।
जिज्ञासितं तु मे वाच्यं यदि रोधो न विद्यते ॥२८॥
साधूनां संगतिः स्वर्गप्रदा मोक्षप्रदा तथा ।
दुःखनाशकारी चापद्विनाशिनी मता सदा ॥२९॥
योगिनामीश्वराणां च साधूनां च सतामपि ।
विहारो यत्र तत्राऽस्ति नारायणो हि गोचरः ॥३०॥
साधूनां चरणः पूज्यो जलं पेयं पदामृतम् ।
भोज्यं प्रासादिकं तेषां ग्राह्यं वचो मुखोद्भवम् ॥३१॥
सतां सेवा हरेः सेवा सतां संगो हरेर्हि सः ।
सतां देहो हरेर्देहः सन्तो वै हरिमूर्तयः ॥३२॥
सन्तो ध्येयाः सदा ध्याने सन्तो धार्या सदा हृदि ।
सन्तः सेव्याः सर्वदानैः सत्सु हरिर्विराजते ॥३३॥
सतां दृष्टिर्हरेर्दृष्टिः सतां स्पर्शो हरेर्हि सः ।
सतामाश्लेषणं कृष्णाश्लेषणं पापनाशकम् ॥३४॥
सतां पादरजो धार्यं मस्तके हृदि चानने ।
सतां पादजलं धार्यं मुखे शिरसि विग्रहे ॥३५॥
सतां प्रसन्नता प्राप्या देहगेहसुतादिभिः ।
धनसम्पत्प्रदानैश्च स्वात्मार्पणेन सर्वथा ॥३६॥
अनित्यः सर्वथा देहो रक्षितोऽपि विनश्यति ।
तेन सेवा सदा कार्या ग्राह्या प्रसन्नता सताम् ॥३७॥
यत्रेन्द्रिये च विषये रुचिः स्वस्याऽतिवेगिता ।
तत्रेन्द्रिये हि कर्तव्या सेवा तूभयतुष्टये ॥३८॥
साधूनां हृदये साक्षात्परमात्मा विराजते ।
शुभास्तस्मात् क्रियाः सर्वाः सतामिन्द्रियदेहजाः ॥३९॥
सन्तो दिव्याः क्रिया दिव्या दिव्यो देहः सतां सदा ।
दिव्यश्चेन्द्रियवर्गश्च सतां दिव्या हि धातवः ॥४०॥
सतां विचारो दिव्यश्च बुद्धिर्दिव्या सतां सदा ।
सतां स्वप्नं च शयनं रमणं दिव्यमेव तत् ॥४१॥
सत्सु मायाकृतं कार्यं विद्यते नैव सर्वथा ।
सत्सु पुण्यं तथा पापं परमेश्वरमाश्रितम् ॥४२॥
लेपहीनं सदा दिव्यं शाश्वतानन्ददायकम् ।
पुण्यानां खनयः सन्तः पापलेशो न यत्र वै ॥४३॥
तादृशस्त्वं मुने दिव्यो वर्तसे तारकायन ।
यथा विष्णुस्तथा त्वं वै तारकोऽसि भवार्णवात् ॥४४॥
वद ते संगमाप्तेभ्यो नश्च भाग्यं हि नो महत् ।
इत्युक्त्वा नृपतिस्तस्थौ प्रतिक्षँस्तदृषेर्वचः ॥४५॥
तं तारकायनः प्राह शृणु राजन् बलेश्वर ।
यो लोके प्रथितश्चास्ति भगवान् पुरुषोत्तमः ॥४६॥
परब्रह्म च वेदेऽस्ति सर्वावतारधृक् प्रभुः ।
परधामस्थितो यः सः सौराष्ट्रे कम्भरागृहे ॥४७॥
अश्वपट्टसरःक्षेत्रे कुंकुमवापिकाभुवि ।
श्रीमद्गोपालबालः स लोमशभ्वां विराजते ॥४८॥
यत्र ब्रह्मप्रियाः कोट्यर्बुदाब्जपद्मसंख्यकाः ।
सर्वाश्च शक्तयस्तीर्थकोटयः सन्ति देहिनः ॥४९॥
मानवे पादपे तार्णे तैर्यञ्चे भौतिकेऽपि च ।
सर्गे ब्रह्मप्रिया यत्र तिष्ठन्ति ब्रह्मलालसाः ॥५०॥
मुक्ता धामगताश्चापि बहुधामनिवासिनः ।
प्रच्छन्ना भिन्नवर्ष्माणो यत्र तिष्ठन्ति योगिनः ॥५१॥
तं प्रभुं परमात्मानं द्रष्टुं गच्छामि नित्यशः ।
प्रातः सम्पूज्य तं देवं पीत्वा तच्चरणाम्बुजम् ॥५२॥
ततस्तीर्थानि कृत्वैव समागच्छामि चासनम् ।
इत्युक्तो नृपतिः प्राह कदा तद्दर्शनं मम ॥५३॥
भविष्यतीति मे ब्रह्मन् वद साधो कृपां कुरु ।
मुनिः प्राह गृहाणैनं मन्त्रं जपपरो भव ॥५४॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
इत्येनं राधिके मन्त्रं दत्वा च तौलसीं स्रजम् ॥५५॥
महावैष्णवसेव्यं च दत्वा हरेः पदामृतम् ।
ऋषिर्ययौ निजावासं राजा राज्ञी सुतस्ततः ॥५६॥
जेपुस्तं परमं मन्त्रं ध्याने बभूवुरास्थिताः ।
सस्मरुस्तमनादिश्रीकृष्णस्वामिनरायणम् ॥५७॥
अथ श्रीबालकृष्णस्तु परीक्षार्थं हि भूभृतः ।
आजगामाऽतिथिरूपो मध्याह्ने भोजनोत्तरम् ॥५८॥
सप्तमेऽह्नि कृष्णवर्णो लोहवलयधारकः ।
रक्ताक्षः कौपीनमात्रवसनो जंगली यथा ॥५९॥
प्राह राजा तु तं वीक्ष्य समायाहि वनेचर ।
गृहाण भोजनं वारि ततो याहि यथासुखम् ॥६०॥
जंगमी प्राह नोच्छिष्टं मया वै भुज्यते क्वचित् ।
नान्यपक्वं च भुंजेऽहं कथं ददासि भोजनम् ॥६१॥
अहं वै जंगली चास्मि भोजनं तामसं मम ।
अन्यप्राणिसमुत्थं तु नाऽहं भुंजे कदाचन ॥६२॥
यदि सत्यप्रतिज्ञोऽसि नकारो नोच्यते त्वया ।
देहि मे भोजनं राजन् प्रियं यच्छान्तिदं भवेत् ॥६३॥
नृपः प्राह यथेष्टं ते दातुं शक्तोऽस्मि भोजनम् ।
वद स्वैष्टं ददाम्यत्र नाऽदेयं मेऽत्र विद्यते ॥६४॥
सात्त्विकं राजसं वाऽपि तामसं तेऽत्र रोचते ।
अन्योत्थं नेष्यते चेद्वे स्वोत्थं वद ददामि ते ॥६५॥
यच्छक्तं तद् ददाम्येव कार्तिकेयं व्रतं मम ।
दातव्यमेव लभ्यं चेद् वद वनिन् ददामि ते ॥६६॥
वनी प्राह शृणु राजन् मांसादोऽस्मि वने वसन् ।
कार्तिकेऽपि मया त्वेतद्व्रतं पालितमेव ह ॥६७॥
राज्ञः पुत्रस्य मांसं वै मया भक्ष्यमयाचितम् ।
राजा यदि स्वयं दद्याद्धृदयस्यैव नेतरत् ॥६८॥
इत्येवं मे व्रतं त्वास्ते रक्तं पेयं च हृद्गतम् ।
नैव वारि प्रपेयं च व्रतं मे तामसं यतः ॥६९॥
नाऽहं याचे नृप त्वत्तो व्रतं मया प्रकाशितम् ।
याचना नैव कर्तव्या व्रतभंगकरी यतः ॥७०॥
इत्युक्त्वा स ततः स्थानाद् वनं प्रति विलोक्य च ।
गन्तुं पदक्रमान् चक्रे यथा याञ्चाकरो न वै ॥७१॥
राज्ञी प्राह विलोक्यैव वनिन् तिष्ठ स्थिरो भव ।
पादप्रक्षालनं कुर्वे चातिथेः परमात्मनः ॥७२॥
क्षणान्तरे ददात्येषः राजा त्वदिष्टभोजनम् ।
आसनं स्वीकुरु त्वेतत् काम्बलं तिष्ठ शान्तितः ॥७३॥
वनी प्राह व्रतं मेऽस्ति स्थेयं वै कार्तिके सदा ।
कुमारीकन्यकासक्थि विवस्त्रं चेत्तु लभ्यते ॥७४॥
तस्या ऊरौ मया चासीतव्यं न त्वन्यथा क्वचित् ।
राज्ञी पुत्रीं तदा प्राह भव पुत्रि शुभासनम् ॥७५॥
कन्याः कृष्णा तथा भीमा तुंगभद्रा च नामतः ।
तिस्र आसँश्च तद्राज्ञस्तिस्रस्तत्र ह्युपस्थिताः ॥७६॥
कृष्णा वस्त्रं परित्यज्य ददौ सक्थि यथासुखम् ।
निषसाद वनी तत्र ध्यानमग्नो बभूव ह ॥७७॥
पुत्रः प्राह पितरं तु राजन् शीघ्रं हि हृन्मम ।
भित्त्वा देहि परेशायाऽतिथये मुक्तये भवेत् ॥७८॥
क्षणाद् राजा तु खङ्गेन द्वेधा स्कन्धात् कटिं प्रति ।
विभिद्य पुत्रहृदयं ददौ रक्तं हि तत्क्षणे ॥७९॥
तावत् कन्या द्वितीयाऽपि भीमा वस्त्रं विना निजम् ।
सक्थि ददौ वनिनेऽत्र वनी मांसं निधाय च ॥८०॥
वुभुजे च पपौ रक्तं तावच्च तुङ्गभद्रिका ।
विवस्त्रा वनिनो हस्तमूरौ संस्कृत्य वै मुहुः ॥८१॥
मुखं संस्कृत्य सक्थ्ना च पादसंवाहनं मुहुः ।
देहसम्मर्दनं चापि चक्रुस्तद्वनिनस्तदा ॥८२॥
अथोत्थाय प्रगन्तुं च वनी यावत् समीहते ।
तावद्राजा दक्षिणार्थं ददाति वचनं शुभम् ॥८३॥
वनी प्राह व्रतं मेऽस्ति यन्मांसं भक्षितं भवेत् ।
तन्माता दक्षिणायां वै ग्राह्या नान्यत् कदाचन ॥८४॥
वनिनीत्युक्तवत्येव राज्ञी शीघ्रमुपस्थिता ।
एषाऽहं तव दास्यास्मि दक्षिणां स्वीकुरु प्रभो ॥८५॥
वनी तां त्वम्बरशून्यां कृत्वा वृक्षतलेऽभवत् ।
रमणं कृतवान् व्योम्नि पृथ्वीं चैवाऽस्पृशन् क्षणम् ॥८६॥
आकाशे तां धृतां दृष्ट्वा राजा व्यतर्कयत् तदा ।
अहो मे परमं भाग्यं पुत्रस्य योषितस्तथा ॥८७॥
कन्यकानां महाभाग्यं हर्यर्थे योजिता वयम् ।
वनी वा स्याद् वानप्रस्थो वनेचरोऽवनेचरः ॥८८॥
अन्तरात्मा हरिस्तृप्तोऽनित्यदेहादितो मम ।
अनित्यं नाशमायाति परार्थं सफलं यदि ॥८९॥
किमस्मात्परमं भाग्यं यैर्हि तृप्यति माधवः ।
धन्योऽहं कृतकृत्योऽहं सर्वं मे सफलं कृतम् ॥९०॥
आगत्य वनिना चात्र व्रतार्थं भौतिकं मम ।
नकारस्याऽत्र वै स्थानं न जातं मम चानने ॥९१॥
मत्पत्न्या वा सुतानां वा पुत्रस्येति जयो मम ।
धन्यास्ताः पुत्रिकाश्चापि धन्यः पुत्रोऽपि मे प्रियः ॥९२॥
धन्या राज्ञी च मे त्वत्र व्रते नं नहि जगृहुः ।
तारितोऽहं कुटुम्बेन सत्यं कुटुम्बकं मम ॥९३॥
अतिथ्यर्थं चोपयोगे स्वीकारितं स्वयं शुभम् ।
धर्मार्थकाममोक्षा मे व्रतेनाऽद्य करे स्थिताः ॥९४॥
जितं जगन्मया त्वद्य चातिथेः कृपया खलु ।
एवं धन्यं मन्यमानः प्रसन्नमानसोऽभवत् ॥९५॥
तावद् राज्ञीं प्रभुक्त्वैव वनी वृक्षादयः स्थितः ।
वनित्वं प्रविहायैव श्रीलक्ष्मीराधिकायुतः ॥९६॥
द्विभुजोऽथ महालक्ष्म्या युतोऽदृश्यत वै तदा ।
महाविष्णुधृतच्छत्रो विष्णुधृतान्नपात्रकः ॥९७॥
भोजनं संग्रसन् तत्राऽदृश्यत परेश्वरः ।
कोटिकन्दर्पशोभाढ्यः कोटिसूर्यसमोज्ज्वलः ॥९८॥
अनन्तमुक्तसंस्तुत्यो देवपितृप्रवन्दितः ।
ईश्वरैरवतारैश्च पूजितो भूषणैर्भृतः ॥९९॥
कोटिब्रह्मप्रियासेव्यः परमाक्षरवन्दितः ।
दिव्यव्योमपरे धाम्नि राजमानो विलोकितः ॥१००॥
दिव्यविमानमध्यस्थगजासनविराजितः ।
दिव्यः षोडशवर्षाढ्यो हसन् प्रेम प्रदर्शयन् ॥१०१॥
वीक्षते परितो भक्तान् राजानं तत्प्रियां सतीम् ।
कन्यास्तिस्रोऽतिभावेन मोहयन् मानसं मुहुः ॥१०२॥
श्रीहरेः सन्निधौ तत्र राजपुत्रः स्थितोऽभवत् ।
दिव्यो दिव्यविभूषाढ्यो यथापूर्वाकृतिः शुभः ॥१०३॥
पुण्ड्रकः प्रहसन् पार्श्वाद्धरेः स्वपितरं प्रति ।
समाजगाम सहसा सुप्तोत्थित इवाऽमलः ॥१०४॥
देवा मुक्ता ईश्वराश्च चक्रुः कुसुमवर्षणम् ।
राजा तुष्टाव भक्त्या श्रीकृष्णनारायणं प्रभुम् ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बलेश्वरराज्ञः कपिलभगवद्योगेन परमभागवतत्वं, तारकायनमहर्षियोगेन कार्तिकव्रते परीक्षार्थं श्रीकृष्णनारायणस्य
वनेचररूपेणाऽऽगमनं, राज्ञः पुत्रपुत्रीस्त्रीकुटुम्बार्पणेन प्रभोर्दर्शनं चेत्यादिनिरूपणनामाऽशीतितमोऽध्यायः ॥८०॥
N/A
References : N/A
Last Updated : May 01, 2021
TOP