त्रेतायुगसन्तानः - अध्यायः २७६
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
राधिके नारदश्चैवं प्राह श्रीपतये तदा ।
बालकृष्णाय वै सर्वं वृत्तं शिवगृहे तु यत् ॥१॥
नारद उवाच-
हरे मया विश्रमितं तावच्छ्रीशिवसर्जकः ।
विश्वशूरो दिव्यदेहस्त्र्यक्षो गृहं समागतः ॥२॥
धन्योऽहं कृतकृत्योऽहं वैष्णवो मद्गृहेऽद्य वै ।
तत्रापि भ्रातृजो मेऽद्य वत्सलः समुपागतः ॥३॥
अहो नारद पुत्र त्वं कुतः खलु समागतः ।
शुभं च कुशलं चास्ते तव भ्रातुश्च मे तथा ॥४॥
विष्णोश्च कुशलं चास्ते कच्चित् कुटुम्बिनः सुखाः ।
इत्युक्त्वा सहसा मां स शिवो वै वक्षसाऽमिलत् ॥५॥
मया वै सत्यलोकस्य पितुर्मे ब्रह्मणस्तथा ।
मातुश्चापि च सावित्र्याः कुशलं परिकीर्तितम् ॥६॥
ततो वै सनकादीनां रुद्रस्यापि प्रकीर्तितम् ।
दक्षादीनां ततश्चापि कुशलं परिकीर्तितम् ॥७॥
ततो विष्णोर्महालक्ष्म्या उदन्तं सर्वमेव तु ।
सुखं च कुशलं चापि वैकुण्ठस्थं प्रकीर्तितम् ॥८॥
ततो त्रैकुण्ठके जातं प्राग्वृत्तं स्मारितं पुनः ।
शिवताण्डवकाले वै लक्ष्म्याः शापादिकं तु यत् ॥९॥
शिवस्य भूतले जन्म शिवेश्वरो भवानिति ।
लक्ष्म्याश्च त्यजनं चापि नारायणेन यत् कृतम् ॥१०॥
भक्तार्थं त्वाययौ नारायणो वै भूतले ह्यनु ।
अनादिश्रीबालकृष्णस्तन्मिषेण परेश्वरः ॥११॥
परब्रह्म समायातश्चाश्वपट्टसरोवरे ।
श्रावितं वै मया तत्तु लक्ष्मीश्चापि समागता ॥१२॥
शिवस्वामिगृहे पुत्री जातेयं श्राविताऽपि सा ।
शिवेयं पार्वती देवी तत्सर्वं श्रावितं मया ॥१३॥
स्मारं स्मारं शिवेशश्चाऽश्रूण्यपि ह्यवासृजत् ।
परिष्वज्य सः मां गाढं पुत्र पुत्रेत्यवाऽमिलत् ॥१४॥
अहं वै शंकरं नत्वाऽऽश्रावयं मम हृद्गतम् ।
कन्यामेतां भगवाँश्च स्मस्त्येवाऽगदं च तम् ॥१५॥
प्रदानकालस्त्वस्या वै समुपस्थित एव ह ।
योग्यं यथार्थं कर्तव्यं तेन सम्पत्स्यते सुखम् ॥१६॥
कृष्णस्य तु भवान् शंभो पूजां करोति नित्यदा ।
दृष्ट एव मुहुर्दिव्यः स एव सुन्दरो वरः ॥१७॥
परब्रह्म स्वयं ते तु निश्चितोऽस्ति जनार्दनः ।
मया दृष्टो भवताऽपि दृष्टो मानवरूपवान् ॥१८॥
क्षेत्रपालस्वरूपेण द्रष्टव्यो नावशिष्यते ।
तथापि चेत् समायाहि यदि वाञ्च्छा प्रविद्यते ॥१९॥
इत्युक्तश्च मया शंभुः सस्मारैव बृहस्पतिम् ।
स च तूर्णं समायातो मधुपर्कादिकं हरः ॥२०॥
प्रददौ गुरवे सर्वं न्यवेदयन्मयोदितम् ।
बृहस्पतिः शुभं प्राह सर्वं यथोत्तमं तथा ॥२१॥
ततो निश्चित्य वै शंभुः कन्यादानं तु मौखिकम् ।
ममाऽग्रे त्ववदच्चापि गुरोरग्रे पुनः पुनः ॥२२॥
मया शुभं मुहूर्तं च दृष्ट्वा भूषाम्बराणि च ।
श्रीफलं तिलकं चापि कन्यायै त्वर्पितानि वै ॥२३॥
त्वत्तो जाता प्रसन्ना सा परिधायाऽम्बराणि च ।
सद्भूषा विविधाश्चापि तदा साऽपि गुरूदिता ॥२४॥
हर्षं गता वरार्थां स्वां मत्वा सखीषु शोभना ।
हरो बृहस्पतिं प्राह कदा महोत्सवो भवेत् ॥२५॥
बृहस्पतिश्चतुर्थ्यां वै मार्गे शुक्लेऽवदत्तु तम् ।
श्रुत्वा मोदं गताः सर्वे बृहस्पतिवचःस्थिताः ॥२६॥
निर्णीय च मया साकं ततो वाचस्पतिर्द्रुतम् ।
योगपत्रं समादाय कन्यामनो विलोक्य च ॥२७॥
पार्वत्याश्च मनो वीक्ष्य पूजयित्वा गणाधिपम् ।
कुंकुमार्द्रं द्रवं कृत्वा दृष्ट्वा मुहूर्तकं शुभम् ॥२८॥
अलिखत्पत्रमेवाऽपि नारदस्यैव साक्षिकम् ।
वादित्राणि जनास्तत्राऽवादयन् वै हराज्ञया ॥२९॥
मंगलानि तथा नार्यश्चागायन् देवतास्त्रियः ।
गूडधानादिकं श्रीमान् नारदश्च बृहस्पतिः ॥३०॥
शंकराद्यास्तथा सर्वे समाश्नन् मंगलावहम् ।
ततोऽयं सुरगुरुराट् शिवेन योगपत्रयुक् ॥३१॥
संप्रेषितो मया सार्धं कुंकुमवापिकाऽऽलयम् ।
सोऽयं सुरगुरुर्देवः समायातोऽस्ति निश्चितः ॥३२॥
वाग्दत्तां तां निजीकृत्वा कृष्णाऽऽनय प्रियामिह ।
प्रतीक्षमाणा ते मार्गं वर्तते विह्वलेव सा ॥३३॥
कदा कृष्णः समागच्छेत् कदा मां च निजां क्रियात् ।
त्यक्ता पूर्वं कदा त्वेनं प्राप्नुयां प्राणजीवनम् ॥३४॥
कदा सा कम्भरालक्ष्मीः प्रेम्णा मां समलोकयेत् ।
द्विवारं या समागत्य मां विलोक्य गता गता ॥३५॥
विमानेनाऽध्वरेभ्यश्च यदाऽऽयातो हरिस्तदा ।
पुनः पूज्या न साऽऽयाति कथं मां न स्मरत्यपि ॥३६॥
पूर्वं दृष्टा तया चाऽहं बालिका तु तदाऽभवम् ।
मम पुत्रस्य योग्येयं कृत्वाऽङ्के मां न्यषादयत् ॥३७॥
मन्ये सा वर्तते देवी सदा निश्चितनिर्णया ।
तृप्ता प्रसन्ना सन्तुष्टा या मां नैव निषेधति ॥३८॥
नारद त्वं समायातस्तदा सा कंभरा रमा ।
किं मां मन्मातरं वा चाऽकथयद् वद तत्त्वतः ॥३९॥
इत्येवं सा मुहुर्मां सम्पृष्टवती रहस्यकम् ।
वक्तव्यं तन्मया सर्वं कम्भरायै समाह्वय ॥४०॥
शीघ्रं कुरु कृपासिन्धो सर्वं हृद्यं फलिष्यति ।
इत्युक्तो राधिके तत्र बालकृष्णः सुरर्षिणा ॥४१॥
समुत्थाय गतः शीघ्रं मातरं कंभरां प्रति ।
प्रणम्य मातरं प्राह नारदो मम मन्दिरम् ॥४२॥
ज्ञापयितुं रहस्यं तु समाह्वयति सोत्सुकः ।
सन्तुष्टां मत्स्वसारं च तथा भ्रातृवधूं सतीम् ॥४३॥
अमृतां श्रीं सह नीत्वा समायाहि ममालयम् ।
इत्युक्ता बालकृष्णेन माता स्वसृसमायुता ॥४४॥
भ्रातृपत्नीसुयुक्ता च बालकृष्णेन संयुता ।
आयात् समुत्सुका राधे! बालकृष्णालयं सती ॥४५॥
नारदस्तां विलोक्यैव मन्दहासोऽनमत् सतीम् ।
उत्थाय स्वागतं चक्रे वाण्या वै नम्रकंधरः ॥४६॥
कृतहस्ताञ्जलिश्चापि तदा स प्रोत्थितोऽभवत् ।
यावन्माता स्वर्णसिंहासने तूपाविशत् ततः ॥४७॥
स्वसा भ्रातृगृहिणी च यावच्चोपाविशत्ततः ।
सम्मानितः पूजितश्च वन्दितो नारदो मुनिः ॥४८॥
नमस्कृत्य यथातथ्यमगदत् कृष्णसन्निधौ ।
मातर्नमामि चरणौ रहस्यं प्रवदामि च ।
यन्मामुक्तवती शैवी रहोऽर्थं वै पुनः पुनः ॥४९॥
श्रीकंभरालक्ष्मीरुवाच-
किं महर्षे बालिका सा नारायणी परेश्वरी ।
उक्तवती मदर्थं यत् सर्वं त्वत्र निवेदय ॥५०॥
किं सा रूपवती बाला ह्यव्यंगा पूर्णलक्षणा ।
किंस्विदारोग्यमस्या वै किं स्वित् तन्निर्मलं मनः ॥५१॥
किंस्विदिच्छति मत्पुत्रं किं स्विदास्तेऽत्र हृन्मयी ।
कच्चित् सा स्नेहभावा मां किंस्विन्मत्पुत्रमानसा ॥५२॥
प्रसन्नहृदया किंस्विदास्ते मां स्मृतवत्यपि ।
यदा यज्ञोऽभवच्चापि पिंगाऽरण्ये तदा सतीम् ॥५३॥
समागतां तु तां वीक्ष्य प्रसन्ना त्वभवं ह्यति ।
स्नुषाभावं प्रदर्श्यैव स्वांऽके नीतवती च माम् ॥५४॥
पुनः साऽहं निजं देशं गत्वा ततोऽध्वरान्तरे ।
राशियानप्रदेशेषु गत्वा पुनश्च तां गता ॥५५॥
निजपुत्रेण साकं वै तां दृष्ट्वा हर्षिताभवम् ।
तां निजस्य सुतस्याऽर्थे विज्ञाप्य रहसि स्थिताम् ॥५६॥
तन्मात्रेऽपि तदा सर्वं तत्सम्बद्धं प्रभाष्य च ।
निर्णीतमिव निश्चित्याऽऽगता गता न तां पुनः ॥५७॥
सा कन्या मत्पुत्रयोग्या किं निवेदितवत्यपि ।
वद मे सर्वमेवाऽत्र किंगुणा किंप्रशिक्षणा ॥५८॥
कीदृशी सा बुद्धियुक्ता कलायुक्ता ततोऽस्ति सा ।
वद मे सर्वमेवाऽत्र यद्बोध्यं वै स्नुषाकृते ॥५९॥
नारद उवाच-
मातः सा कंभरालक्ष्मीर्नाम श्रुत्वाऽतिगौरवात् ।
प्रेमभावाद्धर्षिता साऽभवत्तथाऽश्रुसंयुता ॥६०॥
क्षणं भूत्वा धैर्ययुक्ता मां विहस्य समब्रवीत् ।
कच्चित् सुखं ममाऽर्हायाः कच्चिन्मां सा स्मरत्यपि ॥६१॥
किंवृत्तान्ता मम पूज्या कियद्भावा च मां प्रति ।
सा किं मह्यं यत्नवती प्रसन्ना किं च मां प्रति ॥६२॥
वद मह्यं महर्षे त्वं गुणस्थानां यथास्थिताम् ।
यद्वा ज्ञातव्यमेवाऽन्यत् कथितं मां निवेदय ॥६३॥
ततोऽहं चाऽवद् कन्यां श्रवणे दत्तमानसाम् ।
लक्ष्मि! त्वां कंभरादेवी न वै विस्मरति क्वचित् ॥६४॥
भोजने त्वां सदा स्मृत्वा कृष्णं त्वां स्मारयत्यपि ।
क्वचित् क्वचिच्च ते वार्तामग्ना त्वद्गुणवर्णना ॥६५॥
स्नेहाश्रुभृतनेत्रा वै जायते किं वदामि ते ।
सुखं श्वश्र्वाः सदा चास्ते सुखिनीं त्वां प्रतीक्षते ॥६६॥
सर्वशोभनवृत्तान्ता देहगेहसुतान्विता ।
सर्वसम्पत्समृद्धा सा लक्ष्मि! त्वां सम्प्रतीक्षते ॥६७॥
यथा पुत्रीं च सन्तुष्टां प्रति सा कम्भरा सदा ।
तथा त्वां प्रति चाधिक्यभावाऽऽस्ते कम्भरा सती ॥६८॥
त्वदर्थं सा यत्नवती कदाऽऽयान्मे सुतप्रिया ।
सदा प्रसन्ना चास्ते त्वां प्रतीश्वरी हि कंभरा ॥६९॥
क्वचिद् वदति कल्याणी स्नुषा मे किंव्रता भवेत् ।
कृष्णो मे तां विना नैव शोभते सदृशीं प्रियाम् ॥७०॥
इत्येवं वै मया मातः सर्वं तस्यै निवेदितम् ।
आशीर्वादाः प्रदत्ताश्च त्वदुक्ताश्च तदाऽवदम् ॥७१॥
प्रसन्ना सा स्नेहवती चास्ते सद्गुणशालिनी ।
इत्येवं चाऽवदं तस्यै सा पुनः प्राह मां नमः ॥७२॥
नमस्काराश्च मे तस्याः पादयोः सन्निवेदय ।
प्राणास्त्वास्ते तव पुत्रे तथाऽऽर्यायै निवेदय ॥७३॥
आत्मा तत्राऽऽगतोऽस्त्येव पूज्यायै सन्निवेदय ।
क्षन्तव्या बाल्यभावा मेऽनार्यायाश्चेति वेदय ॥७४॥
यादृशी तादृशी चास्मि पर्वतारण्यवासिनोः ।
पुत्री जाड्यमयी चाऽहं क्षन्तव्या चेति वेदय ॥७५॥
नाऽहं विद्यावती चार्ये नाऽहं कलानिधानिका ।
नाऽहं विज्ञानसम्पन्ना नाऽहं चातुर्यशोभना ॥७६॥
नाऽहं मायाकरी चापि नाऽहं तीक्ष्णप्रयोगिणी।
नाऽहं कृष्णा कृष्णयोग्या तथापि मां न विस्मरेः ॥७७॥
पूज्यायाः पुत्रिका चाऽहं पूज्यापुत्रस्य पत्निका ।
कन्यकाऽस्मि द्रुतं स्नुषां विधेहि चाऽलमीदृशम् ॥७८॥
वचनं कन्यकाप्रोक्तं दानकालो हि विद्यते ।
इत्युक्त्वा प्रददौ मह्यं मिष्टाऽमृतफलानि हि ॥७९॥
देयानि कम्भरालक्ष्म्यै तत्पुत्राय च विष्णवे ।
इत्युक्त्वा प्राणमन् मह्यं रहस्यं कथितं तव ॥८०॥
कृष्णं विना क्षणं नैव यापयत्येव सा सती ।
लक्ष्मीतुल्या तु सा लक्ष्मीर्नान्यतुल्या कदाचन ॥८१॥
सर्वतेजांसि पिण्डानि तत्स्वरूपे वसन्ति हि ।
उज्ज्वला तादृशी चास्ते यौवनोद्भेदनांकुरा ॥८२॥
साध्व्यवस्था सदा चास्ते चिदम्बराऽम्बरोत्तमा ।
शाश्वतिकनिसर्गा च सच्चिदानन्दपिण्डिका ॥८३॥
ब्रह्मसंस्थानिका चास्ते मुक्ताकृतिर्हरिप्रभा ।
द्वादशोत्तमवर्षा च पुरुषोत्तममानिनी ॥८४॥
स्नेहवेगा हरौ पातिव्रत्यभावा विराजते ।
हृदो मध्ये हरिश्चास्ते कृष्णलक्षणलक्षिता ॥८५॥
सर्वकलाऽभिसम्पन्ना किमु मातः प्रवर्णये ।
जानाति पाकशास्त्रं सा जानाति ग्रथनक्रियाः ॥८६॥
जानाति गृहकार्याणि गणकार्याणि यानि च ।
बालशास्त्रं प्रजानाति कलाः शृंगारजा अपि ॥८७॥
नेपथ्यरचनां सर्वां जानाति सुन्दरीक्रियाः ।
भृत्यकार्याणि सर्वाणि दास्यकार्याणि यान्यपि ॥८८॥
सेवाकार्याणि सर्वाणि मनोरञ्जनकानि च ।
नाट्यकार्याणि सर्वाणि नृत्यकार्याणि यानि च ॥८९॥
वाद्यकार्याणि सर्वाणि गीतिकार्याणि सर्वशः ।
उत्सवादीनि यावन्ति सभाकार्याणि सर्वथा ॥९०॥
व्याख्यानानि समस्तानि न्यायवाक्यानि वै तथा ।
आत्मबोधान् समग्राँश्च कला योगोद्भवांस्तथा ॥९१॥
जानाति सर्वसिद्धीश्च तत्त्वज्ञानं च वैद्यकम् ।
आयुर्वेदं विजानाति यज्ञकर्माणि सर्वशः ॥९२॥
सर्वान् वेदान् विजानाति सर्वान् विनिमयाँस्तथा ।
सर्वान् हेतूनृतून् सर्वान् विवृत्तिं परिणामकान् ॥९३॥
सर्वं शैल्प्यं विजानाति वक्ति सर्वाश्च नीतिकाः ।
सर्वच्छन्दांसि जानाति वंशोद्भवं गृहिक्रियाः ॥९४॥
आतिथेयं विजानाति पैत्र्यं दैवं समर्हणम् ।
सत्कारं स्वागतं चापि विजानाति च माननाम् ॥९५॥
परोपकारं दानं च विजानाति समुद्भवम् ।
स्नेहं प्रीतिं स्वामिभक्तिं पातिव्रत्यं वृषं निजम् ॥९६॥
प्रजानाति रसान् मिश्रान् मिष्टान्नानि समस्ततः ।
तक्रसंस्कारकरणं पयःपाकादिकं तथा ॥९७॥
विजानाति च वयनं शुद्धिं व्रतानि चांजसा ।
पण्डावती समास्ते सा दृश्यते च बहुश्रुता ॥९८॥
शारदा वा किमास्ते सा किं वा राधा हि रञ्जनी ।
रंगकलां विजानाति धेनुसेवादि वेत्ति च ॥९९॥
कृषिकार्यं सस्यपुष्टिं जानात्यपि वनानि च ।
सर्वौषधानि समिधो जानात्यारोग्यमित्यपि ॥१००॥
जलकलां विजानाति वह्निकलां प्रवेत्ति च ।
मन्त्रकलाः समग्राश्च प्रवासान् संप्रवेत्ति च ॥१०१॥
लाभाऽलाभौ सुजानाति पुरुषार्थचतुष्टयम् ।
सामदानादिकं चापि विजानाति विवेचनाम् ॥१०२॥
कथाः सर्वा विजानाति महोद्यानकलास्तथा ।
मिष्टमाधुर्यकण्ठी सा मिष्टस्वराऽतिविद्यते ॥१०३॥
स्वर्णवर्णा ब्रह्मवर्णा रक्तपत्करपल्लवा ।
उज्ज्वला शारदी ज्योत्स्ना यद्देहे वसति ध्रुवा ॥१०४॥
विशालोन्नतचन्द्राभभाला चन्द्रादिशोभना ।
कृष्णकेशी च कृष्णात्मा कृष्णैश्वर्यादिसिद्धिका ॥१०५॥
सर्वसम्पत्प्रभावा च ब्रह्मसौख्यसमन्विता ।
परब्रह्मप्रभाना च परब्रह्मप्रबोधिनी ॥१०६॥
स्मृद्धिकार्या हरौ भक्तिमती मुक्तानिका सदा ।
बालकृष्णोऽन्तरे त्वस्या राजते मोक्षकृत्प्रभुः ॥१०७॥
सा चास्ते कंभरे! चतुर्दशविद्यासमाश्रिता ।
शंखचक्रगदापद्मधनुःशूलसमन्विता ॥१०८॥
पूर्वोक्तचिह्नयुक्ता च कमलाचिह्नशोभिता ।
लक्ष्मीचिह्नसहस्रैः शोभिता वर्ष्मणि सर्वतः ॥१०९॥
द्वासप्ततिप्रमुख्यानि मुख्यानि सन्ति तत्र ह ।
बालकृष्णस्य चाऽऽकण्ठं समुच्छ्रया विराजते ॥११०॥
गजहंसगतिश्चास्ते परहंसगतिः सदा ।
स्वर्णवासा सुगन्धा च कोट्यब्जसखिका तथा ॥१११॥
राधारमासतीपद्मामाणिकीपद्मजाश्रियः ।
शारदाद्याश्च सख्योऽस्या वर्तन्ते कृष्णपत्निकाः ॥११२॥
सर्वाभरणसंयुक्ता सर्वसंघटनाश्रिता ।
चमत्कारछटायुक्ता शीलकृष्णबलाऽस्ति च ॥११३॥
शुद्धसत्त्वमयी ब्राह्मी ब्रह्मानन्दाऽदना सदा ।
पायसाद्यदना साध्वी सती कृष्णार्थनिग्रहा ॥११४॥
कृष्णध्यानतपोयुक्ता बालकृष्णार्थतोषिणी ।
सर्वतृष्णाक्षयतोषा अमाया शुद्धिशोभना ॥११५॥
वेदविद्यासमध्याया महासात्त्वतसद्वृषा ।
मोक्षहार्ढा चात्मनिवेद्नहार्दा समर्पणे ॥११६॥
निर्वाणप्रेमपात्रा श्रीकृष्णप्रेमपरायणा ।
कृषासाधनकुशला चागामिबोधसन्मतिः ॥११७॥
कृष्णांगा चाच्युतधना ह्यभक्ते चञ्चला सदा ।
कृष्णचाञ्चल्ययुक्ता च तथा कृष्णार्थखेलना ॥११८॥
मुक्तिरुचिः कृष्णकथाप्रवादा स्थिरवृत्तिका ।
परब्रह्मप्रवृत्तिश्च पुरुषार्थत्रयान्विता ॥११९॥
सृष्टित्रयविधात्री च यत्नभोगप्रहाफला ।
यज्ञस्वर्गमोक्षफला चाऽऽपूरकक्रियावती ॥१२०॥
ब्रह्मलाभविशेषा च सृष्टिसौख्यसमानिका ।
सूक्ष्माऽऽत्मानन्दमध्या च माधवश्वासयोगिनी ॥१२१॥
कृष्णयोगा सर्वबोधा सर्वज्ञोपासनावती ।
वृद्धाराधनिका नित्यं कृष्णशृंगारशोभना ॥१२२॥
कृष्णेतरे विरक्ता च नारायणे सुतोषिणी ।
मुक्ता सत्संगगृध्ना च कृष्णाऽऽशा कम्भरेच्छुकी ॥१२३॥
कदा वै कम्भरालक्ष्म्या गृहं पश्यामि चेच्छति ।
यदि नाऽहं च कृष्णार्थां तदा मे जीवनं कुतः ॥१२४॥
यतो मे जीवनं चास्ते कृष्णाऽर्थाऽस्मीति तर्कगा ।
परब्रह्मोरुयुगलं गृहं मे चेतिनिश्चया ॥१२५॥
अनादिश्रीकृष्णनारायणवादा पदे पदे ।
प्रत्यक्षः श्रीबालकृष्णः प्रमाणं दिव्यशाश्वतम् ॥१२६॥
तस्या वै वर्तते मातस्तन्मूलान्यपराण्यपि ।
विशिष्टं सर्वमेवास्ते प्रमेयं तत्कृते सदा ॥१२७॥
परब्रह्म महातत्त्वॆ यत्समं नाधिकं परम् ।
तद्योगः सुप्रयोगोऽस्या कृष्णसिद्धान्तसिद्धिका ॥१२८॥
कृष्णतन्त्रसुसिद्धान्ता सर्वस्वप्रतिवर्जिता ।
बालकृष्णग्रहबन्धा कृषयाज्ञावेदसंभृता ॥१२९॥
साध्यो नारायणश्चाऽस्याः साधनं न शमादिकम् ।
बालकृष्णप्रिया कान्ता कान्तेतरवितर्जिनी ॥१३०॥
महाभागवतधर्मयमा कृष्णयमान्विता ।
कृष्णार्थं नियता कृष्णनियमा नाऽपराऽऽश्रिता ॥१३१॥
बालकृष्णाननध्याना कुंकुमवापिकासना ।
तव पुत्रे प्राणवती कृष्णे रतिक्रियावती ॥१३२॥
अनादिश्रीकृष्णनारायणकामावसायिनी ।
श्रीकृष्णस्यवल्लभातिप्रिया सा कृष्णवत्प्रिया ॥१३३॥
वर्तते सा महालक्ष्मि! कम्भरे गुणसंभृता ।
कृष्णवियोगो रोगोऽस्या मानसं तेन कल्मषम् ॥१३४॥
त्वत्पुत्रेच्छाऽर्बुदयुक्ता हृदयेनाऽत्र राजते ।
सर्वस्नेहा कंभरायां प्रेमस्नेहा सुते तव ।
विवाहमानसा नित्यं प्रसन्नहृदयाऽपि च ॥१३५॥
सदा स्मरति त्वां मातः पुत्रं नित्यं पुनः पुनः ।
मां जगाद सा सद्वेगा शृणु त्वं कंभरे पुनः ॥१३६॥
यदा यज्ञोऽभवत् पिंगाऽरण्ये श्वश्रूस्तदाऽऽगता ।
स्नुषाभावं प्रदर्श्यैव स्वांके नीतवती च माम् ॥१३७॥
राशियानप्रदेशेषु गत्वा पुनः समागता ।
मां निजस्य सुतस्याऽर्थे विज्ञाप्य रहसि स्थिताम् ॥१३८॥
साऽक्षतं चन्द्रकं गुप्तं कृत्वा गता गतैव सा ।
नाद्याऽपि त्वागता माता पूज्याऽऽर्या पारमेश्वरी ॥१३९॥
कदा चायास्यति श्रीशा वद मे नारद द्रुतम् ।
कथनीयाः प्रणामा मे चेत्यवदत् पुनः पुनः ॥१४०॥
मातः सर्वगुणोपेता सर्वकार्येषु शिक्षिता ।
गृहकार्यनिपूणा सा दानयोग्या प्रकाशते ॥१४१॥
तस्माच्छीघ्रं प्रगत्वैवोत्सवपत्रानुबोधितम् ।
चतुर्थीदिवसं मत्वा कुरु तयोर्हि मंगलम् ॥१४२॥
इत्युक्त्वा राधिके विप्रो नारदस्तां प्रणम्य च ।
स्वासने सम्प्रयातश्च विश्रान्तिं चाप्तवान् पुनः ॥१४३॥
कंभरा शान्तिमापन्ना सन्तुष्टा मुमुदे तदा ।
अमृताऽपि प्रमोदं चानुमोदं प्रददौ तदा ॥१४४॥
बालकृष्णः प्रसन्नश्चाऽभवत् श्रुत्वा ह्युदन्तकम् ।
सुष्वुपुश्च ततः सर्वे सुखं चतुर्दशीनिशि ॥१४५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सरहस्यलक्ष्म्युक्तोदन्तं नारदो बालकृष्णाय प्राह, ततः कंभरादेव्यै प्राहेत्यादिनिरूपणनामा षट्सप्तत्यधिकद्विशततमोऽध्यायः ॥२७६॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP