त्रेतायुगसन्तानः - अध्यायः १७१
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
राधिके तत्र नित्यं वै रात्रौ जनसमाजके ।
लक्ष्मीनारायणसंहिताकथा जायते शुभा ॥१॥
सनत्कुमारो भगवान् स्वयं वाचयति प्रभुः ।
श्वेतकृष्णायनव्यासः कथां विवेचयत्यपि ॥२॥
श्वेतव्यासस्य नाम्ना च श्वेतासनं तदुच्यते ।
स्थलं तीर्थस्वरूपं तज्ज्ञानविज्ञानदं सदा ॥३॥
यवक्रीतो महर्षिश्च गांगेयो यत्र वै स्थले ।
क्षारस्य कवलं भुक्त्वा तपस्तेपे सुदारुणम् ॥४॥
क्षारकवलसंज्ञं तत्पावनं तीर्थमुत्तमम् ।
तत्र स्थल्यां समभवत् प्रसिद्धं मोक्षदं सदा ॥५॥
तन्नाम्ना स प्रदेशोऽपि शतयोजनविस्तृतः ।
कृष्णवार्धिप्रपर्यन्तं निस्तारां यावदेव ह ॥६॥
यवक्रीतः प्रसिद्धोऽभूत् निष्ठापरातटाश्रयः ।
यवक्रीतो महर्षिः स वेदकर्मपरायणः ॥७॥
एकादश्यां तु मध्याह्ने बालकृष्णं जगाद ह ।
हरेऽभिजिन्मुहूर्तेऽत्र पूर्णाहुतीः प्रदेहि वै ॥८॥
लोमशस्तत्तथा श्रुत्वाऽनुमत्या श्रीहरेस्तथा ।
ददौ पूर्णाहुतीस्तत्र परब्रह्मात्मवह्नये ॥९॥
ताम्बूलफलपूगीफलाऽक्षतघृतकानि च ।
श्रीफलं च स्रुवे कृत्वा ददौ पूर्णाहुतीर्हरिः ॥१०॥
ओं समुद्रादितिमन्त्रान् पूर्णादर्वीतिबोधितान् ।
ऋषिभिर्वाच्यमानाँश्च श्रुत्वा पूर्णाहुतीर्ददौ ॥११॥
इदमग्नये वैश्वानराय वसुरुद्रादित्येभ्यः
शतक्रतवे अद्भ्यश्च नमम ।
इदं त्रिदिवेभ्य ईशेभ्योऽवतारेभ्यः शक्तिभ्यः
परब्रह्मणे स्वाहा नमम ॥१२॥
इदं सप्ततलस्थेभ्यो भूस्थेभ्यश्चतुर्भ्यो
जडचेतनेभ्यः स्वाहा नमम ।
इदं सप्तस्वर्भ्यश्चाष्टावृतिस्थेभ्य
ईशानान्तेभ्यो धामिभ्यः स्वाहा नमम ॥१३॥
इदं च ब्रह्मणे स्वाहा स्वाहा च परब्रह्मणे ।
एकस्मै चाऽद्वितीयाय मह्यं स्वाहा च ओं नमम ॥१४॥
इत्युक्त्वा श्रीबालकृष्णो महापूर्णाहुतीर्ददौ ।
श्रीफलानि ह्यसंख्यानि सहस्रघृतधारिकाः ॥१५॥
चन्दनानि समिधश्च मिष्टमहाहुतीर्ददौ ।
साक्षादनादिभगवान् प्रत्यक्षो वह्निमण्डले ॥१६॥
प्रत्यहात् सविशेषेण हसन् जग्राह चाहुतीः ।
सर्वकुण्डेषु च तद्वज्जग्राह युगलार्पिताः ॥१७॥
दक्षिणाश्च तदाऽसंख्याः स्वर्णमयीर्ददौ प्रभुः ।
मणिमौक्तिकहीरादीन् रत्नानि विविधान्यपि ॥१८॥
एवं पूर्णाहुतीर्हुत्वा विप्रास्तु वेदपारगाः ।
आशीर्वादान् ददुस्तत्र यजमानाय मन्त्रकैः ॥१९॥
शान्तिघटोदकैर्विप्राः कुशदूर्वाऽऽम्रपल्लवैः ।
पुनन्त्वित्यादिभिश्चाभिषिञ्चाम इति वादिनः ॥२०॥
ततः शान्तिप्रवाचश्चोचिरे विप्राः समन्ततः ।
दक्षिणाश्च पुनः प्राप्ताः स्वस्तिवाचो जगुस्तदा ॥२१॥
हुताशनादिदेवाँश्च निजस्थानविदायकम् ।
ददुर्विप्राः पूर्णताया वाचस्ततोऽवदन् सुखाः ॥२२॥
यज्ञप्रसादं सर्वेभ्यश्चरुजं पद्मरेखया ।
वृद्धिं यान्तं चाऽव्ययं च ददौ कृष्णनरायणः ॥२३॥
कोट्यब्जरूपधारी च ददौ सर्वत्र माधवः ।
विना चरुप्रसादं वै कश्चित्तदा न शिष्यते ॥२४॥
अन्तरीक्षेऽम्बरे व्योम्नि जले स्थले वने क्षितौ ।
गह्वरे प्रान्तके भागेऽरण्ये वृक्षे च पर्वते ॥२५॥
विमाने वाहने याने नौकायां शिखरेऽपि च ।
असंख्यरूपधृक्कृष्णो ददौ चरुप्रसादकम् ॥२६॥
ततो वै भोजयामास सर्वान् वै महीमानकान् ।
प्राघूणिकान् महामुक्तान् मुक्तान् धामानि धामिनः ॥२७॥
ब्रह्मप्रियाश्च मुक्तानी राधारमादिकास्तथा ।
अवतारान् सर्वनारायणान् श्रीपरमेश्वरान् ॥२८॥
व्यूहान् प्रकृतिपालाँश्च कालपुरुषकेश्वरान् ।
वैराजान् भूमसंज्ञाँश्च महाविष्णुगणाँस्तथा ॥२९॥
त्रिदेवानावरणेशान् तत्पत्नीदासिकास्तथा ।
भृत्याँश्च पार्षदाँश्चापि पार्षदानीः समन्ततः ॥३०॥
भोजयामास भगवान् ब्रह्मसृष्टीशसृष्टिजान् ।
ततः सिद्धानृषीन् साधून् पितॄन् सतीश्च योषितः ॥३१॥
पञ्चस्वर्गस्थितान् सर्वान् देवान् देवीः कुटुम्बिनः ।
ब्रह्मचारिगणाँश्चापि दिक्पालान् लोकपालकान् ॥३२॥
त्रयस्त्रिंशद्देवताश्च भुवर्लोकनिवासिनः ।
भूलोकस्थान् चतुःखनिजीवान् जडाँश्च चेतनान् ॥३३॥
सप्तपातालसंस्थाँश्च भोजयामास माधवः ।
सुराऽसुरगणान् सर्वान् काश्यपेयाँश्च मानवान् ॥३४॥
ब्रह्मसृष्टान् स्थिरचरान् गुणकर्मतदाश्रितान् ।
तदाश्रयाँश्च भगवान् भोजयामास वै क्रतौ ॥३५॥
अद्याऽहं भगवानस्मि भोजयामि च निर्गुणम् ।
एकादशीदिने चापि फलवत् सर्वमेव मे ॥३६॥
मत्स्पृष्टं निर्गुणं सर्वं भुञ्जन्तु भावतोऽखिलाः ।
भोजनं वै व्रतं त्वद्य मदिच्छयैव जायताम् ॥३७॥
इत्येवं भगवानाह बालकृष्णस्तु राधिके ।
सर्वान् संभोज्य च ततः स्वयं पित्रा युतस्तथा ॥३८॥
भ्रातृभिश्च कुटुम्बेन सह भोजनमाददे ।
माता च मातरश्चान्या स्वसा सन्तोषिणी तथा ॥३९॥
ब्रह्मप्रियाश्च वै सर्वाः कुटुम्बं बुभुजे तदा ।
ताम्बूलं प्राप्य च सर्वे विश्रामं चक्रुरीश्वराः ॥४०॥
ततो वाद्यान्यवाद्यन्त ह्यगायन्त च गीतिकाः ।
अवभृथाप्लवनार्थं सर्वे वै यत्निनोऽभवन् ॥४१॥
निष्ठापराप्रपीठायाः संगमेऽनन्तमानवाः ।
देवा मुक्ता ईश्वराश्चावताराः शक्तयोऽखिलाः ॥४२॥
सृष्टित्रयनिवासाश्चर्षयः सत्यश्च साधवः ।
प्रययुर्भगवान् सर्वेश्वरेश्वरेश्वरेश्वरः ॥४३॥
पद्भ्यां जगाम सहितो महर्षिभिश्च कीर्तितः ।
वेदमन्त्रैः स्तूर्यमानोऽवभृथार्थं नदीतटम् ॥४४॥
तस्थौ च संगमे बालकृष्णनारायणः प्रभुः ।
संकल्पं कारयामास लोमशस्तु पुरातनः ॥४५॥
चतुर्मुखाऽजब्रह्माण्डे सृष्ट्यारंभे कृतान्तगे ।
प्रथमे पर्यये श्रीमत्कांभरेये नरायणे ॥४६॥
वर्तमाने वत्सरे च चतुर्दशेऽत्र भूतले ।
सर्वाद्यनररूपेऽस्मिन्नवतारिणि वर्तति ॥४७॥
श्रावणे शुक्लपक्षीयैकादश्यां सूर्यवासरे ।
निष्ठापराप्रपीठासंगमे यज्ञान्तकं त्विदम् ॥४८॥
अवभृथात्मकं स्नानं सर्वपापविशोधकम् ।
अध्वरे नान्तरीयकाघानां क्षालनशक्तिकम् ॥४९॥
सर्वपुण्यप्रदं सर्वाऽज्ञातकल्मषवारकम् ।
सूक्ष्मजन्तुबीजकाष्ठकणपुष्पकलार्पणे ॥५०॥
वह्नौ समर्पणे भूमेः शोधने मण्डपकृतौ ।
रसशालास्थले चूल्ल्यां कण्डन्यां जलकुंभके ॥५१॥
पेषण्यां मार्जने चापि पत्रदलावभेदने ।
दुरीतं प्रत्यवायादि यत्किंचिज्जातमित्यपि ॥५२॥
तस्य नाशकरं स्नानं कृष्णनारायणः प्रभुः ।
यज्ञकर्मप्रपूर्त्यर्थं सुरप्रसन्नतार्थकम् ॥५३॥
परमाऽपूर्वपुष्ट्यर्थं त्ववभृथाप्लवात्मकम् ।
स्नानं सृष्टित्रयोपेतः करोम्यद्य च ओं नमः ॥५४॥
इति कृत्वा सुसंकल्पं भगवान् पुरुषोत्तमः ।
राधिके स जले मग्नोऽभवन्निर्गवै पुनः ॥५५॥
स्नानांगं तर्पणं चक्रे स्मृत्वा सृष्टित्रयं तदा ।
शरीरे मर्दनं चक्रे तिलपिष्टेन वै तदा ॥५६॥
आमलकीफलचूर्णैस्तीर्थमृदा च भस्मना ।
यज्ञकुण्डीयकेनैव हरिद्राचूर्णकेन च ।
चन्दनेन च कस्तूर्या यवपिष्टादिना तथा ॥५७॥
पञ्चरंगैस्तथा चूर्णैः सर्वौषिधीभिरित्यंपि ।
पञ्चगव्येन च तथा सुवर्णतीर्थवारिणा ॥५८॥
ब्रह्मकमण्डलुद्वाराऽभिषेधविधिना तदा ।
संमृद्य सर्वचूर्णानि चक्रे स्नानमवभृथम् ॥५९॥
यदा स्नातो महाराजस्तदा तत्र तु सागराः ।
ब्रह्मह्रदः सुधासिन्धुर्विरजा च महाजलम् ॥६०॥
नारा आपस्तथा नद्यो नदाः सरांसि दीर्घिकाः ।
व्योमवारि तथा मेघा जलं दिव्यं च पाण्डुरम् ॥६१॥
वारुणं च महातीर्थं महाभूतजलं तथा ।
साधिदैवानि सर्वाणि तीर्थानि तत्र चाययुः ॥६२॥
स्नपयामासुरत्यर्थं भगवन्तं हि धारया ।
मुक्ता धामान्यवतारा अवतारिण्य इत्यपि ॥६३॥
शक्तय ईश्वरा ईश्वराण्यो ब्रह्मप्रियास्तथा ।
पितरो देवदेवेशाः ऋषयः सिद्धसाधवः ॥६४॥
आश्रमाः सर्ववर्णाश्च नरा नार्यो नपुंसकाः ।
जरायूजाश्चाण्डजाश्चोद्भिज्जाः स्वेदजजातयः ॥६५॥
दैत्याश्च दानवा यक्षा राक्षसा वह्नयस्तथा ।
पार्थिवाश्च जलीयाश्च तैजसा वायुदेहिनः ॥६६॥
गगनीयास्तलवासाश्चेतनाश्च जडास्तथा ।
सर्वे सस्नुस्तत्र तीर्थेऽवभृथे पुण्यवारिधौ ॥६७॥
दिव्ययोगे दिव्यगुणे निर्गुणे दिव्यकारिणि ।
पुष्पचन्दनवृष्टिश्च तदा तत्राऽभवच्छुभा ॥६८॥
आकाशाद् देवगुरवः पावनान्यवदँस्तदा ।
पावयन्तु परब्रह्म ब्रह्माऽक्षरनिवासिनः ॥६९॥
धामधामस्थिता भक्ता भक्तेश्वराऽवतारिणः ।
अवताराः पार्षदाश्च पावयन्तु तथेश्वराः ॥७०॥
ईश्वराण्यो महासत्यः पावयन्तु सुरेश्वराः ।
यजमानं यजमानान् पावयन्तु महर्षयः ॥७१॥
स्वभावपावनं देवं महानारायणं सुराः ।
पावयन्तु च तीर्थानि चावभृथाऽऽगतानि वै ॥७२॥
गंगा चेरावती मेनकांगी च ब्रह्मपुत्रिका ।
अंगशिक्षांगिका हरांगहा आयूरिका तथा ॥७३॥
बीना यानेश्वरी चौबी सिन्धुश्चोरलिका तथा ।
वल्गुर्निष्ठापरा दीना दिनपाद्याः सरिद्वराः ॥७४॥
नारायणी नष्टजरा कर्मांगी जाम्बुजा नदी ।
मुरा च कारुलिंगा च परीना आमजानिका ॥७५॥
मिश्रसुरी महाकाञ्जी यूकासना सरिद्वरा ।
एताश्चान्या महानद्यः पावयन्तु मखेष्टिनः ॥७६॥
अश्वपट्टं पुष्करं मानसं नारायणंसरः ।
पम्पासरश्चेन्द्रद्युम्नसरो ब्रह्मसरोवरम् ॥७७॥
शंभुलं च सरश्चिलंसरः कोलारकंसरः ।
माकमानसरो बालासरश्च माङ्गिरासरः ॥७८॥
लाभरुचिसरः सरः कुवनं ग्रागिरं सरः ।
आरसरस्तुरुसरो गैरानरसरस्तथा ॥७९॥
सुशीलं च सरो मीनकङूसरस्तथा शुभम् ।
बालकृष्णसरश्चापि द्विकलं च सरोवरम् ॥८०॥
युगलं च सरस्त्र्यंगिनरसरोवरं तथा ।
फुलमण्डसरश्चापि लुरासं च सरस्तथा ॥८१॥
मशकेलसरश्चापि जयेशानसरस्तथा ।
उद्वशं च सरश्चापि योनिगं च सरस्तथा ॥८२॥
लेण्डुगं च सरश्चापि पायूशं च सरोवरम् ।
तूनायं च रुक्मवासम् आवालं च रुदन्फलम् ॥८२॥
विश्तुरीयसरश्चापि आलवार्तं सरस्तथा ।
इतिवर्त्तं सरः किम्वासरश्च तुंगयानिकम् ॥८४॥
माधुरं वाग्वियालं च सरो न्यासजयात्मकम् ।
शिरोवं चण्डसंज्ञं च ग्रातवीरं सरस्तथा ॥८५॥
ग्रातश्लवसरश्चापि अर्थवासं सरस्तथा ।
विनिपारं सरश्चापि सुपरीयारकं तथा ॥८६॥
क्लिन्नवारिसरश्चापि इतीशं सरोवरम् ।
शोणभद्रनदश्चापि घर्घरानद इत्यपि ॥८७॥
सागराश्चापि सर्वेऽत्र पावयन्तु च देहिनः ।
पुनन्तु देवसरितः पुनन्तु तीर्थकोटयः ॥८८॥
मेरुर्मन्दरशैलश्च हिमाद्रिर्युरलस्तथा ।
कारुकर्मा पतत्कायो रैवताद्रिः पुनन्तु वः ॥८९॥
इत्येवं च शतक्रोशे सरित्सागरवारिषु ।
सस्नुः सर्वे च राजानो मखेषु यजमानकाः ॥९०॥
तत्र तत्रैकपुरुषो दिव्यस्तु सूर्यभास्वरः ।
नद्योस्तु संगमात्तत्र समुत्पन्नो हरिर्यथा ॥९१॥
हस्ते सौवर्णपात्रे च दधन् चन्दनकाक्षतान् ।
पुष्पमालां च मुकुटं बालकृष्णं समाययौ ॥९२॥
पूजयामास विधिना चन्द्रकं प्रचकार सः ।
हरेर्भालेऽक्षताद्रैः कुंकुमचन्दनकर्दमैः ॥९३॥
ददौ तु मुकुटं कृष्णमस्तके मालिकां गले ।
चकार दण्डवत्तत्र बालकृष्णं जगाद ह ॥९४॥
सर्वेषां शृण्वतां मेघनादगम्भीरया गिरा ।
अवभृथोऽहं पुरुषो यमपुत्रोऽस्मि शाश्वतः ॥९५॥
सर्वेष्टिवैष्णवो यज्ञः पूर्णोऽयं पूर्णपुण्यदः ।
अहं पुष्टिं गतोऽस्म्यद्य सर्वतीर्थागमादिह ॥९६॥
अत्र स्नानं प्रतिवर्षं कुर्वाणानां तु शाश्वतम् ।
मोक्षपदं निश्चितं स्यान्नारायणकृपालवात् ॥९७।)।
सर्वे भवन्तु सुखिनः श्रिया द्रव्यैश्च सम्पदा ।
आरोग्येण कुटुम्बाद्यै रसैर्भोग्यैः प्रपूरिताः ॥९८॥
योगिनः क्षेमिणश्चापि भवन्तु सिद्धिधारिणः ।
नराः नार्यः समस्ताश्च येऽत्र मखे समागताः ॥९९॥
भुक्तिमुक्तिकृताह्लादा भवन्तु हरिसदृशाः ।
इत्युक्त्वा च जलं त्ववभृथौ पपौ हि राधिके ॥१००॥
तावज्जलात्समुत्पन्ना कुमारी चन्द्रभास्वरा ।
सुरूपा सर्वशोभाढ्या पुष्टा चम्पकशोभना ॥१०१॥
योग्या प्रसन्ना सुमुखी लक्ष्मीतुल्या सभूषणा ।
हस्ते पात्रं पूजनार्हद्रव्ययुक्तं च बिभ्रती ॥१०२॥
अक्षताद्यैः परमेशं बालकृष्णं पुपूज सा ।
तां दृष्ट्वा मुमुहुः सर्वे कोटिशो मानवा अपि ॥१०३॥
देवा दैत्याः ऋषयश्च पितरो देहधारिणः ।
बालकृष्णं हरिं नत्वा पूजयित्वा जगाद सा ॥१०४॥
अहं तृप्तिः शाश्वती च हव्यपुत्री भवामि च ।
यज्ञेऽत्र सर्वहव्येभ्यो मम जन्माऽस्ति पुण्यवत् ॥१०५॥
कुमार्यहं सुसन्तुष्टा जाताऽस्मि च शुभाशिषा ।
युनज्मि वो भवन्तोऽत्र भवन्तु सुखिनः सदा ॥१०६॥
मम सौभाग्यदातारो भविष्यन्ति सुभागिनः ।
श्रीहरिस्तां तदा प्राह वरं याचस्व कन्यके ॥१०७॥
कन्या प्राह वरं देहि वरश्चावभृथो हि मे ।
श्रीहरिर्द्राक् विचार्यैव दानकाले ह्यवभृथम् ॥१०८॥
कुमारं तं समाहूय करे धृत्वा कुमारकम् ।
कन्यायै चार्थितवत्यै चार्थयन्तं कुमारिकाम् ॥१०९॥
ददौ कुमार्यै दानं च विधिना दानवित् प्रभुः ।
कुमारदानं प्रददौ कुमार्यै भगवान् प्रभुः ॥११०॥
कुमारो रत्नहारं च कुमार्यै च समार्पयत् ।
एवं विवाहविधिना कुमारदानमाप्य सा ॥१११॥
कुमारी सौभाग्यवती कुमारः सुभगोऽभवत् ।
केतुमाले तदारभ्य कुमारदानमुत्तमम् ॥११२॥
नारी प्रधानभूता च कुमारो नार्यधीनकः ।
नारीवर्चस्वमेवाऽपि नरस्य पारवश्यता ॥११३॥
अवभृथकृतं जातं नार्यै समर्पणं सदा ।
नारीराज्यं हि तत्सर्वं तन्माहात्म्येन विद्यते ॥११४॥
इत्येवं नरदानाख्यं संगमे स्नानसंगमे ।
उत्सवे तत्र कृत्वैव निर्ययुश्च जलाद् बहिः ॥११५॥
सर्वे वै स्नानकर्तारस्तावत्तु दम्पतीद्वयम् ।
नृत्यं कुर्वत् प्रसन्नं च जलान्तरे व्यलीयत ॥११६॥
इत्येवं लोकयामासुर्महाश्चर्यं मखार्थिनः ।
ददौ दानानि च तदा कोटिशो मानवादयः ॥११७॥
कन्याभ्यः कोटिसंख्याभ्यः कुमाराणां यथाकृतम् ।
कन्यकास्तु तदा प्राप्य कुमारान् वररूपिणः ॥११८॥
कोटिशस्तत्र सञ्जाताः सौभाग्यभाग्यशोभिताः ।
एवं कुमारदानं वै विवाहे तत्र चाद्यजम् ॥११९॥
अभवत् तत् सदा तत्र विद्यते शाश्वतो विधिः ।
कुमारैश्च समं पृथ्वीगृहगोस्वर्णदानकम् ॥१२०॥
ददुर्वै पितरस्तेषां वधूटीभ्यो मुदान्विताः ।
एवं चावभृथं कृत्वा दत्वा दानानि कोटिशः ॥१२१॥
स्वं स्वं स्थानं ययुः सर्वे विशश्रमुश्च मन्दिरे ।
वादित्राणां निनादाश्च तदा शान्तिमुपागमन् ॥१२२॥
इत्येवं राधिके महाश्चर्यं यत्ते निवेदितम् ।
श्रवणात्पठनादस्य स्मरणाच्छ्रावणादपि ॥१२३॥
अवभृथफलं प्राप्य कुमारदानजं फलम् ।
लभेत् भुक्तिं तथा मुक्तिं सौभाग्यं शाश्वतं लभेत् ॥१२४॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रत्यक्षहरिर्महापूर्णाहुतीर्जग्राह, सर्वेषां भोजनानि, अवभृथस्नानं, अवभृथात्मककुमारप्राकट्यम्, तृप्तिरूपकुमारी
प्राकट्यम्, कुमार्यै वरं याचमानायै अवभृथाख्यस्य कुमारस्य दानम्, विवाहविधौ कुमारदानानि, महादानानि, स्वस्वस्थानेषु विश्रान्तिश्चेत्यादिनिरूपणनामैकसप्तत्यधिकशततमोऽध्यायः ॥१७१॥
N/A
References : N/A
Last Updated : May 01, 2021
TOP