संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २८९

त्रेतायुगसन्तानः - अध्यायः २८९

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
अथ वै राधिके! तत्र प्रहरे तु तृतीयके ।
कृतदुग्धजलपानः श्रीमद्गोपालकृष्णकः ॥१॥
महीमानैस्तथा श्रेष्ठजनैश्च देवतादिभिः ।
राजभिः सह सौभाग्यवतीभिः सह वै तदा ॥२॥
स्थालेषु प्रविशालेषु सौवर्णराजतेष्वपि ।
सज्जयामास कन्यार्थं दिव्यवेषाम्बराणि च ॥३॥
आभूषणानि सर्वाणि हाराँश्च विविधांस्तथा ।
सर्वसौभाग्यरत्नानि सौभाग्योपकराणि च ॥४॥
सौभाग्यद्रव्यगन्धानि शतधा वै नवानि हि ।
मिष्टान्नानि समस्तानि ताम्बूलादीनि यानि च ॥५॥
चमत्कृतिप्रकाण्डानि वस्तून्यपि शुभानि च ।
स्वर्णपात्रेषु च निधापयामासोत्तमानि च ॥६॥
सुवर्णघर्घरीः रम्याः शतधा भिन्नरंगिकाः ।
वह्निशुद्धाः शाटिकाश्च शतधा स्वर्णबुट्टिकाः ॥७॥
भिन्नरंगा भिन्नचित्राः कौशेयिकास्तथाऽपराः ।
स्वर्णतारावलीशोभाः स्वर्णप्रान्ताः सहीरकाः ॥८॥
स्वर्णवर्णा रक्तवर्णाः कंचुकीः रत्नसंहिताः ।
कौशेयिकास्तारहारिग्रन्थिग्रथनशोभनाः ॥९॥
चोलिकाश्च तथा रम्याः शतधा तारराजिताः ।
अमूल्याश्च केशलीनाः कुचलीश्चाप्यमूल्यकाः ॥१०॥
चट्टिकाश्चाप्यमूल्याश्च स्वर्णप्रावरणानि च ।
स्वर्णजा नाडिकाश्चापि सौवर्णीर्देहबन्धिकाः ॥११॥
सगुच्छहीरदोरांश्च केशबन्धानमूल्यकान् ।
कुचबन्धान् कटिबन्धाँश्चान्तर्धार्याणि यानि च ॥१२॥
कौशेयानि सुवस्त्राणि शतधा कल्पितानि च ।
स्वर्णस्थालेषु वै निधापयामास तदा पिता ॥१३॥
मखमल्ल्यौ स्वर्णयुज्यौ कोमले चाप्युपानहौ ।
रञ्जिते स्थलपद्माभे शतधा च न्यधापयत् ॥१४॥
केशसाधनकान्येव सर्वाणि शोभनान्यपि ।
विष्णुतैलानि चान्यानि गन्धसाराणि वै तथा ॥१५॥
कस्तूरिकादिपंकानि चान्दनादीनि यानि च ।
कज्जलानि विविधानि रक्तद्रव्याणि यानि च ॥१६॥
कुंकुमानि च सिन्दूरकर्दमानि शुभानि च ।
चञ्चन्मूदुप्रचूर्णानि नवनीतद्रवाणि च ॥१७॥
मार्दनार्हद्रवाँश्चापि स्नानार्हगुटिकास्तथा ।
नखरञ्जनतत्त्वानि तलरंगद्रवाँस्तथा ॥१८॥
अलक्तादीनि चित्राणि पत्रिकार्थद्रवाणि च ।
चञ्चद्धीरकचन्द्राँश्च चञ्चच्चूर्णानि यानि च ॥१९॥
स्वर्णस्थालेषु सर्वाणि न्यधापयत्तदा पिता ।
स्थलपद्मादिपक्वानि सुगन्धिसलिलानि च ॥२०॥
हरिकमणिमाणिक्यमौक्तिकै रत्नकैस्तथा ।
नद्धाः सुवर्णजा रम्या ऊर्मिकाः शतशस्तथा ॥२१॥
भ्रमिकाः कटिकाश्चाऽङ्गुलीयकानि शुभानि च ।
प्रकोष्ठकटकाँश्चापि व्यंगिडीः कानकीस्तथा ॥२२॥
नद्धहीरकरम्याँश्चांऽगदान् सुकटकोत्तमान् ।
भुजबन्धान् प्रसौवर्णान् शृंखला बहुशोभनाः ॥२३॥
पत्रिकाः शृंखलायुक्ता रञ्जिताः फुल्लपत्रिकाः ।
सिंहाननान् सुवलयान् कंकणानि बहूनि च ॥२४॥
नत्थिकाश्चिबुकीश्चापि टिबकीर्बिन्दुकीस्तथा ।
सताराश्च सुचन्द्रो बहुरगाँश्च शोभनान् ॥२५॥
कानकीः कर्णमालाश्च कर्णिकाः कर्णशृंखलाः ।
सौवर्णान् वर्धकाँश्चापि त्रोटिकाः फुल्लग्रन्थिकाः ॥२६॥
सौवर्णस्तबकाँश्चापि शिंघोटकान् कदम्बकान् ।
सौवर्णहीरकनद्धान् आरायकान् सुबुट्टिकाः ॥२७॥
वालिकास्तारिकाश्चापि कुंचिका रूप्यकानकीः ।
तन्तीं भाग्यमयीं चान्द्रीं चन्द्रपत्रीं तथाऽयताम् ॥२८॥
सौवर्णं कमलं चापि स्वर्णमालां सुशोभनाम् ।
सौवर्णसूर्यं शोभाढ्यं भालोपरिनिवासिनम् ॥२९॥
केशचिप्पिकसूचीश्च सौवर्णीं राजतीस्तथा ।
धम्मिलबन्धवालीश्च सौवर्णीः शृंखलात्मिकाः ॥३०॥
कबरीपार्श्वचन्द्राँश्च वस्त्रावगूहवालिकाः ।
ओष्ठरञ्जनचूर्णं च कपोलगण्डचूर्णकम् ॥३१॥
न्यधापयद्धि पात्रेषु कन्यार्थं तत्र चोत्सुकः ।
कण्ठहारान् पत्रिकाढ्यान् फलग्रन्थिप्रहारकान् ॥३२॥
शृंखलाहारकाँश्चापि प्लक्षपत्रं सुवर्णजम् ।
मंगलं कानकं चापि मादलीं कानकीं तथा ॥३३॥
स्वस्तिकं कानकं चापि चक्रं वै कानकं तथा ।
हस्तपद्मं कण्ठपद्मं कानकं भालपद्मकम् ॥३४॥
गलार्थं वलयं चापि कानकं सिंहिकाननम् ।
तिलहारान् मुद्गहारान् माषहारान् सुगठ्ठिकान् ॥३५॥
सूक्ष्मपत्रीप्रहाराँश्च तारहाराँश्च शोभनान् ।
कुचपुटाँश्च सौवर्णान् कुन्तलान् कुन्तशोभितान् ॥३६॥
सूर्यमुखीं च सौवर्णीं सौवर्णकलशीस्तथा ।
स्वर्णपट्टान् स्वर्णमाला मौक्तिकहारसत्तमान् ॥३७॥
कटिपाशाँश्च सौवर्णान् शृंखला रशनास्तथा ।
कन्दूरिकाश्च सौवर्णीस्त्रिसरीः शोभनास्तथा ॥३८॥
नुपूरान् किंकिणीयुक्तान् झंझरीः स्वर्णनिर्मिताः ।
कदलीः कम्बिकाश्चापि शृंगला घुर्घुराँस्तथा ॥३९॥
सर्वविधानि सौभाग्याऽऽभूषणानि नवानि च ।
ताम्बूलपानदानीश्च शूटिकाः कंकतीस्तथा ॥४०॥
आदर्शान्नक्तकाँश्चापि करपोषाँश्च मौजिकान् ।
आच्छादकान् शिरस्त्राणान् हरिरज्जूः सुशोभिता ॥४१॥
पुष्पिकाः कलिकाश्चापि सौवर्णीश्चौर्णपट्टिकाः ।
पृष्ठपत्रीं कटिकत्रीं दन्तपत्रीं सुशोभनाम् ॥४२॥
मुक्ताहारान् पद्मरागमणिमालाः सुशोभनाः ।
मारकतीः स्रजश्चापि वैदूर्यमणिमालिकाः ॥४३॥
इन्द्रनीलस्रजश्चापि पुष्परागादिपत्रिकाः ।
कर्केतनकृतमालाः पुलकस्फटिकस्रजः ॥४४॥
विद्रुमनद्धपत्त्राणि स्थालेष्वपि न्यधापयत् ।
गालीचकानि रम्याणि हारीतकानि यानि च ॥४५॥
और्णानि च तथा कौशेयानि चास्तरणानि च ।
गुलालानि च रक्तानि कुंकुमानि शुभानि च ॥४६॥
अक्षतानि सुतीक्ष्णानि यवमालाः शुभास्तथा ।
पुष्पहाराँश्च पात्राणि गन्धधानीश्च कानकीः ॥४७॥
इत्येवं राधिके कोटिकोट्यब्जार्बुदमूल्यकम् ।
ततोऽब्जमूल्यकं शृंगारकं न्यधापयत् पिता ॥४८॥
स्थालेषु सूर्यतुल्येषु निधाप्य कंभरापतिः ।
वाद्यघोषैर्युतः कन्यागीतिकाभिर्युतस्तथा ॥४९॥
ययौ कन्यानिवासं वै शिवस्वाम्यालयं तदा ।
कन्यकायाः कृते सर्वं कृष्णाल्लब्धं शिवेन च ॥५०॥
तेषां तासां स्वागतं च सम्मानं स्वीकृतिं तथा ।
विधाय बहुभावेन जलपानं हरस्तदा ॥५१॥
अकारयच्च मिष्टान्नभोजनं स्वल्पमंगलम् ।
ताम्बूलकं ददौ चापि बहु बह्वित्यभाषत ॥५२॥
हृष्टो गोपालकृष्णश्च ददौ सर्वं शिवाय ह ।
आज्ञामवाप्य तूर्णं वै स्वावासं चाययौ ततः ॥५३॥
चतुर्थे प्रहरे तत्र कन्याशृंगारमाचरन् ।
सर्वाः सख्यः सुमिलिताः प्रोवाहोचितमुत्सुकाः ॥५४॥
कृष्णस्यापि पिता स्थाने शृंगारं समकारयत् ।
गजं सुवाहनं चतुर्दन्तं साम्बालिकं शुभम् ॥५५॥
पिता शृंगारयामास धवलं सर्वतोऽधिकम् ।
सौवर्णचन्द्रकूथेन स्वर्णाम्बालिकयायुतम् ॥५६॥
शुण्डायां चित्रशूलं च कपाले च सुदर्शनम् ।
कर्णयोर्व्यजने चापि गण्डयोः सूर्यकौ तथा ॥५७॥
दन्तेषु स्वर्णवलयाः कण्ठे सौवर्णघण्टिकाः ।
पादेषु पार्षदाश्चित्रस्वरूपाश्चोदरे गदा ॥५८॥
पुच्छे सौवर्णमालाश्च निःश्रेणी पार्श्वके तथा ।
इत्येवं च गजं शृंगारयामास पिता तदा ॥५९॥
भूमिस्पर्शानि च तदा मन्दविमानकानि च ।
पिता शृंगारयामास वाहिन्यर्थं तदा मुदा ॥६०॥
मुक्तानां सुगजाश्चापि गरुडाश्च तदाऽभवन् ।
स्मृतमात्रा आगताश्च शृंगारिताः सुशोभिताः ॥६१॥
अश्वाश्चोष्ट्रास्तथा हंसा मेनाश्च चातकास्तथा ।
वृषभा गवयाश्चापि मृगाश्च मकरास्तथा ॥६२॥
गेण्डूकाश्च तथा सिंहाः शार्दूलाः शरभास्तथा ।
वाहनानि यथा येषां स्मृतानि कल्पपादपे ॥६३॥
कामदुघानिर्मितानि तूर्णं तत्राऽऽगतानि च ।
व्योमयानानि रम्याणि स्वल्पानि भूमिगानि च ॥६४॥
शृंगारितानि सर्वाणि रथाश्च रथिकास्तथा ।
शिबिकास्तापदानानि नरवाहाः स्वलंकृताः ॥६५॥
ध्वजडंकानिशानादिवेत्रछत्राणि यानि च ।
शृंगारितानि सर्वाणि सज्जीकृतानि वै द्रुतम् ॥६६॥
वाहिनीस्था नरा नार्यः शृंगारशोभितास्तदा ।
नवचञ्चद्वर्णवेषा आभूषादिविराजिताः ॥६७॥
अन्यूनसर्वशृंगारा अभवन् वै तदा मुदा ।
वाद्यकारा नर्तकाश्च नटा दुन्दुभिनादकाः ॥६८॥
सर्ववादित्रविज्ञाश्च वेषैर्भिन्नैर्विभूषिताः ।
देवा देव्यः समस्ताश्च सृष्टित्रयनिवासिनः ॥६९॥
शृंगारिता अभवँश्च वरयात्रोचितास्तदा ।
लग्नयात्रोचिताः कन्याश्चतुष्कोटिप्रसंख्यिकाः ॥७०॥
तथाऽन्याः कोटिशश्चापि कोट्यवुर्दाब्जसंख्यिकाः ।
पित्रादिभिः सखीभिश्च शृंगारितास्तदाऽभवन् ॥७१॥
कण्ठमालायुताः सर्वाः सर्वाऽऽभरणभूषिताः ।
वह्नेः प्रदक्षिणं सर्वाश्चेहमाना हरीच्छया ॥७२॥
लोमशस्य निदेशेन सर्वाऽऽभरणभूषिताः ।
दानयोग्या अभवँश्च यथा लक्ष्मीस्तु कन्यका ॥७३॥
चतुर्थप्रहरस्याऽन्ते कृत्वा शृंगारमद्भुतम् ।
सुशुभे समये शिवपुराद् कृष्णो विनिर्ययौ ॥७४॥
कोटिकोटयब्जजनतासहितो वर्धितो जनैः ।
पूजितो वन्दितश्चापि फलपुष्पधनार्पणैः ॥७५॥
वाराणस्यां भ्रमित्वैव महाराजपथे ततः ।
देवतादर्शनं कृत्वा विश्वेश्वरं प्रणम्य च ।
गंगावारि शुभं पीत्वा सहस्रायुतवाहनः ॥७६॥
लक्षविमानयुक्तश्च सर्वस्त्रीनरवर्धितः ।
युक्तो यावन्महीमानैश्चायाति योगमण्डपम् ॥७७॥
वरणायास्तटे रम्ये कापिलधारिकास्थले ।
विशाले साररूपे वै क्षेत्रे ह्युद्यानशोभिते ॥७८॥
शिवस्वामिनश्च प्रासादाग्रे कैलासरूपिणम् ।
शतयोजनविस्तारं कैलासात्मकमण्डपम् ॥७९॥
यो वै कैलासरूपोऽभूत् गगने स्वागतार्थकः ।
स एव नित्यकैलासो मण्डपोऽत्र विराजते ॥८०॥
तत्र का न्यूनता राधे! यत्र वै मण्डपेऽभितः ।
समस्तं शिवनगरं पार्वतीनगरं तथा ॥८१॥
काशीनगरं चाप्यन्तर्भावमीयुः प्रशोभया ।
तादृशीमण्डपे शोभा शंभुना तत्र निर्मिता ॥८२॥
गंगागोगराभूभागे विस्तृतोऽभूद्धि मण्डपः ।
शतयोजनविस्तारः कुण्डवेदीप्रशोभितः ॥८३॥
उच्छ्रये योजनश्चापि दिव्यतेजोऽभिसंभृतः ।
गोलोकीयसमस्ताभिः सामग्रीभिश्च पूरितः ॥८४॥
सिंहासनादिभिर्युक्तो मणितेजोऽभिराजितः ।
पार्षदैः सर्वतः सेवापरायणैर्गणैर्युतः ॥८५॥
कामधेनुसमस्ताभिः कल्पलताभिवर्तितः ।
रासमण्डलशोभाढ्यगोपगोपीविराजितः ॥८६॥
सर्वलोकनिवासानां पुत्तलैरभिमण्डितः ।
घृतकुल्यादधिकुल्यामधुकुल्याभिराजितः ॥८७॥
सर्वाऽसनैश्च मृदुभिर्बृसीभिः पट्टिकादिभिः ।
और्णास्तरणकौशेयास्तरणैश्च तलीकृतः ॥८८॥
मनोहारिस्वरयुक्तगीतिभिश्चाभिकर्षितः ।
नृत्यनाट्यकलाज्ञाभिर्हास्यज्ञाभिर्विराजितः ॥८९॥
दूरदृश्यदूरश्रावदूरस्पृशैश्च निर्मितः ।
संकल्पयानवाहाद्यैः क्षणे क्षणे प्रसेवितः ॥९०॥
शीतैर्विद्युत्प्रवाहैश्च सर्वथा तूज्ज्वलीकृतः ।
सुधाऽमृतप्रवर्षिभिस्तारैः समन्ततोऽन्वितः ॥९१॥
स्तंभेषु तोरणेषूर्ध्वभागेषु त्वासनान्वितः ।
वरकन्याविवाहस्य प्रतिबिम्बार्थदर्शनः ॥९२॥
स्वर्गे ताराश्च यावत्यस्तावन्तो मणयस्त्विह ।
कैलासे मण्डपे तत्र राजन्ते योगमण्डपे ॥९३॥
सृष्टिपानां तु यावन्ति सभास्थानानि सन्ति हि ।
तावन्ति मण्डपे तत्र कृतानि विश्वकर्मणा ॥९४॥
दानार्हकन्यकानां चाऽऽसनानि मध्यगोलके ।
कृतानि कण्ठमालार्थं सन्निधौ विश्वकर्मणा ॥९५॥
कैलासः पुरुषस्तत्र राजते मूर्तिमानपि ।
सर्वार्हवस्तुदानार्थं प्रोवाहे तत्र वै महे ॥९६॥
न भूतो न भविष्यँश्च मण्डपश्चेदृशः क्वचित् ।
आरपारदृशा दृश्यो विद्यते धामवत् स्थितः ॥९७॥
यूपकलशदेवाधिवासनैः स्वस्तिकादिभिः ।
अधिष्ठितो महीमानैः पार्वतीनगरीजनैः ॥९८॥
काशीनगरीलोकैश्च सृष्टित्रयनिवासिभिः ।
संकुलितो वदद्भिश्च प्रोद्वाहः कृष्णयोरिति ॥९९॥
मण्डपस्योत्तमे श्रेष्ठे गोपुरे मंगलात्मके ।
वीरभद्रोऽम्बरे वक्ति मंगलं कृष्णयोरिति ॥१००॥
वदन्ति व्योमयन्त्राणि समायान्तु महोत्सवे ।
पश्यन्तु परमात्मानं प्रदानं कृष्णयोरिति ॥१०१॥
सामवेदो मूर्तिमाँश्चाऽम्बरे स्थित्वाऽभिवन्दते ।
आगच्छन् श्रीशराजोऽसौ हरिर्विजयतेतमाम् ॥१०२॥
ऋग्वेदश्च गोपुराग्रे स्थितः पश्यति वाहिनीम् ।
समायान्तीं महादीर्घामसूचयच्छिवादिकान् ॥१०३॥
सती श्रीपार्वतीदेवी तूर्ध्वभूमौ गता तदा ।
कियती कीदृशी चेति वाहिनीति प्रविक्षितुम् ॥१०४॥
शिवपुरात् काशिकां संगृह्य मण्डपसन्निधौ ।
आतां चातिदीर्घां संवीक्ष्य स्तब्धाऽभवत् क्षणम् ॥१०५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कन्यार्थं भूषाऽम्बरोपकरणादिप्रेषणम्, वाहिनीजनमहीमानकृष्णशृंगारादि, श्रीकृष्णस्य मण्डपं प्रति निर्याणं, मण्डपशोभा चेत्यादिनिरूपणनामा नवाशीत्यधिकद्विशततमोऽध्यायः ॥२८९॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP