संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः १२२

त्रेतायुगसन्तानः - अध्यायः १२२

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके! भगवद्भक्तो देवायतनमुक्तराट् ।
मेषादीनां महर्षीणामनुमत्या विमानकम् ॥१॥
द्विकलाख्यसरस्तीरे दक्षभागेऽवतारयत् ।
कृकलासस्वरूपेण कर्कायनर्षिरप्सु वै ॥२॥
वासं करोति सरसि तत्तटे चाऽवरोहयत् ।
जयशब्दास्तदा लोकैः कृता जय विमानकम् ॥३॥
जय देवो विमानस्थो जय प्रद्युम्न ईश्वरः ।
इत्येवं तु नरा नार्यो जयशब्दसमन्विताः ॥४॥
लाजाभिः कुसुमैर्गन्धैरक्षतैस्तमवर्धयन् ।
आशीर्भिः समयुञ्जँश्च ददृशुर्देवतायनम् ॥५॥
प्रद्युम्नं च तथा कर्कं देवायतनमार्चयन् ।
पादयोः पतिताः सर्वे पादवारि पपुस्तथा ॥६॥
मेनिरे धन्यभाग्यानि घोषयन्तो हरे हरे ।
हरेकृष्ण हरेस्वामिन् बालकृष्ण हरेहरे ॥७॥
कर्कर्षिस्तत्र राजानं थर्कूटस्थाभिधं प्रति ।
हरेर्नामग्रहणस्योपदेशं प्रचकार ह ॥८॥
राजा जग्राह मन्त्रं तन्मालिकां तौलसीं तथा ।
थर्कूटस्थालये सौम्ये प्रासादे तमवासयत् ॥९॥
देवतायतनर्षेश्च महापूजनमाचरत् ।
देवतायतनस्तत्र प्रासादे राजकीयके ॥१०॥
मेषादीन् द्वादशर्षींश्च राजसम्बन्धिनस्तथा ।
राज्ञीं चारुमकावां च तथा बाकृकलासिकाम् ॥११॥
त्रिलूनां मंगलां चापि नाम मन्त्रं तदाऽऽर्पयत् ।
'हरेकृष्ण हरेस्वामिन् हरेनारायण प्रभो ॥१२॥
बालकृष्ण कम्भराश्रीयुत्र गोपालनन्दन' ।
'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ॥१३॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
'कालमायापापकर्मशनुयाम्यकुहृद्भयात् ॥१४॥
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ।
'ब्रह्माऽहं ' श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ॥१५॥
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ।
'कृष्णवल्लभभक्तोऽहं श्रीहरिः शरणं मम' ॥१६॥
इत्येवं प्रददौ मन्त्रान् देवतायतनस्तदा ।
ततः प्रजाभ्यः सर्वाभ्यो ददौ समन्त्रकीर्तनम् ॥१७॥
इत्येवं वैष्णवान् कृत्वा तत्रत्यैः प्रतिपूजितः ।
विमानं च समारुह्यर्षिभिः राजकुटुम्बिभिः ॥१८॥
राज्ञा च राजपत्निभिः समं पश्चिमभूमिकाम् ।
तानुतुवाप्रदेशस्थान् श्रावयन् नामकीर्तनम् ॥१९॥
अवाऽतारयद् वायानं दत्वा मन्त्रान् प्रजातये ।
तत्कृतां प्राप्य संपूजाम् अल्पमात्रासरोवरम् ।
गत्वाऽवतीर्य यानाच्च इरात्रीशानदीमनु ॥२०॥
मकरर्षिनिवासे च सस्नुः सर्वेऽवतीर्य च ।
तटाके च तथा नद्यां स्नापयित्वा प्रजाजनान् ॥२१॥
नाममन्त्रं ददौ तेभ्यो देवतायतनः ऋषिः ।
तत्कृतां परमां पूजां प्राप्य ततोऽपि पश्चिमे ॥२२॥
बालकृष्णसरो गत्वाऽवतेरुस्ते सरस्तटे ।
दक्षिणे बालिकानद्याः संगमे स्नानमाचरन् ॥२३॥
मीनर्षिः स्वगृहं नीत्वा पुपूज भक्तमण्डलम् ।
विमानं च समारुह्य प्रद्युम्नं समपूजयत् ॥२४॥
श्रावयन् कृष्णनामानि प्रजाभ्यः श्रीहरेर्मनून् ।
ददौ देवायतनकश्चकार वैष्णवीः प्रजाः ॥२५॥
तत्प्रदत्तां प्राप्य पूजां ययुः सर्वे तु पश्चिमे ।
कीरगर्जनदेशेषु विमानात्ते ह्यवातरन् ॥२६॥
वृश्चिकर्षिनिवासेषु गत्वा दत्वा स्वदर्शनम् ।
तद्देशीयजनेभ्यश्च मनून् देवायनो ददौ ॥२७॥
कीरगर्जनराजानं सकुटुम्बं मनुं शुभम् ।
श्रावयित्वा वैष्णवं च कृत्वा नीत्वा विमानके ॥२८॥
प्रजाकृतां महापूजां गृहीत्वा देवतायनः ।
सर्षिराजकुटुम्बादिः सीरानदीसमागमे ॥१९॥
उरुले सरसि नैजं विमानं स्वामतारयत् ।
नाम संश्रावयन् सर्वाः प्रजास्तत्र सरोवरे ॥३०॥
अस्नापयत् ततो मन्त्रान् ददौ तेभ्यः सकीर्तनान् ।
मिथुनायनसंज्ञश्च ऋषिर्युगलरूपधृक् ॥३१॥
स्वावासे श्रीविमानस्थान् प्रद्युम्नादीनुपानयत् ।
पुपूज परया भक्त्या विमानं चारुरोह च ॥३२॥
ततश्च प्रययुः सर्वे आमुनदीसमागमे ।
तदूर्ध्वदेशवासाश्च प्रजाः संश्रावयन् मुनिः ॥३३॥
हरेकृष्ण बालकृष्ण मन्त्रानश्रावयच्च ताः ।
वैष्णवीस्ताः प्रजाः कृत्वा विमानमधिरुह्य च ॥३४॥
केशपापयनवार्धिं च गत्वा पूर्वतटे शुभे ।
विमानादवतीर्याऽथ स्नात्वा वार्धौ च ते ततः ॥३५॥
स्नपयित्वा प्रजास्तत्र श्रावयन्नामकीर्तनम् ।
मन्त्रान् ददौ देवतायतनस्ताभ्यस्ततः खलु ॥३६॥
विमानं च समारुह्य उरुलासंगमं ययौ ।
तत्र कुंभर्षिणा सर्वे पूजिताः परमेश्वराः ॥३७॥
स्वावासे भ्रामणं तेषां कारितं चापि पावनम् ।
देवायनः श्रावयित्वा नाममन्त्रान् प्रजाजनान् ॥३८॥
तेभ्यो दत्वा मनून् पश्चाद् विमानेनाऽऽप पर्वतम् ।
उरुलं त्रिवलासंज्ञां नदीं चापि ययौ मुनिः ॥३९॥
इरात्रीशात्रिबालासंगमे सस्नुश्च ते तदा ।
तत्प्रदेशीयलोकाँश्च देवतायतनो मुनिः ॥४०॥
श्रावयामास वै नाम हरेश्चाथ मनून् ददौ ।
सिंहर्षिणा समादिष्टप्रजाभ्यो मुनिराट् खलु ॥४१॥
तैः प्रद्युम्नः पूजितश्च देवायनोऽपि पूजितः ।
अन्येऽपि पूजिताः सर्वे विमानेन तदोत्तरे ॥४२॥
श्रावयन्तो हरेर्नाम ओबीत्रिबलासंगमम् ।
अवतेरुर्विमानाच्च सस्नुस्तत्र महाजले ॥४३॥
धनायनो महर्षिश्च तथा प्रजाजना अपि ।
पुपूजुः परया भक्त्या विमानस्थान् जनांस्तदा ॥४४॥
देवतायतनो नाम हरेः संभावयन् मुहुः ।
प्रजाभ्यो नाम मन्र्त्राँश्च दत्वा तत्रत्यभूपतिम् ॥४५॥
वीरजारं श्रावयित्वा नाममन्त्रं मनूँस्तथा ।
पुत्रान् पुत्रीश्च तत्पत्नीं श्रावयित्वा च तान् मनून् ॥४६॥
विमाने सह नीत्वा च ययौ ओब्यब्धिसंगमम् ।
अवतेरुर्विमानाच्च सस्नुरोब्यब्धिसंगमे ॥४७॥
श्रावयन्तो हरेर्नाम आमद्राक्षप्रजाजनान् ।
तेभ्यो मन्त्रं ददौ देवायनर्षिश्च ततः परम् ॥४८॥
कन्यायनर्षिस्तत्रैव पर्वते चोरुलाभिधे ।
निजाऽऽवासे विमानेन नीत्वा सर्वानपृजयत् ॥४९॥
गृहीत्वा तस्य वै पूजां पूर्वां दिशं ययौ ततः ।
त्राससागरसंयोगे चावतेरुर्विमानतः ॥५०॥
श्रावयामासुरत्यर्थं हरेकृष्ण प्रजाजनान् ।
स्नात्वा च स्नपयित्वा च मनून् दत्वा च वै ततः ॥५१॥
यानेशीसागरसंगं ययुः सर्वे विमानगाः ।
सस्नुश्च स्नपयामासुः श्रावयित्वा प्रजाजनान् ॥५२॥
नाम मन्त्रं ददौ देवायतनर्षिश्च भक्तराट् ।
ऐकागारिकदेशीयप्रजाभ्यश्च मनून् ददौ ॥५३॥
शिबिराजप्रदेशानामुत्तरेषु स्तरेषु च ।
तुंगाऽसिकानदीप्रान्ते प्रजाभ्यः प्रददौ मनून् ॥५४॥
तन्द्रादेशं ययौ देवायनर्षिः सर्वसेवितः ।
हिमभूमिप्रजास्तत्र श्रावयित्वाऽभिधां हरेः ॥५५॥
ताभ्यो मनून् ददौ देवायनर्षिस्त्रिमुरप्रजाः ।
श्रावयित्वा ततस्ताभ्यो नाम मन्त्रं ददौ ततः ॥५६॥
रेन्डी मेषायनर्षिश्च पुपूज तान् विमानगान् ।
स्वस्थानं पावनं चक्रे तेषां पादरजोऽन्वितम् ॥५७॥
मेषायनेन ऋषिणा प्रद्युम्नाद्याः प्रपूजिताः ।
गृणन्तस्ते हरेर्नाम अनावारानदीं ययुः ॥५८॥
श्रावयित्वा च नामानि स्नापयित्वा प्रजाजनाम् ।
स्नात्वा सर्वे संगमे च तत्प्रजाभ्यो मनून् ददुः ॥५९॥
विमानेन ययुः पूर्वे आलनौकानदीं प्रति ।
तदब्धिसंगमे सस्नुः सर्वे प्रजाजना अपि ॥६०॥
शक्त्यक्षिनृपतिः सस्नौ सकुदुम्बोऽब्धिसंगमे ।
श्रुत्वा नाम हरेकृष्ण वालकृष्ण नरायण ॥६१॥
जगृहुस्ते नाममन्त्रान् देवायनमहर्षितः ।
राजप्रजार्पितां पूजां प्राप्य प्रद्युम्नकादयः ॥६२॥
ययुः पूर्वस्थितान् तन्द्रादेशान् बीनानदीमनु ।
लीनासागरसंगे च सस्नुः सर्वे विमानिनः ॥६३॥
नामसंकीर्तनं चक्रुः प्रजास्तत्र समाययुः ।
जगृहुर्नाममन्त्राँश्च देवतायतनात् ततः ॥६४॥
तत्रत्यो वृषभर्षिश्च पूजयामास ताँस्ततः ।
पूजां प्राप्य विमानेन चाययुः सर्व एव ते ॥६५॥
उष्ट्रीयास्कानदीं तत्र सस्नुः प्रजाजनैः सह ।
प्रजाभ्यः प्रददौ देवायतनश्च मनून् ततः ॥६६॥
नाम विष्णोः श्रावयँश्च यानां नदीं ययुस्ततः ।
यानाऽब्धिसंगमे स्नात्वा स्नपयित्वा प्रजाजनान् ॥६७॥
श्रावयित्वा हरेर्नाम तेभ्यो मनून् ददुश्च ते ।
ततो ययुर्विमानेन कालिमां सरितं च ते ॥६८॥
कालिमाऽब्धिजले स्नात्वा स्नपयित्वा प्रजाजनान् ।
श्रावयित्वा हरेर्नाम तेभ्यो मनून् ददुस्तदा ॥६९॥
तुलायनो महर्षिश्च स्वस्थानं तान् विमानगान् ।
निनाय पूजयामास प्रद्युम्नदेवतादिकान् ॥७०॥
कालिमाशश्च राजाऽपि सुवैष्णवस्तदाऽभवत् ।
पुपूज परया प्रीत्या विमानस्थान् सुरेश्वरान् ॥७१॥
विमाने सकुटुम्बो वै समारुरोह वैष्णवः ।
ततो ययुरलांशुकाप्रदेशान् वै ततः परम् ॥७२॥
द्विरंगाख्यप्रदेशाँश्च अनादीरनदीतटान् ।
श्रावयित्वा तद्भूमिस्थजनेभ्यो नामकीर्तनम् ॥७३॥
मनून् तेभ्यो ददुश्चाऽथ ययुर्वै कामचाटकान् ।
तत्प्रजाः पावयित्वैव हरेर्नाम्ना ततः परम् ॥७४॥
ताभ्यो मन्त्रान् प्रदायैव अक्षौढाभुवमागताः ।
स्तेनावासिजनान् सर्वान् श्रावयित्वा हरेर्मनुम् ॥७५॥
तेभ्यो मन्त्रान् प्रदायैव प्रभालुनाद्रिमाययुः ।
श्रावयित्वा तद्भूमिस्थजनेभ्यो नाम वै हरेः ॥७६॥
ताभ्यो मन्त्रं ददुर्देवायतनाद्यास्ततश्च ते ।
पश्चिमं प्रययुः सर्वे विलीनायुप्रदेशकान् ॥७७॥
तत्रत्याश्च प्रजाः सर्वाः श्रावयामासुरुत्सुकाः ।
हरेकृष्ण हरेस्वामिन् बालकृष्ण हरेहरे ॥७८॥
मन्त्रान् ताभ्यो ददुश्चापि ताभिः कृतां तथोपदाम् ।
संगृहीत्वा ययुः सर्वे योनिषोढाप्रदेशकान् ॥७९॥
तत्रत्याश्च प्रजाः सर्वाः श्रावयित्वाऽभिधां हरेः ।
ताभ्यो मन्त्रान् प्रददुश्च तत्कृतं पूजनं ततः ॥८०॥
समादाय ययुः सर्वे ओम्प्रदेशान् विमानगाः ।
अवतीर्य प्रजाः सर्वाः श्रावयित्वाऽभिधां हरेः ॥८१॥
ताभ्यो ददुर्हरेर्मन्त्रान् चक्रुस्तान् वैष्णवान् शुभान् ।
अथैवं राधिके सर्वान् देशान् देवायनो मुनिः ॥८२॥
प्रद्युम्नेन तथा श्रेष्ठद्वादशर्षिभिरन्वितः ।
राशियानप्रदेशानां राजभिः सहितस्तथा ॥८३॥
भ्रमित्वाऽष्टभ्रमान् दैवान् जीवान् चकार वैष्णवान् ।
स्थले स्थले हरेर्नाम जपपारायणा जनाः ॥८४॥
अभवन् वै नरा नार्यो बाला वृद्धाश्च मध्यमाः ।
स्नानं च पूजनं नित्यं बालकृष्णस्य सर्वदा ॥८५॥
गृहे गृहेऽभवद् वासो देवदेवस्य वै तदा ।
अथ देवायतनाय प्रार्थयामासुरेव ते ॥८६॥
मेषायनाद्याः ऋषयो थर्कूटस्थनृपादयः ।
वयं वै भवतो योगान्नारायणपरायणाः ॥८७॥
जाताः स्मोऽद्य प्रजाः सर्वाः पापमार्गान्निवारिताः ।
कृष्णभक्तिपरा जाताश्चोपकारो महान् कृतः ॥८८॥
नृदेहस्य तु साफल्यं कारितं भवताऽधुना ।
गुरुरेव परब्रह्म तारकोऽस्ति भवान् हि नः ॥८९॥
गुरुद्वारा. हरिः साक्षात् मिलत्येव न संशयः ।
यथा साक्षाद्धरेर्योगो भवेत् तथा विधेहि नः ॥९०॥
बालकृष्णस्य कृष्णस्य स्वेष्टदेवस्य दर्शनम् ।
प्रत्यक्षं नो भवेत्तद्वद् भवान् करोतु योजनाम् ॥९१॥
यन्मन्त्रो नाममात्रं च पापप्रज्वालनक्षमम् ।
तस्य साक्षाद्दर्शनं तु किं न धत्ते हिं देहिनाम् ॥९२॥
श्रवणं मंगलं यस्य स्मरणं मंगलं मुहुः ।
कीर्तनं मंगलं यस्य किं न धत्ते तु दर्शनम् ॥९३॥
यथा कृपाऽत्र चागत्य भवताऽनुष्ठिता तथा ।
इष्टदेवः समागच्छेत् तथा कृपां विधेहि नः ॥९४॥
बालानां बालिकानां च नराणां योषितां तथा ।
अशक्तानां दर्शनं श्रीहरेः स्यादागमेन वै ॥९५॥
यद्भक्तस्य प्रसंगेन दैवा मुमुक्षुतां गताः ।
वैष्णवास्तं भजन्त्यत्र कृतिनस्तु तदागमे ॥९६॥
देशोऽपि दिव्यतां यायान्नद्यो नदाः सरोऽब्धयः ।
दिव्यतां तीर्थतां पृथ्व्यो यास्यन्ति चागमाद्धरेः ॥९७॥
वनानि पर्वता ग्रामा नगराणि जलानि च ।
खातानि चाऽप्यखातानि यास्यन्ति दिव्यतां ततः ॥९८॥
रणानां भूमयश्चापि द्वीपानां भूमिकास्तथा ।
दुर्गाऽदुर्गप्रदेशाश्च यास्यन्ति दिव्यतां ततः ॥९९॥
मानवानां हृदयानि कालुष्यसंभृतानि वै ।
हरेर्योगाद्धवलानि भविष्यन्ति सुपुण्यतः ॥१००॥
इत्येवं प्रार्थयामोऽत्र प्रद्युम्नाय महात्मने ।
देवतायतनायाऽपि दद्मश्चाशीर्वचः शुभम् ॥१०१॥
इत्येवं चाऽर्थितौ राधे! प्रद्युम्नदेवतायनौ ।
आश्वासनं ददतुश्च तेभ्यो वै ओमिति ध्रुवम् ॥१०२॥
ततो विमानं सर्वैश्च बालकृष्णसरोवरे ।
उत्तरे तत्तीरभागेऽवतारितं निवृत्तये ॥१०३॥
विशश्रमुस्तु ते सर्वे कृत्वा वै भोजनादिकम् ।
निशायां श्रीबालकृष्णं भेजिरे सस्मरुश्च ते ॥१०४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने राशियानप्रदेशेषु महर्षिभिः राजभिश्च सह विमानेन भ्रमित्वा प्रजासु हरेर्नामश्रावणं मन्त्रदानं च देवा-
यतनर्षिश्चकारेत्यादिनिरूपणनामा द्वाविंशत्यधिकशततमोऽध्यायः ॥१२२॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP