त्रेतायुगसन्तानः - अध्यायः २८०
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु त्वं राधिके! चान्यं महान्तं मण्डपं शुभम् ।
मण्डपाख्यो महायुक्तः स्वात्मकं रूपमादधत् ॥१॥
दशयोजनविस्तीर्णं दशयोजनमायतम् ।
ऊर्ध्वं योजनमात्रं च षट्पञ्चाशत्प्रभूमिकम् ॥२॥
दशसाहस्रकलशाः सध्वजाः सपताकिकाः ।
राजन्ते यत्र सौवर्णाः सूर्यसाहस्रसदृशाः ॥३॥
मध्ये शतैककलशाश्चोपर्युपरि भान्ति च ।
किं वा ग्रहाश्च नक्षत्रा द्योतन्ते कलशा इव ॥४॥
सौवर्णं च वितानं वै दिव्यं यत्र प्रभाति च ।
चिदाकाशाम्बरं यद्वन्महदाकाशमिश्रितम् ॥६॥
दशसाहस्रशृंगाणि विद्योतन्ते परेऽम्बरे ।
मेघा कट्यां मण्डपान्तः प्रविश्य यान्ति निर्मलाः ॥६॥
सहस्रचन्द्रतुल्याश्च तिष्ठन्ति प्रतिभूमिकम् ।
पूर्णाः श्वेताः श्वेतभासश्चन्द्रमसोऽक्षरात्मकाः ॥७॥
ज्योत्स्नास्तेषां मण्डपान्तर्गर्भागारेषु यान्ति च ।
कानक्यो भित्तिकाः सर्वाः सर्वा ब्रह्मप्रभाश्रिताः ॥८॥
ब्रह्माऽमृतप्रवाहिण्यो महानन्दप्रवर्षिकाः ।
दशसाहस्रवैकुण्ठात्मकवितानमण्डलम् ॥९॥
मण्डपे चोर्ध्वभागे वै गर्भे विलोक्यते शुभम् ।
मध्ये रात्नझुम्मराणि चान्द्रतेजोभृतानि वै ॥१०॥
परितः शिखरागारे मुक्तान्यो विलसन्ति वै ।
कल्पवल्ल्यः कल्पवृक्षाः संकल्पमणयस्तथा ॥११॥
स्तंभशिरस्सु शोभन्ते सर्वसंकल्पपूरकाः ।
स्तंभेषु घृतकुल्याश्च दधिकुल्याः समन्ततः ॥१२॥
मधुकुल्या जलकुल्याः पेयकुल्या वहन्ति च ।
शरत्पानप्रकुल्याश्चाऽमृतकुल्याः स्रवन्ति च ॥१३॥
सुधाकुल्या नवनीतकुल्याः पीयूषवापिकाः ।
सुधाधाराः स्तंभगर्भे वसन्ति प्रवहन्ति च ॥१४॥
तत्तद्धामनिवासानां पेयाऽद्यरसवाहिकाः ।
सरितस्तत्र तिष्ठन्ति तोरणेषु समन्ततः ॥१५॥
कामकल्पलतास्तत्र कामस्त्रीदासदासिकाः ।
कामभोग्यप्रदाः सर्वाः कम्मानिकाः प्रकल्पिताः ॥१६॥
तोरणानि समस्तानि विचित्ररंगभाञ्जि च ।
क्लृप्तानि मण्डपे तत्र मण्डपाख्येन योगिना ॥१७॥
जलस्थानं स्नानशालाः स्नानोपकरणान्यपि ।
शोभन्ते चेन्द्रशालावत् सुगन्धिद्रव्यभाञ्जि च ॥१८॥
लेपकज्जलकस्तूरीचन्दनाद्यैः समन्विताः ।
सुगन्धिसाररसकैर्युक्ताः शाला भवन्ति च ॥१९॥
पानभोजनशालाश्च तत्तद्धामनिवासिनाम् ।
तत्तद्धाम्नां कल्पलतामणियुक्ता विनिर्मिताः ॥२०॥
तेषां संकल्पफलिका यथापेक्षितसम्प्रदाः ।
तत्तद्भोगविलासाढ्या भोज्यशाला भवन्ति च ॥२१॥
तत्तत्पात्रोपकरणासनसाधनसंभृताः ।
शय्याऽऽरामप्रशालाश्च विश्रान्तिमन्दिराणि च ॥२२॥
दिव्यपर्यंकयुक्तानि दिव्यगेन्दुकवन्त्यपि ।
दिव्याऽऽस्तरणशोभानि दिव्याऽऽवरणभाञ्ज्यपि ॥२३॥
दिव्यवेषोपयुक्तानि दिव्याम्बरभृतानि च ।
दिव्यविलासद्रव्याणि दिव्यभावकराणि च ॥२४॥
दिव्यसुगन्धवासानि दिव्यरतिप्रदान्यपि ।
दिव्यानन्दप्रदान्येव भवन्ति तत्र मण्डपे ॥२५॥
यत्स्मृतं भोजने पाने शयने च रतावपि ।
युगलानां दिव्यमेव सर्वं समुपतिष्ठति ॥२६॥
द्यूतशाला विचित्राश्च रंगशालाः शुभास्तथा ।
सर्वसाधनसम्पन्ना विद्योतन्ते तु मण्डपे ॥२७॥
नाट्यशालाश्च विविधा मल्लशालाः पृथक् तथा ।
नृत्यशाला वेषशालास्तथा नेपथ्यभूमिकाः ॥२८॥
दृश्यशाला ह्यनन्ताश्च श्रोतव्ययन्त्रशालिकाः ।
वार्तागृहाणि सौम्यानि गन्धागाराणि चापि वै ॥२९॥
स्पर्शाश्रमाणि रम्याणि रस्यालयाः पृथग्विधाः ।
गीतिशालाः शोभनाश्च विद्यन्ते तत्र मण्डपे ॥३०॥
पञ्चभूतानि तत्त्वानि विषयाः स्थूलसूक्ष्मकाः ।
तथा तत्त्वानि कार्याणि कारणानि च मण्डपे ॥३१॥
ब्रह्मह्रदाः कृतास्तत्र विरजाद्याश्च वै कृताः ।
अमृतानां च सरितः कृताः कुण्डाः स्थले स्थले ॥३२॥
उद्यानानि विचित्राणि फलपुष्पभृतान्यपि ।
शर्करारसदण्डाद्यवाटिकास्तत्र मण्डपे ॥३३॥
मिष्टाऽम्ब्लरसभोगाश्च नागपूगीलवंगकाः ।
एलात्वक्खाद्यभागाश्च विद्योतन्त हि मण्डपे ॥३४॥
तेषां तेषां प्रवेषाणां गृहाणि सन्ति मण्डपे ।
तेषां तेषां चायुधानां मन्दिराण्यपि मण्डपे ॥३५॥
तासां तासां कन्यकानां बालक्रीडनकान्यपि ।
बालानां खेलनाभागा विद्योतन्ते हि मण्डपे ॥३६॥
राजमार्गास्तथा रथ्याश्चत्वराश्च वितर्दिकाः ।
महास्थाला विरामाश्च विलसन्ति च मण्डपे ॥३७॥
वल्लभ्यश्चन्द्रशालाश्च गवाक्षाणि समन्ततः ।
ह्रस्वान्यपि च दीर्घाणि द्वारवेषाणि सन्ति च ॥३८॥
छत्रजातानि सौम्यानि कुञ्जवत् संस्थितान्यपि ।
द्वारवेषोर्ध्ववासानि शोभन्ते तत्र मण्डपे ॥३९॥
शुकाश्च सारसाश्चापि मेना मयूरकास्तथा ।
हंसाः कारण्डवाश्चापि गरुडा भासपक्षिणः ॥४०॥
श्येनाः कपोतका दिव्याश्चक्रवाकाश्च तित्तिराः ।
नीलकण्ठाश्चातकाश्च दिव्याः पारावतास्तथा ॥४१॥
एवमन्ये पक्षिणश्च तोरणेषु समन्ततः ।
नूतना नवदृश्याश्च विद्योतन्ते सुखभृतः ॥४२॥
कोकिलाश्च प्रकूजन्ति कूजयन्त्यपरानपि ।
स्तंभानां मूर्धभागेषु दर्शनेषु वसन्ति च ॥४३॥
हस्तिनः शरभाः सिंहाः केसरिणश्च धेनवः ।
द्वीपा व्याघ्रा नारद्विपा भल्लुका गवयास्तथा ॥४४॥
गण्डकाश्च मृगाः खङ्गाश्चित्राश्च शृंगसाभराः ।
रेण्डकाश्च शशाश्चापि श्वेताश्वाश्चाश्वजातयः ॥४५॥
वृषभा उष्ट्रकाश्चापि मकराः कच्छपास्तथा ।
तिमिंगिला झषाश्चापि विद्योतन्ते समन्ततः ॥४६॥
रत्नहीरकमौक्तिकात्मकमण्यादिशोभिताः ।
मध्यभागाः प्रकाशन्ते प्रत्यालयं तदाऽम्बरे ॥४७॥
मालाः पुष्पप्रकाण्डाश्च दिव्याः स्रजोऽतिगन्धिताः।
तेजोभृताः प्रशोभन्ते कौस्तुभाश्च स्थले स्थले ॥४८॥
पर्यो देव्यश्चेश्वराण्यः सुराण्यः कन्यकोत्तमाः ।
साध्व्यः सत्यो विलसन्ति द्वारवेषेषु संस्थिताः ॥४९॥
चन्द्रशाला विमानैश्च कामवाहैर्युतास्तदा ।
मण्डपे शतसाहस्राः शोभन्ते व्योमसंगताः ॥५०॥
उद्यानवाटिकावल्ल्यः पुष्पस्तम्बा भवन्त्यपि ।
कमलानां निवासाश्च सुगन्धयन्ति मण्डपम् ॥५१॥
मन्दसुगन्धिसंस्पृश्यशीतलाऽनिलपूरकाः ।
आगच्छन्ति वनमार्गान्मण्डपे वै गृहे गृहे ॥५२॥
भोग्यानां न्यूनता नास्ति वेषाभूषाम्बरात्मनाम् ।
मिष्टान्नानां राशयश्च मण्डपेऽत्र गृहे गृहे ॥५३॥
तत्तद्धामनिवासानां योग्यभोग्यानि सन्ति हि ।
दर्पणादर्शभागाश्च प्रतिबिम्बद्रवास्तथा ॥५४॥
सिद्धयश्चाणिमाद्याश्च विद्योतन्ते हि मण्डपे ।
दासा दास्योऽप्यनन्ताश्च कन्यकाः कोटिशोऽपि च ॥५५॥
अमृतानन्ददायिन्यो वर्तन्ते मण्डपे तदा ।
वैचित्र्यं खलु तत्राऽऽसीद् राधिके! नूतनं शृणु ॥५६॥
गृहे गृहे तु देहल्यां निहितश्चैकको मणिः ।
यत्र विलोक्यते स्वच्छः समस्तः सर्वमण्डपः ॥५७॥
सर्वे मण्डपभागाश्च सर्वे माण्डपिनस्तथा ।
महीमानाः समस्ताश्च दिवसे न तु वै निशि ॥५८॥
किं मया राधिके! वाच्यं त्वत्समाश्चाऽर्बुदस्त्रियः ।
मुक्तान्यः सेविकास्तत्र वर्तन्ते परिचारिकाः ॥५९॥
गोलोकस्थोऽप्यहं स्मृत्वा दृष्ट्वा मोहमुपागमम् ।
विलासस्ते शून्यभूतो दृश्यते तत्समीपतः ॥६०॥
स्थले स्थले च गोलोको वैकुण्ठो वर्ततेऽपि च ।
ऊर्ध्वं स्थलं कृतं तत्राऽक्षरधामनिवासिनाम् ॥६१॥
ततोऽधः सर्वधाम्नां च सर्वगोलोकवासिनाम् ।
ततोऽधश्च कृतं श्रीमद्वासुदेवस्थलं शुभम् ॥६२॥
ततोऽधश्च कृतं रम्यं वैकुण्ठं परमं शुभम् ।
ततोऽधश्च कृतं दिव्यं चाऽव्याकृतं शुभं स्थलम् ॥६३॥
ततोऽमृतं कृतं चाधस्ततो भौमं कृतं स्थलम् ।
ततो हैरण्यगर्भं च वैराजं च कृतं ह्यधः ॥६४॥
महामायास्थलं चापि सादाशैवं कृतं तथा ।
वैष्णवं च कृतं चापि वैकुण्ठं च द्वितीयकम् ॥६५॥
ब्राह्मं रौद्रं तथा शैवं सैद्धं स्थानं ततोऽप्यधः ।
ईश्वराणां निवासाश्च ऋषीणां च ततोऽप्यधः ॥६६॥
पितॄणां च कृताश्चापि सुराणां च ततोऽप्यधः ।
त्रयस्त्रिंशत्प्रदेवानां स्थानानि च ततोऽप्यधः ॥६७॥
भुवर्लोकनिवासानां मानवानां ततोऽप्यधः ।
अतलादिनिवासानां भक्तानां दितिजन्मिनाम् ॥६८॥
दनुजानां च नागानां यादसां भूभुवां तथा ।
वन्यानां सर्वसत्त्वानां कामरूपध्रगात्मनाम् ॥६९॥
कामधेनुप्रकुलानां स्थावराणां तथाऽऽत्मनाम् ।
तीर्थानां पर्वतादीनां स्थानानि मण्डपेऽप्यधः ॥७०॥
कृतानि मण्डपाख्येन मुक्तेन मण्डपे निजे ।
अनादिश्रीकृष्णनारायणेच्छया हि नूतने ॥७१॥
यज्ञशाला देवशाला जपशालाः कृतास्तथा ।
वेदशाला वैद्यशाला वेधशालास्तथा कृताः ॥७२॥
आपणानां पंक्तयश्च भृज्यशालास्तथा कृताः ।
विहारवनशालाश्च कृता बह्व्यो ह्यधो भुवि ॥७३॥
सोपानानि विचित्राणि सर्वरत्नमयानि च ।
निःश्रेणिका विचित्राश्च यथासंकल्पचञ्चलाः ॥७४॥
आरोहाऽवरोहकुट्यः सकल्पशृंखलान्विताः ।
संकल्पदर्शकाश्चापि पार्षदाश्च स्थले स्थले ॥७५॥
विहिताः प्रश्रमिणां च श्रमघ्नाः पादवाहकाः ।
राज्ञः रंकस्य च हरेः समर्द्धिर्ब्राह्ममण्डपे ॥७६॥
साधूनां प्रणिवासाश्च यतीनां ब्रह्मचारिणाम् ।
साध्वीनां च सतीनां च मुक्तानीनां कृताः शुभाः ॥७७॥
मण्डपे वनवासाश्च कृताश्चारण्यकालयाः।
सूतमागधबन्दीनां मालयाश्च तथा कृताः ॥७८॥
तूर्यवतां स्तावकानां वैदिकानां तथाऽऽलयाः ।
विद्यानां सर्वकामानामालयाश्च तथा कृताः ॥७९॥
भृत्यानां दिग्गजानां चालयाश्च फणिनां कृताः ।
कच्छपानां च शेषाणां निरन्नानां तथाऽऽलयाः ॥८०॥
महर्षीणां तापसानां भक्तानां ब्रह्मयोगिनाम् ।
सन्न्यस्तानां तथा चावऽधूतानामालयाः कृताः ॥८१॥
प्रजानां भिन्नवर्णानां भिन्नदेशनिवासिनाम् ।
भिन्नस्वभावयुक्तानां निवासा मण्डपे कृताः ॥८२॥
शीतोष्णादिनिवासानां यथापेक्षालयाः कृताः ।
स्थूलसूक्ष्मस्वरूपाणां यथापेक्षालयाः कृताः ॥८३॥
दिव्याऽदिव्यस्वरूपाणां यथापेक्षालयाः कृताः ।
मायिकानाममायानां यथादेहालयाः कृताः ॥८४॥
विमानानां महामार्गा मण्डपे चाम्बरे कृताः ।
सोपानरीतिमाश्रित्य पत्सृतयोऽपि निर्मिताः ॥८५॥
लोकानां नामसंज्ञाश्च निवासिनां तथाऽभिधाः ।
प्रतिगृहं कृतास्तत्र नैसर्गिकाऽक्षरात्मिकाः ॥८६॥
यथा वेदे तथा चात्र मण्डपे त्वभिधाः कृताः ।
और्णान्यास्तरणादीनि कौशेयानि मृदूनि च ॥८७॥
कैसराणि सुवर्णानि रौप्याणि च कृतानि वै ।
पादपीठानि रम्याणि सिंहासनानि मण्डपे ॥८८॥
कौशिकानि च वस्त्राणि सत्त्वमयानि तत्र च ।
आक्षराणि समस्तानि निहितानि स्थले स्थले ॥८९॥
यावन्ति भक्ष्यभोज्यानि लेह्यचोश्यानि सर्वशः ।
पेयस्वाद्यानि सर्वाणि वह्निपक्वानि यानि च ॥९०॥
वनपक्वानि सर्वाणि भर्जितानि तथापि च ।
अपक्वपिष्टचूर्णानि ताम्बूलकानि यानि च ॥९१॥
मादकानि समस्तानि सर्वपाकानि सर्वथा ।
रसपाकानि सर्वाणि पत्रपाकानि यानि च ॥६॥
क्षारपाकानि रम्याणि घृतपक्वानि यानि च ।
पायसानि समस्तानि शार्कराणि तथापि च ॥९३॥
ऐक्षवाणि समस्तानि कान्दविकैः कृतानि च ।
निहितानि चटन्यश्च सूपश्च पाचकालये ॥९४॥
सर्वप्रकारमिष्टानि मधूनि विविधानि च ।
गुन्द्रपाकानि सर्वाणि निहितान्यदनालये ॥९५॥
राधिके! किमु वक्तव्यं मण्डपे यत्प्रदर्शितम् ।
ब्रह्मलोके विशिष्टं यदीशलोके विशिष्टकम् ॥९६॥
सत्ये स्वर्गे विशिष्टं यन्मानवे च विशिष्टकम् ।
पाताले धामलोकेषु विशिष्टं रत्ननामकम् ॥९७॥
तत्सर्वं निहितं तत्र मण्डपे मण्डपात्मना ।
दीर्घिका निहितास्तत्र सरांसि शोभनान्यपि ॥९८॥
तेजोमार्गाश्च विहिताः सच्चिदानन्दसंभृताः ।
विदुषां च कथाभागा व्याख्यानमन्दिराणि च ॥९९॥
सृष्टिषु याः सभास्थल्यो विख्याताः स्थानिनां मताः ।
ताः सर्वा दर्शिताश्चात्र मण्डपे मण्डपात्मना ॥१००॥
आश्चर्यं चाधिकं राधे! मया दृष्टं ततोऽधिकम् ।
प्रत्यालयं तु देहल्यां निहितो यो मणिः शुभः ॥१०१॥
यत्र विलोक्यते स्वच्छः समस्तः सर्वमण्डपः ।
तत्रापि मण्डपे दृष्टो मणिर्मयाऽपरः शुभः ॥१०२॥
यत्र दृष्टं मया सृष्टित्रयं जडचिदात्मकम् ।
सर्वधामानि दृष्टानि सर्वेश्वरप्रभूमयः ॥१०३॥
सर्वेऽपि जीवलोकाश्च मया दृष्टाः समस्तकाः ।
यत्किञ्चिद्वै मया दृष्टं द्रष्टव्यं नावशिष्यते ॥१०४॥
देहल्यां वै मणिस्तत्र मण्डपस्तत्र वै मणिः ।
तत्र सर्वं समापन्नं वैचित्र्यं चेदमेव हि ॥१०५॥
न गोलोके न वैकुण्ठे नाऽन्यधामसु तत् खलु ।
विद्यते वै महाश्चर्यं स्वगृहे सर्वदर्शनम् ॥१०६॥
अतएवाऽक्षरमुक्ताः सर्वज्ञा वै भवन्त्यपि ।
प्रत्यक्षदर्शिनः सर्वे मण्यन्तर्मणिदर्शिनः ॥१०७॥
मया ते दर्शितं राधे! कथं न स्मर्थसेऽधुना ।
इत्येतत् कथितं राधे! मण्डपस्याऽभिरूपणम् ॥१०८॥
श्रुत्वाऽपि दिव्यतां यायाज्जिज्ञासुतां मुमुक्षुताम् ।
मुक्ततां ब्रह्मतां चापि ब्रह्मवासस्य योग्यताम् ॥१०९॥
नाल्पमत्या धारणीयं भवेदेतत्परात्मनः ।
मण्डपस्य स्वरूपं वै सर्वधाममयं शुभम् ॥११०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने महामुक्तकृतमहामण्डपदिव्यतावर्णनं नामाऽशीत्यधिकद्विशततमोऽध्यायः ॥२८०॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP