संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ३५

त्रेतायुगसन्तानः - अध्यायः ३५

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच
शृणु त्वं राधिके कृष्णनारायणस्य शोभनाम् ।
चमत्कारमयीं लीलां भुक्तिमुक्तिप्रदायिनीम् ॥१॥
एकदा तु नटास्तत्राऽऽययुः कैलासदेशजाः ।
नैकनाट्यक्रियाविज्ञाः समाजस्तब्धताकराः ॥२॥
बहुसाधनसम्पन्नाश्चैन्द्रजालिकबोधिनः ।
सहस्रमानवास्तत्र पञ्चशतानि कन्यकाः ॥३॥
शतं गजाः शतं चाश्वाः शतं च गवयास्तथा ।
शतमुष्ट्रा गर्दभाश्च शतं केसरिणो दश ॥४॥
व्याघ्राश्च विंशतिसंख्या भल्लुका दश इत्यपि ।
वानराः शतमेवापि हंसाः शुकाः शतं शतम् ॥५॥
श्वानस्त्रीणि शतान्येव गण्डका दश इत्यपि ।
मल्लाश्च विंशतिस्तत्र संहत्य बहुविस्तरम् ॥६॥
नाट्यमण्डलमूर्धन्यं ख्यातं तद् भूमिमण्डले ।
अर्धनारीश्वराख्येन नटेन परिपालितम् ॥७॥
शतं तु गरुडास्तत्र शतं चाऽनलपक्षिणः ।
कामरूपधराः सर्वे कल्पद्रुलब्धभोजनाः ॥८॥
अन्तरीक्षगतयश्च व्योमनगरदर्शकाः ।
विद्युत्कलाप्रयोक्तारो बहुरूपप्रदर्शकाः ॥९॥
विद्यन्ते कृतशिक्षाश्च यत्र नृपशुपक्षिणः ।
सौराष्ट्रे कुंकुमवापीक्षेत्रे तन्नाट्यमण्डलम् ॥१०॥
अश्वपट्टसरस्तीरे चोत्तरे समुवास ह ।
कृतस्थानं जलपानं स्नानं चकार वारिषु ॥११॥
पौषमासे पूर्णिमायां नाट्यं रात्रौ चकार तत् ।
विशालो मण्डपस्तत्र रम्यः क्रोशमितोऽभवत् ॥१२॥
लक्षशो मानवास्तत्र द्रष्टुं सौराष्ट्रवासिनः ।
आययुः परितस्तत्र निषेदुर्दृष्टिहेतवे ॥१३॥
अनादिश्रीकृष्णनारायणश्च लोमशो मुनिः ।
माता पिता कन्यकाश्च निषेदुर्नरयोषितः ॥१४॥
विद्युद्दीपा निसर्गाश्च मण्डपस्थितरश्मिषु ।
चकाशिरे चन्द्रतुल्या दिवाभ्रान्तिस्तदाऽभवत् ॥१५॥
तावन्निसर्गवाद्यानि त्ववाद्यन्त च मण्डपे ।
स्तम्भशिरस्सु मिष्टानि ब्रह्मपर्षन्निभानि वै ॥१६॥
स्तम्भकुम्भीषु च तत्र बभूवुर्गीतिकाः शुभाः ।
व्योमवाणीस्वरूपिण्यो गायकैर्वादकैर्युताः ॥१७॥
स्तम्भमध्येषु लोक्यन्ते कन्यानामयुतानि च ।
श्रीरमाकमलागौरीतुल्यरूपाणि सर्वेशः ॥१८॥
वितानेषु तदा स्वर्गं सुधर्मा चापि वीक्ष्यते ।
अलका चाऽमृता स्वर्णा हिरण्या चाश्मका च पूः ॥१९॥
कल्पपर्षत् विलोक्यन्ते शोभोत्तरविराजिताः ।
वस्त्रभित्तिषु लोक्यन्ते सुरा दैत्याश्च दानवाः ॥२०॥
ऋषयः पन्नगाश्चेशाः पितरो मानवोत्तमाः ।
निसर्गदर्शनाश्चैते विलोक्यन्ते समन्ततः ॥२१॥
कृत्रिमं सर्वमेवेदं त्वैन्द्रजालिकदर्शनम् ।
मण्डपे संविलोक्यैव पर्षत् स्तब्धाऽभवत् क्षणम् ॥२२॥
अथ गीतिः स्वस्तिवाच्य नान्दीवोधकमंगलम् ।
अश्रूयत कृष्णनारायणस्तुत्यात्मकं तदा ॥२३॥
जय जय जगदिष्टो जय जय जगदिष्टः ।
जय जनवन्दित नन्दितवदनः कृतमदरिपुदमनः ।
जय जय जगदिष्टः ॥२४॥
जय पुरुषोत्तम मुक्तसुवन्दित नन्दितनिजशरणः ।
जय राधाधिप जय कमलाधिप, जय माधव धवगः ॥२५॥
जय जडचेतनमध्यकृताश्रय पारवतीवरणः ।
जय नारायण चामृतनिवसन, ब्रह्मपरं हृदयः ॥२६॥
जय माणिक्यपतेऽक्षरपालक सुरमुनिपितृधरः ।
जय चात्मन् जय प्रभापते जय, कम्भराश्रीतनुजः ॥२७॥
जय गोपालतनूद्भवबालक जय ब्रह्माण्डधरः ।
जय शंकरचरितात्मनिवेदन, वैष्णवकष्टहरः ॥२८॥
जय कन्याऽर्बुदपद्मपते प्रिय लक्ष्मीश्वर सुखदः ।
जय कुंकुमवापीधृतचरण जय, चाश्वसरस्तरणः ॥२९॥
जय धामाधिपतेऽधिपते जय मञ्जुलमूर्तिधरः ।
जय चानन्दनिधे सगुणेश्वर, स्वस्तिकरः सुकरः ॥३०॥
जय सौराष्ट्रमणे ह्यवतारिन् हंसग जनलीलः ।
जय सर्जक रक्षक हारक जय, जडचेतनतनुगः ॥३१॥
इत्यश्रूयन्त मांगल्यवाचस्तत्र ततः परम् ।
प्रस्तावकृत् कृष्णवेषो रङ्गमध्ये ह्युपस्थितः ॥३२॥
नेमुः पारिषदा मां च प्रणमन्तं सभेश्वरम् ।
अवोचं च तदा चाहं नाट्यमाद्यन्तगर्भितम् ॥३३॥
परब्रह्म जगद्योनिर्जगदादिरजः प्रभुः ।
परावराणां परमः सर्वलोकगुरोर्गुरुः ॥३४॥
कृपया लोकश्रेयोऽर्थं कम्भरागर्भगो ह्ययम् ।
प्रभुः प्रभूणां परमश्चावतीर्णोऽस्ति भूतले ॥३५॥
सोऽयमायाति बालात्मा पश्यन्तु तं परेश्वरम् ।
इत्युक्त्वाऽहं च तिष्ठामि राधे! बालं प्रदर्शयन् ॥३६॥
तावद्बालः कृष्णवेषस्तत्र रङ्गे समाययौ ।
ददर्श च समाजस्तं कोटिकोट्यर्कसन्निभम् ॥३७॥
अथाऽस्य वर्ष्मणः कोटिकृष्णरामनरायणाः ।
निर्ययुर्वासुदेवाद्या व्यूहाश्चापि तथाऽर्बुदाः ॥३८॥
भूमानश्च महाविष्णुवैराजवेधसोऽपि च ।
सदाशिवोऽवताराश्च निर्ययुर्बालदेहतः ॥३९॥
पितरः ऋषयो देवास्तत्त्वानि मानवास्तथा ।
नागा दैत्या दानवाश्च वृक्षाः शैलास्तथाऽऽपगाः ॥४०॥
निर्ययुर्जङ्गमा देव्यो स्थिरमानससृष्टयः ।
सर्वं प्रदर्शितं बाले कृष्णे नारायणे तदा ॥४१॥
समाजस्तं विलोक्यैव स्वं स्वलोकान् नरायणे ।
आश्चर्यं परमापन्नो जयशब्दानुवाच ह ॥४२॥
अथोपहारं कृत्वाऽहमवोचं दर्शकाँस्तदा ।
सोऽयं बालः परमात्मा भवन्मध्ये विराजते ॥४३॥
श्रीमद्गोपालकृष्णस्य पार्श्वे श्रीपरमेश्वरः ।
इत्युक्तो हि मया यावज्जनस्तावन्नरायणः ॥४४॥
पटपृष्ठे ययौ नीत्वा पारिषदनमःक्रियाम् ।
अथाऽऽययुः पारवती लक्ष्मीः राधा प्रभा पुरः ॥४५॥
तावत् किशोररूपोऽसौ बालकृष्णः समाययौ ।
चतस्रो वन्दनं चक्रुः पत्युः पुमुत्तमस्य ताः ॥४६॥
पादप्रक्षालनं चक्रुः पपुश्चरणवारि तत् ।
ततस्तं पूजयामासुश्चक्रुर्नीराजनं तथा ॥४७॥
राजते श्रीहरिस्तत्र स्वर्णासनेऽर्पिताञ्जलिः ।
अथ ताः श्रीहरेर्मूर्तौ चतस्रोऽपि लयं ययुः ॥४८॥
जनाः पुनश्च ददृशुश्चोद्भूताः श्रीहरेस्तनोः ।
शतं च द्वादश चापि चोद्भूताः श्रीहरेः प्रियाः ॥४९॥
तथा च ददृशुर्लोका लोमशस्याश्रमं महत् ।
कन्यकाया हरेः पत्न्यः कोट्यर्बुदाब्जसंख्यकाः ॥५०॥
निर्ययुः श्रीहरेर्मूर्तेऽर्नाट्यवेद्यां लुलोफिरे ।
रङ्गस्थास्ताः स्वकं रूपं नाट्ये दृष्ट्वा तु विस्मिताः ॥५१॥
ब्रह्मसरसो देव्यश्चाप्सरसो निर्ययुर्हरेः ।
रङ्गे दृष्ट्वा पारिषदाः सतालजयघोषणाम् ॥५२॥
चक्रुः प्रसन्नाः परितः परिहारस्ततोऽभवत् ।
अथाऽऽययौ रङ्गपीठे श्रीमद्गोपालकृष्णकः ॥५३॥
कम्भराश्रीमहालक्ष्मीसहितो बालकृष्णवान् ।
दत्वा देवेभ्य आशीर्वादान् सपुत्रो गृहं ययौ ॥५४॥
एवं प्रदर्श्य रङ्गेशः पटपृष्ठे ययौ पुनः ।
इत्येवं राधिके सर्वमवतारित्वबोधकम् ॥५५॥
चरित्रं सम्प्रदर्श्यैव तत्परिहारमाचरत् ।
अथाऽन्यद् दृश्यमापेदे मण्डपे व्योममार्गके ॥५६॥
रज्जुजालेषु बद्धेषु नटा दृढसुवेषिणः ।
शतसंख्याश्चावतेरुः प्रतिरज्जुं विहंगमाः ॥५७॥
उड्डयन्ते शतहस्तान् रश्मेः रश्म्यन्तरं प्रति ।
छत्राभ्यां चापि गच्छन्ति सहस्रहस्तकाम्बरम् ॥५८॥
रज्जुप्रान्तं समादाय क्षिप्तो याति शतोत्तरम् ।
धनुषा शरवत् क्षिप्तः सहस्रोत्तरमाययौ ॥५९॥
पद्भ्यां क्षिप्तः प्रयात्येव शतहस्तोच्छ्रयं पुनः ।
निरालम्बोऽवतरति रज्जुमध्येऽवलम्बते ॥६०॥
वंशाद्वंशान्तरं याति स्थलात् स्थलान्तरं च खे ।
एकरश्मौ च बहूनां परस्पराभियायिनाम् ॥६१॥
स्थाल्यां दत्तपदानां च मध्ये सन्निहितात्मनाम् ।
अस्पृष्ट्वाऽन्योन्यमेवाऽत्र रश्मौ त्वग्रे प्रवासनम् ॥६२॥
तत उड्डयनं प्रान्ते प्रान्तान्तरेऽवलम्बनम् ।
मध्ये व्योम्न्यवलम्बन्तं चूम्बयित्वा जनान्तरम् ॥६३॥
अथ रज्जुनिषदनोड्डयनं सर्वतो दिशम् ।
अनालम्बं करेणापि पद्भ्यां वाऽन्येन चर्मणा ॥६४॥
एवमुडुयनं नाट्ये दर्शयित्वा ततश्च ते ।
चक्रुश्च गोपुरं रम्यं पञ्चाशन्नाट्यशिक्षिताः ॥६५॥
द्वितीयं गोपुरं चक्रुः शतं चैकोर्ध्वगं ततः ।
तृतीयं गोपुरं चक्रुस्त्रिशतं द्वितीयोपरि ॥६६॥
पञ्चाशत्पुरुषा मध्ये स्तंभदृश्यास्ततदाऽभवन् ।
इत्येवं च सुधर्माया गोपुरं रमणीयकम् ॥६७॥
कम्मानिकात्रययुतं पञ्चाशन्मानवा व्यधुः ।
तत्र पार्श्वे स्थिताः कन्याः पुत्तल्य इव सर्वशः ॥६८॥
दिव्यरूपधराः सर्वाः पर्यो देव्यः सुशोभनाः ।
हस्तचामरशोभाश्च सप्तकलशमस्तकाः ॥६९॥
शोभन्ते गोपुरे तत्र सर्वसिद्धिपरायणाः ।
इत्येवं गोपुरं राधे कारयित्वा नटेश्वरः ॥७०॥
साऽम्बालिकं गजसैन्यं न्यवेशयत्तदन्तरम् ।
गतं पुनर्निर्गतं च यदा प्रत्येकतोगजम् ॥७१॥
गजं गजं प्रति तत्र गोपुरमानवस्त्रियः ।
ऊर्ध्वमुत्प्लुत्य च शनैरवतेरुर्गजे गजे ॥७२॥
गजसैन्यं सान्तमेव गोपुरा अपि सन्ति न ।
एवं दृष्ट्वा महायत्नं महाकौशल्यमेव च ॥७३॥
जयकारोऽभवन्नटेश्वरनटनटीकृते ।
नैतादृशं पुरा दृष्टं गोपुरं द्रक्ष्यते न वा ॥७४॥
कुंभकं तु विनाऽऽयामं कैश्चित् कर्तुं न शक्यते ।
विहायसगतीनां तु सरला गोपुरकृतिः ॥७५॥
अथ हस्त्युष्ट्रकाश्वानां प्रासादास्तत्र निर्मिताः ।
साप्तभौमा यत्र नरा नार्यो दोलासु सर्वतः ॥७६॥
आन्दोलनं प्रकुर्वन्ति स्थिरप्रासादभूमिषु ।
मध्ये सोपानमार्गाश्च गवयाऽजवृषादिजाः ॥७७॥
भूमिकाश्चानलपक्षिगारुडपक्षिकल्पिताः ।
छत्रं पन्नगवर्याणां रश्मयः पन्नगाश्च वै ॥७८॥
शुका हंसाः कूजनं च कुर्वन्ति रज्जुसंस्थिताः ।
उद्यानानि च परितस्तदेन्द्रजालकारिताः ॥७९॥
अरण्ये वह्निजालानि वृष्टिजालानि चाम्बरे ।
वायुवेगास्तथा सौधे सूर्यचन्द्रौ च कृत्रिमौ ॥८०॥
सौधेषु वानरास्तत्रोद्यानफलानि भुञ्जते ।
एवं प्रदर्श्य प्रासादान् परिहारं तदाऽकरोत् ॥८१॥
अथ मल्लाः समायाता मल्लयुद्धार्थमुत्सुकाः ।
विविधं मल्लयुद्धं ते नरा नार्यस्तदा व्यधुः ॥८२॥
परिहारं तस्य कृत्वा तदा हास्यकरं परम् ।
सुसैन्यं वानराणां वै भल्लुकानां महत्तरम् ॥८३॥
मानुषवेषयुक्तानां भटानां शस्त्रधारिणाम् ।
सिंहगर्दभगण्डकव्याघ्रवाहनयायिनाम् ॥८४॥
आगतं रङ्गमध्ये तद् यत्र श्वानः शृगालकाः ।
युद्धवादित्रसंवादा महिषारोहिणस्तदा ॥८५॥
सेनापतिश्च शरभस्तत्सैन्यं च परस्परम् ।
द्वेधा भूत्वा पटपृष्ठे समारेभे महारणम् ॥८६॥
युद्धे हतास्तदा तत्र प्रायशः ऋक्षवानराः ।
भल्लुका गर्दभाः श्वानः शृगालाः सिंहनाशिताः ॥८७॥
ऐन्द्रजालिकमेवाऽऽसीत् हतं यद्यत् तदाऽभवत् ।
सत्यास्तु वानराः ऋक्षा भल्लुकाद्या हता न वै ॥८८॥
अथ तस्य परिहारं चक्रे नटेश्वरस्ततः ।
व्योमयुद्धं कुमारीणामभूत्तदिन्द्रजालकृत् ॥८९॥
हता भिन्नाः पतन्त्येव व्योम्नः कुमारिका भुवि ।
सर्वं कुमारिकासैन्यं हतं सुप्तं भुवस्तले ॥९०॥
तदा नारीश्वरः सेनापतिः रुरोद वै बहु ।
अहो मे कन्यका नष्टाः सर्वं सैन्यं हतं मम ॥९१॥
तदा बालः स्वयं कृष्णो जीवयामास कन्यकाः ।
रुद्रच्छाया स्वरूपास्ताः कन्या रौद्र्यः सहस्रशः ॥९२॥
नवीना एव भगवान्निर्ममे ऐन्द्रजालिकाः ।
नारीश्वरो महाश्चर्यं प्राप्तो गर्वं विमुच्य च ॥१३॥
पपात पादयोस्तत्र बालकृष्णस्य वै तदा ।
परिहारं चकाराऽथ दृश्यस्याऽस्य नटाधिपः ॥९४॥
ऐन्द्रजालिककन्यास्ताः सहस्रं रुद्रसन्निभाः ।
मुमुहुः श्रीहरौ तत्र वव्रुश्च वरदानकम् ॥९५॥
त्वं नाथाऽस्मत्पतिः प्राणरक्षको भव सर्वदा ।
हरिः प्राह तथाऽस्त्वेव लोमशाय न्यवेदयत् ॥९६॥
लोमशस्याऽऽश्रमे ताश्च ररक्ष भगवान् स्वयम् ।
अथ सिंहा रङ्गभूमौ समानीतास्तु पंक्तिशः ॥९७॥
तस्य शिक्षकवर्येण मुखव्यापादानं तदा ।
कारितं तन्मुखमध्ये नरा नाट्यकरास्तदा ॥९८॥
ददुः शिरांसि नैजानि तदाश्चर्यं महद्ध्यभूत् ।
अथ तत्परिहारं च कृत्वा नारीश्वरः स्वयम् ॥९९॥
कारयित्वा केसरिणो मुखव्यापादनं तदा ।
स्वस्यैव मस्तकं मुखे ददावाश्चर्यकृद् यथा ॥१००॥
अथ तस्य महागर्वं ज्ञात्वा कृष्णनरायणः ।
गर्वविनाशनार्थाय मतिं केसरिणे ददौ ॥१०१॥
अयं मे रक्षकस्त्वास्ते पीडां नित्यं करोति हि ।
तस्माद्य शिरस्तस्य भक्षयामि प्रसह्य वै ॥१०२॥
इति निर्णीय च रुषा मुखे धृतं तु मस्तकम् ।
अचूर्णयत् बलान्मुखं दृढं पिधाय केसरी ॥१०३॥
हाहाकारो महानासीद् दृश्यन्ति शोकसागरः ।
रुरुदुश्च नटा नट्यः शतशोऽथ सहस्रशः ॥१०४॥
यद्यपि च स्वयं रुद्रस्त्वर्धनारीश्वरः प्रभुः ।
नटेश्वरो ददौ स्वस्य शिरः कालमुखे तदा ॥१०५॥
निर्भयोऽभूत् सिद्धिमाँश्च तथापि परवश्यता ।
देवैर्ज्ञाता स्वयं तत्र चाथ कृष्णनरायणः ॥१०६॥
बालकः स्वासनाच्छीघ्रमुत्थाय हरसन्निधौ ।
जगाम तु सती शंभुमंके निधाय शोचति ॥१०७॥
सतीमाह प्रदेह्येतन्मस्तकं कूर्चितं तु यत् ।
हस्तस्पर्शेन वै स्वस्थं यथापूर्वं करोमि वै ॥१०८॥
इत्युक्त्वा वामहस्तेन पस्पर्श श्रीनरायणः ।
राधिके सत्वरं शंभोः शिरः पूर्ववदाभवत् ॥१०९॥
शंभुरुत्थाय च कृष्णनारायणं परेश्वरम् ।
प्रणनाम प्रसन्नः सन् गर्वं जहौ हरः स्वयम् ॥११०॥
अथ बालो हरं प्राह दर्शनं देहि वै हर ।
अर्धनारीश्वरो भूत्वा पारिषदेभ्य एव तु ॥१११॥
शंभुस्तदाऽभवत् तत्र चार्धनारीश्वरः स्वयम् ।
अर्धं नारीस्वरूपं चाऽऽनखकेशं सुशोभनम् ॥११२॥
केशा जटाः श्मश्र्वश्मश्रूः स्तनाऽस्तनं तदाऽभवत् ।
योनिलिंगं वृषणैकं लोमालोमं तदाऽभवत् ॥११३॥
शाटीचर्म भूषणाऽभूषणं रूपं तदाऽभवत् ।
रङ्गे तं तादृशं दृष्ट्वा तदन्तः श्रीहरिं तथा ॥११४॥
दृष्ट्वा समाजः सहसा तुतोषाऽतीव तत्क्षणे ।
नटेश्वरः स्वयं शंभुर्नटास्तस्य गणा इमे ॥११५॥
पश्वाद्यास्तस्य भक्ताश्च हरिं तोषयितुं ननु ।
आयाता नाटयविधये तुष्टो हरिः स्वयं ततः ॥११६॥
ददौ वासं चाश्वपट्टसरस्येवोत्तरे तटे ।
दिव्यदेहान् प्रचक्रे तान् सर्वान् नटान् नटीः प्रभुः ॥११७॥
पारितोषिकमिष्टं च परधामगतिं ददौ ।
तीर्थं तन्नटनाट्याख्यं सर्वोद्धारकरं परम् ॥११८॥
पापिनां तारकं स्वर्गप्रदं श्रेष्ठं बभूव ह ।
श्रवणात्पठनाच्चापि भुक्तिर्मुक्तिः प्रजायते ॥११९॥
परिहारं ततः कृत्वा हरिः स्वस्याऽऽलयं ययौ ।
सौराष्ट्रमानवा देवाः ऋषयः पितरस्तथा ॥१२०॥
अन्ये च दर्शकाः सर्वे ययुः स्वस्वालयान् मुदा ।
इत्येवं राधिके! कृत्वा नाट्यं श्रीशंकरः स्वयम् ॥१२१॥
निवासमकरोत्तत्र गणैः पशुपतत्त्रिभिः ।
प्राणिभिः सर्वथा चाश्वसरसश्चोत्तरे वने ॥१२२॥
वटबिल्वकदम्बानामरण्ये वासमाचरत् ।
यावत् पृथ्वी स्थिरा स्याच्च तावत् तत्र निवत्स्यति ॥१२३॥
कृष्णवेषस्त्वया साकं राधिकेऽदृश्यतां गतः ।
कृत्रिमो नाट्यसौधश्च तदानीं विलयं गतः  ॥१२४॥
अनादिश्रीकृष्णनारायणः श्रीशंकराय वै ।
जगादाऽनुग्रहं कुर्वन् नाट्ये ये देहिनोऽत्र च ॥१२५॥
भवान् गणा नरा नार्यः कन्यकाः पशुपक्षिणः ।
सर्वे भवन्तु च द्वेधा कृपया मम सर्वथा ॥१२६॥
दिव्यरूपा मम मुक्ता मम धाम्न्यक्षराभिधे ।
दिव्ययानैः प्रयान्त्येव चतुर्धामुक्तिमास्थिताः ॥१२७॥
एतद् ददामि कृपया पारितोषिकमुत्तमम् ।
अन्यरूपैर्वसन्त्वत्र वटबिल्ववने सदा ॥१२८॥
इत्येवं श्रीहरिः प्राह न्यूषुर्हरादयः सदा ।
वसति श्रीहरिः सौधे शंभोः सौधं च निर्ममे ॥१२९॥
इत्येवं शंकरो देवः कृष्णनारायणं हरिम् ।
तोषयितुं कृतवांश्च दिव्यं नाट्योत्सवं परम् ॥१३०॥
भगवानपि सर्वात्मा शंभुं तोषयितुं तदा ।
भूत्वा तु दर्शकस्तत्र नाट्यभूमौ स्थितोऽभवत् ॥१३१॥
पूरयामास भक्तस्य शंभोर्मनोरथं हरिः ।
भक्ताधीनो यतः कृष्णनारायणोऽस्ति राधिके ॥१३२॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कैलासीयाऽर्धनारीश्वरनाट्यमण्डलेन कुंकुमवाप्यां क्षेत्रे कृताऽलौकिकानेकनाट्यैः प्रभुः सन्तुष्टः सन् शंकरगर्वगञ्जनो मोक्षदश्चाऽभवत्, नटनाट्यतीर्थं चेत्यादिनिरूपणनामा पञ्चत्रिंशोऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : April 30, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP