संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ७७

त्रेतायुगसन्तानः - अध्यायः ७७

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु राधे तथा चान्यं चमत्कारं परात्मनः ।
भक्तानां देवसाधूनां गवां त्रातुश्च सूत्रिणाम् ॥१॥
पुरानङ्गपुरे राजा बृहद्वर्चा बभूव ह ।
देवसेवापरो नित्यं साधुसेवापरायणः ॥२॥
धर्मकार्यपरो यज्ञसत्रहोमपरायणः ।
ज्ञानविज्ञानसम्पन्नः कथाकीर्तनतत्परः ॥३॥
अनाथदीनकृपणोपकारी दानशीलनः ।
भार्या पतिव्रता साध्वी साधुसेवापरायणा ॥४॥
भक्तिसेवापरा नित्यं सांख्यसत्यभिधानिका ।
पुत्रास्तस्यां नृपस्याऽऽसन् बुद्धिमन्तः शतत्रयम् ॥५॥
कन्याः शतद्वयं चापि सर्वाः कृष्णपरायणाः ।
राजाऽसौ तपतीतीरे गत्वा पर्वणि पर्वणि ॥६॥
तीर्थस्नानविधिं कृत्वा दानं ददाति चोत्तमम् ।
सुवर्णं रूप्यकं ताम्रं धनं द्रव्यं च मुद्रिकाः ॥७॥
रत्नानि मौक्तिकादीनि हीरकान् विद्रुमादिकान् ।
मणीन् माणिक्यवर्णांश्च गजानश्वान् गवादिकान् ॥८॥
अजावीन् वाहनयानशिबिकाशकटीस्तथा ।
विमानानि विचित्राणि बाष्पयानानि वै तथा ॥९॥
द्विचक्राणि त्रिचक्राणि बहुचक्राणि यान्यपि ।
वैहायसानि यानानि श्रेष्ठदानानि पर्वणि ॥१०॥
ददात्यपि यथायोग्यं विप्रेभ्यः पूजनोत्तरम् ।
अथ सूर्यग्रहणे च फाल्गुने तपतीतटे ॥११॥
ययौ राजाऽऽप्लवनार्थं बहुद्रव्यसमन्वितः ।
तत्राययुस्तपत्यां संस्नातुं वै लक्षशो जनाः ॥१२॥
ब्राह्मणा ग्रामवासाश्च पञ्चयोजनभूमिगाः ।
यज्ञकर्मकराश्चापि वेदाध्यापनकारिणः ॥१३॥
सत्पात्राणि तपोविद्याव्रतधर्मपरायणाः ।
सस्त्रीबाला हि ते सर्वे त्वाययुः स्नानहेतवे ॥१४॥
सूर्योपरागसंस्नाता जपं चक्रुर्नदीतटे ।
राजा दानं प्रदातुं च विप्रेभ्यश्चोपचक्रमे ॥१५॥
गजान् ददौ च सौधानि क्षेत्राणि वाटिका मणीन् ।
मौक्तिकान् हीरकान् गाश्च दोग्ध्रीश्च महिषीस्तथा ॥१६॥
अश्वान् यानानि चान्नानि माषान् ताम्रस्य पुत्तलीः ।
आयसं पुत्तलं नैजं ददौ चर्माम्बराणि च ॥१७॥
सुवर्णं रजतं मुद्रा यानानि वाहनान्यपि ।
दासीर्दासान् ददौ चाजाविकान् ग्रामान् गृहाण्यपि ॥१८॥
कृष्णवस्त्राणि च कृष्णकणान् कृष्णद्रवाँस्तथा ।
कृष्णहारान् मणिनद्धान् कृष्णसूत्रैः सुघट्टितान् ॥१९॥
कृष्णपुरुषदानं च कोटिमुद्रासमन्वितम् ।
ददौ प्रवाहमवधिं कृत्वा हस्तचतुष्टयम् ॥२०॥
लोभेन विप्रवर्यास्ते जगृहुर्दानमुत्तमम् ।
भारयुक्तं महादानं लक्षाधिकधनान्वितम् ॥२१॥
प्रत्येकं जगृहुर्विप्राः सहस्रसंख्यकास्तदा ।
एको हस्ती तथैकाश्वश्चैका गौर्वृषभद्वयम् ॥२२॥
एका च महिषी दोग्ध्री गृहं चैकं निवासदम् ।
क्षेत्रं चैकं वाटिकैका मणिः कृष्णश्च मौक्तिकम् ॥२३॥
हीरकश्चैकयानं च माषास्ताम्रस्य पुत्तली ।
आयसं पुत्तलं नैजं कृष्णं चर्म तथाऽम्बरम् ॥२४॥
कृष्णं सूत्रं कृष्णवर्णो दासो दास्यपि कृष्णिका ।
कृष्णाऽजा कृष्णहारश्च कृष्णा मद्रा सकज्जला ॥२५॥
कृष्णमाषा लक्षमूल्यं स्वर्णं रौप्यं च लक्षकम् ।
प्रत्येकाय तु विप्राय तत्सर्वं प्रददौ नृपः ॥२६॥
सहस्रब्राह्मणा लुब्धा गृहीतवन्त एव तत् ।
सूर्यशुद्धौ पुनः सस्नुस्तपत्यां ते तु भूसुराः ॥२७॥
दानलब्धेश्चातितुष्टाश्चातिप्रसन्नमानसाः ।
बहुप्रेम्णा जले सस्नुर्यावत्तु निर्ययुर्बहिः ॥२८॥
तावत्ते दानदोषेण कृष्णाः कद्रुपिणोऽभवन् ।
कृष्णवर्णस्य तु प्रतिग्रहे दोषोऽभिपद्यते ॥२९॥
राधिके तच्छृणु वच्मि येन यद्दोषता भवेत् ।
हस्तिदानेन वै राज्ञो युद्धे त्वन्यायदूषणम् ॥३०॥
पापाप्मकं भवेद् यद्यत् कापट्यं दूषणं महत् ।
स्त्रीबालानां त्वपराधवर्जितानां विघातनम् ॥३१॥
सारथीनां पशूनां च वाहानां दूतकर्मिणाम् ।
हननं यच्च तत्सर्वं हस्तिदानेन शुद्ध्यति ॥३२॥
एतत्पापं हस्तिदानग्रहिणः शिरसि व्रजेत् ।
अश्वदानस्य तु राज्ञोऽश्ववारैस्तु कृतं महत् ॥३३॥
संग्रामे दूषणं चाश्वमारणादिनिवर्तनम् ।
फलं राज्ञो भवेद् दानग्रहीता दोषभाग् भवेत् ॥३४॥
गोदानात्तु वृषादीनां युद्धादौ मारणं तु यत् ।
राज्ये मुष्कच्छेदनं च गोवृषादेस्तु यद्भवेत् ॥३५॥
तत्पापं नृपतेर्नश्येद् दानग्राहिषु गच्छति ।
वृषभद्वयदानेन प्रेता युद्धे मृतास्तु ये ॥३६॥
अशूराः पृष्ठधावाश्च प्रसह्याऽऽगतिका मृताः ।
तेषां हत्योद्भवं पापं राज्ञो नश्यति तत्पुनः ॥३७॥
वृषद्वयप्रतिग्राहिष्वेव गत्वा सुतिष्ठति ।
महिष्यास्तु प्रदानेन पाशशूलावरोपणात् ॥३८॥
यत्पापं जायते राज्ञोऽन्यायजन्यं हि दण्डतः ।
कृष्णवस्त्रधरैः पाशो दीयते पाशकारकैः ॥३९॥
तद्धत्याजं नृपतेस्तु पापं नश्यति तत्पुनः ।
महिषीदानसंग्राहकर्तर्येव प्रपद्यते ॥४०॥
गृहदानेन च राज्ञो राज्ये पृथ्व्यां प्रजाजने ।
शिल्पिनिर्मितसौधादिग्राममार्गादिजं च यत् ॥४१॥
असंख्यजीवहत्याऽघं पापं सर्वं निवर्तते ।
ग्रहग्राहिणि सर्वं तल्लग्नं भवति तत्क्षणात् ॥४२॥
क्षेत्रवाटीप्रदानेन कृषेः पापमनन्तकम् ।
प्रजानां यद् भवेद् राज्ञस्तन्निवृत्तिः प्रजायते ॥४३॥
क्षेत्रवाट्युद्यानग्राहिविप्रादौ तत्प्रवर्तते ।
कृष्णमणेः प्रदानेन खन्यादिखनने तु यत् ॥४४॥
राज्यपापं भवेद् राज्ञस्तत्सर्वं विनिवर्तते ।
मणिग्राहिणि खातानां पापं सर्वं प्रवर्तते ॥४५॥
मौक्तिकस्य प्रदाने सामुद्रजन्तुविनाशने ।
मौक्तिकोत्पादने यच्च लवणोत्पादने च यत् ॥४६॥
तथा मत्स्यादिजन्तूनां मारणे यन्त्रवाहने ।
सामुद्रादिसमुत्थं च पापं राज्ञो निवर्तते ॥४७॥
मौक्तिकग्राहिणि सर्वं प्रवर्ततेऽतिदुःसहम् ।
हीरकस्य प्रदानेन विषजन्यमघं तु यत् ॥४८॥
विषौषधादिजन्यं च ग्रीष्मतापविषोद्भवम् ।
विषवायूद्भवं पापं प्राणिनां नाशसंभवम् ॥४९॥
राज्ञो निवर्तते तच्च तद्ग्राहिणि प्रवर्तते ।
यानदानेन यानस्थचक्रैर्यत्प्राणिघातजम् ॥५०॥
पापं राज्ञो नाशमेति यानग्राहिणि गच्छति ।
माषदानेन च वर्षे ग्रहपीडा नृपस्य या ॥५१॥
दीनाऽनाथ कृपणानामरक्षाजं तु पातकम् ।
राज्ञो निवर्तते तच्च माषग्राहिणि गच्छति ॥५२॥
ताम्रपुत्तलिकादानप्रदानेन तु भूपतेः ।
गणिकासंगजं पापं तादृशं च निवर्तते ॥५३॥
पुत्तलीग्राहिणि लग्नं जायते घोरदुःखदम् ।
आयसस्य पुत्तलस्य दानेन नृपतेस्तु यत् ॥५४॥
षडीतिजन्यजं राज्ये पापं प्रजाजनोत्थितम् ।
राज्ञस्तज्जायते नष्टं पुत्तलग्राहके भवेत् ॥५५॥
अतिवृष्टिरनावृष्टिः शलभा मूषकाः शुकाः ।
भूकम्पविप्लवश्चैताः षडीतयः समीरिताः ॥५६॥
कृष्णचर्मप्रदानेन मृगयाजमघं महत् ।
राज्ञो निवर्तते चर्मग्राहके च प्रवर्तते ॥५७॥
कृष्णाम्बरप्रदानेन वस्त्रयन्त्रोद्भवं महत् ।
पापं त्वसंख्यजन्तुनां नाशोत्थं नृपतेस्तु यत् ॥५८॥
नश्यत्येवाऽम्बरग्राहिण्यघं तच्च प्रवर्तते ।
कृष्णसूत्रप्रदानेन राज्ये रज्जूद्भवं ह्यघम् ॥५९॥
ऊर्णाजन्यं तथोर्णार्थं कौशेयार्थं च यत् कृतम् ।
पातकं जीवघाताख्यं राज्ये तन्नृपतेर्भवेत् ॥६०॥
सूत्रदानेन तद् राधे राज्ञः सर्वं निवर्तते ।
सूत्रग्राहिणि विप्रादौ तत्सर्वं सम्प्रवर्तते ॥६१॥
कृष्णपूरुषदानेन बालहत्योद्भवं तु यत् ।
गर्भहत्योद्भवं चापि वृथाहत्योद्भवं तथा ॥६२॥
प्रजापापं तु यद् राज्ञस्तत्सर्वं विनिवर्तते ।
दासदानग्राहके तु तत्सर्वं सम्प्रवर्तते ॥६३॥
कृष्णादासीप्रदानेन कन्याहत्योद्भवं तथा ।
स्त्रीहत्याविधवाहत्याप्रभृत्युत्थं ह्यघं तु यत् ॥६४॥
परदारप्रसंगोत्थं पापं राज्ञो निवर्तते ।
दासीग्राहिणि विप्रादौ तत्सर्वं तु प्रवर्तते ॥६५॥
अजादानेन राज्ये यत्त्वजामांसादनोद्भवम् ।
पापं चाविकभक्षोत्थं सर्वं राज्ञो निवर्तते ॥६६॥
अजाग्राहिणि चायाति घातकिशालिकोद्भवम् ।
कृष्णमालाप्रदानेन क्रूरं प्रच्छन्नपातकम् ॥६७॥
निवर्तते च तद् राज्ञो मालाग्राहिणि गच्छति ।
कृष्णमुद्रादिदानेन धनजन्यं प्रजाजने ॥६८॥
कोशजन्यं च यत्पापं करजन्यं च यद् भवेत् ।
प्रसह्याऽऽहरणैर्जन्य ह्यघं दण्डनिमित्तजम् ॥६९॥
राज्ञो निवर्तते तच्च द्रव्यग्राहिणि गच्छति ।
कृष्णमाषप्रदानेन राज्ञः शनिकृतं तु यत् ॥७०॥
पीडनं तन्माषग्राहिण्ये व संक्रमतेऽखिलम् ।
सुवर्णदानतः पितृप्रसन्नत्वं सुरेष्टता ॥७१॥
रजतस्य प्रदानेन लक्ष्मीः सत्त्वमयी भवेत् ।
एवं दानफलं राज्ञः पापं दुःखं तु पात्रके ॥७२॥
वस्तुभिः सह चाभ्येति राजा दोषान्निवर्तते ।
प्रतिग्राही पीड्यते तु तेजोहीनः प्रजायते ॥७३॥
यदि चेन्न स पुण्याढ्यः समर्थो ब्रह्मभावनः ।
पुण्यबलविहीनस्तु तूर्णं पापैः प्रपीड्यते ॥७४॥
न्यूनपुण्याः कृष्णवर्णा जायन्ते ग्रहमात्रतः ।
कद्रूपा ज्ञानहीना वा शापदोषाद् यथा जनाः ॥७५॥
विचित्ता वा दीर्घरोगा भग्नाङ्गा भग्नभूतयः ।
भग्नवीर्याः प्रजायन्ते भग्नकौटुम्बिकास्तथा ॥७६॥
सुखहीना दुःखपूर्णा जायन्ते दानसंग्रहात् ।
तस्माद् घोरतरं दानं न ग्राह्यं पुण्यरक्षिणा ॥७७॥
दानस्य ग्रहणार्थं यो हस्तो दक्ष प्रलम्बते ।
पुण्यं दातुं लम्बते सः पापमादातुमित्यपि ॥७८॥
तस्माद् दानं तु गृह्णीयाद् यो भवेत् पुण्यशेवधिः ।
दानदोषविनाशार्थ चरेद् देवार्पणादिकम् ॥७९॥
अन्यथा पापभुग् याति दुःखभोगस्थलं पुनः ।
याम्यं दैह्यं च गार्भं च यदुद्धारो न वै द्रुतम् ॥८०॥
इत्येवं राधिके विप्रा दानं जगृहुरुत्सुकाः ।
कृष्णवर्णाश्च कद्रूपाश्चान्त्यजा इव वै क्षणात् ॥८१॥
चाण्डाला इव ते जाता विवर्णाश्च वितेजसः ।
यथा कज्जलदेहा वा वह्निदग्धा यथा च वा ॥८२॥
तथा जाताः क्षणमात्रात् तापीस्नानोत्तरं ह्यपि ।
घोरदानफलं त्वेतद् दुर्निवार्यं ह्यभूत्तदा ॥८३॥
ग्रहणस्नानपुण्यं तु घोरप्रतिग्रहान्तिके ।
नाऽऽभूत् त्रातुं समर्थं च ब्राह्मणान् ब्रह्मवादिनः ॥८४॥
अथैवं पापसम्पन्नान् दृष्ट्वा श्रीसुरतायनः ।
महर्षिश्चन्दनवृक्षकृतावासोऽतितापसः ॥८५॥
अनादिश्रीकृष्णनारायणभक्तोऽतिवैष्णवः ।
सिद्धश्चैश्वर्यपूर्णश्च ज्ञानध्यानपरायणः ॥८६॥
पूर्वं वर्षसहस्रं यः समाधौ समतिष्ठत ।
यस्योपर्यभवन् वृक्षस्तम्बा वल्मीकमूलकाः ॥८७॥
तपत्या जलवेगेन चातिवृष्टिकृतेन च ।
मृत्तिकाक्षालने जाते निगरच्छन्महामुनिः ॥८८॥
चन्दनस्य तरोर्मूले ग्रथितो यस्य विग्रहः ।
तस्थौ तत्रैव मूले च समाधेः स बहिर्ययौ ॥८९॥
चेतनां प्राप्य तद्वृक्षे न्यवसन्भगवन्मनाः ।
समाधिनाऽऽलोकयच्च भगवान् धृतविग्रहः ॥९०॥
इदानीं वर्तते पृथ्व्यामश्वपट्टसरोऽन्तिके ।
क्षेत्रे कुकुमवाप्यां च श्रीमद्गोपालनन्दनः ॥९१॥
अनादिश्रीकृष्णनारायणस्वामी पुमुत्तमः ।
श्रीपतिः कमलाकान्तो हंसाराधारमापतिः ॥९२॥
माणिकीपार्वतीमञ्जुलाप्रभासगुणापतिः ।
अनन्तमुक्तदेव्यश्च कोट्यर्बुदसतीप्रियः ॥९३॥
कम्भराश्रीतनयोऽसौ बालकृष्णो विराजते ।
नित्यं ज्ञात्वा प्रयात्येव प्रातर्दर्शनहेतवे ॥९४॥
क्षणमात्रेण तु समाधिना चायाति चन्दनम् ।
अनादिश्रीकृष्णनारायणं भजति नित्यशः ॥९५॥
श्रीहरिस्तं निजं मन्त्रं श्रावयामास सकृपः ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥९६॥
स च मन्त्रं जपन्नास्ते चन्दनाऽधो नदीतटे ।
तेन दृष्टा ब्राह्मणास्ते सहस्रसंख्यकास्तदा ॥९७॥
गृहीतदानकृष्णा ये सञ्जाताः कल्मषान्विताः ।
सशोका दोषनाशार्थं चिन्तयानाः परस्परम् ॥९८॥
ते सर्वे तं महायोगेश्वरं श्रीसुरतायनम् ।
ययुः शरणमासाद्य साश्रुनेत्रास्तदाऽभवन् ॥९९॥
दोषशान्त्यर्थमेवैनं प्रार्थयामासुरन्तिके ।
निषेदुर्दण्डवत् कृत्वा महर्षिः श्रीहरिं स्मरन् ॥१००॥
ददौ ज्ञानं पापशान्तिप्रदं चोपासनाश्रयम् ।
अनादिश्रीकृष्णनारायणप्राप्तिप्रदं तदा ॥१०१॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बृहद्वर्चानृपात् तापीतीरे गृहीतघोरप्रतिग्रहेण कृष्णकद्रूपता गतानां सहस्रविप्राणां सुरतायनर्षियोग इत्यादिनिरूपणनामा
सप्तसप्ततितमोऽध्यायः ॥७७॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP