त्रेतायुगसन्तानः - अध्यायः २३७
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
राधिकेऽथ चतुर्दश्यां काल्यां श्रीपरमेश्वरः ।
पूजां चकार वै शंभोर्निजक्षेत्रप्ररक्षितुः ॥१॥
प्रातः स्नात्वा पितरौ च पूजयित्वा ततः परम् ।
ईशानदेवं चाहूय रुद्रानाहूय वै तथा ॥२॥
शंकरं क्षेत्रपं देवं समाहूय सतीयुतम् ।
स्वर्णसिहासने शंभुं समस्थापयदीश्वरम् ॥३॥
पुपूज बालकृष्णस्तं योगिनं पद्मजापतिम् ।
पाद्यमर्घ्यं ददावस्मै चन्दनं भस्म चाक्षतान् ॥४॥
धत्तूरपुष्पमालां च गले हरस्य सन्ददौ ।
भाले चन्द्रतिलकं च त्रिपुण्ड्रं चोर्ध्वपुण्ड्रकम् ॥५॥
व्यधाच्छ्रीभगवाँस्तस्य हासयँस्तं महेश्वरम् ।
कर्णयोः कुण्डले चापि कर्णिकाकुसुमानि च ॥६॥
रुद्राक्षमालिकां चापि ददौ तस्मै हराय च ।
व्याघ्रचर्म गजचर्म ददौ श्रीभगवान् स्वयम् ॥७॥
भंगां ददौ च मिष्टान्नं मिष्टपानं ददौ हरिः ।
पुष्पहारान् ददौ चापि शृंगारं प्रददौ तथा ॥८॥
सुगन्धसारं प्रददौ स्वर्णाम्बराणि सन्ददौ ।
स्वर्णहारान् ददौ चापि सत्यै भूषां ददौ तथा ॥९॥
अम्बराणि नवीनानि विभूषणानि सन्ददौ ।
यथेष्टानि समग्राणि श्रांगारिकाणि सन्ददौ ॥१०॥
आरार्त्रिकं चकाराऽथ मौक्तिकहीरकान् ददौ ।
एवं प्रपूज्य भगवान् भूतनाथं सतीयुतम् ॥११॥
उत्सवं दिवसे चक्रे रात्रावथ हरिस्ततः ।
भोजयित्वा पूजयित्वा शंभुं सतीं गणाधिपम् ॥१२॥
कार्तिकेयं नन्दिनं च योगिनीचक्रमित्यपि ।
नवदुर्गाः प्रपूज्यापि गंगां प्रपूज्य शांकरीम् ॥१३॥
वीरभद्रं तथा जालन्धरं च तारकासुरम् ।
तारकाक्षं गजं महिषकं चण्डप्रचण्डकौ ॥१४॥
शृंगिन भृंगिनं चापि रीटिनं च किरीटिनम् ।
अग्निं चन्द्रमसं चापि मंगलं च विषं तथा ॥१५॥
खर्परं तस्य देवाँश्च तथा खर्परमालिकाम् ।
सिंहं रुद्राक्षकाँश्चापि वासुकीं शांकरीं प्रजाम् ॥१६॥
हनुमन्तं तथा निषादिनं गणानपूजयत् ।
भैरवं कालसंज्ञं च महाकालमपूजयत् ॥१७॥
भूतप्रेतपिशाचाँश्च कूष्माण्डानप्यपूजयत् ।
वैनायकाँश्च वेतालान् गणान् रोगानपूजयत् ॥१८॥
मृत्युं च मृत्युपाशाँश्च चण्ड्यादिनीरपूजयत् ।
मातृकाश्च ग्रहाँश्चापि तथा प्रेतानपूजयत् ॥१९॥
रोगिकाश्च महामारीप्रभृतिका अपूजयत् ।
कृत्याश्च कालिकाब्रह्मचारिणीश्चाप्यपूजयत् ॥२०॥
कैलासवासिनः सर्वान् शीतलाद्या अपूजयत् ।
गणाँश्च गणपत्नीश्च राक्षसीः समपूजयत् ॥२१॥
माषपिष्टादिपक्वान्नैरतर्पयत्तु ताँस्तदा ।
यक्षांश्च राक्षसान् भूतपत्नीश्च डाकिनीस्तथा ॥२२॥
शाकिनीयोगिनीश्चापि वेतालिका ह्यपूजयत् ।
कालरात्रिं तथा रात्रिप्रजाः सर्वा ह्यपूजयत् ॥२३॥
एवं संपूजनं कृत्वा बलिं दत्वा ततो हरिः ।
होमं चकार विधिना घृताद्यैस्तृप्तये प्रभुः ॥२४॥
सर्षपाद्यैश्च माषाद्यैः कृष्णतिलफलादिभिः ।
कृष्णपुष्पादिभिश्चापि तर्पयामास देवताः ॥२५॥
एवं कृत्वा पूजनं च बलिदानं हव तथा ।
सर्वत्र दीपदानं च ददौ श्रीभगवान् प्रभुः ॥२६॥
इत्येवं कार्तिकशुक्लचतुर्दश्यां निशीथके ।
कालीचतुर्दशी चापि पूजयित्वा हरिः स्वयम् ॥२७॥
महालक्ष्मीं पूजयित्वा परिहारं चकार सः ।
ततः रात्रौ सुसुष्वाप प्रातर्दीपोत्सवे दिने ॥२८॥
प्रबुबोध सुवाद्यानां शब्दैश्च कीर्तनैस्ततः ।
कृताह्निकः कृतपूजः पितृपूजां व्यधात् प्रभुः ॥२९॥
ब्रह्मप्रियाश्च लक्ष्म्याद्याश्चाययुः श्रीहरेः पुरः ।
पूजनार्थं निजं कान्तं कृतकौतुकमंगलाः ॥३०॥
राधिके पूजयामासुः सर्वाः सर्वोपचारकैः ।
आशीर्वादान् गृहीत्वा च भोजयित्वा निजं पतिम् ॥३१॥
तत्प्रदत्तं प्रसादं च गृहीत्वा ययुराश्रमम् ।
सायं दीपोत्सवं चक्रे सर्वाभिः सह केशवः ॥३२॥
अश्वपट्टसरः सर्वं दीपैः पूरितमप्स्विति ।
स्वर्गवच्छोभते चापि नगरी हि तथाविधा ॥३३॥
रात्रौ श्रीभगवाँश्चक्रे शारदापूजनं तथा ।
साक्षाच्छ्रीं शारदां लक्ष्मीं सरस्वतीं सतीं तथा ॥३४॥
पञ्च कृष्णः समाहूय पुपूज परमेश्वरीः ।
नागवल्लीदलैः पूगीफलैर्मिष्टान्नभोजनैः ॥३५॥
सुगन्धसारैर्भूषाभिश्चाम्बरैः सद्द्रवादिभिः ।
तोषयामास भगवान् यथेष्टवस्तुदानकैः ॥३६॥
आरार्त्रिकं चकारापि रञ्जयामास नर्मभिः ।
स्वर्णादिदक्षिणा दत्वा भोजयामास पायसम् ॥३७॥
परिहारं ततश्चक्रे ततः सुष्वाप शान्तिमान् ।
कन्यकाश्चाश्रमं गत्वा निद्रां जगृहुरुत्सुकाः ॥३८॥
प्रातःकाले हरिस्तूर्णं प्रबुबोध सरो ययौ ।
सरोजले कृतस्नानः सस्मार स्वं पुरातनम् ॥३९॥
सनातनं स्वरूपं चाऽखिलरक्षाकरं तटे ।
निजयोगान्महातीर्थं यत्रास्ते वै सरोवरे ॥४०॥
राधिके श्रीहरिस्तत्र दध्यौ चात्मानमात्मनि ।
तावत्तत्र समायातं सैन्यं सम्पर्कभूपतेः ॥४१॥
महामारीदुःखखिन्नं हाहाकारकृतं तटे ।
कृशं क्षुधातृषाव्याप्तं श्रान्तं मरणसायुजम् ॥४२॥
श्रीराधिकोवाच-
संपर्को वै कथं सैन्यसहितस्तत्र चाययौ ।
कस्य देशस्य राजाऽभूत् कथं रोगोऽस्य सैन्यके ॥४३॥
बालकृष्णेन कृष्णेन कृतं किमस्य वै तदा ।
ब्रूहि कान्त कथां सर्वां संक्षेपेण हरेः शुभाम् ॥४४॥
श्रीकृष्ण उवाच-
शृणु राधे स राजाऽऽसीत् सम्पर्कः कच्छदेशजः ।
तीर्थयात्रानिमित्तं सः सोमनाथं गतो ह्यभूत् ॥४५॥
मदंशं पूर्वकल्पीयं दत्तात्रेयं गुरुं हि सः ।
भजते स्म सदा कच्छे कुर्वन् राज्यमकण्टकम् ॥४६॥
प्रातः स्नानपरश्चायं देवपूजनतत्परः ।
दानधर्मपरश्चान्नसत्रेष्वतिथिपूजकः ॥४७॥
नित्यं ध्यानपरश्चापि दीनानाथान्नदायकः ।
साधुसेवापरो वृद्धनिदेशाद्यनुवर्ततः ॥४८॥
गोविप्रभक्तसेवी च सतीसाध्वीप्रपूजकः ।
अहिंसकः सत्यवृत्तिश्चासीत् प्रजाऽभिपूजिताः ॥४९॥
साधून् दृष्ट्वा च वा श्रुत्वोत्थायाऽभियाति दासवत् ।
सेवते चाम्बरदानैर्भोज्यदानादिभिस्तथा ॥५०॥
यद्राज्ये च सतां सन्ति मण्डलानि समन्ततः ।
देवभक्तिपराण्येव कृष्णकथापराणि च ॥५१॥
यज्ञो भवति यद्राज्ये नारायणसरस्तटे ।
प्रतिसंवत्सरं श्रेष्ठो वैष्णवश्चातिदक्षिणः ॥५२॥
सोऽयं राजा राधिके वै सैन्यसामग्रिकाऽन्वितः ।
हस्त्यश्वोष्ट्रवृषभैनोयानवाहनशोभनः ॥५३॥
यात्रार्थं सोमनाथस्य सौराष्ट्रे त्वाश्विने ययौ ।
सहस्रजनसंघातो विप्रसाधुसमन्वितः ॥५४॥
कृत्वा तीर्थे हिरण्यायाः संगमे पितृतर्पणम् ।
स्नानदानादिकं चापि सोमेश्वरं प्रपूज्य च ॥५५॥
मूलद्वारिकिकातीर्थं कृत्वा प्रपूज्य गोपतिम् ।
प्राचीसरस्वतीं गत्वा नारायणबलिं व्यधात् ॥५६॥
ततो वामनभूमिं च स्वर्णरेखानदीं ततः ।
दृष्ट्वा कृत्वा चक्रतीर्थमिन्द्रेश्वरं जगाम सः ॥५७॥
ततः सीताफलारण्ये कृत्वा तीर्थं च तूरिकाम् ।
यायादाम्रवणं चाश्वपट्टसरोऽवगाहितुम् ॥५८॥
मार्गे श्रमविशेषेण भोजनाऽनियमेन च ।
तापप्रभावतश्चापि सैन्यं रुग्णमभूत्तदा ॥५९॥
महामारीमहारोगप्रपीडितं सरोऽन्तिकम् ।
आययौ तीर्थलाभार्थं रोगाधीनं च दुःखितम् ॥६०॥
राजा विलोक्य भृत्यादीन् पशून् वै रक्तसारिणः ।
स्वं च रुग्णं विलोक्याऽपि प्रसस्मार गुरुं निजम् ॥६१॥
दत्तात्रेयं भगवन्त बालकृष्णक्षितौ नृपः ।
पाहि तीर्थप्रदेशेऽत्र पीडितान् मम मानवान् ॥६२॥
आगत्य सद्गुरो शीघ्रं जीवदानं प्रदेहि नः ।
रोगोऽयं नाशकृच्छक्तिहारको भृत्यवर्गिणाम् ॥६३॥
पशूनां घातकश्चापि रक्तसर्गोऽतिदारुणः ।
रक्ष रक्ष कृपासिन्धो दत्तात्रेय जगद्गुरो ॥६४॥
बालकृष्णः प्रभुश्चापि रक्षताच्छरणागतम् ।
इत्येवं त्वर्थयित्वैव सरसः सन्निधौ नृपः ॥६५॥
कदम्बानां द्रुमेष्वेवाऽऽवासं चकार सैन्ययुक् ।
सरस्तीरं समागत्य पीत्वा जलं तटे प्रगे ॥६६॥
ससार्थो नृपतिश्चक्रे कीर्तनं भजनं हरेः ।
तालीतालसमेतं वै नामानुगुणवर्णनम् ॥६७॥
बालकृष्ण हरेकृष्ण नारायणाऽऽर्तिहन् हरे ।
दत्तात्रेय गुरो रक्ष परमेश्वर पाहि नः ॥६८॥
इत्येवं भजनं चक्रे राजा सहस्रमानवैः ।
सहितो गर्जना चेयं दिगन्तं प्रगताऽभवत् ॥६९॥
अनादिश्रीकृष्णनारायणः श्रुत्वा स्थिरोऽभवत् ।
नगरं त्वभियातोऽपि वीक्षितुं भजनादिकम् ॥७०॥
सम्मर्दोऽभूत् सरस्येव परितस्तीरवासिनाम् ।
कुंकुमवापीवासानां दर्शकानां सरस्तटे ॥७१॥
राधिके भजने लीना पार्श्वे पश्यन्ति नैव ते ।
न चाग्रे नापि वै पृष्ठे नेत्राण्युन्मीलयन्ति न ॥७२॥
एकतानं हि भजनं चक्रुः रोगप्रशान्तये ।
बबन्धुश्च हरिं वृत्त्या रज्ज्वा स्वहृदयेषु ते ॥७३॥
दृष्ट्वा श्रुत्वा हरिस्तत्र बालकृष्णः स्वयं प्रभुः ।
दत्तात्रेयस्वरूपेण तूर्णं चोपस्थितोऽभवत् ॥७४॥
कुक्षौ पावटिकां हस्ते कमण्डलु जटां तथा ।
कौपीनं जपमालां च दधानः पादुके शुभे ॥७५॥
कृष्ण कृष्ण जपन् राज्ञः सन्निधौ समुपागतः ।
राजा दृष्ट्वा च तं तूर्णं चकार दण्डवद् भूमौ ॥७६॥
सैन्यजनाश्चापि चक्रुर्दण्डवद् वै समन्ततः ।
प्रसन्नवदनो देवो दत्तात्रेयो जगाद तान् ॥७७॥
कथं स्मृतो भवद्भिश्च कारणं ब्रूत सत्वरम् ।
राजा प्राह महामारीकष्टं तस्मात् प्ररक्षय ॥७८॥
दत्तात्रेयो हि भगवान् कुक्षिकोष्ठलिकां तदा ।
व्यादाय तत्र यद्भस्म ददौ तद् भूभृतेल्पकम् ॥७९॥
मुखे क्षिपेत्युवाचैषश्चिक्षेप च मुखे नृपः ।
महामारी बहिर्याता समूर्ता विकृतानना ॥८०॥
भीता प्रणम्य तं देवं दुद्राव शंकरं प्रति ।
सैन्यं चापि तदा जातं निरुग् वै क्षणमात्रतः ॥८१॥
तावत्तत्र समायातो दत्तात्रेयोऽत्रिनन्दनः ।
काम्भरेयो द्रुतं जातस्तदा श्रीबालकृष्णकः ॥८२॥
राजा वीक्ष्य हरिं तत्र तथारूपं रमेश्वरम् ।
रक्षकं महदाश्चर्यं ह्यवाप सैन्ययुक् ततः ॥८२॥
पुपूज श्रीबालकृष्णं दत्तात्रेयो महाप्रभुम् ।
प्रसन्नः श्रीहरिस्तस्मै वरदानार्थमाह च ॥८४॥
दत्तात्रेयस्ततः प्राह रक्ष मामत्र सन्निधौ ।
तवांऽशोऽहं तव क्षेत्रे वस्तुमिच्छामि सर्वदा ॥८५॥
हरिः प्राह तथाऽस्त्वेव वसाऽश्वसरसो जले ।
दत्तात्रेयमहातीर्थं तव नाम्ना भविष्यति ॥८६॥
ततस्त्वं रेवतगिरेः शिखरे वासमाप्स्यसि ।
रैवताद्रिर्महेन्द्राख्यः पर्वतश्चागमिष्यति ॥८७॥
सौराष्ट्रे च कुमुदादिः परितोऽस्य निवत्स्यति ।
तदा ते शिखरे वासो दत्तात्रेय भविष्यति ॥८८॥
सदा तीर्थं महत् तत्स्याद् दत्तात्रेयस्य सानु तत् ।
अत्र तीर्थं जलरूपं सदा स्थास्यति मत्स्थले ॥८९॥
तत्र तीर्थं तु ते व्योम्नि सदा स्थास्यति रैवते ।
इत्युक्तो भगवान् दत्तात्रेयश्चोवास तज्जले ॥९०॥
दत्तात्रेयमहत्तीर्थं जातं सरोवरे हि तत् ।
सम्पर्कतीर्थमेवापि जातं रक्षाकरं हि तत्। ॥९१॥
स राजा कारयामास तडागस्य तटान्तिके ।
दक्षिणे मन्दिरं रम्यं दत्तात्रेयविराजितम् ॥९२॥
निरुग् ययौ निजं देशं बालकृष्णं प्रपूज्य वै ।
राधिके श्रीबालकृष्णश्चैवं रक्षति दुःखिनः ॥९३॥
अवतारस्य भक्तानां रक्षणं तत्स्वरूपवान् ।
भूत्वा करोति भगवानवतारी परात्परः ॥९४॥
सर्वेऽवतारास्तस्यैव सर्वं तस्मात् प्रवर्तते ।
सर्वनाथः सर्वरक्षां करोति स्मृत एव सः ॥९५॥
अरण्ये पर्वते नद्यां समुद्रे च वनेऽपि च ।
विषमे भयदे स्थाने स्मृतो रक्षति मापतिः ॥९६॥
शत्रुमध्ये कालमुखे वह्नौ वायुप्रकोपने ।
भूकम्पे च महायुद्धे स्मृतो रक्षति सर्वगः ॥९७॥
त्रिदोषे मर्दने कूपे रोगे दुर्भिक्षवत्सरे ।
निगडे परपाशे च स्मृतो रक्षति सर्वदृक् ॥९८॥
विषिमुखे हिंस्रमुखे शस्त्रपाते च वज्रके ।
व्योमपाते प्रपाते च स्मृतो रक्षति चात्मगः ॥९९॥
राजभये गृहभये विद्रावणभयेऽपि च ।
प्राणभये सर्वभये स्मृतो रक्षति शक्तिमान् ॥१००॥
राधिके ये निजा जातास्तेषां कृष्णो निजो भवेत् ।
तद्रक्षार्थं महाचिन्तां करोत्येव दिवानिशम् ॥१०१॥
पठनाच्छ्रवणाच्चास्य फलं तीर्थकृतं भवेत् ।
रक्षणं दुःखनाशश्च भवेदेव न संशयः ॥१०२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कालीचतुर्दश्यां शंकरतद्गणभृत्यदासदासीनां पूजनोत्तरं श्रीहरिणा दीपदानोत्तरं च दीपावल्यां शारदामहोत्सवपूजा
कृता, प्रतिपदि महामारीरोगपीडिततीर्थयात्रिकसंपर्कनृपादीनां दत्तात्रेयरूपेण दर्शनदानेन रोगनाशनं दत्तात्रेयतीर्थं चेत्यादिनिरूपणनामा सप्तत्रिंशदधिकद्विशततमोऽध्यायः ॥२३७॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP