संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ५२

त्रेतायुगसन्तानः - अध्यायः ५२

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके! त्वेवं दशकोट्यसुरक्षये ।
हाहाकारो महानासीदसुराणां कुलेषु वै ॥१॥
देशेष्वपि दुराधर्षस्त्रासस्तदा व्यजायत ।
राजा नो धर्महीनो वै न्यायवर्ज्यं प्रगृह्य च ॥२॥
नाशं निमन्त्रयत्यज्ञो देशराष्ट्रकुटुम्बिनाम् ।
धनं राज्यं द्वयं त्वास्ते गर्वस्थानं हि देहिनाम् ॥३॥
न्यायेन गर्वः सुखदश्चान्यायजस्तु नाशकः ।
अहो माया हि देवस्य वैचित्र्यं कीदृशं यया ॥४॥
पद्मावधिधने राज्ये चासमुद्रान्तवर्तिनि ।
सत्यप्यज्ञस्य नृपतेः सतीष्वपि प्रियासु च ॥५॥
परदारधनसम्पद्गृध्ना तस्य विवर्धते ।
शक्तिर्वा बलमैश्वर्यं वस्तुतः शत्रुवन्मतम् ॥६॥
दुःखदाः शत्रवो बोध्याः शक्त्याद्यास्तादृशा यदि ।
गर्वः कालस्य दूतोऽस्ति पुत्रो धनस्य वर्तते ॥७॥
बलस्य दत्तकश्चास्ति शिष्यः परिजनस्य च ।
धनं बलं परिजनो वर्तन्ते यत्र वै स्थले ॥८॥
तत्र गर्वाः समायान्ति कालस्य कार्यसिद्धये ।
जनो जानाति गर्वेण जेष्यामि सकलानपि ॥९॥
कालः पश्यति गर्विष्ठे सान्तत्वं सत्वरं क्षणात् ।
अन्यायो गर्वपार्श्वस्थ उत्तेजयति मानवान् ॥१०॥
परस्त्रीद्रव्यहरणे ततो नाशे जुहोति च ।
श्वा स्वरथ्यागृहस्थैर्हि दत्ताऽन्नभोजनादिना ॥११॥
तृप्तोऽपि तृष्णया चान्यरथ्यायां याति गर्वतः ।
ततश्चान्यैः श्वभिर्दन्तैः पाठ्यतेऽभित उल्बणैः ॥१२॥
महिषः क्षेत्रभूम्यादौ लब्ध्वा तृप्तिं तृणादिभिः ।
तृष्णया चापि गर्वेणाऽऽरण्यदनेच्छुकः ॥१३॥
विदार्यते वने सिंहैस्तृष्णागर्वौ हि नाशदौ ।
गर्वान्धस्तारकैर्हीनस्तरणं नैव वेत्त्यपि ॥१४॥
मदाविष्टः प्रवाहे च क्षिपत्यात्मानमेकलः ।
निमग्नो भ्रमरैस्तूर्णं मरिष्यति न संशयः ॥१५॥
भोजनं वसनं छाया जलं भोग्यं हि देहिनाम् ।
तदाधारा प्राणयात्रा सा चेद् गच्छति सौख्यतः ॥१६॥
वृथाऽऽयासः कथं विज्ञः कुर्यान्मृषाऽवमोहितः ।
क्षणं वित्तं क्षणं चित्तं क्षमं गृहं च बान्धवाः ॥१७॥
क्षणं राज्यं जीवनं च क्षणं देहविरागिता ।
विज्ञायैवं परं श्रेयः साधयेन्न पतेदधः ॥१८॥
पतनं जायते गर्वात् तृष्णया भोगलिप्सया ।
अशक्त्यारब्धभावाच्च ताँश्च तृप्त्या परित्यजेत् ॥१९॥
राधिके! बहवो नष्टा नाशमेष्यन्ति चापरे ।
नश्यन्त्यपि वर्तमानाः क्षितिर्नैभिः समं ययौ ॥२०॥
धनं सम्पद् गृहं दाराः पतिः पुत्रः कुटुम्बकम् ।
नास्ति वास्तविको बन्धो बन्धस्तु तेषु वासना ॥२१॥
भोक्तुः सा वर्तते नित्यमशान्तस्याऽविरागिणः ।
रागोऽशान्तिश्च जायेते वर्धेते ज्ञानहीनके ॥२२॥
यत्र ज्ञानस्य वै शून्यं राजते तत्र सर्वदा ।
कामक्रोधादिसंख्या प्रपूर्यते वसतिं गता ॥२३॥
कामः क्रोधस्तथा लोभो मोहो मदश्च गर्वकः ।
त एते भ्रातरः सर्वे गृहेशस्यापि भक्षकाः ॥२४॥
अन्येषां भक्षणे तत्र का कथा खलु राधिके ।
मांसानां पिण्डिकाः सर्वा गृध्रास्तुदन्ति चञ्चुभिः ॥२५॥
समांस गृध्रान् बलिनस्तुदन्ति च हरन्ति ताः ।
पिण्डिकाः सर्वलोकेषु तुल्या देवेन निर्मिताः ॥२६॥
स्वपर्याप्ताश्च देवेन प्रदत्तास्तोषलब्धये ।
असन्तुष्टास्तत्र ये ते नश्यन्त्यग्नौ पतंगवत् ॥२७॥
शुद्धाहारविवेकानामयं सञ्जायते शुभः ।
विचारः शान्तिफलदस्तामसानां न सा कथा ॥२८॥
तमोऽधिका हि असुरा दैत्या म्लेच्छाश्च दानवाः ।
तामसीं वृत्तिमाश्रित्योद्वेजयन्ति जगत् स्थिरम् ॥२९॥
उद्वेगाग्नौ प्रहुताश्च मृत्युमामन्त्रयन्ति ते ।
राधिके! राज्यमित्युक्तं यत्र धर्मेण राजते ॥३०॥
प्रजा यस्य सदा शान्ताः सुखा अन्नधनादिभिः ।
युद्धेतयो न विद्यन्ते देशे वर्षति सद्वसौ ॥३१॥
परेहाः पापमेवोक्तं फलं दुःखं च तन्मतम् ।
युद्धं कार्यं रक्षणार्थं न परास्कन्दनाय तु ॥३२॥
पारक्यं युद्धमूलं च युद्धं विनाशकारकम् ।
धर्मोऽर्थः काम एवैते मोक्षदाश्चेत् पुमर्थकाः ॥३३॥
यदि श्रेयस्करास्ते न नारकास्ते गृहे स्थिताः ।
येषां पत्न्यां च पत्यौ वा सन्तोषो नास्ति ते गृहे ॥३४॥
नारका एव मन्तव्या असन्तुष्टाः सदाऽऽतपाः ।
येषां वाट्यां गृहे क्षेत्रे धने सम्पदि गोधने ॥३५॥
अन्ने वस्त्रे यथालब्धे देहनिर्वाहकारिणि ।
नास्ति सन्तोषणं ते तु तृष्णावैतरणीस्थिताः ॥३६॥
जीवत्स्वपि न शान्त्यास्था मृता का शान्तिरेष्यति ।
रसनायां च वा स्पर्शे येषां तृष्णा विवर्धते ॥३७॥
तेषां वै नरकं देहे कृतस्थानं विराजते ।
कामतृष्णा युगलाख्ये निगडे क्षिपति द्रुतम् ॥३८॥
लोभतृष्णा प्रयासाख्ये प्रवाहे क्षिपति द्रुतम् ।
मोहतृष्णा चाऽर्जनाख्ये प्रवासे क्षिपति द्रुतम् ॥३९॥
क्रोधतृष्णा विवादाख्ये क्लेशे क्षिपति प्राणिनम् ।
मदतृष्णाऽहंममत्वक्लेशे क्षिपति देहिनम् ॥४०॥
जनकीटपतंगानां विषयाः सर्वथा समाः ।
अधिकायासमग्ना ये ते विनाशाय यन्ति वै ॥४१॥
दूती राजानमासाद्य नैजं जयं समिच्छति ।
दूता दूत्यः समा बोध्याः सदेहा वाऽप्यदेहिनः ॥४२॥
नैजं जयं समिच्छन्ति पराभवं तु भूभृतः ।
मूर्खो मुग्धो न जानाति निजाऽन्ताऽऽमन्त्रणाविमान् ॥४३॥
श्रेष्ठी जानाति वै लाभं कुसीदात्मकमुत्तमम् ।
शठो जानाति च धनं मूल देयं न वै क्वचित् ॥४४॥
कुसीदं चापि च मूलान्न्यूनं देयं न वै समम् ।
ततो नादानता ख्याप्याऽऽगृह्य चापि पुनः पुनः ॥४५॥
एवं शठस्तु जयति श्रेष्ठी संह्रियते सदा ।
शठा वै भुञ्जते श्रैष्ठ्यं श्रेष्ठी शठाँश्च लम्बते ॥४६॥
लम्बमानः पतत्येव निर्लम्बे पतनं कुतः ।
धावमानः पतत्येव निषण्णे पतनं कुतः ॥४७॥
योद्धा नश्यति युद्ध्यँश्च भोगान् कृत्वा मृषासमान् ।
मग्नः प्राणान् विमुञ्चेत् सन्तरन् प्राणान्न मुञ्चति ॥४८॥
यदर्थं युद्ध्यते यद्वा यदर्थं च निमज्जनम् ।
यदर्थं पतनं तद्वै कियन्ममेति चिन्तयेत् ॥४९॥
एवं विवेकः कर्तव्यो राज्ञा वा प्रजया प्रिये ।
स्वदेहेन्द्रियराज्यस्य राजा क्रोडोऽपि वर्तते ॥५०॥
कीटाद्याः सर्व एवैते राजानः स्वकृतौ मताः ।
गृहे तिष्ठन्ति मनुजास्ताननादृत्य कीटकाः ॥५१॥
कुर्वन्ति निलयं भित्तौ लूताः कोणेषु जालकान् ।
चक्रवाका नलिकाधोभित्तिछिद्रेषु चाऽऽलयान् ॥५२॥
मूषका गृहनालेषु भूमौ कीटा वसन्ति च ।
काकाः पारावताश्चोर्ध्वं गृहोच्छ्रये वसन्त्यपि ॥५३॥
कस्येदं वै गृहं ज्ञेयं यत्सर्वैर्भुज्यते समम् ।
मन्यन्ते तु बलात् स्वान् वै ते सर्वे गृहस्वामिनः ॥५४॥
मुग्धाश्चापि भवन्त्येव गृहनाशे तु तेऽखिलाः ।
यस्य यादृङ्ममत्वं च दुःखं तादृक् तदीयकम् ॥५५॥
अहंममताहीनस्य परगृहाधिवासिनः ।
मूषिकागृहवासस्य निर्बन्धस्य च भोगिनः ॥५६॥
गृहनाशेऽपि शोकांशो नागस्येव न जायते ।
एवं जानाति चेद् राजा कथं नाशाय वै स्वयम्॥२७॥
मिषमुद्भाव्य जायेत राजधर्मं मृषा विदन् ।
राधिके! सर्वथा सर्वं मृषा वै क्लेशदं मतम् ॥५८॥
मृषा तु परिहर्तव्यं सत्यं ग्राह्यं सुवेदिना ।
विनाशार्थं न योद्धव्यं योद्धव्यं शाश्वतार्थकम् ॥५९॥
विषयार्थं च देहार्थं युद्ध्यन्ति पशवोऽपि तु ।
अज्ञाना ज्ञानिनां युद्धं तदर्थं तु समं भवेत्। ॥६०॥
ज्ञानिनो ज्ञानमासाद्य युद्ध्यन्ति विषयाय चेत् ।
ज्ञानं तत् तुषतुल्यं वै कणहीनं च निष्फलम् ॥६१॥
राजा यद्वा प्रजा वापि देवो वा मानवोऽपि वा ।
विषं यातीति विषयः आत्मा तत्र विषायते ॥६२॥
विसिन्वन्तीति विषयाः स्वेषु बध्नन्ति ये मतिम् ।
तादृङ्मत्याश्रितश्चात्मा विषयीति निगद्यते ॥६३॥
चित्रकेतोः पुरा कोटिस्त्रियस्त्वासंस्तथापि सः ।
तृष्णां भोगेन सिञ्चन्वै तृप्तिं नाऽवाप चान्ततः ॥६४॥
कोट्यर्बुदानि मे पत्न्यो मद्वियोगं न सेहिरे ।
कोट्यर्बुदस्वरूपैश्च भोगस्ताभ्योऽर्पितोऽनिशम् ॥६५॥
मयैवं दीयमानेऽपि सर्वदाऽऽनन्दशेवधौ ।
न तास्तृप्ता मया ज्ञाताः कदाचित् क्षोभयोगतः ॥६६॥
ययातिर्नहि सन्तृप्तो वव्रे तु यौवनं सुतात् ।
नहुषोऽपि न सन्तृप्तो पौलोम्यामकरोन्मनः ॥६७॥
नरनारायणौ तृप्तौ सदाऽऽसेते तपःस्थितौ ।
दत्तात्रेयश्च कपिलो लोमशः सनकादिकाः ॥६८॥
नित्यतृप्ता न वाञ्च्छन्तीन्द्रियसाहाय्यमल्पकम् ।
सती तृप्ता सदा शंभुं विना नाऽन्यं समिच्छति ॥६९॥
सन्तः साध्व्यः सदा तृप्ता हरौ मुह्यन्ति नेतरे ।
यदर्थं यतते देही स देहो यदि नश्यति ॥७०॥
यत्नः कीदृक् स वै प्रोक्तो वृश्चिकीबालसदृशः ।
येनाऽयं शोभते राजा तद्राष्ट्रं यदि नश्यति ॥७१॥
कीदृग् राज्यं कृतं तेन कार्पासेऽग्निकणादिवत् ।
दिव्यास्ताराः पतन्त्येव पश्यन्ति नित्यमक्षिभिः ॥७२॥
स्वेषां पातं न पश्यन्ति शाखास्था मूलघातिनः ।
देयं दूरं कृतं येन लेयं येन धृतं पुरः ॥७३॥
इष्टं स्वल्पं बह्वनिष्टं लेयं द्वेधा स एष्यति ।
लेयं दूरं कृतं येन देयं येनाग्रतः कृतम् ॥७४॥
इष्टं फलं तु विपुलं तस्याग्रे स्वयमेष्यति ।
राधिके! त्वेकदा विश्वावसुः कन्याशतत्रयम् ॥७५॥
स्वयंप्रकाशऋषयेऽर्पयितु स समाययौ ।
ननाम परया प्रीत्या सूर्याभं मुनिसत्तमम् ॥७६॥
अवाप्य स्वागतं विश्वावसुः प्राह मनोगतम् ।
ऋषे भवान् महायोगी वर्ततेऽनेकरूपधृक् ॥७७॥
ऊर्ध्वरेतास्तथा चास्ते कृष्णनारायणानुगः ।
एतत्कन्याशतान्यत्र तव योग्यानि सन्ति हि ॥७८॥
गृहाण तासां परमं श्रेयः स्याद् यदि मन्यसे ।
तेजस्विनां न दुर्धर्षं लालनं पालनादिकम् ॥७९॥
स्वयंप्रकाशस्तं प्राह सत्यं ते मानसं तु यत् ।
कन्याश्रेयो विधातव्यं पितॄणां धर्म एष वै ॥८०॥
योग्याय तु प्रदातव्या तदिच्छाशालिने सदा ।
अनिच्छवे तु तद्दानं कन्याक्लेशाय जायते ॥८१॥
अहमनिच्छुः कन्यानां देह्यन्यस्मै महर्षये ।
अहमात्मा द्वन्द्वहीनो द्वेहो द्वन्द्वभरोऽधिकः ॥८२॥
प्रातः सायं मध्यसूर्ये मध्ये च प्रहरादिके ।
मूत्रं मलं तथा लालां लिट्रूपं स्वेदमित्यपि ॥८३॥
ष्ठीवनं छिक्कनं वायुसरणं मेहनादिकम् ।
अकस्मात् प्रकटीत्य स्ववशं मां करोति हि ॥८४॥
तस्य सेवा प्रशुद्ध्यर्थं मया निर्वर्त्यते सदा ।
परिश्रमस्य शान्त्यर्थं प्रस्वापो दीयते मया ॥८५॥
याने च भोजने पाने होमे जपे तथाऽऽसने ।
पार्श्वभावे स्थितौ वक्रीभावे वा गमनादिके ॥८६॥
परिश्रमं परं प्राप्य गुरुर्भवत्यभीक्ष्णशः ।
तच्छान्त्यर्थं न मे कालश्चाधिकः समपद्यते ॥८७॥
भवत्त्रिशतकन्यानां कृते गान्धर्वराट् कुतः ।
समयं प्राप्य सेवाद्यैः प्रीणयेयं सुखार्थिनीः ॥८८॥
एकदेहस्य सेवां वै कर्तुं न पारयामीह ।
शतत्रयैकदेहानां सेवनं पारये कुतः ॥८९॥
तस्मान्मया न चेष्टव्या दातव्या न त्वयाऽनघ ।
अपूर्णं ब्रह्म तद् बोध्यं यदन्यस्मात् सुखेषणा ॥९०॥
पूर्णं ब्रह्म तु तद् बोध्यं यदात्मानन्दपूर्णता ।
परेभ्यः सुखलौल्येन प्रवर्तन्ते तदाप्तये ॥९१॥
मध्ये एव विनश्यन्ति सामुद्रमौक्तिकेहुकाः ।
ततो विश्वावसुः कन्याशतत्रयं तु शार्ङ्गिणे ॥९२॥
अनादिश्रीकृष्णनारायणाय प्रददौ तदा ।
निरञ्जनाय कृष्णाय पुमुत्तमाय भावतः ॥९३॥
ताः सर्वाः श्रीपतिः कृष्णो ददौ लोमशकालये ।
रक्षितुं चाज्ञया दिव्यो लोमशस्ता ररक्ष ह ॥९४॥
तस्माज्ज्ञानयुता नैव सज्जन्ते क्लेशमूर्तिषु ।
राधिके! धनदारश्रीराज्याद्याः क्लेशमूर्तयः ॥९५॥
तत्राऽऽसक्तस्य तु राज्ञो जुमासेम्लाभिधस्य वै ।
सर्वनाशः समुत्पन्नः प्रतीक्षते क्षणान्तरम् ॥९६॥
कदा विमानं गृह्णामि स्पृशामि कन्यकाः कदा ।
कदा विमानमारुह्य पृथ्वीं वशे करोम्यपि ॥९७॥
इत्यभूद् बहुधा तृष्णा सा न जीर्यति जीर्यतः ।
भूत्वा युवती राजानं प्रचकर्ष प्रमन्त्रणे ॥९८॥
राजा चाज्ञापयामास सैन्याधिपाँस्तदा मुहुः ।
विचारार्थं विनाशस्य विमानस्य वशस्य वा ॥९९॥
मन्त्रणाबोधकं शीघ्रं बिगुलं समनादयत् ।
निर्धारिताश्च वै सैन्याऽधिपास्तूर्णं समाययुः ॥१००॥
यानं नाशयितव्यं वा वशीकर्तव्यमेव वा ।
तदुपायान् रचयन्तु रक्षकाऽनलनाशकान् ॥१०१॥
अन्तिमो रणसंग्रामश्चाऽयं कार्यो हिताऽहितः ।
वयं स्मो वा, न वा स्मो वा, भेतव्यं नात्र धीवरैः ॥१०२॥
इत्युक्ता मन्त्रयामासुः रक्तवार्ध्यादयोऽसुराः ।
द्व्यशीतिसंख्यकाः शूरा ये युद्धे न हताश्च ते ॥१०३॥
दूरतः सैन्यवाहाश्च सैन्ययोधनदर्शकाः ।
सैनापत्यपदभूषा विचारं त्वाचरँस्तदा ॥१०४॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीकृष्णराधिकाकृतविवेकाविवेकादिविज्ञानवर्णननामा द्विपञ्चाशत्तमोऽध्यायः ॥५२॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP