संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २९१

त्रेतायुगसन्तानः - अध्यायः २९१

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके! कृष्णवाहिन्यां हरिं दृष्ट्वा तु कोटिशः ।
स्त्रीगणाः मुमुहुश्चाति युवानं परमेश्वरम् ॥१॥
कोटितेजोभिरापूर्णं कोटिलावण्यशोभनम् ।
कोट्यानन्दभरं पुष्टं कोटिभूषणभूषितम् ॥२॥
कोटिसद्गुणवासं च कोटिकामभृतं प्रभुम् ।
वीक्ष्य वीक्ष्य नवा नार्यस्तल्लीनाः स्थिरदृष्टयः ॥३॥
यावत्यः कन्यकाश्चापि संबभूवुः समाधिगाः ।
अपि नराश्च लोकाश्चेश्वराश्च लीनतां गताः ॥४॥
देवाः सर्वेऽपि मुमुहुर्योषितां तत्र का कथा ।
साधवो योगिनश्चापि मुक्ताश्च पार्षदा अपि ॥५॥
मुमुहुर्यतयश्चापि मुक्तानीनां तु का कथा ।
महामाया प्रधानं च प्रकृतिर्धामयोषितः ॥६॥
मोहिन्यश्चापि मुमुहुर्लौकिकीनां तु का कथा ।
आजनाभ्यो युवत्यश्च कृटुम्बसहिता ययुः ॥७॥
दर्शनार्थं सोत्सुका वै प्रोवाहः कृष्णयोरिति ।
ता अपि मुमुहुस्तत्र परेशे परमात्मनि ॥८॥
राजानो राजकन्याश्च दशसाहस्रसंख्यकाः ।
कृष्णयान्यागताश्चापि निश्चिक्युस्तं निजेश्वरम् ॥९॥
प्रजाकन्यास्तथा तत्र दशसाहस्रसंख्यकाः ।
निश्चिक्युः श्रीबालकृष्णं चेशं नैजं विमोहिताः ॥१०॥
तत्पराश्च समासन् वै कण्ठमालाः प्रगृह्य च ।
वह्निसाक्ष्ये भविष्यामो दास्यः कृष्णस्य चार्पिताः ॥११॥
इत्येवं कोट्यर्बुदा वै कन्यकास्तत्परास्तदा ।
सर्वसज्जीकृताऽऽवेषाः प्रतीक्षन्ते तु मंगलम् ॥१२॥
विद्याधर्यः कोटिशश्च मुमुहुर्वीक्ष्य माधवम् ।
अप्सरसः कोटिशश्च मुमुहुर्वीक्ष्य केशवम् ॥१३॥
गान्धर्व्यश्च कोटिशोऽपि मुमुहुर्वीक्ष्य चाच्युतम् ।
किन्नर्यश्च कोटिशोऽपि समुहुर्वीक्ष्य कामदम् ॥१४॥
नर्तक्यः कोटिशश्चापि मुमुहुर्वीक्ष्य मायिनम् ।
शिल्पिन्यो मुमुहुश्चापि वादिन्यो मुमुहुस्तथा ॥१५॥
पुष्पिण्यो मुमुहुश्चापि यतिन्यः कोटिशस्तथा ।
साध्व्यश्च मुमुहुश्चापि सन्यासिन्यश्च कोटिशः ॥१६॥
मुमुहुर्ब्रह्मचारिण्यो विप्राण्यो मुमुहुस्तथा ।
बालकृष्णं वीक्ष्य राधे! मुमोह सकलं जगत् ॥१७॥
काश्चिद्धरिं प्रवीक्ष्यैव त्वाकृष्टाः केशवं प्रति ।
कश्चित् तत्कलगिं वीक्ष्य सौवर्णतान्तवी स्थिराम् ॥१८॥
पिशंगीं किरणैर्व्याप्तां स्थिरास्तत्रैव चाऽभवन् ।
लक्ष्म्याश्रयं च मुकुटं सौवर्णं कोटिहीरकम् ॥१९॥
नैकरत्नमणिव्याप्तं सूर्यवद्भास्वरं शुभम् ।
वीक्ष्य काश्चित्तत्र लग्नाः स्थिरा मग्नास्तथाऽभवन् ॥२०॥
कश्चिन्मुकुटसंस्थाँश्च रत्नहारान् सुमस्रजः ।
पुष्पपंक्तीश्च कलिकाः शेखरान् पुष्पराजिकाः ॥२१॥
प्रदानसूचकान् वीक्ष्य मुमुहुस्तत्र च स्थिराः ।
काश्चित्केशान् मञ्जुलाँश्च चाकचिक्यप्रभान्वितान् ॥२२॥
कृष्णान् वक्रान् भङ्गिकाढ्यान् सूक्ष्मान् नेत्रहरान्शुभान् ।
सुगन्धितैलपानाँश्चाऽऽकर्णाग्रकृततोरणान् ॥२३॥
पश्चभागे छादकाँश्च वीक्ष्य प्रकीर्णकस्थितान् ।
दन्तिकाभिः संस्कृताँश्च समीकृतान् समान्तकान् ॥२४॥
प्रान्तपिशंगकान् वीक्ष्य मुमुहुस्तत्र सुस्थिराः ।
काश्चित्तेजःपरिधिं च वीक्ष्य महान्तमुज्ज्वलम् ॥२५॥
अन्तःपरिधिसाहस्रं कोटिकिरणभाभृतम् ।
बहुरंगं मिष्टकृष्टिचमत्कारभृतं शुभम् ॥२६॥
दिव्यं वीक्ष्य च तत्रैव मुमुहुश्चाऽभवन् स्थिराः ।
काश्चिद्भालं प्रवीक्ष्यैव विशालं त्वर्धचन्द्रवत् ॥२७॥
उज्ज्वलं त्वेकरेखाढ्यं प्रान्तयोश्चन्द्रभाभृतम् ।
मध्ये सूर्यसमं भास्वत् प्रोज्ज्वलं चोन्नतं मतम् ॥२८॥
पुष्टं रम्यं मनोहारि वीक्ष्य मुग्धाः स्थिरास्तदा ।
काश्चिच्चन्द्रं कौंकुमं च मध्ये स्थितं सुशोभनम् ॥२९॥
वालसूर्यसमं वीक्ष्य मुग्धाः स्त्रियोऽभवन् स्थिराः ।
काश्चिद् वीक्ष्य सुतिलकं चोर्ध्वपुण्ड्रं हि कानकम् ॥३०॥
स्वर्णवर्णं चान्दनं च कौंकुमं मिश्रितं तनु ।
तत्रैव मुग्धा अभवन् स्थिरानन्दभरास्तदा ॥३१॥
काश्चित्तु प्रान्तयोर्वीक्ष्य पत्रिके चान्दनीकृते ।
मध्ये कुंकुमसूक्ष्माल्पबिन्द्वीबाहुल्यशोभिते ॥३२॥
तास्वेव मुमुहुर्नार्यः पत्र्यां बिन्द्वीषु च स्थिराः ।
काश्चिद् भ्रूयुगले रम्ये कामकम्मानिकात्मके ॥३३॥
सूक्ष्मनीलाऽतिचञ्चत्सद्रोमावलिविराजिते ।
प्रान्ततनुसूक्ष्मकाग्रे मुग्धास्तत्राऽभवन् स्थिराः ॥३४॥
काश्चिद् भ्रुवोर्मध्ययोगे श्वेततेजोविराजिते ।
चान्द्रपिण्डसमशोभे मुमुहुस्तत्र च स्थिराः ॥३५॥
काश्चिद् भ्रूनिम्नभागे च नासामूले मनोहरे ।
चक्षुषोर्मध्यके द्योतमाने मुमुहुः सुस्थिरा ॥३६॥
काश्चित्तिलसुमाभां च नासिकां वीक्ष्य भाभृताम् ।
नमणीं रमणीं निम्नां तत्र मुग्धास्तथा स्थिराः ॥३७॥
काश्चिद् गोलकपोलौ च रंगशोभौ सुरञ्जितौ ।
मध्योन्नतौ सुगोलौ च चुम्बनार्हौ सरत्नकौ ॥३८॥
हास्यभृतौ चोन्नतौ च सूर्यचन्द्राभकान्तिकौ ।
प्रपुष्टौ मदवाहौ च वीक्ष्य मुग्धास्तथा स्थिराः ॥३९॥
काश्चिन्नेत्रे चाकर्णान्तायते मदनवासिते ।
तीक्ष्णकोणे प्रेमवाहे चेङ्गितसूचके भरे ॥४०॥
रक्तरेखे कज्जलाढ्ये श्वेतगोले च चञ्चले ।
कृष्णकनीनिके रम्ये भावज्ञे भावबोधके ॥४१॥
चैकान्तबोधके चान्तश्चेष्टाप्रमाणपूरिते ।
आकर्षके मोहभृते मेषोन्मेषविराजिते ॥४२॥
सूक्ष्मरोमावलिराजद्रक्षिकाछज्जिकायुते ।
जगतां सर्वसृष्टीनां प्रतिबिम्बाश्रये शुभे ॥४३॥
सागरौ प्रेमसरितां निधाने सर्वतेजसाम् ।
सर्वप्रमाणसंस्थाने मुमुहुस्तत्र च स्थिराः ॥४४॥
काश्चिच्च कर्णयोः शष्कुलिकासंस्थानयोस्तदा ।
स्वर्णकुण्डलसौवर्णफुल्लिकास्वर्णचिप्पिभिः ॥४५॥
स्वर्णशृंखलिकाभिश्च रत्ननद्धस्थलैस्तथा ।
युक्तयोश्चन्द्रभयोश्च मुमुहुस्तत्र च स्थिराः ॥४६॥
काश्चित्तु बुट्टिकां वीक्ष्य स्वर्णस्थलविराजिताम् ।
तत्रैव मोहमापन्नाः स्थिरास्तत्राऽभवन् स्त्रियः ॥४७॥
काश्चिद् वीक्ष्योर्ध्वकौष्ठस्य पृष्ठं सौवर्णकोज्ज्वलम् ।
सूक्ष्मातिसूक्ष्मरोमालिं कामसम्बोधकारिणीम् ॥४८॥
श्मश्रुलेखां पिंगवर्णां मुमुहुस्तत्र सुस्थिराः ।
काश्चिदोष्ठं समसंस्थानकं दीर्घं यथोचितम् ॥४९॥
रक्तभृतं पक्वबिम्बफलाभं रससंभृतम् ।
चुम्बनार्हं चोश्यरसं मध्ये धनुष्यमध्यवत् ॥५०॥
प्रान्तयोर्धनुषः प्रान्तौ यथा तथा सुघट्टितम् ।
सर्वेषां धनुषां रूपं दधत्प्रेमनिधानकम् ॥५१॥
ईषत्कुञ्चत्प्रेमभावबोधकं हास्यमन्दिरम् ।
प्रसन्नताश्रयं रम्यं ताम्बूलरसराजितम् ॥५२॥
क्वचित् क्वचिच्च दन्तैश्च क्वचिच्च जिह्वया तथा ।
क्वचिच्चाऽधरकौष्ठेन विधापित सुचुम्बनम् ॥५३॥
मध्यबिन्दौ निम्नभागं नासा दण्डिकया कृतम् ।
ऊर्ध्वौष्ठं वीक्ष्य वै कान्ता मुमुहुस्तत्र च स्थिराः ॥५४॥
सुगन्धसम्भृतं श्वासं चेहमानं स्त्रियोऽपराः ।
प्रसरन्तं सर्वदिक्षु सुगन्धयन्तमीश्वरान् ॥५५॥
मादयन्तं शान्तयन्तं घ्रात्वा मुग्धास्तथा स्थिराः ।
अधरौष्ठं रक्तवर्णं ताम्बूलरसवेदिनम् ॥५६॥
अधरौष्ठसखायं तं वीक्ष्य मुग्धाः स्त्रियः स्थिराः ।
चिबुकं स्वर्णचिबुकपिंगबिन्दुविराजितम् ॥५७॥
शोभनं समसंस्थानं योग्यनिम्नत्वशोभनम् ।
समनिकासहनुसंशोभावर्धितसुन्दरम् ॥५८॥
दिव्यं नवनीतकाभं स्थलपद्माकृति प्रभम् ।
वीक्ष्य नार्यो मुमुहुश्च कृत्वा हृद्यभवन् स्थिराः ॥५९॥
कम्बुकण्ठं सुस्वरं च हन्वधः पुष्टपेशिकाः ।
गलं पुष्टं यथाघट्टं मुमुहुर्वीक्ष्य च स्थिराः ॥६०॥
सिंहस्कन्धौ हरेर्वीक्ष्य पुष्टौ बलभृतौ तथा ।
वीक्ष्य काश्चित्तु मुमुहुः स्थिरास्तत्राऽभवँस्तदा ॥६१॥
काश्चिद् वीक्ष्योन्नतं पुष्टं विशालं वक्ष उत्तमम् ।
दुग्धचम्पकभाव्याप्तं सर्वबलाश्रयं शुभम् ॥६२॥
नरत्वाऽऽवेदकं शूरमनःक्षोभकरं क्षणम् ।
नार्यभिवाञ्छितं राधारमाऽऽश्लेषविभावितम् ॥६३॥
स्वर्णरेखायुतं रोम्णां दक्षावर्तसमन्वितम् ।
श्रीवात्सल्यभृतं सूर्यचन्द्राभस्तनराजितम् ॥६४॥
आयतं चापि वै दीर्घं दृढबन्धविभासितम् ।
कुक्षिकोमलतायुक्तं पार्श्वमार्दवसुस्पृशम् ॥६५॥
पृष्ठवंशदृढस्थानं बाहुमूलातिशोभनम् ।
एवंविधं हरेर्वक्षःस्थलं सुखस्थलं परम् ॥६६॥
सम्पत्सौख्यसमीहाढ्यं वीक्ष्य वै सुन्दरीगणाः ।
मुमुहुश्चाति तत्रैवाऽभवन् मग्नाः सुखस्थिराः ॥६७॥
सौवर्णं कण्ठलं कण्ठे भूषणं रत्नघट्टितम् ।
तथा सौवर्णपत्रीं च शृंखलां कानकीं तथा ॥६८॥
प्लक्षपत्रीं च सौवर्णीं पञ्चसरीं च कानकीम् ।
बदरीमालिकां स्वर्णां गोक्षुराणां स्रजं तथा ॥६९॥
सौवर्णी सूक्ष्मपत्रीं च मालिकां मुद्गमालिकाम् ।
यवमालां कानकीं च कानकीं राजमाषिकाम् ॥७०॥
कानकं पूर्त्तलायं च त्वष्टकोणमणिस्रजम् ।
कण्ठिकां तौलसीं स्वर्णसूक्ष्ममणिप्रकण्ठिकाम् ॥७१॥
मालिकां कानकीं चापि पौष्पान् हारान् सुगन्धकान् ।
सौवर्णबुट्टकौशेयकञ्चुकोपरि संस्थितान् ॥७२॥
धृतान् हारान् मणिरत्नहीरकादिविराजितान् ।
मौक्तिकाँश्च धृतान् हारान् कौस्तुभान् वीक्ष्य वै स्त्रियः ॥७३॥
चन्द्रकान्तान् सूर्यकान्तान् वह्निकान्तान् मणीन् शुभान् ।
वीक्ष्य कण्ठे धृर्तौंस्तत्र मुमुहुर्वै सुरस्त्रियः ॥७४॥
अन्याः सर्वाश्च मुमुदुः क्षणंस्तत्राऽभवन् स्थिराः ।
भुजौ पृष्ठौ च कदलीगर्भाभौ शोभनौज्ज्वलौ ॥७५॥
पूर्तद्रव्यौ कटकाढ्यौ शृंखलाभिविराजितौ ।
सिंहाननभुजबन्धाभूषाविराजितौ शुभौ ॥७६॥
वीक्ष्य नार्यो हि मुमुहुः स्थिरास्तत्राऽभवन् क्षणम् ।
प्रकोष्ठौ कामफलकौ स्वर्णशृंखलिकान्वितौ ॥७७॥
मणिमौक्तिकरत्नाढ्यमांगल्यभूषणान्वितम् ।
पुष्पशृंगारशोभाढ्यं वीक्ष्य मुग्धाः स्त्रियः स्थिराः ॥७८॥
हस्ततले यावकाभे नखान् रक्तभराँस्तथा ।
ह्रस्वचन्द्रनिभान् वीक्ष्याङ्गुलीश्चांगुलिकास्रजः ॥७९॥
युक्तास्तथा कानकाङ्गुलीयकैर्मणिरत्नजैः ।
ऊर्मिकाभिः शोभिताश्च मृदुरक्ताग्रिकाः स्त्रियः ॥८०॥
सुपर्वाढ्याः सुखस्पर्शा वीक्ष्य मुग्धास्तथा स्थिराः ।
हस्तयोः पञ्चजौ रम्यौ नीलबिन्द्वीसमन्वितौ ॥८१॥
वीक्ष्य नार्यो मुमुहुश्च स्थिरास्तत्र तदाऽभवन् ।
दक्षे हस्ततले वीक्ष्य मीनं ध्वजं त्रिशूलकम् ॥८२॥
धनुर्बाणं स्वस्तिकं च वज्रं दण्डं च चक्रकम् ।
गदां पद्मं शंखमसिं खड्गं सौवर्णशोभितम् ॥८३॥
मुमुहुर्वै स्त्रियः सर्वाः स्थिरास्तत्र तदाऽभवन् ।
खड्गाधानं भिन्नमणिनद्धं चर्म तथाविधम् ॥८४॥
वीक्ष्याऽपि मुमुहुः सर्वाः कण्ठे मंगलसूत्रकम् ।
भुजे मंगलतन्तुं च वीक्ष्य मुग्धाः सुरस्त्रियः ॥८५॥
जिह्वां रक्तां स्वादयोग्यां सर्वस्वादभृतां स्त्रियः ।
विशालां मोहकाग्रां च स्थलपद्मनिभाऽऽभिकाम् ॥८६॥
दन्तान् हास्ये कुन्ददलीसमान् दाडिमबीजभान ।
श्वेतकान्तियुतान् चञ्चत्प्रभान् वीक्ष्य च मोहिताः ॥८७॥
स्पृहां चक्रुर्हि लब्ध्यर्थं स्थिरास्तत्राऽभवँस्तथा ।
त्रिवल्या सहितं रम्यमुदरं प्रोज्ज्वलं शुभम् ॥८८॥
शीतलं निम्ननाभ्या च मध्यवल्ल्याढ्यया युतम् ।
वीक्ष्य तत्र च मुमुहुः स्थिरास्तत्राऽभवंस्तदा ॥८९॥
आर्धभेदेन च धृतं सौवर्णपटकं गले ।
स्कन्धे लम्बत्प्रान्तभागं वीक्ष्य मुग्धाः स्थिरास्तदा ॥९०॥
काश्चिद् ध्यात्वा तु जघनं गुप्तं चापि कटिद्वयम् ।
श्यामलं मुमुहुस्तत्र कट्यां बद्धे तथाऽम्बरे ॥९१॥
सौवर्णतारयुक्ते च बहुमूल्यकबुट्टके ।
सुरवाले राजयोग्ये कौशेयवरनिर्मिते ॥९२॥
कोटिरत्नाश्रिते स्वर्णबुट्टिमौक्तिकयोजिते ।
फुल्लफुम्मकिकायुक्तनाडिकाऽभिप्रवेशिते ॥९३॥
धृते चापादरम्ये च मुमुहुर्युवतीस्त्रियः ।
सर्वकामाश्रये काम्ये त्वन्तरंगेऽखिलाः स्त्रियः ॥९४॥
सर्वमोहाश्रये मुग्धा विविदुर्नेतरत् क्षणम् ।
कम्मानिकानिभे रम्ये पादप्रकोष्ठकाग्रतः ॥९५॥
पादयोः पञ्चजौ भागौ सूक्ष्मरोमविराजितौ ।
मृदुपानह्सुसंयुक्तौ स्वर्णशोभालिसंवृतौ ॥९६॥
रञ्जितौ संप्रवीक्ष्यैव मुग्धाः स्त्रियः स्थिरास्तथा ।
सक्थ्नोः सक्थिमूलमध्येऽनङ्गेऽतिमुमुहुः स्त्रियः ॥९७॥
अंगुलिकाः स्वर्णभूषोर्मिका वीक्ष्य तथा स्त्रियः ।
किंकिणिकायुतौ वीक्ष्य सौवर्णौ पादभूषणौ ।
कटकौ झंझरीनालौ त्रोटकौ मुमुहुः स्थिराः ॥९८॥
आजानुलम्बहस्तौ च जघने करिशुण्ढवत् ।
करभौ करगौ करिकरवद् वीक्ष्य योषितः ॥९९॥
मुमुहुस्तत्र च स्थिरा अभवन् वै समाधिगाः ।
गजविमानगे स्वर्णसिहासने मृदुस्थले ॥१००॥
आसीनं राजराजेशराजराजं वरं प्रभुम् ।
वीक्ष्य मुग्धाः स्त्रियः सर्वा आयान्तं गोपुरं प्रति ॥१०१॥
कुंकुमाऽक्षतबिन्द्वाढ्यं वीक्ष्य श्रीपरमेश्वरम् ।
चक्रुर्वै दर्शनं लोका जयशब्दान् जगुस्तथा ॥१०२॥
एवं वै राधिके प्राप्ता महान्तं गोपुरं प्रति ।
वाद्यनादेश्च लोकानां मनोज्ञा योगयात्रिका ॥१०३॥
भावज्ञो भगवाँस्तत्र यात्रायां स्वासने स्थितः ।
दर्शनं प्रददौ तत्र विभिन्नं शृणु राधिके ॥१०४॥
पुरुषोत्तमरूपेण मुक्तेभ्यो दर्शनं ददौ ।
गोपेभ्यः कृष्णरूपेण गोपीभ्यो दर्शनं ददौ ॥१०५॥
पार्षदेभ्यो दर्शनं नारायणात्मतया ददौ ।
ईश्वरेभ्यो वासुदेवरूपेण दर्शनं ददौ ॥१०६॥
सिद्धसाधुगणेभ्यश्च विष्णुरूपेण तद् ददौ ।
महर्षिभ्यस्तदा ब्रह्मात्मना स्वं दर्शनं ददौ ॥१०७॥
पितृभ्यश्चार्यमरूपात्मना स्वं दर्शनं ददौ ।
सुरेभ्यः क्षीरनाथात्मनाऽपि स्वं दर्शनं ददौ ॥१०८॥
मानवेभ्यो नरनारायणात्मना च तद् ददौ ।
पातालवासिलोकेभ्यः श्वेतप्रभ्वात्मना ददौ ॥१०९ ॥
नारीभ्यः कामदेवात्मरूपेण दर्शनं ददौ ।
कन्याभ्यः स्वामिरूपेण मालाध्रं दर्शनं ददौ ॥११०॥
पूज्याभ्यो बालरूपेण कौमारं दर्शनं ददौ ।
भक्तानां भगवद्रूपं मोक्षदं दर्शनं ददौ ॥१११॥
सर्वायुधं चतुर्हस्तं रमावृन्दनिषेवितम् ।
नरेभ्यो दर्शनं साक्षान्नारायणात्मना ददौ ॥११२॥
अन्तरात्मस्वरूपं चाऽऽवेदयद्धृदि देहिनाम् ।
इत्येवं राधिके! श्रीमद्बालकृप्णो हरिः प्रभुः ॥११३॥
विज्ञातो ह्यधिराजोऽसौ मण्डपाख्यपुरस्य ह ।
गोपुराग्रे चाययौ संलेभे स्थैर्यं क्षणं तदा ॥११४॥
वाहिन्यपि समग्रा च क्षणं तस्थौ प्रपूजिता ।
समीपे त्वागतैः श्रेष्ठैः कृष्णबृहस्पतिद्विजैः ॥११५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सुवेषिते श्रीबालकृष्णे प्रत्येकांगे नरनारीणां वृत्त्याकर्षणेन मुग्धता, दिव्यदर्शनं, गोपुरं प्रति प्रागमनं चेतिनिरूपण-
नामैकनवत्यधिकद्विशततमोऽध्यायः ॥२९१॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP