संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २७७

त्रेतायुगसन्तानः - अध्यायः २७७

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिकेऽमायां प्रातर्गोपालकन्यका ।
विप्रकन्या युवत्यश्च प्रजगुर्मंगलानि वै ॥१॥
सुवासिन्यस्तथा वृद्धा बालिका मंगलात्मकम् ।
योगपत्रागमं श्रुत्वा प्रजगुर्मंगलानि वै ॥२॥
कुंकुमवापिकाक्षेत्रे बृहस्पतेः शुभागमात् ॥
हरेर्मंगलमाश्रुत्य जगुर्गीतीर्गृहे गृहे ॥३॥
ब्रह्मप्रियाः समस्ताश्च तथैव सर्वकन्यकाः ।
कृष्णप्रिया जगुर्गीतीः कान्तस्य मंगलावहा ॥४॥
गोप्यः सर्वा मिलित्वा चाऽऽययुः श्रीकंभरागृहम् ।
साध्व्यश्च ब्रह्मचारिण्यो गायन्त्यो मंगलानि वै ॥५॥
क्षत्रपत्न्यो वैश्यनार्यः पाटलाश्चान्यसेविकाः ।
महोत्साहभरा गीतीर्गायन्त्यश्चाययुर्गृहम् ॥६॥
देव्यो नित्यनिवासिन्योऽक्षरक्षेत्रं समुत्सुकाः ।
श्रुत्वा हरेर्लग्नवार्तां गायन्त्यश्चाययुर्गृहम् ॥७॥
कामरूपधराः सख्यश्चतुःखनिसमुद्भवाः ।
कामवल्ल्यश्च गायन्त्यस्त्वाययुः कृष्णमन्दिरम् ॥८॥
अश्वपट्टसरस्तीर्थनिवासिन्यश्च मातृकाः ।
सुराण्यश्च गुरुं लग्नं श्रुत्वा ज्ञात्वा सुमंगलम् ॥९॥
गायन्त्यो दिव्यवेषांश्च कृष्णमन्दिरमाययुः ।
आर्ष्यः सर्वाः पूजनीया राजपत्न्यश्च कन्यकाः ॥१०॥
कुंकुमवापिकानार्यो गायन्त्यस्तत्र चाययुः ।
सर्ववर्णयुवत्यश्च सर्वा नार्यः समाययुः ।
सतीं श्रीं कंभरालक्ष्मीं कृतस्नानार्हणां च ताः ॥११॥
प्रणम्य कानके सौधे निषद्य मंगलानि वै ।
बालकृष्णस्य कृष्णस्य कीर्तिमयानि सञ्जगुः ॥१२॥
कृतस्नानार्हणं मात्रा कृतमंगलचन्द्रकम् ।
कुंकुमाऽक्षतयुग्भालं कृतशृंगारमच्युतम् ॥१३॥
भ्रातृपत्न्या कृतवेषं परमेशं प्रियं प्रभुम् ।
गायन्त्यो योषितः सर्वा वर्धयामासुरुत्सुकाः ॥१४॥
चक्रुस्ताश्चन्द्रकं भाले साऽक्षतं पुष्पवर्धनम् ।
प्रगीय गीतिकाश्चापि प्रदर्श्याऽऽनन्दमान्तरम् ॥१५॥
आशीर्दत्वा गुरुं बृहस्पतिं नत्वा कृताह्निकम् ।
पीत्वा मात्राऽर्पितं दुग्धं सशर्करं सकेसरम् ॥१६॥
गृहीत्वा ताम्बूलमिष्टं शुभमुक्त्वा ययुर्गृहम् ।
गृहे गृहेऽत्र सौराष्ट्रे कृष्णोत्सवस्य वार्तिका ॥१७॥
वृहस्पतेर्नारदस्याऽऽगमश्चाऽप्रसरद् द्रुतम् ।
सर्वाः प्रजास्तु तच्छ्रुत्वा प्रापुर्हर्षं महोत्सवम् ॥१८॥
आनन्दमग्ना अभवन् दर्शनार्थं समागमन् ।
मांगलिकानि तूर्याणि त्ववाद्यन्त च मन्दिरे ॥१९॥
सुरवाद्यानि सर्वाणि राजवाद्यानि यानि च ।
गृहवाद्यानि यावन्ति देशवाद्यानि यानि च ॥२०॥
करवाद्यानि च श्वासवाद्यानि पावनानि च ।
दण्डवाद्यानि सर्वाणि विद्युद्वाद्यानि यानि च ॥२१॥
अंगवाद्यानि च संगप्रवाद्यानि च यानि च-।
प्रभिन्नदेशवाद्यानि त्ववाद्यन्त समन्ततः ॥२२॥
मिष्टा वै शंखिकानादा जलयन्त्रस्वनास्तथा ।
तारस्वना अजायन्त वंशीस्वना गृहे गृहे ॥२३॥
गायकाश्चापि गायन्ति नृत्यन्ति चाप्सरःसमाः ।
नार्यस्तदा बालकृष्णोत्सवं श्रुत्वाऽतिहर्षिताः ॥२४॥
संनृत्यन्ति मयूराश्च कूजन्ति कोकिलास्तथा ।
शकुनानि प्रगायन्ति शुका मेनाश्च सारसाः ॥२५॥
पद्योतन्ते ग्रहाश्चापि तेजस्विनश्च वह्नयः ।
साधवः स्नेहतेजोभिर्व्याप्तास्तत्कीर्तनं जगुः ॥२६॥
भट्टभूसुरविद्याध्रा विद्वांसो वेदवेदिनः ॥
सामगीतीस्तदाऽगायन् चारणाः कवितां जगुः ॥२७॥
अन्ये जय जय त्वं श्रीकृष्णेत्यूचुः प्रभुं प्रति ।
एवं वै राधिके हर्षवाचोऽभवन् जने जने ॥२८॥
श्रुत्वाऽन्ये बालकृष्णस्योत्सवपत्रं समागतम् ।
गुरुं च नारदं श्रुत्वा दर्शनार्थमुपाययुः ॥२९॥
आशीर्वादान् वदन्तश्च चिरजीवेतिवादिनः ।
अपि भेका भेकसमा गालयन्त्रमनादयन् ॥३०॥
ओष्ठयन्त्रं तम्मरिकासमाश्चाऽऽवादयँस्तदा ।
करतालं वादयन्तो जयवादान् व्यधुश्च ते ॥३१॥
किं बहुना राधिकेऽत्र कथितेन तवाऽग्रतः ।
धर्मसंस्थापनार्थाय गृहधर्मं ग्रहीष्यति ॥३२॥
विशिष्टं यत्परं तत्त्वं विशिष्टं सर्वदाऽस्ति तत् ।
आवेदयितुं लोकेभ्यो गृहधर्मं चरिष्यति ॥३३॥
इत्येवं संविचिन्त्यैव लग्नपत्रकृतोत्सवम् ।
प्रकाशं कर्तुमिच्छन्तो मुदा रासोत्सवं व्यधुः ॥३४॥
नरो नारी नरो नारी नरो नारी भ्रमात्मकाः ।
भ्रमन्तोऽपि च गायन्तो बालकृष्णगुणान् जगुः ॥३५॥
दृष्ट्वा कुंकुमवाप्यां तद् दिव्यदृष्ट्या पुरादिषु ।
सौराष्ट्रे सार्वभौमे च गुरुर्विस्मयमावहत् ॥३६॥
अहो भागवती भक्तिर्भूरिस्नेहमयी भुवि ।
महःपत्रप्रसंगेन मया दृष्टा जनेष्विह ॥३७॥
ईदृशा भक्तिमन्तोऽत्र लोके मुक्ता न संशयः ।
येषां हृत्सु हरेर्भावो दिव्यातिदिव्यकोऽस्ति यत् ॥३८॥
अहो नारायणी धन्या लक्ष्मीः सा शिवकन्यका ।
या वै प्राप्स्यति धामेशं ख्यातं कान्तं हि शाश्वतम् ॥३९॥
राधातोऽपि परं चास्याः सोपानं ज्ञायते मया ।
यस्याः पतिः परश्चास्ते सोर्ध्वसोपानगा यतः ॥४०॥
कन्याऽपि कृष्णपत्नी चेज् जगन्माता प्रगद्यते।
वृद्धापि कुब्जिका लोके कृष्णयोगा प्रशस्यते ॥४१॥
वृन्दा तुलसी दैत्यस्य जलंधरस्य वै तथा ।
शंखचूडस्य पत्न्यौ ते विष्णुयोगे रमानिभे ॥४२॥
पूजनीये जगद्वन्द्ये मोक्षदेऽभवतां सदा ।
अहो कृष्णस्य माहात्म्यं ब्रह्मप्रिया असंख्यकाः ॥४३॥
वर्तन्तेऽस्यास्तु वै लक्ष्म्या गौरवं नैव यान्ति ताः ।
लक्ष्म्यर्थं लिख्यते लग्नपत्रं यन्नाऽन्यसदृशम् ॥४४॥
लक्ष्म्यर्थं गम्यते येन नान्यसमो बृहस्पतिः ।
लक्ष्म्यर्थं गीयते त्वद्य यशोऽपि नान्यसदृशम् ॥४५॥
लक्ष्म्यर्थं हर्षजननं नान्यतुल्यमिदं पुरा ।
लक्ष्म्यर्थं बालकृष्णस्य हृदयं नान्यसदृशम् ॥४६॥
लक्ष्म्यर्थं लौकिकी वाणी दिव्या चाद्य विभाव्यते ।
लक्ष्म्यर्थं लोकचाञ्चल्यं कल्याणकृद् विलोक्यते ॥४७॥
अहो लोकस्य लोकत्वं लक्ष्मीकृष्णावलोकनात् ।
याथार्थ्यं भजते त्वद्य दिव्यालोकात्मकं हि यत् ॥४८॥
अहो मे भाग्यमूर्ध्वं वै तत्स्थानं सार्थकं मम ।
गुरुश्चोर्ध्वः सदा जातो लक्ष्मीपत्रप्रप्रेषणात् ॥४९॥
इत्याश्चर्यमयो विप्रो देवानां स बृहस्पतिः ।
राधिके वीक्ष्य सर्वं तद् बालकृष्णाश्रितोऽधिकः ॥५०॥
महाभागवतो भक्तश्चात्मनिवेदितां ययौ ।
स्वरूपं हरये समार्पयत् सर्वस्वदानतः ॥५१॥
अथ गन्तुमना बृहस्पतिर्गोपालकृष्णकम् ।
प्राहाऽद्य काशिकां यातुं समिच्छामि निवेदय ॥५२॥
अमायां तत्र शिवराट् मत्प्रतीक्षां करोति हि ।
तथास्त्विति च गोपालः प्राह चान्यद् बृहस्पतिम् ॥५३॥
याहि शीघ्रं गुरो! काशीं शिवेश्वरं निवेदय ।
भवद्वाञ्च्छा प्रपूर्णाऽस्तु पालयामि वचस्तव ॥५४॥
लग्नपत्रं प्रपूज्य स्वीकृतवानस्मि भावतः ।
भवद्विधानां देवानां निश्चितं तत्सुखावहम् ॥५५॥
विपरीतं वैपरीत्ये परिणमेत कष्टदम् ।
कन्या योग्या कुमारोऽपि योग्योऽस्तीति तथास्त्विति ।
मौखिकीं स्वीकृतिं प्रोक्त्वा प्रतिपत्रं ददौ तदा ॥५६॥
श्रीराधिकोवाच-
कीदृशं योगपत्रं तत् कीदृशं प्रतिपत्रकम् ।
तदहं श्रोतुमिच्छामि चावेदनं तदुत्तरम् ॥५७॥
श्रीकृष्ण उवाच--
शृणु राधे कथयामि तूभये पत्रिके शुभे ।
यथार्थे लिखिते गांभीर्यादिसद्गुणमण्डिते ॥५८॥
स्वस्तिश्रीश्वरपूजनीयरजसि ब्रह्माऽक्षरक्षेत्रके।
श्रीमत्कुंकुमवापिकाऽभिधवरे यो राजते श्रीपतिः ।
यद्गेहे परमेश्वरो विलसति श्रीबालकृष्णो हरिः।
कोट्यब्जेश्वरवन्दितो विजयते गोपालकृष्णः प्रभुः ॥५९॥
यो वैराजपिता भवन्ननु महाविष्णुः स्वयं राजते।
यः सृष्टौ प्रथमॆ मनुष्यचरितश्चास्ते हरेराज्ञया ।
सृष्टित्र्यर्थितयद्यशाः शुभगुणाऽऽवासस्त्विह ख्यायते।
तस्मै वै भवते नमामि सततं श्रीकंभरास्वामिने ॥६०॥
येषां पुण्यसुपुञ्जशेवधिरिह प्राकट्यमापद्यते।
येषां साधुजनाशिषोऽतिबहुलाः काले फलन्त्यायतौ ।
येषां यज्ञतपःफलं ह्युदयते वृद्धोपसेवाफलं,
तेषां त्वादृशविष्णुना सह भवेत्। सम्बन्धिता दुर्लभा ॥६१॥
यत्पुत्रस्य पदेऽर्पयन्ति कृतिनः पुण्यानि शंदान्यपि,
धामेशाश्च समर्पयन्ति मुकुटान् मूर्धस्थितान् पूजने ।
ईशा दिव्यसमृद्धिमुत्तममणीन् रत्नादिकं देवता,
भूपा राज्यमनुत्तमं क्षितिधराः स्वर्णादिकं श्रेष्ठिनः ॥६२॥
तस्मै चाक्षरवासिने भगवते सर्वेश्वरेशाय वै,
योग्यायाऽतिगुणालयाय हरये श्रीबालकृष्णाय ह ।
काशीस्थस्तु शिवेश्वरो हि सुरराट् कैलासवासीश्वरः,
कन्यां मे प्रददामि दानमनघां श्रीपार्वतीशो न्वहम् ॥६३॥
या लक्ष्मीर्हरिधामतस्त्विह पुरा नारायणेच्छावशा,
तद्भक्तस्य हरस्य मे शुभगृहे प्राकट्यमासादिता ।
सेयं साम्प्रतमस्ति योग्यवरणा दानप्रदानोचिता,
तस्या दानविधिश्चतुर्थदिवसे मार्गस्य शुक्ले दले ॥६४॥
पुण्यात्पुण्यतमे मुहूर्तकवरे तद्दानकार्योत्सवे,
यावच्छ्रैष्ठ्यविशेषित शुभतमे चाऽस्माभिरानिश्चिते ।
सत्सम्बन्धिसुहृत्प्रसन्नहृदयैरागत्य मन्मन्दिरं
श्रीमद्भिः स्वसुतेन हस्तधरणाद्यात्मा विनिर्वर्त्यताम् ॥६५॥
भक्तोऽहं भुवि सात्त्वतोऽत्र च हरः श्रीबालकृष्णस्य वै,
यावच्छक्ति सुसेवनं विधियुतं वः संविधास्येऽन्वहम् ।
निर्विघ्नं गणनायकस्य कृपया सम्पारमाप्त मखं,
दृष्ट्वेष्यामि सुतोषणं तत इमा गृह्णन्तु मत्प्रार्थनाम् ॥६५॥
या वै मे मतबोधिका हि लिखिता पत्री मया शोभना,
श्रीमत्कुंकुमबिन्दुमंगलपदाऽऽसिक्ता प्रदानार्थिका ।
द्व्यर्षेः साक्षियुता बृहस्पतिकरे दत्वा मया प्रेषिता,
सा वो हस्तगता करोतु च सुते वो मत्सुता मंगलम् ॥६७॥
शीघ्रं देवगुरुं कृतादरममुं सम्प्रेषयित्वा च माम्,
आश्वासे हि समर्प्य चोर्ध्वकरणे निबन्धनं सोत्सवम् ।
कर्तुं योग्यतमान् हि नो विदधतु श्रीकाशिकावासिनो,
भक्तान्ब्रह्मपरान्हरिश्रुतधरान् नः सात्त्वतान् सेवकान् ॥६८॥
यद्वाऽन्यत् कुशलादिशोभि च दिनं यच्छ्रीमतां शोभनं,
तद्वा सद्गुरुणा समं द्रुततरं दानार्हमावेद्यताम् ।
अन्यच्चापि यथाकुल स्वसरणिप्राप्तं मदर्हं च यत्,
तत्सर्वं विनिवेद्यतामिति वदन् शंभुः शमं यामि ओम् ॥६९॥
इत्येवं राधिके दानपत्री शंकरप्रेषिता ।
मयोक्ता तेऽनुरोधाद्वै श्?णूत्तरप्रपत्रिकाम् ॥७०॥
श्रीमद्गोपालकृष्णो यां लिलेख प्रति शंकरम् ।
सर्वमंगलमांगल्यां बह्वर्थसंभृतां शृणु ॥७१॥
ओं श्रीकृष्णनिवासभूतसुभगागोलोकभूमौ पुरा,
श्रीकृष्णात् प्रकटीभवन् स्ववनिताऽर्धांगश्च कैलासके ।
स्वीये धाम्नि शिवः सदाशिवभिधः संराजते वैष्णवो,
वैकुण्ठे हरिसन्निधौ सवनितो नृत्यं चकारोत्तमम् ॥७२॥
श्रीलक्ष्म्या विदितो ह्यकालगमनो विघ्नो विलासे हरेः,
शप्तश्चापि मनुष्यभावनियतः पत्न्या युतः संभव ।
श्रुत्वा श्रीहरिरेव भक्तमनुगोऽभूच्छ्रीं विहायाऽपि वै,
सा लक्ष्मीर्हरिलब्धिलोभमनुगा चास्ते भवत्पुत्रिका ॥७३॥
एवं वै शिवरूपरूपिण इह श्रीपार्वतीसत्पते-
र्लक्ष्म्याश्चापि करोतु कृष्णभगवान् सन्मगलं सर्वदा ।
त्वत्पुत्रश्च गणाधिपः सवनितो भद्रं क्रियान्मंगलं,
श्रीमत्कुंकुमवापिकानिवसतिर्गोपालकृष्णोऽर्थये ॥७४॥
मद्भाग्यं बहुलीकृतं हि भवता दत्वा सुतां शार्ङ्गिणे,
मत्पुत्राय नरायणाय हरिणे श्रीबालकृष्णाय ह ।
सम्पृक्त्वाऽपि बृहस्पतिं सुरगुरुं सम्पावितं मद्गृहं,
तेनाऽप्यर्पितदानपत्रमिह वै प्रेम्णा मयाऽङ्गीकृतम् ॥७५॥
तत्राऽऽदिष्टशुभोत्तमाऽवसरके सम्प्राप्य काशीं पुरीं,
शंभो! दर्शनमुत्तमं हि भवतः प्राप्त्येऽद्य शं शान्तिदम् ।
एवं सर्वविधानवैधमपि सन्निर्वर्त्य तीर्थस्थले ।
दम्पत्योः खलु शाश्वतं विधिकृतं संलोकयिष्ये सुखम् ॥७६॥
यत्तत्राऽहमुमापतेऽम्बरविमानैरागमिष्ये द्रुतम्,
मध्याह्नोत्तरमेव शुक्लगतृतीयायां कुटुम्बाऽब्जयुक् ।
अन्ये ये च नृपाः क्षितौ कृतमखाः श्रीबालकृष्णे रता-
स्तत्साहस्रमपीह वाहिमनुजैः कोट्यर्बुदैः संगतम् ॥७७॥
मुक्ता धामनिवासिनोऽप्यगणिता नारायणा ईश्वराः,
सिद्धा आर्षगणास्तथा च पितरो देवास्तथा मानवाः ।
दिव्या देहयुजोऽपि चेतनगणा भूतानि तीर्थानि वै,
देव्यः सृष्टिपरस्थिता अपि परार्धोर्ध्वाः प्रयास्यन्त्यपि ॥७८॥
कन्याः कोट्य इह स्थिता अपि तथा ब्रह्मप्रिया योषित-
श्चाऽऽयास्यन्ति भवत्सुमन्दिरमनादिब्रह्मयोगोत्सुकाः ।
सर्वज्ञे शिवरूपिणि त्वयि मया किं चान्तरं गूढवद्,
वक्तव्यं कुशले सुयोगिनि हरे वैशालभूमिस्थिते ॥७९॥
इत्येवं समभिप्रणम्य च तथा सम्प्रार्थ्य काशीपतिम्,
पत्रं चेदमथाऽर्पयामि गुरवे सत्कृत्य रत्नाऽयुतैः ।
न्यूनाऽऽधिक्यमथोत्तरं ह्यरुचिरं मिष्टं गरिष्टं कटु,
क्षन्तव्यं मम सर्वथा विलसितं युक्तात्मना शंभुना ॥८०॥
इत्येवं राधिके पत्रोत्तरं ददौ हराय च ।
श्रीमद्गोपालकृष्णो वै नारदेनाऽनुमोदितः ॥८१॥
ब्रहस्पतेर्महापूजां चकार रत्नकोटिभिः ।
सद्वस्त्रैश्चन्दनैश्चापि मौक्तिकैर्हारतर्पणैः ॥८२॥
भोजनैः पानसत्कारै रञ्जयामास सद्गुरुम् ।
विमानं प्रददौ रम्यं संभृतं रत्नभूषणैः ॥८३॥
कल्पलतान्वितं रम्यं समारुरोह सद्गुरुः ।
प्रतिपद्दिवसे प्रातर्ययौ काशीं विहायसा ॥८४॥
ददौ पत्रोत्तरं पत्रं शंभवे मुमुदे हरः ।
वाचयामास मांगल्यपत्रं च मुमुदे पुनः ॥८५॥
नमस्कारादिकं चापि विनयं स्नेहमात्मनि ।
श्रीमद्गोपालकृष्णस्य बालकृष्णस्य वै तथा ॥८६॥
लोमशस्य तथाऽन्येषां कथयामास सद्गुरुः ।
आगमोऽत्र महान् भावी वाहिन्याः सार्वलौकिकः ॥८७॥
उभयोः ख्यातयोः सतोः प्राधान्येन जगत्त्रयम् ।
आगमिष्यति वै दाने समये गुरुरब्रवीत्। ॥८८॥
शंभुः प्रसन्नहृदयः प्राहू गुरुं यथाबलम् ।
पुण्यपात्रस्यांऽगणे वै भवेत् त्रैलोक्यमागतम् ॥८९॥
यथायोग्यं करिष्यामः सेवां लोकोत्तरां शुभाम् ।
कोटिकोट्यर्बुदाब्जा मे गणा लोके वसन्ति च ॥९०॥
कोटिकोट्यर्बुदा देव्यः सतीरूपा भवन्ति मे ।
संकर्षणो महाकालो महारुद्रोऽपि रुद्रकः ॥९१॥
हरोऽहं मम रूपाणि भवन्ति कोटिशोऽपि च ।
मम साक्षात् पिता कृष्णो गोलोको मम सर्वथा ॥९२॥
महामाया मम सृष्टिर्हनूमान् मम वै सुतः ।
गणेशश्चेति कोट्यब्जार्बुदाब्जाः पार्षदा मम ॥९३॥
सर्वं मे शुभकृच्चास्ते भवान् देवगुरुस्तथा ।
किं न्यूनं मे वर्ततेऽद्य सर्वं सम्पन्नमस्ति मे ॥९४॥
इत्युक्त्वा त्वासनस्थं तं बृहस्पतिं प्रपूज्य च ।
शंकरो भोजयामास कारयामास मण्डपम् ॥९५॥
वादित्राणां निनादाँश्च कारयामास दिग्गतान् ।
दूतान् सम्प्रेषयामासाऽऽमन्त्रणार्थं जगत्त्रये ॥९६॥
कुंकुमपत्रिकायुक्तान् शंकरो लोकशंकरः ।
राधिके त्वभवन् सर्वमंगलानि हरालये ॥९७॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽमावास्यायां गोपालकृष्णालये त्रैलोक्ययोषितां मंगलगीतयो गृहे गृहे महोत्सवाः, बृहस्पतेः सम्मानं दानपत्रिकावर्णनं तदुत्तरं प्रगृह्य प्रपूजितबृहस्पतेः काशीं प्रत्यागमनं, त्रैलोक्ये शंभुकृताऽऽमन्त्रणं चेत्यादिनिरूपणनामा सप्तसप्तत्यधिकद्विशततमोऽध्यायः ॥२७७॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP