त्रेतायुगसन्तानः - अध्यायः २७१
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु त्वं राधिके पश्चात् नृपोऽश्वपाटलस्ततः ।
तीर्थं प्रययौ कुंकुमेश्वरं सदाशिवाश्रयम् ॥१॥
अश्वपाटल उवाच-
गुरो तीर्थमिदं कस्मात् कथं जातं वदस्व मे ।
यथाविधि फलं तस्य नियमादि च सर्वंथा ॥२॥
श्रीलोमश उवाच-
शृणु राजन्दूरदेशात् पुरा कश्चन घातकः ।
स्वज्ञातिक्लेशदुःखश्च सौराष्ट्रे प्रसमाययौ ॥३॥
ज्ञात्वा तीर्थं त्वश्वपट्टसरस्तत्र न्युवास ह ।
हिंसाकर्म परित्यज्य भिक्षाऽदनोऽभवत्ततः ॥४॥
साधूनां योगतो नाम हरेकृष्णनरायण ।
बालकृष्ण परब्रह्म श्रीपते परमेश्वर ॥५॥
जजाप भजनं चक्रे तीर्थस्नानादिकं तथा ।
एवं पुण्यं कृतवौंश्च सेवां सतामहर्निशम् ॥६॥
प्रारब्धान्ते मृतस्तत्र क्षेत्रे चाऽक्षरसंज्ञके ।
तीर्थयोगेन वै स्वर्गं ययौ देवत्वमाप ह ॥७॥
ततः पुनश्च मानुष्ये कुंकुमो ब्राह्मणोऽभवत् ।
धर्मकर्मरतो दैवकार्ये च सावधानकः ॥८॥
जातिस्मरोऽभवच्चापि पुपूज शंकरं तथा ।
पार्थिवं शंकरं कृत्वाऽतिष्ठिपच्चाऽत्र भूसुरः ॥९॥
वर्षान्ते पञ्चवर्षान्ते दशवर्षान्तके तथा ।
महोत्सवं करोत्येव विप्राणां भोजनादिकम् ॥१०॥
शिवरात्र्यां शंकरस्योत्सवं करोति वार्षिकम् ।
एवं विंशतिवर्षान्ते साक्षाद् बभूव शंकरः ॥११॥
प्रसन्नोऽस्मि च ते भक्त्या विप्र वृणु यथेप्सितम् ।
विप्रः प्राह महामोक्षं देहि मे पार्वतीपते ॥१२॥
शंभुः प्राह शृणु भक्त देवोऽहं पारमेश्वरः ।
कैलासो मम धामाऽस्ति ततः परं गवायनम् ॥१३॥
गोलोकः श्रीकृष्णधाम तस्मात् परं तथाक्षरम् ।
गोलोके यदि गन्तुं त्वं प्रेच्छसि भज गोपतिम् ॥१४॥
गोपालं श्रीराधिकेशं मुरलीहस्तकं प्रभुम् ।
अक्षरे चेत् प्रगन्तुं त्वं समिच्छसि हरिं भज ॥१५॥
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।
कैलासं मम धामाऽस्ति सदाशिवनिवासनम् ॥१६॥
वैकुण्ठतुल्यं यश्चास्ते तत्र चेद् गन्तुमिच्छसि ।
नयामि गणमध्ये त्वां स्थापये वद चेप्सितम् ॥१७॥
कुंकुम उवाच-
धामाऽक्षरं प्रयास्यामि मोक्षात्मकं परात्परम् ।
नान्यधाम्नि तु मे वाञ्च्छा तत्साधनं वदाऽत्र मे ॥१८॥
शंभुरुवाच-
गृहाण मन्त्रं दिव्यं श्रीबालकृष्णस्य चाऽनघ ।
भज तं श्रीकृष्णनारायणं यास्यसि चाऽक्षरम् ॥१९॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
भजैनं च जपैनं च स्मरैनं च परेश्वरम् ॥२०॥
इत्युक्त्वा शंकरस्तूर्णं तिरोऽभवच्च भूसुरः ।
कुंकुमेश्वरनामानं महादेवं शिलामयम् ॥२१॥
स्थापयित्वा मन्दिरे चाऽभजत् कृष्णनरायणम् ।
तदिदं पावनं तीर्थं सदाशिवनिवासनम् ॥२२॥
कुंकुमेश्वरतीर्थं च कृत्वा वै कुंकुमो द्विजः ।
भजित्वा श्रीकृष्णनारायणं धामाऽक्षरं ययौ ॥२३॥
अत्र स्नानात्तथा दानान्महादेवः प्रसीदति ।
वैष्णवं च मनुं दत्वा प्रापयत्यक्षरं पदम् ॥२४॥
तस्माद् राजन् स्नाहि शीघ्रं दानं देहि च कानकम् ।
इत्युक्तश्चाश्वपटलो राधिके लोमशेन ह ॥२५॥
स्नानं दानं पूजनं च चक्रेऽग्रतीर्थकं ययौ ।
सतीशातीर्थनाम्ना वै प्रसिद्धं पावनं परम् ॥२६॥
अश्वपाटल उवाच-
गुरो कथं सतीशाख्यं तीर्थं जातं शुभं त्विदम् ।
संक्षेपाद् वद मे चाऽस्य विधिं च फलमित्यपि ॥२७॥
श्रीलोमश उवाच-
शृणु राजन् वदाम्येतत् सतीशातीर्थसंभवम् ।
चारणानां कुलान्यत्र गोपालानां कुलान्यपि ॥२८॥
वसन्ति सन्निधौ राजन् देरिकाखेटसीम्न्यपि ।
पालयन्ति शतशो गाः अजाः सहस्रशस्तथा ॥२९॥
वृषभान् वत्सतराँश्च पालयन्ति धनं यथा ।
चारयन्ति सीमभागे पाययन्तीह वार्यपि ॥३०॥
अश्वपट्टसरस्तीरे रात्रौ विश्रामयन्ति च ।
प्रातः पुनः प्रयान्त्येव पशुचारमरण्यकम् ॥३१॥
इत्येवं पशुपालास्ते चारणाः कुंकुमेश्वरम् ।
परितः सरसः सेतौ वृक्षाऽधो निवसन्ति वै ॥३२॥
पर्णपल्ल्यां त्वेकदा वै सुप्ताऽऽसीच्चारणी सती ।
श्रीमहादेवभक्ता सा सतीशाख्या पतिव्रता ॥३३॥
महादेवस्य दुग्धेन प्रातःस्नानाऽभिषेचनम् ।
कारयत्येव भावेन हार्देन पार्वतीपतेः ॥३४॥
तादृशीं भक्तियुक्तां तां चौराः प्रविश्य तद्गृहे ।
पतिशून्ये प्रधर्षितवन्तस्त्वेकाकिनीं सतीम् ॥३५॥
पतिर्गतोऽभवद्ग्रामान्तरं सम्बन्धिनो गृहे ।
एवं छिद्रं प्रलब्ध्वैव चौराः प्राधर्षयन् सतीम् ॥३६॥
सतीशा सा धर्मवती सस्मार पार्वतीं सतीम् ।
दुष्टसंहारकर्त्रीं च चण्डीं शंकरयोगिनीम् ॥३७॥
मातः शीघ्रं मम रक्षां कुरु चौरेभ्य एव ह ।
प्रातः क्षीरं प्रपाच्यैव करिष्ये ते निवेदनम् ॥३८॥
एवं स्मृता सती दुर्गा तूर्णं खङ्गकरा तदा ।
कुंकुमेश्वरपार्श्वाद् वै सतीशाऽङ्गनमाययौ ॥३९॥
सखड्गा सकृपाणा च मुशलाढ्या ससिंहिका ।
अष्टहस्ता गर्जनां च कृत्वा जग्राह चौरकान् ॥४०॥
जघान चौरान् सहसा सतीशां सा ररक्ष ह ।
चौरा हतास्तु खड्गेन मृताः पञ्च नरास्तदा ॥४१॥
सतीशा दुर्गया साकं सरोवारि समाययौ ।
उभे पानीयकं पीत्वा ययतुः कुंकुमेश्वरम् ॥४२॥
तत्र लीनाऽभवद दुर्गा सतीशा मन्दिरेऽवसत् ।
प्रातर्गता गृहं नैजं गणा निन्युर्हताञ्जनान् ॥४३॥
सतीशा सा सती यत्र दुर्गया सहिता पपौ ।
जलं तत्र तटे देवीं दुर्गामस्थापयत् सतीम् ॥४४॥
दुर्गातीर्थं सतीतीर्थं सतीशातीर्थमित्यपि ।
पार्वतीतीर्थमेवापि धर्मरक्षाकरं ह्यभूत् ॥४५॥
अत्र स्नानेन दानेन सतीशादर्शनेन च ।
चौरादीनां भयनाशो धर्मरक्षा भवेद् ध्रुवम् ॥४६॥
राजन् स्नानं तथा दानं सतीशादर्शनं कुरु ।
दुर्गापूजनमेवापि दुर्गातीर्थे समाचर ॥४७॥
इत्युक्तो राधिके राजा सस्नौ ददौ पुपूज च ।
ततो ययावग्रभूमौ सेतौ तीर्थान्तरं नृपः ॥४८॥
अश्वपाटल उवाच-
किमिदं तीर्थवर्यं मे समादिश गुरो प्रभो ।
कथं कस्मात् कदा जातं किंफलं पावनेऽत्र वै ॥४९॥
श्रीलोमश उवाच-
धन्येश्वरी वणिक्पत्नी सेवाभक्तिपरायणा ।
आसीत् कुंकुमवाप्यां स सुभक्ता वैष्णवी ह्यपि ॥५०॥
लोभवशा क्वचित् क्वापि परस्वं त्वाददात्यपि ।
एकदा सा कम्भराया महालक्ष्म्या गृहं ययौ ॥५१॥
बालकृष्णं रामयित्वा नत्वा श्रीकंभरां सतीम् ।
रत्नानां दशकं नीत्वा चौर्येण स्वगृहं गता ॥५२॥
गृहस्थे च घटे यत्र रत्नानि च धनानि च ।
रक्षत्येव घटे तत्र न्यधाच्चौर्याऽऽहृतान्यपि ॥५३॥
ततः काले गते स्वल्पे संक्रान्तौ शुभपर्वणि ।
स्नातुं दानं प्रकर्तुं च घटमादाय वै तटे ॥५४॥
अएश्वपट्टसरसोऽत्र समायाता कुटुम्बिनी ।
स्नात्वा दानानि दातुं च यावद्धटे करं निजम् ॥५५॥
प्रावेशयित्वा रत्नानि गृह्णाति तावदेव तु ।
हस्तौ रत्नानि सर्वाणि घटे लग्नानि चाऽभवन् ॥५६॥
पिण्डवद् घटमध्ये तत्सर्वं तदा व्यजायत ।
हस्तो लग्नः पिण्डमध्ये पिण्डश्च घटमध्यगः ॥५७॥
घटो लग्नः पृथिव्यां च सर्वं त्वेकीमयं ह्यभूत्॥
धन्येश्वरी भयं प्राप्ता किमिदं मे करेऽभवत् ॥५८॥
हस्तं वियोजयितुं सा यत्नं चकार सुन्दरी ।
खिन्ना श्रमयुता जाता बहुलोकैर्विलोकिता ॥५९॥
तदा घटस्य गर्भाद्वै शब्दः समभवच्छुभः ।
त्वया चौर्येण रत्नानि घटेऽत्र निहितानि वै ॥६०॥
तत्फलं ते समुत्पन्नं पिण्डभावो न नश्यति ।
यदि वियोजयितुं ते वाञ्च्छा चेद्वर्तते सखि ॥६१॥
अहं लक्ष्मीः स्वयं चाऽस्मि मन्मन्दिरं प्रकारय ।
लोमशाय धनं सर्वं समाहूय प्रदेहि च ॥६२॥
तदा हस्तो मोक्ष्यते ते नान्यथा तु कदाचन ।
इत्युक्ता सा लोमशं मामत्राऽऽहूतवती ततः ॥६३॥
चक्रे घटप्रदानस्य संकल्पं मन्दिरार्थकम् ।
एतत्स्थले ततस्तस्य हस्तोऽभवत् पृथग्घटात् ॥६४॥
तदा लक्ष्मीः स्वयं चतुर्भुजा घटात् प्रकाशिता ।
क्षणं रूपं प्रदर्श्यैव स्थलेऽत्रैव तिरोगता ॥६५॥
मन्दिरं तु ततो लक्ष्म्या मया चाऽत्र प्रकारितम् ।
लक्ष्मीश्चात्र वसत्येव धन्येश्वरी प्रपूजिता ॥६६॥
लक्ष्मीतीर्थं तथा धन्येश्वरीतीर्थं घटस्थली ।
प्रसिद्धं समभूत्त्वेतच्चौर्यदोषनिवारकम् ॥६७॥
पापपिण्डादिहारं च भुक्तिमुक्तिप्रदं तथा ।
स्नानदानादितश्चात्र कल्मषाणां विनाशनम् ॥६८॥
लक्ष्मीपूजनतश्चात्र लक्ष्मीवान् धनवान् भवेत् ।
लक्ष्मीलोकं प्राप्नुयाच्च लक्ष्मीसेवापरो भवेत् ॥६९॥
स्नाहि देहि समर्हां च प्रकारय श्रिया नृप ।
इत्युक्तस्त्वश्वपटलः सस्नौ ददौ पुपूज ताम् ॥७०॥
राधिके स ततो यातो लोमशेन समं पुरः ।
शालग्राममहातीर्थं मन्दिरेण विराजितम् ॥७१॥
अश्वपाटल उवाच-
गुरो तीर्थमिदं श्रेष्ठं शालग्रामकृतस्थितिम् ।
कदा कथं प्रजातं तद्विधिं फलं च शाधि मे ॥७२॥
श्रीलोमश उवाच-
चैत्यब्रह्माऽभवन्नाम्ना द्विजो निकृष्टवर्तनः ।
निकृष्टेषु कृतावासो निकृष्टभोजनोऽभवत् ॥७३॥
पापिना संगमासाद्य सदा पापपरोऽभवत् ।
मदिरां स पपौ चौर्यं चक्रे प्रसंगतश्च सः ॥७४॥
पारदार्यं तथा चक्रे ह्येवं चाण्डालवर्तनः ।
समजायत विप्रोऽपि भ्रष्टो जातिकुलादितः ॥७५॥
अथैकदा निशायां तद्गृहे साधुः समाययौ ।
तं तिरस्कृतवान् विप्रोऽतिथिं क्षुद्रं जनं यथा ॥७६॥
साधुर्ज्ञात्वा दुराचारं सस्मार यमदूतकम् ।
यमदूतस्तदा शीघ्रं चाययौ नृप तद्गृहे ॥७७॥
मारयामास बहुधा पशुमारं ततश्च सः ।
क्षमामयाचत यदा तदा साधुर्दयापरः ॥७८॥
मोचयामास दुष्टं तं यमदूतभयात्ततः ।
साधुर्ययौ यथामार्गं दुष्टविप्रस्तु लोमशम् ॥७९॥
उद्धारवाञ्च्छया तदाश्रमं ययौ गुरुं हि माम् ।
प्रार्थयामास बहुधा स्वोद्धारं प्रतिमां तदा ॥८०॥
लोमशोऽहं दत्तवाँश्च प्रायश्चित्तं हि वत्सरम् ।
चान्द्रायणद्वादशकव्रतं सोऽपि तथाऽकरोत् ॥८१॥
शुद्धाय तस्मै विप्राय शालग्रामं प्रदत्तवान् ।
पूजनार्थं स च विप्रोऽपूजयत्तं यथोचितम् ॥८२॥
ततो मन्त्रो मया तस्मै दत्तो वैष्णवभावतः ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥८३॥
करोति मन्त्रजापं स शालग्रामप्रपूजनम् ।
करोत्यपि दिवारात्रौ ध्यानं च भजनं हरेः ॥८४॥
प्रातर्ब्राह्ममुहूर्ते स शालग्रामयुतोऽत्र वै ।
तटे त्वागत्य च पूजामासूर्योदयमेव ह ॥८५॥
करोति स सदा सेतौ तुलसीद्रुमसन्निधौ ।
एवं बहुतिथे काले याते भक्तिं विलोक्य च ॥८६॥
शालग्रामः प्रसन्नोऽभूद् दिव्यविष्णुर्बभूव ह ।
शालग्रामशिला तत्र लयं प्राप्ता तदा द्विजः ॥८७॥
रक्ष रक्ष कृपासिन्धो समुद्धारं कुरु प्रभो ।
इत्युक्त्वा पतितस्तस्य विष्णोश्चरणयोस्तदा॥८८॥
तावद्वै तुलसीवृक्षाल्लक्ष्मीर्देवी व्यजायत ।
उवाच श्रीर्ब्राह्मणं वै तुलसीमन्दिरं त्विह ॥८९॥
शालग्रामालयं चापि प्रकारय सरस्तटे ।
तेन भुक्तिं तथा मुक्तिं प्रयास्यसि न संशयः ॥९०॥
इत्युक्त्वा सा तिरोभूता वृक्षरूपा बभूव ह ।
विष्णुश्चापि तिरोभूय शालग्रामशिलाऽभवत् ॥९१॥
तदिदं मन्दिरं राजँस्तेन विप्रेण कारितम् ।
तन्मध्ये तुलसी दिव्या द्रुमरूपा विराजते ॥९२॥
तन्मूले भगवान्नास्ते विष्णुः शालशिलात्मकः ।
अत्र स्नानात्तथा दानात्पूजनात्तुलसीप्रभोः ॥९३॥
तुलसीलग्नकरणाद् भुक्तिर्मुक्तिर्भवेदपि ।
सर्वपापप्रणाशश्च स्वर्गातिस्वर्गमाप्नुयात् ॥९४॥
शालग्रामं शुभं तीर्थं तुलसीतीर्थमित्यपि ।
चैत्यब्रह्माख्यतीर्थं च विद्यते पावनं त्विदम् ॥९५॥
स्नाहि देहि समर्हां च कुरुमन्दिरवर्तिनोः ।
तुलसीकृष्णयोः राजन् कृष्णप्रसन्नतां व्रज ॥९६॥
इत्युक्तो राधिके राजा सस्नौ ददौ पुपूज च ।
जलामृतं तथा प्रसादामृतं परिगृह्य च ॥९७॥
प्रदक्षिणं दण्डवच्च कृत्वाऽग्रेऽपरतीर्थकम् ।
ययौ लोमशयुक्तो वै प्रसन्नो मानसे ह्यति ॥९८॥
अहो तीर्थानि सर्वाणि श्रीभगवन्मयानि हि ।
मया कृतानि कृतिना कृपापात्रेण वै हरेः ॥९९॥
इत्याश्चर्यपरो राजा महाशान्तिं ययौ हृदि ।
क्षणं दध्यो हृदये स्वे लोमशं ज्ञानदं गुरुम् ॥१००॥
अनादिश्रीकृष्णनारायणं च पुरुषोत्तमम् ।
वायुकोणगतो राजा स्मृत्वा नेमे सरोवरम् ॥१०१॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कुंकुमविप्रकृतं कुंकुमेश्वरतीर्थं सतीशाचारणीकृतं दुर्गासतीतीर्थं वणिक्पत्नीधन्येश्वरीकृतं लक्ष्मीतीर्थं चैत्य-
ब्रह्मद्विजकृतं शालग्रामतीर्थं चेत्यादिनिरूपणनामा एकसप्तत्यधिकद्विशततमोऽध्यायः ॥२७१॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP