संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ५१

त्रेतायुगसन्तानः - अध्यायः ५१

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके दूतो रक्तवार्धिर्महासुरः ।
ययौ चाब्रिक्तदेशस्य जुमासेम्लानृपं प्रति ॥१॥
क्रमशस्तु यथोक्तं वै श्रावयामास सर्वथा।
नान्वमन्यत दुष्टात्मा भाविनाशप्रणोदितः ॥२॥
क्रुद्धौ सन्नह्य सर्वांश्च स्वयं व्योम्नि महाबलः ।
गदामादाय च पुरो विमानस्याऽग्रतोऽभवत् ॥३॥
गर्जनां प्रचकाराऽऽदौ नादयन् रोदसी ह्युभे ।
वायुस्तरान् कम्पयँश्च जगाद् कालभाषितम् ॥४॥
कोऽयं विमाननेताऽऽस्ते त्वग्रतो भव मत्पुरः ।
परिहाय विमानं च याहि दूरं जिजीविषुः ॥५॥
यदीष्टं जीवनं तेऽस्ति क्रियतां वचनं मम ।
याश्चाऽत्र कन्यकाः सर्वाः प्रदीयन्तां द्रुतं च नः ॥६॥
कोऽस्ति रुद्रोऽथवा धर्मराजः सनत्कुमारकः ।
क एते भिक्षुकाश्चात्र प्राणनाशार्थमागताः ॥७॥
भूत्वा वै तापसाः सर्वे विमानभोगमास्थिताः ।
कन्यकागणसंलुब्धाः कपटाचारवर्तनाः ॥८॥
अभोग्यभोगमध्यस्थाः पापमिषस्य बोधकाः ।
गोत्रभिन्ना भवेद् भार्या भिक्षुकाणां गृहे भवेत्। ॥९॥
दुग्धभिन्ना भवेद् भार्या म्लेच्छानां धर्मवर्तिनाम् ।
क्षेत्रभिन्ना इमाः पत्नीर्ग्रहीष्यामो हि कन्यकाः ॥१०॥
हिरण्याक्षस्य वै भार्याशतमासीच्च तासु वै ।
कन्याः सहस्रशो जाताः कुमाराश्च सहस्रशः ॥११॥
हिरण्याक्षस्य बीजेन समुत्पन्नाश्च ताश्च ते ।
भिन्नदुग्धाः परस्परं विवाहितास्तदाऽभवन् ॥१२॥
एकमात्रुद्भवा नैव दम्पतीतां व्रजन्ति वै ।
एकपित्रुद्भवा भिन्नगर्भाः सन्ति विवाहिताः ॥१३॥
अस्मत्कुलप्रसूतानां रीतिश्चेयं सदा मता ।
ब्रह्मपुत्र्योऽथवा चान्या अमातृजाः प्रिया हि नः ॥१४॥
नारदः प्राह जित्वैव लप्स्यसे कुरु यद्धितम् ।
तच्छ्रुत्वा दानवपतिः क्रोधदीपेक्षणोऽनुगम् ॥१५॥
सान्नाहिकीं रणभेरीं ताडयितुं शशास ह ।
भृत्यस्तु ताडयामास भेरीं बलेन भूयसा ॥१६॥
सस्वान भैरवान् शब्दान् सोन्मत्ता रासभी यथा ।
तथा तन्नादमाकर्ण्य लक्षसंख्या महासुराः ॥१७॥
समाययुः रणं तूर्णं सन्नद्धा युद्धकांक्षिणः ।
पूर्वोक्ताः सैन्यपाश्चापि गजैरुष्ट्रैर्हयैः रथैः ॥१८॥
यानैः स्वल्पविमानैश्च योद्धुं नानायुधैस्तथा ।
विमानं परितो व्यूहैर्व्योम्नि पृथ्व्यां समन्ततः ॥१९॥
शीघ्रं संरोधयामासुर्गर्जयामासुरुत्सुकाः ।
रुद्रः सस्मार चः तदा वह्निं चाप्यथ नन्दिनम् ॥२०॥
आगतौ तावुभौ शीघ्रं शासनं देहि चाहतुः ।
हरो वह्निं प्राह चाग्ने कृत्वा प्राकारमुज्ज्वलम् ॥२१॥
वह्निज्वालामयं व्योम्नि रक्ष यानं स्थिरो भव ।
वह्निर्विमानमभितो रक्षति स्म तथोदितः ॥२२॥
रुद्रश्च नन्दिनं प्राहाऽऽमन्त्रयाऽत्र गणान् द्रुतम् ।
नन्दी जलमुपस्पृश्य सस्मार गणनायकान् ॥२३॥
सहस्रशो गणा गणाधिपाः शस्त्रास्त्रशोभिताः ।
आययुः रुद्रजातीयाः सहस्राणि दशात्र च ॥२४॥
षण्मुखाश्च समाजग्मुः षट्षष्टिशतसंख्यकाः ।
गणेश्वरा हस्तिमुखाः षट्साहस्राः समाययुः ॥२५॥
कालानना गणाश्चान्ये खड्गांगयोधिनस्तदा ।
दिग्वाससः कज्जलाभा दशलक्षाणि चाययुः ॥२६॥
कालाननेभ्यः शंभुस्तु योद्धुमाज्ञां ददौ द्रुतम् ।
चतुर्नेत्राश्चतुर्हस्ताः श्रीवत्सांकितवक्षसः ॥२७॥
समायाताः खगाऽऽरूढाश्चक्रशूलधरा दृढाः ।
वैष्णवाश्च गणास्तत्र लक्षाणि त्वेकविंशतिः ॥२८॥
चतुर्मुखा ब्रह्मगणा दशलक्षाप्तसंख्यकाः ।
आययुर्व्योममार्गेण तेऽस्त्रशस्त्रादिवेदिनः ॥२९॥
अथ युद्धं परं घोरं प्रववृते समन्ततः ।
कालानना महाघोरा निजघ्नुर्म्लेच्छजातिकान् ॥३०॥
भिद्यमानाश्च बलिभिर्गणाग्र्यैर्दैत्यदानवाः ।
प्रवृत्तास्ते गणान् हन्तुं कूटमुद्गरपाणयः ॥३१॥
ततो व्योम्नि स्मृता देवाः सेन्द्रविष्णुपितामहाः ।
सूर्यचन्द्रवरुणाद्याः समायाता दिदृक्षवः ॥३२॥
अथ कालाननाः सैन्यं निघ्नन्ति दानवीयकम् ।
चतुरंगबलं म्लेच्छजातीयं मर्दितं ह्यभूत् ॥३३॥
म्लेच्छाः श्मश्रुधरा गोलैर्महागोलैश्च तूपकैः ।
धूष्कृतीभिर्वज्रघातैर्भूशुण्डीभिश्च छूरकैः ॥३४॥
असिभिः खड्गचर्माद्यैर्भल्लैः शक्तिभिरित्यपि ।
प्रासैश्च तोमरैश्चापि जघ्नुः कालाननान् क्रुधा ॥३५॥
कालाननाश्चान्द्रबाणैर्गोलकैर्वह्निजालकैः ।
शरैश्च तूपकाभिश्च धूष्कृतीभिश्च सर्वथा ॥३६॥
क्षेपणैर्बहुयन्त्रैश्च जघ्नुः कालानलाँस्तदा ।
कालानना व्योममार्गैः पतित्वोत्पत्य वेगतः ॥३७॥
म्लेच्छेषु गलपाशान् सन्ददुः श्मश्रुषु चानलम् ।
लक्षभटास्तु ते नष्टाः सेनाग्र्या दुद्रुवुस्तदा ॥३८॥
बिगुलान् वादयामासुर्नवसैन्याह्वनाय च।
दशलक्षाणि सैन्यानि त्वसुराणां पुनस्ततः ॥३९॥
आगतान्यभितस्तत्र व्योमयानगमानि वै ।
दारुदाहैस्तदा चूर्णैरापूर्याऽऽपूर्य गोलकान् ॥४०॥
चिक्षिपुर्दशलक्षेषु तदा ब्रह्मगणेषु वै ।
ब्रह्मगणास्तदा विद्युद्बाणैर्जघ्नुश्च दानवान् ॥४१॥
दानवा अपि शैलैश्च वृक्षैर्वारिशिलादिभिः ।
वायुप्रहारकेश्चापि निजघ्नुर्ब्राह्मदैवतान् ॥४२॥
रणदेशे निपेतुस्ते दानवा विगतासवः ।
विद्युत्प्रहारैः सर्वत्र गतप्राणा मृतिं ययुः ॥४३॥
कुक्कटपिच्छमूर्धन्याः शंखशृंखलभूषणाः ।
घोरखातीचर्मवस्त्रा नीलाञ्चलकटिभ्रमाः ॥४४॥
हरिद्वर्णपटकाढ्या दशलक्षाणि ते मृताः ।
अथ दृष्ट्वा महत्सैन्यविनाशं दानवेश्वरः ॥४५॥
राजा त्वकारयद् भेरीनिनादान् व्योमगर्जनाम् ।
विद्युन्नलीनजाक्रोशान् कोटिसैन्यागमाय वै ॥४६॥
स शब्दो व्यानशे चतुःसमुद्रान्तो महाम्बरे ।
अब्रिक्तदेशीयसैन्यं परितो वायुवेगतः ॥४७॥
एकत्रितं मध्यदेशे परितो वै व्यजायत ।
विजयस्य दीर्घनादा विमानयन्त्रतोऽभवन् ॥४८॥
श्रुत्वा मुमुदिरे देवा म्लेच्छास्त्रासं परं ययुः ।
सैन्यानि परितस्तत्र देवानां विचरन्ति हि ॥४९॥
विश्राम्यन्त्यणिमाद्यैश्च सूक्ष्मा विमानमस्तके ।
एतस्मिन् समये व्योम्नो यथा शलभकोटयः ॥५०॥
तथा दैत्याः सर्वदिग्भ्यो विमानमभि चाययुः ।
मारयन्तु नाशयन्तु खादयन्तु विमानगान् ॥५१॥
अपहरन्तु गृह्णन्तु कन्यकास्तद्धनान्यपि ।
विनश्यन्तु नाशयन्तु प्रध्वंसयन्तु दैवतान् ॥५२॥
छेदयन्तु भेदयन्तु विघ्नन्तु सन्मुखान् भटाः! ।
विमानं कन्यका दिव्या यस्य हस्तगता तु या ॥५३॥
तत्सर्वं तु भवेत्तस्य विजेतुरिति निश्चयः ।
इत्येवं नदमानास्ते कोटिसंख्या महासुराः ॥५४॥
विविधैर्यन्त्रमाराख्यैः शस्त्रैश्च गोलिकाक्षिपैः ।
निजघ्नुः परितस्तत्र विमानं वह्निरक्षितम् ॥५५॥
अग्निदेशं समागत्य गोलिका विद्रवन्ति च ।
रसरूपास्तु ता भूत्वा प्रज्वलन्ति घृतं यथा ॥५६॥
दैत्यास्तन्नैव जानन्ति जानन्त्येव तु क्षेपणम् ।
गोलिकानां वृष्टिरूपं विमानघातसिद्धये ॥५७॥
तूपियन्त्रैर्मारयन्ति शतघ्नीभिस्तथाऽपरे ।
आतंकयन्त्रैर्निघ्नन्ति त्र्यूरुपीडान् क्षिपन्ति च ॥५८॥
एवं चतुःप्रहरान्तं चक्रुस्ते मारमात्रकम् ।
दैत्या विमानमालक्ष्य निश्चूर्णा नष्टदारुकाः ॥५९॥
विनष्टगोलिकाश्चासन् वह्निः सर्वं व्यनाशयत् ।
विमानं सुस्थिरं चाप्यखण्डितं व्योम्नि वर्तते ॥६०॥
अथ सैन्यं वैष्णवानामेकविंशतिलक्षकम् ।
चक्रपाशगदाप्रासमुद्गरादिसुशोभितम् ॥६१॥
रुद्राज्ञया न्यपतच्च दैत्यसैन्यस्य कोटिषु ।
सुदर्शनानि चक्राणि लक्षाणि त्वेकविंशतिः ॥६२॥
अव्याहतानि रोषाद्वै प्रयुक्तान्यभवँस्तदा ।
द्विधा छिन्नं हि दैत्यानां सैन्यं कोट्येकमेव तत् ॥६३॥
काँश्चिद् गलेषु चक्राणि स्कन्धयोः कटिपृष्ठयोः ।
सक्थ्नोः कांश्चिद्धस्तयोश्च जान्वोः प्रकोष्ठयोस्तथा ॥६४॥
पादयोर्मध्ययोर्दक्षवामयोर्वामदक्षयोः ।
अर्धनिकृन्तयोर्द्वेधाभूतयोर्विदधुर्व्यसून् ॥६५॥
व्योम्नो निपेतुः पृथ्व्यां ते कोट्यैकसैन्यमित्यपि ।
शलभास्तु यथा वार्धौ तथा ययुर्हि ते लयम् ॥६६॥
अथ शोकातुरो राजा क्षणं मूर्छामवाप ह ।
बहूनां च हतानां वै स्मृत्वा निर्नाथयोषितः ॥६७॥
योद्धुमायान्ति ये तेषां मध्यादेकोऽपि नैव च ।
सप्राणो रणपर्जन्यान्नैवाऽऽयातीति दुःखितः ॥६८॥
अथ क्षणान्तरे संज्ञामवाप प्राह सैन्यपान् ।
युद्धान्नैवाऽपसर्तव्यं राजधर्मो विलुप्यते ॥६९॥
अजयो वा जयो वाऽस्तु मरणं जीवनं च वा ।
रणापासरणं त्वत्र निकृष्टं नेष्यते मया ॥७०॥
अथाऽन्यत् कोटिसंख्याकं सैन्यं समाजुहाव सः ।
निशायामपि युद्धस्य विरामो नैव विद्यते ॥७१॥
व्याघ्रचर्मधराः शूरा लोहरक्षणरक्षिताः ।
वह्निविद्युत्करयन्त्रा व्योमयानविहारिणः ॥७२॥
कोटिसंख्याकयोधारः सप्ततालोच्छ्रया हि ते ।
आययुः परितस्तत्र विमानं यत्र विद्यते ॥७३॥
दुद्रुवुस्ते विमानं वै नाशयितुं च सन्निधौ ।
वह्निना रक्षकेनैते ज्वलमानाः पराययुः ॥७४॥
असामर्थ्यं तदा तैस्तु ज्ञातं नैजं महत्तरम् ।
पक्षिणोऽप्यम्बरे यान्ति वयं चाऽप्यत्र तादृशाः ॥७५॥
यतो वह्निकृतं दाहं सोढुं शक्ता न वै मनाक् ।
कथं जयमवाप्स्याम इति सन्देहमागताः ॥७६॥
तथापि नृपतेराज्ञा योद्धव्यं सर्वथा भटैः ।
इत्येवं दूरतस्तेऽपि विद्युद्गोलैर्विमानकम् ॥७७॥
लक्ष्यीकृत्य निजघ्नुश्च द्रवन्त्यग्नौ तु गोलकाः ।
आश्चर्यं हि द्वितीयं तद् दृष्ट्वा विमानकोपरि ॥७८॥
ऊर्ध्वं स्थिता ववृषुश्च गोलकान् नाशकारकान् ।
तेऽपि गोला द्रवन्त्येव ज्वलन्त्येव विहायसि ॥७९॥
वह्निना रक्षकेनैव विमानं त्वक्षतं सदा ।
अथ ताँश्च तदा हन्तुं षटसहस्रगणेश्वरान् ॥८०॥
हस्तिशुण्ढमयान् देवान् पाशपर्शुधनुर्धरान् ।
शक्तिप्रासाऽणुगोलाढ्यान् मन्त्राक्तकुशवज्रिणः ॥८१॥
प्रेषयामास रुद्रश्च क्षणात्ते तेभ्य ऊर्ध्वगाः ।
अन्तरीक्षे ययुः शीघ्रं जघ्नुः शस्त्रैश्च गोलकैः ॥८२॥
कोटिसंख्यान् म्लेच्छदैत्यान् दैत्याः पेतुस्तदाऽनले ।
हन्यमाना न वै शक्ताः समन्ताच्च गणेश्वरैः ॥८३॥
धावितुं प्राभवँस्तेन वह्नौ पेतुः प्ररक्षके ।
पातमात्रेण भस्माख्या व्योम्न्येव तेऽभवँस्ततः ॥८४॥
नामशेषाः पुनर्द्रष्टुं राजानं चापि नाऽऽगताः ।
इत्येवं कोटियोद्धारो ययुस्तत्र क्षयं पुनः ॥८५॥
अस्थिशेषं न च प्राप्तं महानलेन भक्षिताः ।
अहो आशा बलवती गर्विणां क्षयकारिणी ॥८६॥
सैव कालस्य दुहिता जराया अग्रजा त्विव ।
ज्ञाते सर्वविनाशे च राजा धैर्यं मुमोच ह ॥८७॥
गन्तुं स्वभवनं तस्मात् स्थानाद् यावत् समिच्छति ।
तावत् सेनापतिर्योऽभूद् रक्तवार्धिस्तथाऽपरः ॥८८॥
रौद्रवाष्पो ह्युभावेतौ राजानं प्राहतुः क्षणम् ।
न गन्तव्यं न गन्तव्यं राज्ञा युद्धान्निवृत्य वै ॥८९॥.
यावद्वै विद्यते सैन्यं यावद्बलं च पार्श्वयोः ।
यावद्बलं च भुजयोः सैन्यपाः सन्ति चाऽक्षताः ॥९०॥
यावत् तावन्न गन्तव्यं रणाद् गृहं कथंचन ।
अथ युद्धं करिष्यामो जेष्यामो यानकन्यकाः ॥९१॥
इत्युक्त्वा रणतूर्याणि नादयामासुरुग्रगाः ।
विद्युद्वाद्यानि चोग्राणि विद्युद्वंशाँश्च भूरिशः ॥९२॥
वादयामासुरत्यर्थं सैन्याऽऽवाहनबोधकान् ।
श्रुत्वा सैन्यं दशकोटिसंख्याकं परितोऽभवत् ॥९३॥
एकत्रितं क्षणात्तत्र मध्यदेशे सरोऽभितः ।
कर्मघ्नपर्वतादग्रे यावच्चन्डसरस्तथा ॥९४॥
कर्मांगों च नदीं यावत् यावच्छ्वेतनरायणीम् ।
त्रिराशिपर्वतं यावद् दशकोटिभटाश्रयम् ॥९५॥
स्थलं युद्धमहाभूमिस्तदा वै समजायत ।
तुंगानीकसरसश्च यावन्न्याससरस्तथा ॥९६॥
कोटिसैन्यं भस्मसाद्वै जातमेत्पुराऽम्बरे ।
तस्य प्राक च कालहरिरणादासाम्बपर्वतम् ॥९७॥
विज्ञतुरीयसरितस्तीरे तु दशलक्षकाः ।
हतास्तत्र ततः प्राक् च द्राक्षाबीजाद्रिपश्चिमे ॥९८॥
वालनद्यास्तटे लक्षं हता दैत्या हि राधिके! ।
एवमेते दशकोटिभटा विद्युत्कृताऽस्त्रकाः ॥९९॥
वह्निमन्त्रविदश्चापि नाशं यातुं समागताः ।
युयुधुस्ते वह्नियन्त्रैर्विद्युद्गोलैस्तथाऽस्त्रकैः ॥१००॥
मन्त्रकृतैः पुत्तलैश्च व्योम्नि विमानसन्निधौ ।
वह्निदेवेन ते सर्वे कृत्रिमा भस्मसात्कृताः ॥१०१॥
अथैते प्रेषयामासुर्विमानानि द्युमन्ति च ।
यत्र विद्युन्महागोला यन्त्रपुत्तलिकास्तथा ॥१०२॥
यन्त्राश्वा यन्त्रवाहाश्च यन्त्ररथाश्च ताम्रजाः ।
यन्त्राणां हेतयश्चापि विद्युत्ताम्रकृतास्तथा ॥१०३॥
तैः कृतैः साधनैश्चैता भटानां दशकोटयः ।
युयुधुर्निर्भया वह्नेर्वह्नेः प्राकारमध्यमाः ॥१०४॥
वह्निमुल्लंघ्य च गतास्तदा तत्र विमानिषु ।
हाहाकारो ह्यभूत् तावच्छंभुरुत्थाय वाडवम् ॥१०५॥
अनलं प्राह गच्छैतान् भस्मसात्कुरु सत्तम ।
तावत्प्रलयकालीनसदृशोत्थस्तु वाडवः ॥१०६॥
शिखाः प्रसार्य परितः कोटिरूपधरोऽभवत् ।
लेलिह्यमानः सर्वास्तान् योद्धृँश्च पुत्तलाँस्तथा ॥१०७॥
चकार भस्मसात् स्पर्शाद् दशकोटिभटान् क्षणात् ।
ज्वालामुखो यथा व्योम्नि पर्वतो वा रविर्ग्रहः ॥१०८॥
नाशं प्राप्तो यथा ज्वालामयो ब्रह्माण्डसदृशः ।
विशालः स्याद् वह्निमयस्तथा दृश्यमदृश्यत ॥१०९॥
दशकोटिभटास्तत्र दग्धा वाडववह्निना ।
दुद्रुवुश्च बहिस्तस्मात् प्राणरक्षणकाम्यया ॥११०॥
तदा तेषां निरोधार्थं कार्तिकेयं महाबलम् ।
सार्धषट्कृतसाहस्रं नागपाशैर्न्यरोधयत् ॥१११॥
अनिर्गमाश्च ते तत्र भस्मीभूतास्ततोऽभवन् ।
येषामस्थि न वा केशा न शिरांसि न नाडिकाः ॥११२॥
गम्यं लभ्यं च किमपि तत्र दाहे त्वभूत् किल ।
एवं विनष्टा योद्धारो राधिके! वीरमानिनः ॥११३॥
प्रातर्जातं ततो राधे! मायारूपधराः पुनः ।
राजाज्ञया सुसज्जाश्च योद्धुं मन्त्रैरुपाययुः ॥११४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने अब्रिक्तदेशे ब्रह्मविमानेन योधिनागरम्लेच्छाश्चैकादशकोटयश्चैकादशलक्षाणि च नष्टाश्चेत्यादिनिरूपणनामा एकपञ्चाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP