त्रेतायुगसन्तानः - अध्यायः २३०
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-.
राधिके यज्ञभूमौ च यानि तीर्थानि चावसन् ।
तान्याह श्रीबालकृष्णश्चाम्रजानीसरित्तटे ॥१॥
यत्र नारायणश्चास्मि यज्ञकर्ता परेश्वरः ।
सा भूमिस्त्वक्षरतुल्या दिव्या दिव्यगतिप्रदा ॥२॥
आम्रजानीनदी दिव्या स्वर्गंगा बदरीसुता ।
आम्रजान्यप्सरा दिव्या नरेण निजशक्तितः ॥३॥
आम्रमञ्जरिकाभिश्च प्रमृद्योत्पादिता पुरा ।
तपश्चर्याप्रविघ्नार्थं पुरा महेन्द्र आययौ ॥४॥
बह्वप्सरोभिः सहितो बदर्यां श्रीहरेः पुरः ।
नारायणेन ताः सर्वा नृत्यन्त्यश्चेन्द्रदेशिताः ॥५॥
विलोकितास्ततस्तासां गर्वभंगाय वै मया ।
बदर्यां च नरद्वारा ह्युर्वशी प्रकटीकृता ॥६॥
तस्यास्तु सन्निधौ सर्वास्तदा श्यामा इवाऽभवन् ।
रूपगर्वं विहायैव तत्र क्षमामयाचिरे ॥७॥
तदा मया तु ताः सर्वा मन्त्रेण वैष्णवीकृताः ।
आम्रजानीं ययाचे वै महेन्द्रो रूपसुन्दरीम् ॥८॥
सा मया तु महेन्द्रायाऽर्पिता त्वेकस्वरूपिणी ।
द्वितीया ब्रह्मचर्यस्था मत्पुत्री मम सन्निधौ ॥९॥
बदर्यां सा वसत्येव साऽत्र जलस्वरूपिणी ।
पाराकर्षितपश्चर्याफलदानार्थमागता ॥१०॥
पाराको नाम राजर्षिः पितॄणां मुक्तयेऽत्र वै ।
तपश्चचार परमं वर्षाणां तु सहस्रकम् ॥११॥
पूर्वजानां प्रतृप्त्यर्थं जलार्थं सोऽप्यकल्पयत् ।
मां ध्यायन् जललाभार्थं तीर्थं श्रेष्ठमयाचत ॥१२॥
मम मूर्तिं प्रतुष्टाव ध्यानमग्नोऽतिभावतः ।
मया हृदा प्रसन्नेन स्मृता पुत्री मदाश्रया ॥१३॥
सेयं जलस्वरूपाऽभूत् पुत्री ममाऽऽज्ञया तदा ।
सप्तधारास्वरूपा सा भूत्वा ब्राह्मीलभूतले ॥१४॥
प्रवाहेण गता यत्र यत्र पितर आसते ।
तत्र तत्र कृतस्तेषां मोक्षो ययुश्च तेऽक्षरम् ॥१५॥
सेयं चाऽम्रजनी दिव्या मोक्षदा वर्तते नदी ।
तस्या रूपाणि सप्ताऽत्र आम्रजानी वरीयसी ॥१६॥
राकान्तिकासना चापि द्वितीया सा प्रकीर्तिता ।
गोनिकषा तृतीया च गोयाज्ञी च चतुर्थिका ॥१७॥
माद्वारिका पञ्चमी च षष्ठी सा पुरुषा मता ।
मानासना सप्तमी च सर्वा मोक्षप्रदा हि ताः ॥१८॥
शान्तारामा पुरी चेयं पारेश्वरं च पत्तनम् ।
आम्रजानीसमुद्रसंगमश्च मोक्षदः सदा ॥१९॥
महापापातिपापानां क्षालकः संगमो ह्ययम् ।
अत्र भूमौ तु यज्ञानां तीर्थानां भूभृतां तथा ॥२०॥
मेर्वादीनां च सरसां नदीनां वास एव च ।
मया संकल्पितस्तस्मात् तीर्थान्यत्र वसन्तु वै ॥२१॥
आम्रजान्यां षडन्यासां नदीनां संगमेष्विह ।
मुक्तास्तथाऽवताराश्चेश्वरा देवा वसन्त्वपि ॥२२॥
देव्यश्च शक्तयश्चापि सागराः सरितस्तथा ।
सर्वतीर्थनिवासोऽत्र भवत्विति निदेशनम् ॥२३॥
बालकृष्णस्थली शान्तारामपारेश्वरान्तरे।
सर्वतीर्थनिवासा वै पावन्यक्षरसन्निभा ॥२४॥
गोयाजन्या गवाक्षाया मध्ये पृथिवी यावती ।
त्रिशतक्रोशपर्यन्ता सर्वा मोक्षप्रदा शुभा ॥२५॥
अत्र स्नानेन मुक्तिः स्याद् वाप्यां कूपे तडागके ।
नदीनां जलपानेन मम धाम व्रजेज्जनः ॥२६॥
स्वल्पान्नदानकरणाद् यज्ञजं फलमाप्नुयात्॥
गोदानात् स्वर्णदानाच्च स्वर्गं लभेन्न संशयः ॥२७॥
कन्यादानं भुवो दानं वस्त्रदानं गवार्पणम् ।
भूषादानं चान्नदानं पात्रदानं करिष्यति ॥२८॥
अत्र भूमौ तस्य राजसूयफलं भविष्यति ।
ओषधानां प्रदानं च विद्यादानं जलार्पणम् ॥२९॥
रसदानं छत्रदानं चोपकरणदानकम् ।
गृहदानं वाहनानां दानं ज्ञानप्रदानकम् ॥३०॥
यः करिष्यति तस्याऽत्र सर्वयज्ञफलं भवेत् ।
वृक्षारोपं फलदानं धर्मशालां च वेदिकाम् ॥३१॥
गृहं सौधं नदीघट्टं कारयिष्यति यो जनः ।
तस्य स्वर्गं भवेद् ध्रौव्यं त्वन्ते मोक्षो भवेदपि ॥३२॥
शुभे काले शुभे पात्रे दत्तं चात्राऽक्षयं भवेत् ।
शय्यादानं बृसीदानं चोर्णाम्बरप्रदानकम् ॥३३॥
दास्यत्यत्र भवेत्तस्य स्वर्गं चेह समृद्धयः ।
विविधा राजभोगाश्च वंशविस्तारसम्पदः ॥३४॥
अत्र तीर्थं तु ये लोकाः सप्तसरित्सु यत्र वा ।
करिष्यन्ति जलपानं स्नानं चैष्यन्ति ते दिवम् ॥३५॥
इत्युक्त्वा श्रीहरिस्तत्र राधिके विरराम ह ।
ईश्वराद्या निजावासं चक्रुस्तीर्थस्वरूपिणः ॥३६॥
सप्तनद्यः समायाताः कन्यकास्तत्र वै क्षणे ।
चन्दनाद्यैः स्वपितरं बालकृष्णं परेश्वरम् ॥३७॥
पुपूजुः पादयोर्नत्वा प्राहुर्वसाऽत्र सर्वदा ।
हरिस्तथाऽस्त्विति प्राह मूर्तिरूपः स्वयंप्रभुः ॥३८॥
तत आरभ्य तत्रैव मन्दिरेष्ववसत् सदा ।
राजभ्यश्च ददौ स्वर्णमूर्तीः श्रीहरिरच्युतः ॥३९॥
कन्यकास्ता ययुस्तीर्थरूपिण्यो वै निजालयान् ।
राजानोऽपि ततश्चक्रुर्मन्दिराणि सरित्तटे ॥४०॥
सुवर्णमूर्तीस्तेषु प्रातिष्ठिपन् विधिना नृपाः ।
एवं वै राधिके श्रीमद्बालकृष्णः परेश्वरः ॥४१॥
उपादिश्याऽथ प्रददौ पारितोषिकरूपिणः ।
सुवर्णस्थालान् महतः सुवर्णोत्थकमण्डलून् ॥४२॥
सुवर्णहारान् विविधान् मुकुटान् कानकाँस्तथा ।
स्वर्णस्रजः कुण्डलानि शृंखलाः कटकानि च ॥४३॥
हेमरत्नानि भूषाश्च हेमसूत्राम्बराण्यपि ।
स्वर्णहीरकसद्रत्नपात्राणि कलशाँस्तथा ॥४४॥
वेषान् शाटीः कञ्चुकीश्च कौशेयीः स्वर्णबुट्टिकाः ।
यानवाहनदासाँश्च दासीश्च मुद्रिकास्तथा ॥४५॥
एवंविधानि प्रददौ सम्पारितोषिकानि वै ।
ततो ददौ धन्यवादान् महीमानेभ्य चाध्वरे ॥४६॥
यज्ञसाहाय्यकर्तॄंश्चाशीर्भिस्तत्राप्ययूयुजत् ।
अत्र रात्रौ पायसानि भोजनानि फलानि च ॥४७॥
अकारयद्धि भगवान् सर्वांस्तत्र महोत्सवे ।
नृत्यगीतोत्सवान्ते च विशश्राम परेश्वरः ॥४८॥
निद्रां जग्राह भगवान् प्रातर्बुबोध मंगलैः ।
कृताह्निकः कृतपूजो मातापितृप्रसेवकः ॥४९॥
आसने निषसादाऽथाऽऽययुस्तत्र नृपादयः ।
अर्चनं श्रीहरेश्चक्रुः सन्न्यधुश्चोपदाः पुरः ॥५०॥
द्वादश्यां च ततः सर्वानभोजयत् प्रभुः स्वयम् ।
मिष्टान्नानि विचित्राणि रसान् पेयानि यान्यपि ॥५१॥
भक्ष्यभोज्यान्यनेकानि भोजयामास सर्वशः ।
स्वयं सुबुभुजे कृष्णस्ततः सभां चकार ह ॥५२॥
अवभृथार्थं प्रययुः सर्वे भगवता सह ।
आसँस्तत्र तु नारीणां देवीनां गीतिका शुभाः ॥५३॥
वाद्यानां निनदाश्चापि वेदघोषाश्च भूसदाम् ।
आम्रजान्यां गोनिकषासंगमेऽवभथं तदा ॥५४॥
चक्रुर्मुख्यं महास्नानं वरुणाद्यर्चनं तथा ।
ये ये यत्राऽभवँश्चापि तत्र सस्नुश्च तत्र च ॥५५॥
तूपशब्दा यन्त्रशब्दाः शतध्नीध्वनयोऽभवन् ।
सरित्सागरसंयोगे सरितां संगमे तथा ॥५६॥
विमानैर्दिव्ययानैश्च गत्वा सस्नुः प्रजाजनाः ।
ईश्वराश्चापि देवाद्या देहिनः सस्नुरित्यपि ॥५७॥
ततश्चाययुरावासान् श्रीहर्याद्या विमानकैः ।
मध्याह्नोत्तरवेलायां पितृश्राद्धानि चाचरन् ॥५८॥
सर्वेऽपि पितरस्तत्र मूर्तिमन्तः समागताः ।
तृप्तिं प्राप्य विमानैश्च ययुः स्वर्गं सहस्रशः ॥५९॥
अथ भोजनं मिष्टान्नं भोजयामास माधवः ।
सर्वे बुभुजुर्मिष्टान्नं पुनस्तत्र सभाऽभवत् ॥६०॥
विदायं श्रीहरिस्तत्र प्रददौ तु यथोचितम् ।
कर्मठेभ्यः कर्मकर्तृभ्यश्च सहायिवर्गिणे ॥६१॥
मुक्तेभ्यश्चेश्वरेभ्यश्चाऽवतारेभ्यश्च शोभनम् ।
ईश्वराणीभ्य एवापि मुक्तानीभ्यस्तथा ददौ ॥६२॥
देवीभ्यो देवताभ्यश्चाऽऽर्षीभ्यो मुनिभ्य इत्यपि ।
मानवीभ्यो मनुष्येभ्यो महर्षिभ्योऽपि सन्ददौ ॥६३॥
जडेभ्यश्चेतनेभ्यश्च सर्वेभ्योऽपि ददौ हरिः ।
यथोचितं विदायं वै कल्पयोषिद्भ्य इत्यपि ॥६४॥
कर्मकर्त्रीभ्य एवापि दासदासीभ्य इत्यपि ।
प्रददौ स्वर्णहाराँश्च स्वर्णमुद्रायथोचिताः ॥६५॥
आगन्तव्यं चेति पुनर्यदा यज्ञे स्मराम्यहम् ।
इत्येवं श्रीहरिः प्राह ततो लब्ध्वा विदायकम् ॥६६॥
सभां व्यसर्जयत् पश्चान्महीमानाः प्रतस्थिरे ।
निजाँल्लोकान्प्रदेशाँश्च ग्रामान् सायं हि सर्वशः ॥६७॥
द्वादश्यामेवमेवापि समाजाः स्वगृहान् ययुः ।
रात्रौ श्रीभगवानास्ते राजभिः सेवितः सुखम् ॥६८॥
ब्रह्मप्रियादिभिश्चापि कुटुम्बेन समन्वितः ।
निद्रां विश्रान्तिरूपां चावाप प्रातर्बुबोध च ॥६९॥
त्रयोदश्यां मांगलिकैर्वाद्याद्यैर्गीतिभिर्हरिः ।
कृतस्नानाह्निकः कृष्णो निषसाद वरासने ॥७०॥
ईशानपानशिष्टश्च राजा राज्ञी च कन्यकाः ।
हरिं पूजयितुं प्रातश्चाययुस्ते तदा हरेः ॥७१॥
नीराजनां प्रचक्रुश्च पुपूजुश्चन्दनादिभिः ।
ब्राह्मील्यः कन्यकाश्चैकचत्वारिंशन्नृपस्य तु ॥७२॥
वरमालां हरेः कण्ठे ददुः कान्तं हरिं व्यधुः ।
राजा त्वतिप्रसन्नोऽभूद् यौतकं परमं ददौ ॥७३॥
राज्ञी चापि कृतकृत्या ह्यभूत् तत्र मुमोद ह ।
यौतकं हरये प्रादात् स्वर्णरूप्यधनादिकम् ॥७४॥
विमानं चायतं चापि दासान् दासीः शताऽधिकाः ।
राजा महोत्सवं चक्रे कन्यादाननिमित्ततः ॥७५॥
मध्याह्ने भोजनं श्रेष्ठं ददौ राजाऽतिभावतः ।
अन्येभ्यश्चापि सर्वेभ्यो राजभ्यो भोजनं ददौ ॥७६॥
विदायं प्रददौ पश्चाद् राजभ्यो नृपतिर्महान् ।
राजानः प्रययुर्नैजान् देशान् विमानसंस्थिताः ॥७७॥
तत्र तावत् त्रयोदश्यां श्रीमान् रायपतिर्नृपः ।
रायगिरर्षिसहितः प्रार्थयामास केशवम् ॥७८॥
निजदेशं समागन्तुं पावयितुं निजां पुरीम् ।
हरिस्तथाऽस्त्विति प्राह विश्वकर्मादिकाँस्ततः ॥७९॥
सर्वयज्ञीयवस्तूनां परिहारार्थमेव ह ।
मण्डपादिकदिव्यानां समादिदेश तूर्णकम् ॥८०॥
शीघ्रं सायं विश्वकर्मा तिरोभावयदेव तत् ।
अथ सज्जोऽभवत् कृष्णः कुटुम्बाद्यैर्युतस्तदा ॥८१॥
शंकराद्यैः पार्षदैश्च तथा सर्वमहर्षिभिः ।
तावद् राजा सैन्ययुक्तो विदाये मानने हरेः ॥८२॥
अवादयत्तदा रम्यवादित्राणि मुहुर्मुहुः ।
हरिः सम्मानमादाय पुष्पहारान् शुभान् शुभान् ॥८३॥
ब्राह्मीलीभिश्चाक्षताद्यैर्वर्धितः पूजितो हरिः ।
जयशब्दैः श्रावितश्चाऽऽरुरोह स्वविमानकम् ॥८४॥
कुटुम्बेन सह कृष्णो महर्षिशंकरादिभिः ।
विमानगोऽभवच्चाथ प्रससाराम्बरेऽग्रगम् ॥८५॥
विदाययन्त्रशब्दाश्चाऽभवँश्चाति नृपाज्ञया ।
राजारायपतिश्चाग्रे विमानेन ययौ द्रुतम् ॥८६॥
स्वागतार्थं हरेस्तत्र सैन्यं प्रासज्जयद् द्रुतम् ।
आर्षजतनुराष्ट्रे स्वे परीनासरितस्तटे ॥८७॥
व्येनोजराशापुर्यां वै महोद्याने विशालके ।
सम्मानार्थं सैन्ययुतस्तस्थौ राजा समालिकः ॥८८॥
तावदाकाशमार्गाद्वै विमानं शोभनं तदा ।
सूर्यवच्चाऽऽगतं शीघ्रं द्योतयन् विदिशो दिशः ॥८९॥
तदा वाद्यान्यवाद्यन्त जयशब्दास्तथाऽभवन् ।
पर्यः समन्ततो वीक्षणार्थं दुद्रुवुरादरात् ॥९०॥
राजदर्शितमार्गेण विमानं श्रीहरिर्भुवि ।
उद्यानमध्ये भूभागेऽवातारयच्छन्नैः शनैः ।
हरिर्विमानतः शीघ्रं त्वग्रभागे बहिर्ययौ ॥९१॥
जनानां पुष्पवृष्टिर्वै विमानोपरि चाभवत् ।
अक्षताद्यैर्वर्धितश्च प्रजाभिः परमेश्वरः ॥९२॥
राजा स्वर्णस्रजः कण्ठे कृष्णस्याऽधान्ननाम च ।
तदा राज्ञी पुष्पमालां कृष्णकण्ठे न्यधान्मुदा ॥९३॥
कुमाराश्च कुमार्यश्चन्दनाद्यैरर्हणां व्यधुः ।
सिंहासने निषसाद हरिस्तत्र क्षणं ततः ॥९४॥
दत्वा स्वदर्शनं सिंहासनात्तूत्थाय चत्वरे ।
आययौ नृपतिस्तं सुगजे शृंगारिते मुदा ॥९५॥
कुटुम्बं श्रीहरेश्चापि न्यषादयद् गजादिषु ।
शकटीषु च वाहेषु यथायोग्यं च योषितः ॥९६॥
शिबिकासु तथा दिव्यगन्त्रीषु च न्यषादयत् ।
अथ वाद्यादिनिनदैर्गीतिभिश्च सुवर्धितः ॥९७॥
हर्षनादैर्जयशब्दैस्तथा गायनकीर्तनैः ।
व्येनोजराशापुर्यां श्रीहरिः संभ्रामितोऽभितः ॥९८॥
गोपुराग्रे च राजन्यैर्नगर्यां च प्रधानकैः ।
चत्वरेषु प्रजाभिश्च हट्टाग्रे धनिकैः प्रभुः ॥९९॥
पूजितश्चापि रथ्याग्रे योषिद्भिः कृष्णवल्लभः ।
स्वर्णमुद्रादिदानैश्च नारिकेलफलादिभिः ॥१००॥
वस्त्रपात्रविभूषाभिश्चन्दनाऽक्षतवारिभिः ।
वर्धितश्चाभितः पुर्यां भ्रमित्वा सैन्यशोभितः ॥१०१॥
समाययौ शुभावासं राजसौधं हरिस्ततः ।
जलपानं विधायैव विश्रान्तिमाप धर्मपः ॥१०२॥
गृहीत्वा भोजनं रात्रौ निद्रां जग्राह केशवः ।
ब्रह्मप्रियादिभिः संसेवितः कृष्णनरायणः ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आम्रजान्यादिसप्तसरित्सु देवतीर्थानां वासो माहात्म्यमवभृथम्, पारितोषिकम्, रात्रियापनं, प्रातर्विदायं महीमानमण्डपादिपरिहारस्ततो राजारायपतिराष्ट्रगमनं व्येनोजराशापुर्यां भ्रमणं भोजनं रात्रौ शयनं चेत्यादिनिरूपणनामा त्रिंशदधिकद्विशततमोऽध्यायः ॥२३०॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP