त्रेतायुगसन्तानः - अध्यायः १६७
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
शृणु त्वं राधिके पश्चाद् यदजायत वच्मि ते ।
अनादिश्रीकृष्णनारायणस्वामिपतीश्वरः ॥१॥
प्रैषयल्लोमशं चान्यान् महर्षीन् यज्ञकोविदान् ।
पत्नीव्रतं महर्षिं च श्वेतव्यासं सनातनम् ॥२॥
सनत्कुमारं च तथा गणेशं जातवेदसम् ।
सत्रायणं गालवं च स्वीयप्रकाशमित्यपि ॥३॥
शतानन्दं नारदं च देवगुरुं बृहस्पतिम् ।
ईशानं च महादेवं कपिलं भगवन्मुनिम् ॥४॥
शुकं च वल्लभमुनिं वामनं सुरतायनम् ।
हेमन्तं देवप्रकाशं यज्ञोपकरणान्यपि ॥५॥
समग्राणि विमाने प्रेषयामास स तान्मुनीन् ।
प्रतिपद्दिवसे सर्वे मध्याह्नोत्तरमेव तु ॥६॥
प्राप्ता निष्ठापरातीरे यत्र वृकायनादयः ।
स्वागतं कृतवन्तस्ते यवक्रीतादयस्तदा ॥७॥
आगतानां लोमशादिमहर्षीणां जयादिभिः ।
मधुपर्कादिभिश्चापि पुपूजुर्लोमशादिकान् ॥८॥
विमानं तु विमानेन सह भूमावरक्षयन् ।
गांगेयाश्च यवक्रीतादयः पुपूजुरादरात् ॥९॥
विश्वकर्मा तथा देवायतनो द्वौ समागतौ ।
हर्याज्ञया शिल्पिवर्यौ तत्रैव प्रतिपद्दिने ॥१०॥
विश्रम्य भोजनं कृत्वा ततो भूमिविशोधनम् ।
मण्डपं धर्मशालाश्च पाकशालाः प्रचक्रतुः ॥११॥
यज्ञशाला वासशाला होमशालाः प्रचक्रतुः ।
घटशाला वस्तुशाला महीमानालयान् शुभान् ॥१२॥
मुक्तशाला अवतारनिवासान् देवतालयान् ।
ऋषिशालाः पितृशाला यक्षराक्षससद्गृहान् ॥१३॥
जडचेतनवासाँश्च चक्रतुस्ते समन्ततः ।
शतक्रोशमिते देशे नदीद्वयान्तरालके ॥१४॥
चक्रतुर्मण्डपान् रम्यान् यथावासिसमर्हणान् ।
यवक्रीतादयश्चापि स्वस्वदेशान् ययुर्द्रुतम् ॥१५॥
तत्तद्देशीयनृपतीनानिन्युश्च प्रजास्तथा ।
श्रेष्ठिनो भक्तवर्यांश्च नरान् नारीः कुटुम्बिनः ॥१६॥
विमानैस्त्वरितं सर्वे चानिन्युश्चाध्वरस्थलीम् ।
शृणु त्वं राधिके मुख्याभिधानानि मखार्थिनाम् ॥१७॥
सम्राट् पूर्वप्रदेशानामुरलकेतुसंज्ञकः ।
यवक्रीतर्षिणा सार्धं षष्टिलक्षप्रजायुतः ॥१८॥
कुटुम्बसहितश्चीब्जलक्ष्मीद्रव्यादिभिः सह ।
यानवाहनसंस्मृद्ध्या यज्ञार्थं समुपाययौ ॥१९॥
रोमायनर्षिणा साकं रुमाणां क्रथको नृपः ।
लक्षप्रजाभिः सहितः सकुटुम्बः समाययौ ॥२०॥
कृपास्थलर्षिणा सार्धम पृथुराजः कुटुम्बवान् ।
दशसाहस्रमनुजैः सह यज्ञार्थमाययौ ॥२१॥
युगशावर्षिणा सार्धमुष्ट्रालनृपतिस्तथा ।
हंकाराख्यनृपश्चापि जयकोष्ठलभूपतिः ॥२२॥
त्रयस्ते भ्रातरो भूपाः कुटुम्बसहितास्तथा ।
लक्षप्रजायुतास्तत्र मखार्थं समुपाययुः ॥२३॥
वल्गुरायर्षिणा सार्धं तीराणभूपतिस्तदा ।
दशसाहस्रमनुजैः कुटुम्बी क्रतुमाययौ ॥२४॥
गिरीशेन समं राजा अल्वीनरः कुटुम्बवान् ।
दशसाहस्रमनुजैः सार्धं यज्ञार्थमाययौ ॥२५॥
इष्टलवर्षिणा सार्धं जिनवर्द्धिनृपस्तदा ।
कुटुम्बी पञ्चसाहस्रप्रजाभिर्यज्ञमाययौ ॥२६॥
आप्यायनर्षिणा सार्धमल्पकेतुर्नृपस्तदा ।
दशसाहस्रमनुजैः कुटुम्बेन सहाययौ ॥२७॥
स्वेष्टजरर्षिणा सार्धं जयकृष्णवभूपतिः ।
दशसाहस्रमनुजैः कुटुम्बेन सहाययौ ॥२८॥
फेरुनरर्षिणा सार्धं परीशाननृपो मखे ।
दशलक्षप्रजायुक्तः सकुटुम्बः समाययौ ॥२९॥
परीजमुनिना सार्धमिन्दुरायनृपो मखे ।
त्रिसाहस्रप्रजायुक्तः सकुटुम्बः समाययौ ॥३०॥
पूर्तगण्डर्षिणा सार्धं गण्डको नृप आययौ ।
सकुटुम्बः पञ्चशतप्रजाभिश्चाध्वरे तदा ॥३१॥
सुपानमुनिना सार्धं नुद्राण्डनृपतिस्तदा ।
पञ्चलक्षप्रजायुक्तः कुटुम्बी समुपाययौ ॥३२॥
फलाशनर्षिणा सार्धं लीनोर्णनृपतिर्मखे ।
लक्षद्वयप्रजायुक्तः कुटुम्बी समुपाययौ ॥३३॥
वल्लीजीवनमुनिना साकं बृहच्छरो नृपः ।
सहस्रमनुजैर्युक्तः कुटुम्बी मखमाययौ ॥३४॥
जरामौनर्षिणा सार्धं बललीनो नृपो मखे ।
दशलक्षप्रजायुक्तः कुटुम्बवान् समाययौ ॥३५॥
पालनादर्षिणा सार्धं वरसिंहो नृपोऽध्वरे ।
लक्षप्रजान्वितः कुटुम्बेन युतः समाययौ ॥३६॥
लातवायर्षिणा सार्धं रायगामलभूपतिः ।
सहस्रमनुजैः सार्धं कुटुम्बी यज्ञमाययौ ॥३७॥
फालनादर्षिणा साकं फेनतन्तुनृपो मखे ।
सहस्रमनुजैर्युक्तः कुटुम्बी समुपाययौ ॥३८॥
स्वाद्वदनर्षिणा सार्धं स्तोकहोमनृपो मखे ।
सहस्रमनुजैर्युक्तः कुटुम्बी समुपाययौ ॥३९॥
नाररवर्षिणा सार्धं काष्ठयाननृपो मखे ।
पञ्चशतप्रजायुक्तः कुटुम्बी समुपाययौ ॥४०॥
लेपनादर्षिणा सार्धं कोलको नृपतिः क्रतौ ।
शतमानवयुक्तश्च कुटुम्बी समुपाययौ ॥४१॥
लयदानप्रदेशेभ्यश्चांगराजः समाययौ ।
विषपर्षियुतो लक्षप्रजायुक्तः कुटुम्बवान् ॥४२॥
शकुन्तदेशतश्चापि शाकुन्तको नृपोऽध्वरे ।
लक्षप्रजान्वितः कुटुम्बवान् तत्र समाययौ ॥४३॥
आयसात्तु प्रदेशाद्वै प्रजा यज्ञे समाययुः ।
उत्तरद्वीपभागेभ्यस्तथा प्रजाः समाययुः ॥४४॥
विमानैर्हस्तिभिश्चाश्वैरनोभिः राण्डियैस्तथा ।
उष्ट्रैश्च वृषभैश्चापि स्वर्णरत्नधनान्विताः ॥४५॥
बहुभोज्यप्रदेयैश्च वस्तुभिः सह चाययुः ।
दासदासीसमायुक्ताः पुत्रपुत्र्यादिवल्गिताः ॥४६॥
दम्पतीसमुदायाश्च सवे तत्र समाययुः ।
यज्ञार्हाभिश्चोपदाभिः सामग्रीभिः समाययुः ॥४७॥
षड्विंशतिक्षितिपास्तेऽसंख्यद्रव्यसमन्विताः ।
यज्ञार्थं वस्तुसामग्रीनीत्वोत्साहभरा मखे ॥४८॥
आगत्य प्रददुः सर्वाः सामग्रीर्विविधास्तदा ।
गालवायर्षये सर्वाध्यक्षेशानाय वै तथा ॥४९॥
ईशानः श्रीमहादेवो वैष्णवः परमेश्वरः ।
सर्वयज्ञक्रियाध्यक्षो वस्त्वध्यक्षोऽभवत्तदा ॥५०॥
मण्डपादिव्यवस्थाया नियामकोऽपि सो ह्यभूत् ।
राजभिस्तत्र चागत्येशानाय विनिवेदितम् ॥५१॥
राजवर्गो हि प्रत्येकं यज्ञार्थं यजमानकः ।
व्ययं दातुं प्रभवति तस्मान्मखा नृपाऽर्थिताः ॥५२॥
षड्विंशतिसंख्याकाश्च भवन्तु कुण्डशोभिताः ।
श्रुत्वैवं राजवर्गस्य वाक्यं वृकायनस्तथा ॥५३॥
लोमशश्च तथेशानो नीलाकर्णादयस्तथा ।
स्वयंप्रकाशः कपिलो देवप्रकाशकोऽपरे ॥५४॥
अग्रगा जगृहुर्वाचो विश्वकर्माऽत्र दैवतः ।
आज्ञां प्राप्यर्षीणां तत्र तथा कुण्डानि चक्रतुः ॥५५॥
सप्तविंशो महान् कुण्डमूर्धन्यो भगवत्कृते ।
विहितो होममूर्धन्यः कृष्णनारायणार्थकः ॥५६॥
कुण्डा नवविधास्तत्र कृता वै विश्वकर्मणा ।
वेदर्षिविधितः सर्वे दिशा नियमतस्तथा ॥५७॥
सर्वतोभद्रवेद्याख्यः कमलाकारकुण्डकः ।
सर्वतोभद्रिका वेदी चतुरस्रा तथा कृता ॥५८॥
योनिकुण्डः कृतश्चापि कुण्डोऽर्धचन्द्रकः कृतः ।
कुण्डस्त्रिकोणकश्चापि कुण्डो वर्तुलकस्तथा ॥५९॥
षट्कोणकुण्डकश्चापि षट्पत्रकुण्डकस्तथा ।
कुण्डोऽष्टकोणकश्चापि कुण्डोऽष्टपत्रकस्तथा ॥६०॥
कृतश्चाचार्यकुण्डश्च ऋग्वेदिकुण्डकः कृतः ।
यजुर्वेदिकुण्डकश्चाऽथर्ववेदिप्रकुण्डकः ॥६१॥
सामवेदिकुण्डकश्च वेदिकाश्चापराः कृताः ।
मध्यवेद्यः पार्श्ववेद्यस्तथा च विधिना कृताः ॥६२॥
एवं यथायथं पृथ्वीं संस्कृत्य मण्डपान्तरे ।
यथायोग्यान् शुभकुण्डान् वेदिकाश्चातिशोभिताः ॥६३॥
देवायतनकश्चापि विश्वकर्मा प्रचक्रतुः ।
मण्डपान् रुचिरान् रम्यस्तंभध्वजसुशोभितान् ॥६४॥
दिक्चिह्नादिसमाढ्यसत्तोरणादिभिरञ्चितान् ।
शतक्रोशे कारयामासतुस्तौ दिव्यवैभवान् ॥६५॥
नैसर्गिकानि तेजांसि निसर्गसलिलान्यपि ।
शीतसुगन्धिवायुश्च निसर्गोद्यानभूमयः ॥६६॥
स्वल्पविमानवाहाश्च विद्युद्विमानकोटयः ।
दोलाश्च विविधास्तत्र निसर्गगीतयस्तथा ॥६७॥
शीतोष्णहदकुण्डाश्च निसर्गगन्धसारकाः ।
शय्यावाहनभोग्यानि मालापुष्पाणि वै तथा ॥६८॥
निसर्गतैलसाराश्च सर्वं नैसर्गिकं कृतम् ।
स्वर्गं वा सत्यलोको वा किं वा वैकुण्ठमेव तत् ॥६९॥
सूर्या निसर्गजा यत्र चन्द्रा निसर्गभासुराः ।
सरांसि सरितो यत्र वहन्ति च निसर्गजाः ॥७०॥
एवं वै दैहिकं सर्वं क्लृप्तं दिव्यं निसर्गजम् ।
राज्ञां चापि प्रजानां च श्रेष्ठिनां च तपस्विनाम् ॥७१॥
दरिद्राणां नराणां च योषितां षण्ढकस्य च ।
भोगा भोग्यास्तथा वासा भक्ष्याः पेयास्तथालयाः ॥७२॥
समानं दिव्यलोकीयं नित्यविभूतिजं तदा ।
क्लृप्तं वै सच्चिदानन्दं हासनाशविवर्जितम् ॥७३॥
दुग्धार्थं चागतास्तत्र गोलोकात् कामधेनवः ।
दुग्धकुल्या दधिकुल्या घृतकुल्याश्च पायसम् ॥७४॥
क्षीरं च दुग्धसाराणि नवनीतानि वै तदा ।
अक्षय्यान्यभवन् दिव्यान्यपि हव्यान्यनन्ततः ॥७५॥
वृक्षाश्च वल्लिका कल्पलता निन्युर्मधून्यपि ।
इक्षुसारान् गुडान् खण्डाः शर्कराश्चाप्यसंख्यकाः ॥७६॥
गुन्द्राँश्च गुन्द्रपाकांश्च फलानि च दलानि च ।
अरण्यानि वनान्युद्यानानि निन्युरनन्ततः ॥७७॥
ओषधयस्तदा दिव्याः कणान् व्रीहीन् रसाँस्तथा ।
तिलान् यवान् सुधान्यानि समिधो निन्युरुत्सुकाः ॥७८॥
मेघाश्च वार्धयो मिष्टा नदा नद्यः सरांसि च ।
नैसर्गशीतमिष्टानि निन्युः पेयानि चान्ततः ॥७९॥
श्रीलक्ष्म्यौ श्रीहरेः पत्न्यौ भूलीलाब्जाविभूतयः ।
रमाऽन्नपूर्णा कमला निन्युर्मिष्टान्नपर्वतान् ॥८०॥
स्तम्बाः स्तबकागुच्छाश्च गुल्मा नालाश्च काण्डिकाः ।
वल्लयस्तृणपत्राश्च निन्युः पुष्पाणि चान्ततः ॥८१॥
गह्वराणि खनयश्च पर्वता विवराणि च ।
गैरिकाश्चित्रचूर्णानि निन्युः कुंकुमरंगकान् ॥८२॥
मेरुः पात्राणि सर्वाणि चेन्द्रश्चाऽऽस्तरणानि च ।
देवताश्च विमानानि निन्युर्यज्ञमहोत्सवे ॥८३॥
वसवश्च कुबेरश्च द्रव्याणि तु ददुर्मखे ।
हिमालयोरलाद्याश्च मणिरत्नानि वै ददुः ॥८४॥
समुद्रा द्वीपभागाश्च मौक्तिकानि ददुर्मखे ।
घनाश्चक्रुस्तदा छायामृतवश्चानुकूलताम् ॥८५॥
गन्धर्वा वादकाः सर्वे ददुर्वाद्यानि शारदाः ।
राजानश्च ददुर्दासदासीर्भृत्यान् सुकर्मिणः ॥८६॥
छत्रचामरयानानि वाहनानि क्रतौ तदा ।
गृहे गृहे च निचिताश्चिन्तामणिगणास्ततः ॥८७॥
चिन्तयन्ति यदेवाऽर्थ्यं तत् तत् सर्वं ददत्यपि ।
पटहः श्रीहरेर्दिव्यो नृत्यँश्च निनदन् मुहुः ॥८८॥
कल्पपटहरूपोऽयं चाऽक्षरब्रह्मरूपवान् ।
सर्वापेक्ष्यनिधिप्रख्यो ददात्यप्यभिवाञ्छितम् ॥८९॥
वस्त्राभूषाद्रवद्द्रव्यशृंगारं देवशिल्पिनः ।
यदपेक्ष्यं द्रुतं प्रत्युपस्थापयन्ति वै मखे ॥९०॥
एवं वै सर्ववस्तूनामानन्त्यं तत्र विद्यते ।
जलदेवी स्वयं यत्र रसरूपा व्यजायत ॥९१॥
भूदेवी भोज्यरूपा च किं न्यूनं तत्र राधिके ।
अनादिश्रीकृष्णनारायणस्य वाञ्च्छया त्विदम् ॥९२॥
संहितं समभूत् तत्राऽन्तःस्थितस्याऽऽज्ञया द्रुतम् ।
सूर्यं चन्द्रं निशां सन्ध्यां दिनं वायुं तथाऽम्बरम् ॥९३॥
अनलं श्रवणान् देवान् पृथ्वीं जलं च पर्वतान् ।
मेघान् कालं वृषं मायामाज्ञां चकार माधवः ॥९४॥
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
सर्वे द्रागेव सर्वत्र चतुर्दशस्तरेषु वै ॥९५॥
आवेदयन्तु जनता अध्वरो वै प्रजायते ।
हव्यमादाय च केतुमाले यन्तु मखोत्सुकाः ॥९६॥
इत्याज्ञप्तैर्वेदिताश्च स्थानिनः स्तरवासिनः ।
आनिन्युस्तत्र हव्यानि चोपदाः सीमवर्जिताः ॥९७॥
इत्येवं राधिके यज्ञेऽसंख्यसामग्रिकाद्रयः ।
पूर्वमेवाऽभवन् क्लृप्ता अचिन्त्या वै महर्षिभिः ॥९८॥
षड्विंशतिक्षितिपाला महाश्चर्यं प्रपेदिरे ।
अहो देवस्य माहात्म्यं चानुमातुं न शक्यते ॥९९॥
अभवन् गर्वहीनाश्च सामग्र्यल्पं निजं विदुः ।
पठनाच्छ्रवणाच्चास्य राधे यज्ञफलं लभेत् ॥१००॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशादीनामृषीणां देवायतनविश्वकर्मणोः केतुमालीयभूभृतां प्रजानां च यज्ञभूमावागमनम्,
मण्डपकुण्डहव्योपकरणादिसमुपस्थितिरितिनिरूपणनामा सप्तषष्ट्यधिकशततमोऽध्यायः ॥१६७॥
N/A
References : N/A
Last Updated : May 01, 2021
TOP