त्रेतायुगसन्तानः - अध्यायः ५८
लक्ष्मीनारायणसंहिता
श्रीराधिकोवाच-
कोऽयमासीद् रक्तबीजोऽसुरः कृष्ण पुरा भवे ।
कथं पुनः स सञ्जातो धुन्धुः कः किं करिष्यति ॥१॥
श्रीकृष्ण उवाच-
शृणु वै राधिके पूर्वसृष्ट्युत्थां सुकथां शुभाम् ।
पूर्वकल्पे गते रात्रौ महामत्स्यो नरायणः ॥२॥
जले शृंगे स्वके कृत्वा नावं सत्यवता युतम् ।
बीजानि लोकरक्षार्थं पुनः सृष्ट्यर्थमित्यपि ॥३॥
नावि धृत्वा विचचार प्रालेयजलमस्तके ।
तत्र प्रातर्जलोत्पन्नो महामत्स्योऽब्धिजस्तदा ॥४॥
नारायणेन मत्स्येन योद्धुं तत्र समागतः ।
नौस्थान् बीजान् भक्षयितुं समिच्छन् युयुधे तदा ॥५॥
नारायणेन मत्स्येन धृतं सुदर्शनं तदा ।
मुक्तं मत्स्यस्य शिरसि द्वेधा मत्स्यो बभूव ह ॥६॥
तस्य रक्तकणाज्जाता मत्स्या जले तु कोटिशः ।
चक्रविदार्यमाणस्य चाब्धिमत्स्यस्य वै तदा ॥७॥
रक्तस्य बिन्दवो देहादुड्डीय नावमागताः ।
केषुचित्तेषु बीजेषु लग्नास्ते भूभृता तदा ॥८॥
प्रातरेव च नौकातो बहिः क्षिप्ता जले यदा ।
दशसाहस्रसंख्यास्ते रक्तबीजा हि राक्षसाः ॥९॥
द्रागेव तु जले तत्र समुत्पन्ना निसर्गतः ।
मत्स्यपुत्रास्तु ते सर्वे सामुद्रजलवासिनः ॥१०॥
द्वीपं च मार्गयामासुः शाश्वतावासमुच्छ्रयम् ।
तावज्जलं तु प्रालेयं प्रातर्यातं हि शुष्कताम् ॥११॥
सशैला पृथिवी तत्राऽदृश्यताऽपां सुमध्यगा ।
मत्स्यावतारो भगवान् सत्यवन्तं नृपं तदा ॥१२॥
बीजानां वपनं पृथ्व्यां कुर्वित्याज्ञाप्य वै क्षणात् ।
तिरोबभूव सहसा राजाऽपि बीजशेवधिम् ॥१३॥
पृथ्व्यां जलेऽम्बरे वायौ निचिक्षेप च तेजसि ।
प्रक्षिप्य सर्वबीजानि नावं तत्याज वै जले ॥१४॥
नौकाया अरनद्धेषु काष्ठेषु च व्रणेषु च ।
यानि सूक्ष्माणि बीजानि लग्नान्यासन् हि तानि तु ॥१५॥
भक्षयितुं दुद्रुवुश्च रक्तबीजा हि राक्षसाः ।
नावमारुह्य ते सूक्ष्मबीजान्यभक्षयंस्तदा ॥१६॥
तद्भक्षणात् समुत्पन्ना बालका आरबीजकाः ।
बालिकाश्च तथा जाता आरबीज्यः सुयौवनाः ॥१७॥
तेषु सर्वेषु जातेषु नौकाऽप्यदृश्यतां गता ।
रक्तबीजप्रजाः सर्वा आरबीजाह्वयाश्च ताः ॥१८॥
कामरूपधरा व्योमविहाराश्च निराश्रयाः ।
उड्डीय जलधेः पृथ्व्यां निवासाँश्चाप्यमार्गयन् ॥१९॥
यत्राऽस्माकं भवेद् वासो जलं च परितो भवेत् ।
तत्परितश्च पृथिवी भवेच्चापि वनादिकम् ॥२०॥
रणमरण्यमनुजा बीजपुष्पफलानि च ।
गह्वराणि विचित्राणि भवेयुर्यत्र सर्वतः ॥२१॥
तत्र वस्तव्यमस्माभिरिति मत्वा च तादृशम् ।
भूतलं रक्तबीजैर्हि तत्प्रजाभिश्च सर्वथा ॥२२॥
आरबीजैः स्वीकृतं सद्भूतलं द्वीपकल्पकम् ।
रक्तबीजो महान् राजा मत्स्यबीजोद्भवः पुरा ॥२३॥
तत्प्रजानां तदा जातस्ततस्तदुद्भवो नृपः ।
आरबीजो महान् राजाऽभवद् देवविरोधकृत् ॥२४॥
तं हत्वा यमराजस्तु राज्यं निजानुगाय वै ।
अरवाय ददौ सम्यगृषीणां रक्षणाय च ॥२५॥
रक्तबीजो हतो युद्धे यमलोकं जगाम ह ।
तत्र कर्मभोगान् कश्यपस्यौरसः सुतः ॥२६॥
दनोर्गभसमुद्भूतो धुन्धुनामा भविष्यति ।
ब्रह्माणं तपसाऽऽराध्य सुराऽवध्यत्वमेष्यति ॥२७॥
स्वर्गं विजेष्यति द्राक् च स्वयं शक्रो भविष्यति ।
आसुरं तु तदा राज्यं भविष्यति त्रिविष्टपे ॥२८॥
त्रिदशा ब्रह्मलोकं च गमिष्यन्त्यस्य वै भयात् ।
धुन्धुर्वक्ष्यति दैत्याँश्च भो दैत्या हि कथं वयम् ॥२९॥
व्रजेम सत्यलोकं संविजेतुं त्रिदशादिकान् ।
दैत्या निशम्य वक्ष्यन्ति न नो गतिर्हि तत्र वै ॥३०॥
इतो लोको महश्चास्ते महर्षिगणसेवितः ।
योषां दृष्ट्र्या च दह्यन्ति दैत्याः सरोषकेक्षणैः ॥३१॥
ततः परो जनलोको जना देवा वसन्त्यथ ।
ततस्तपस्ततः सत्यो यत्र ब्रह्मपरा स्थिताः ॥३२॥
योषां वेदध्वनिं श्रुत्वा विकसन्ति सुरादयः ।
संकोचमसुरा यान्ति ये च तेषां सधर्मिणः ॥३३॥
तस्मान्मा त्वं महाबाहो तत्र गन्तुं समादधः ।
वैराज्यभवनं क्षुब्धो दुरारोहं तु दानवैः ॥३४॥
तेषां तु वचनं श्रुत्वा धुन्धुर्दैत्यान् प्रवक्ष्यति ।
गन्तुकामः स सदनं ब्रह्मणो जेतुमीश्वरान् ॥३९॥
केन तु कर्मणा, कथं गम्यते, तत्र दानवाः ।
इन्द्रः कथं प्रयात्येव दैवाः प्रयान्ति वै कथम् ॥३६॥
वदताऽत्र च मे दैत्याः कुर्मा वयं तु तत्तथा ।
ततो दैत्यगुरुः शुक्रः कथयिष्यति साधनम् ॥३७॥
सहस्राक्षः शतं चैकं यज्ञानामयजत् पुरा ।
श्रेष्ठानां वाजिमेधानां तेन ब्रह्मसदोगतिः ॥३८॥
शुक्रवाक्यं निशम्याथ यज्ञान् स वै करिष्यति ।
शुक्रमामन्त्र्य च दैत्यान् दानवान् वसुधां प्रति ॥३९॥
गमिष्यति सरिच्छ्रेष्ठा देविकां सिद्धिदां ततः ।
संविधास्यति यज्ञांश्च भार्गवैः शुक्रशिष्यकैः ॥४०॥
यज्ञभागभुजस्तत्र स्वर्भानुप्रमुखास्तदा ।
भविष्यन्ति हयत्राताऽग्निधूमाऽसुर एव च ॥४१॥
विचरिष्यति पृथ्व्यां च गन्धो यास्यति वै दिवम् ।
घ्रात्वा देवा विषण्णाश्च प्रवक्ष्यन्ति तु वेधसम् ॥४२॥
सवेधसो गमिष्यन्ति क्षीरस्थं परमेश्वरम् ।
विज्ञप्तिं च करिष्यन्ति श्रूयतां वै जनार्दन ॥४३॥
धुन्धुनामाऽसुरपतिर्बलवान् बलसंवृतः ।
त्रैलोक्याधिपतिश्चास्ते नस्त्राता नैव विद्यते ॥४४॥
साम्प्रतं ब्रह्मलोकस्थानपि जेतुं समुद्यतः ।
शुक्रस्य मतमादाय यजते च शतक्रतून् ॥४५॥
आरोढुमिच्छति सत्यलोकं जेतुं च वेधसम् ।
तस्मादकालहीनं च चिन्तयस्व परेश्वर ॥४६॥
उपायं यज्ञनाशे च येन स्याम सुनिर्वृताः ।
श्रुत्वा वक्ष्यति भगवान् यूयं गच्छथ केतनम् ॥४७॥
गच्छाम्यहं विजेतुं तमित्युक्त्वा च गमिष्यति ।
भगवान् वामनो भूत्वा स्नास्यति देविकाजले ॥४८॥
पतिष्यति देविकाया जले यज्ञस्य सन्निधौ ।
क्षणान्मज्जँस्तथौन्मज्जन् जलचेष्टां करिष्यति ॥४९॥
यज्ञीयाश्च निमज्जतीत्येवं मत्वा द्रुतं च तम् ।
उद्धर्तुं च प्रयास्यन्ति समुद्धार्य तटस्थितम् ॥५०॥
वामनं तं ब्राह्मणं च प्रक्ष्यन्ति धुन्धुऋत्विजः ।
कस्त्वं कस्मात् समायातः कथं किं ते प्रयोजनम् ॥५१॥
तदा वक्ष्यति विप्रः स दुःख्यहं गृहवर्जितः ।
मम पिता प्रभासाख्यो गोत्रेणापि तु वारुणः ॥५२॥
मम भ्राता नेत्रभासो गतिभासोऽहमेव च ।
रम्यं चावसथं त्यक्त्वा पिता नौ च मृतस्ततः ॥५३॥
वर्षान्ते चाग्रजश्चोक्तो विभजाम गृहं च नौ ।
तेनोक्तौ नैव भवतो विद्यते भाग इत्यहम् ॥५४॥
कुब्जवामनखञ्जानां क्लीबानां श्वित्रिणामपि ।
उन्मत्तानां तथाऽन्धानां दायभागो न विद्यते ॥५५॥
प्रियं वाक्यं गृहे वासो भोजनाच्छादनादिकम् ।
एतावद् दीयते तेभ्यो दायभागहरा न ते ॥५६॥
ततः क्लेशेन महता निष्कासितोऽस्मि तद्गृहात् ।
यज्ञं श्रुत्वा समायातो स्नातुं जले प्रवेशवान् ॥५७॥
निमज्जितो यतश्चाहं न जाने ह्यवतारणम् ।
के भवन्तोऽत्र सम्प्राप्ताः सस्नेहा बान्धवा यथा ॥५८॥
कोऽयं शक्रप्रतिकाशो युष्मन्मध्ये विभासते ।
अनुकम्पां प्रकुर्वन्तु यद्याश्रयोऽत्र लभ्यते ॥५९॥
इति वै वामनवाक्यं श्रुत्वा विप्राश्च धुन्धुकम् ।
प्रवक्ष्यन्ति च दानार्थं धुन्धुर्दास्यति शोभनम् ॥६०॥
श्रीमदावसथं दासी रत्नानि विविधानि च ।
सर्वोपस्करयोगाँश्च दासान् गा वाहनानि च ॥६१॥
हिरण्यं स्यन्दनानश्वान् गजान् तथापि वामनः ।
न ग्रहीष्यति विभवान् साधुधर्मं वदँस्तदा ॥६२॥
दासीर्दासाँश्च भृत्याँश्च गृहं रत्नं परिच्छदान् ।
त्यक्त्वा पदत्रयं भूम्यासनं सेत्स्यति वै तदा ॥६३॥
धुन्धुर्दास्यति भूभागं पदत्रयं यदा ततः ।
वैराजरूपमास्थाय पदैकेन महीमिमाम् ॥६४॥
द्वितीयेन कटाहं च तृतीयेन च दानवम् ।
ग्रहीष्यति हरिस्तं च पातालेऽधो नयिष्यति ॥६५॥
देवेभ्यश्च निजं राज्यं दत्वाऽदृश्यो भविष्यति ।
पुनर्बलेर्वर्धितस्य राज्यं खर्वो हरिष्यति ॥६६॥
अथ धुन्धुरन्धकस्य साहाय्यं च करिष्यति ।
अन्धकस्य महायुद्धं शंकरेण भविष्यति ॥६७॥
शुक्राचार्यं तदा शंभुर्मुखे प्रक्षिप्य चोदरे ।
धृत्वा पुनश्च शिश्नेन तदा निष्कासयिष्यति ॥६८॥
शुक्ररूपः शुक्रनाम्ना शंभोः पुत्रो भविष्यति ।
अथेन्धकेन योद्धु च महेन्द्रोऽपि गमिष्यति ॥६९॥
मूर्ध्नि वज्रं परिभ्राम्याऽन्धकं यदा हनिष्यति ।
अन्धकस्य शिरस्येव वज्रं चूर्णं भविष्यति ॥७०॥
वह्निस्तस्मै तदा शक्तिं दास्यत्येव भयंकराम् ।
तथा च देवगन्धर्वा रथं दास्यन्ति स्वस्तिकम् ॥७१॥
शमीकस्य ऋषेः पत्नी बालं तदा तु भूतले ।
पृथिव्यां कम्पमानायां स्थापयिष्यति वै तदा ॥७२॥
बालौ द्वावेकतश्चैव भविष्यतस्तदा तयोः ।
एको वै मातलिर्नामा गमिष्यति महेन्द्रकम् ॥७३॥
तदा स सारथिर्भूत्वा साहाय्यं च करिष्यति ।
रुद्रस्तदा महेन्द्रश्च तथाऽन्ये देवताः सह ॥७४॥
मारयिष्यन्त्यंधकं च शंकरो लोकशंकरः ।
शंकरस्य ललाटोर्ध्वाद् गदाघातेन बिन्दवः ॥७५॥
रक्तस्यापि पतिष्यन्ति भविष्यन्ति च भैरवाः ।
विद्याराजो रुद्रराजश्चण्डः प्रचण्ड इत्यपि ॥७६॥
कपाल्येककपाली च तथा ललितराजकः ।
विघ्नराजोऽष्टमश्चापि भैरवास्ते तदोद्भवाः ॥७७॥
ललाटफलकाच्छंभोः कन्याश्चैका भविष्यति ।
चर्च्चिका नामतः साध्वी हिङ्गुलाद्रिनिवासिनी ॥७८॥
अथाऽन्धकं मारयित्वा भृंगिनामगणं स्वकम् ।
करिष्यति शंकरस्तं ततो धुन्धुर्भयान्वितः ॥७९॥
पातालं यास्यति शीघ्रं ततः कालान्तरे पुनः ।
बलेः साहाय्यतां यदा करिष्यति तदा हरिः ॥८०॥
सुदर्शनेन च धुन्धुं मारयिष्यति जीवतः ।
इत्येवं कथितं राधे रक्तबीजकथानकम् ॥८१॥
श्रीराधिकोवाच-
कथं कृष्ण जलमत्स्यो विष्णुचक्रेण घातितः ।
पवित्रतां गतो नैव यद्वंशे राक्षसा यतः ॥८२॥
श्रीकृष्ण उवाच-
विष्णुचक्रपरिच्छिन्नो जलमत्स्यस्तु राधिके ।
गतपापोऽभवच्छीघ्रं स्वर्गे महेन्द्रतां गतः ॥८३॥
आद्यः स एव संकल्पजन्योऽभूद् देवतापतिः ।
आद्ययुगप्रवृत्त्यर्थं ततः पृथ्व्यामवातरत् ॥८४॥
विष्णुभक्तोऽभवल्लोके सुवर्णांगदविश्रुतः ।
अनादिश्रीकृष्णनारायणभक्तोऽतिमानवः ॥८५॥
ततो धाम ययौ दिव्यं परं कृष्णस्य राधिके ।
अथ ये रक्तबीजाश्च आरबीजादयस्तथा ॥८६॥
ते सर्वे बीजहन्तारः सृष्ट्यादौ चाऽभवन् यतः ।
सत्यव्रतस्य शापेन राक्षसत्वमपागताः ॥८७॥
आदिबीजप्रहन्तारश्चाऽलभ्यवस्तुनाशकाः ।
महापापाऽतिपापास्ते यतो वंशविनाशकाः ॥८८॥
विचार्येत्थं तदा राजा शशापैतान् विघातकान् ।
बीजघातप्रकर्तारश्चासुरा वै भविष्यथ ॥८९॥
इत्येवमासुरा जाता यतश्चासुरभावनाः ।
पक्ष्यण्डानां कललादेर्भक्षका राक्षसा हि ते ॥९०॥
पशुबीजप्रहन्तारो रजोवीर्यविनाशकाः ।
बीजकोशप्रहन्तारस्तामसास्तेऽसुरा मताः ॥९१॥
अलभ्यबीजघाते तु महत् पापं प्रजायते ।
प्रथमं पार्वती देवी शंकरस्य समागमे ॥९२॥
बीजलब्धेरवसरे देवैर्विघ्नवती कृता ।
शशाप दयिता साध्वी दुःखितेनाऽन्तरात्मना ॥९३॥
देवा मे गर्भवाञ्च्छाया घातकाः स्वार्थसिद्धये ।
बीजदाने घातका वै यतो जाता हरं प्रति ॥९४॥
अपुत्राऽहमगर्भाऽहं कृता युष्माभिरित्यतः ।
भवन्तोऽपि ह्यपुत्राश्च भवत्पत्न्योऽप्यगर्भिकाः ॥९५॥
अनपत्याः सदा सन्तु इति देवान् शशाप सा ।
तस्माद्वै राधिके पापं प्रथमं बीजघातनम् ॥९६॥
ततोऽप्यधिकपापं च स्त्रिया वै ऋतुघातनम् ।
ततोऽप्यत्यधिकं पापं गर्भहत्या प्रकथ्यते ॥९७॥
सर्वेभ्यश्चोल्बणं पापं बालकस्य विनाशनम् ।
सद्यो विवाहितयोश्च घातनं पापकोटिकम् ॥९८॥
सगर्भाघातनं पापं पापकोट्यर्बुदाऽधिकम् ।
असमाप्ते तु मिथुने घातनं सृष्टिघातजम् ॥९९॥
पापं वै जायते तस्माद् बीजघ्ना नोद्धरन्ति वै ।
ब्रह्मचारिव्रतं तस्मात् पुण्यदं मोक्षदं मतम् ॥१००॥
यत्र बीजं न हन्येत रक्ष्यते तु स्वभावतः ।
रक्षणस्य महत्पुण्यं धर्मेणाऽपि प्रदानकम् ॥१०१॥
महत् पुण्यं स्वयं ब्रह्मा विष्णुः शिवो जगुः सदा ।
इत्येवं राधिके चोक्तं राक्षसत्वे हि कारणम् ॥१०२॥
बीजघ्नानां स्वयं कृष्णो दृष्टेः पथं प्रयाति न ।
यमद्वारा विनाशश्च तेषां करितवान् प्रभुः ॥१०३॥
ऋतुदानं महत्पुण्यं गृहस्थानां सुरोदितम् ।
वंशदानं चातिपुण्यं वंशकृतां प्रकीर्तितम् ॥१०४॥
निर्वंशा नोद्धरन्त्येव संसाराऽब्धि तरन्ति न ।
सवंशाः पितरस्तृप्ताः समुद्धरन्ति सागरात् ॥१०५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने रक्तबीजाऽऽरबीजाद्यसुरोत्पत्तिर्धुन्धुदैत्योत्पत्तिर्बीजनाशात्मकपातक-
मित्यादिनिरूपणनामाऽष्टपञ्चाशत्तमोऽध्यायः ॥५८॥
N/A
References : N/A
Last Updated : May 01, 2021
TOP