त्रेतायुगसन्तानः - अध्यायः ७८
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
यज्ज्ञानं प्रददौ श्रीमत्सुरतायनयोगिराट् ।
ब्राह्मणेभ्यस्तु तज्ज्ञानं राधे ते कथयामि च ॥१॥
राधे पूर्वं मया दत्तं सुरतायनयोगिने ।
तदेव तेऽत्र संवच्मि लोकानां हितकृद् यतः ॥२॥
सुरतायनविप्रर्षिः प्राह शृणुत भूसुराः ।
अनादिश्रीकृष्णनारायणस्वामीश्वरेश्वरः ॥३॥
राजते कुंकुमवापीक्षेत्रे सौराष्ट्रमण्डले ।
यो वै साक्षात्परब्रह्म परमात्मा परेश्वरः ॥४॥
सर्वशक्तिसमायुक्तः पापिनां पापनाशकः ।
तं देवं परमेशानं यात शरणमुत्तमम् ॥५॥
भक्त्या त्वनन्यया तं श्रीकृष्णमर्चयत ध्रुवम् ।
ध्यानेन कर्मयोगेन भक्त्या ज्ञानेन चैव सः ॥६॥
प्राप्यः श्रीपरमेशानो यात तं शरणं द्विजाः ।
दानधर्मात्मकं कर्म यद्यद्वर्णाश्रमात्मकम् ॥७॥
अध्यात्मज्ञानसहितं मुक्तये भवति द्विजाः ।
मया धर्मः पुरा प्रोक्तो ब्रह्मविद्यात्मकः परः ॥८॥
सर्वार्पणे मयि क्षिप्ते कर्ता क्वचिन्न लिप्यते ।
धर्मो ज्ञानं दास्यभक्तिः परं ब्रह्म प्रकाशयेत् ॥९॥
सर्वसंगान् परित्यज्य तमेव शरणं गताः ।
उपासते सदा भक्त्या योगमैश्वरमास्थिताः ॥१०॥
सर्वसंगविनिर्मुक्ताः शान्ता दान्ता विमत्सराः ।
अमानिनो हरौ सर्वसमर्पणास्तदर्थकाः ॥११॥
तच्चित्तास्तद्गतप्राणास्तज्ज्ञानकथने रताः ।
सर्वन्यासा हरौ नार्यो नरा वा बालयौवनाः ॥१२॥
तेषां बन्धनहर्ता वै परमेशो हरिः स्वयम् ।
ते सुनिर्धूततमसो ज्ञानेनैकेन तन्मयाः ॥१३॥
सदानन्दास्तु संसारे न जायन्ते पुनर्भवाः ।
कर्मणा मनसा वाचा यान्तु तं शरणं द्विजाः ॥१४॥
बाल्यं तु सर्वदा रक्ष्यं गर्भावस्था च योगिना ।
यथा बाल्ये च वा गर्भे वासना वाञ्च्छना तृषा ॥१५॥
ईहा तृष्णा रागिता च वर्तन्ते नैव शाखिवत् ।
तथैव यौवने चापि वार्धक्ये स्थेयमेव च ॥१६॥
यथा सुषुप्तो विज्ञोऽपि ज्ञप्तेः फलं न चैति हि ।
तथा विप्राः सदा स्थेयं ज्ञानेऽपि मुनिता यथा ॥१७॥
यथा त्वन्यमनस्कस्य नेन्द्रियग्राह्यवेदनम् ।
तथा कृष्णमनस्कस्य वृत्तिर्विप्रस्य मुक्तये ॥१८॥
यथा बालः पृथिव्यास्तु मृदमादाय लिम्पति ।
न शोकं वाऽपि हर्षं च बहु तत्रैव मन्यते ॥१९॥
तथा सर्वाणि वस्तूनि क्रिया व्यापारगोचराः ।
तस्मिन् देवे विनिःक्षिप्य मृत्तिकापिण्डवद् बुधः ॥२०॥
संगृह्याऽपि न शोकं वा हर्षं निन्देत तत्रहि ।
तदा तत्फलवेदित्वं नाऽस्याऽतीव प्रवर्तते ॥२१॥
अवेदित्वे न भोक्तृत्वं कश्मलं नोपजायते ।
नित्यशुद्धस्य या निष्कल्मषता मुक्तिरेव सा ॥२२॥
विषयाश्च शरीरं च तथेन्द्रियाणि मानसम् ।
विज्ञातव्यं पृथक् चापि तत आत्मा निवर्तते ॥२३॥
कर्ता वै बन्धनं याति यदि तेषु प्रसज्जते ।
असङ्गः सज्जते नैव बन्धनं नैव याति च ॥२४॥
विषयास्तु यथा दूरं वर्तन्ते वस्तुरूपिणः ।
न ते सन्ति सहलग्ना न चेदात्माऽत्र सज्जते ॥२५॥
उद्यानस्थानि पुष्पाणि मधुवन्त्यपि षट्पदे ।
न भवन्ति प्रलग्नानि मधोः स्थानं न यान्ति ते ॥२६॥
तथा ते विषयाः सर्वे नाऽऽवृण्वन्ति प्रवेदिनम् ।
आत्मानं पुरुषं तस्माद् बन्धयितव्यमेव न ॥२७॥
शूलिकागृहमाबध्य कीटी वसति तद्गृहे ।
गृहं चाऽऽकृष्य नित्यं सा यत्र तत्र प्रयाति हि ॥२८॥
अन्ते गृहं शरीरं च सर्वं नाशं प्रयाति वै ।
इत्येषा ज्ञानहीना तद्गृहं नीत्वा तु भूतले ॥२९॥
बद्धा सर्वत्र अटति तद्वद् देहस्य बन्धनम् ।
अज्ञा बद्धा चाऽप्यटन्ति देहं नीत्वा स्थले स्थले ॥३०॥
तज्जं दुःखं सुखं चापि प्रतिक्षणं प्रवर्तते ।
योगिनस्तु प्रभावज्ञाः संयमेन शरीरकम् ॥३१॥
एकत्रापि विहायैव लोकान्तरेऽभियान्ति हि ।
न तेषां बन्धनं क्वापि दृढं देहस्य वर्तते ॥३२॥
पुनरागत्य च तत्र वासं कुर्वन्ति चेच्छया ।
पक्षिणो वृक्षशाखायां वसन्ति वासमात्रिणः ॥३३॥
न शाखा बन्धनं तेषां वियन्त्यपि विहाय ताम् ।
तथा देहे निवासोऽपि पक्षिवन्मुक्तवत् कृतः ॥३४॥
बन्धनाय न जायेत जीर्णचर्मेव भोगिनः ।
इन्द्रियाणि भवन्त्येव देहाश्रयाणि सर्वथा ॥३५॥
समनस्कानि बन्धाय निर्मनस्कानि मुक्तये ।
मानसं योजयितव्यं भवेद् यावत्प्रयोजनम् ॥३६॥
प्रत्याहर्तव्यमेवैतन्निष्प्रयोजनकं यदा ।
तदेन्द्रियाणि नैव स्युर्बद्धानि बन्धदानि च ॥३७॥
प्रत्याहृतं मनश्चापि निर्बद्धं बन्धकृन्न वै ।
बुद्धिर्या साक्षिणी साऽपि पतिं चात्मानमाश्रयेत् ॥३८॥
न तु पुत्रं मनश्चापि पुत्रतुल्येन्द्रियाण्यपि ।
नवा दासान् विषयाँश्च कदापि साध्विकाऽऽश्रयेत् ॥३९॥
बुद्धेर्नैर्मल्यमेवैतद् यदत्राऽप्रतिबिम्बनम् ।
एवं प्रवाहरोधे च स्वयमात्मा प्रकाशते ॥४०॥
अव्रणश्चाऽनघश्चाप्यकल्मषः पापवर्जितः ।
फलभावाऽप्रलुब्धश्चाऽसंगो मुक्तो न दुःखभाक् ॥४१॥
निर्द्वन्द्वं मानसं यत्र बुद्धिस्तत्र हि निर्मला ।
गृहिणी निर्मला यत्र गृहेशस्तत्र मोदते ॥४२॥
स्वसम्पत्सु सदा तृप्तो नान्यसम्पदमिच्छति ।
कस्माच्छोकश्च मोहश्च ततोऽस्य नतु जायते ॥४३॥
आत्मतृप्तस्य तु सदानन्दतृप्तस्य योगिनः ।
अत्यन्ततृप्तसंयोगः स्वभावाद्वै प्रवर्तते ॥४४॥
तेनाऽयं मोक्षवन्नित्यं याति तिष्ठति मोदते ।
आनन्दपूर्णतां ज्ञात्वा परेश्वरस्य सर्वथा ॥४५॥
तत्रैव सज्जते सम्यङ्नान्यसक्तिं समिच्छति ।
वृत्तयः कुण्ठिता यस्य बुद्धिस्तृप्त्यात्मिकाऽभवत् ॥४६॥
गृहिणी सुखदा यस्य तस्य मोक्षो गृहे स्थितः ।
गृहिणी दुःखदा यस्य तस्य वै नरकं गृहे ॥४७॥
तस्मात् सा गृहिणी बुद्धिः सर्वनैर्मल्यसाधनैः ।
सम्प्रसन्नयितव्याऽत्र यया राजा प्रसादवान् ॥४८॥
नित्यप्रसादलाभार्थं यतेत परमात्मनि ।
यत्र कर्म न चैवाऽस्ति न चाऽस्ति भोग्यभोक्तृता ॥४९॥
तद्योगेन तथा स्याच्च घोरतावर्जितो भवेत् ।
नित्यानन्दह्रदे मग्नः किं तस्य कर्दमेन वै ॥५०॥
श्वेताऽश्वतरनामा वै आसीद् ब्रह्मर्षिसत्तमः ।
तस्य शिष्यः पृथोः पौत्रः पुत्रः स तु शिखण्डिनः ॥५१॥
सुशीलनामा चाबाल्याद् वैराग्यं समुपाश्रितः ।
मतिं चक्रे भाग्ययोगात् सन्यासं प्रति धर्मवित् ॥५२॥
गुरोः सेवां करोत्येव हिमवत्पृष्ठसंस्थितः ।
धर्मवने स्थितो यत्र नरनारायणः प्रभुः ॥५३॥
यत्र मन्दाकिनी नाम सुपुण्या विमलानदी ।
पद्मोत्पलवनोपेता सिद्धसाधुनिषेविता ॥५४॥
तस्याः स सलिले स्नात्वा तर्पित्वा पितृदेवताः ।
अर्चयित्वा नरयुक्तं नारायणं सुपुष्पकैः ॥५५॥
श्वेताश्वतरसंज्ञं तु गुरुं नत्वैकदाऽऽह च ।
अहो मे सुमहद्भाग्यं तपांसि सफलानि मे ॥५६॥
यन्मे भवादृशः साक्षात् सर्वज्ञ इव सद्गुरुः ।
ज्ञानं भक्तिं च नैष्कर्म्यं सन्यासं देहि मे प्रभो ॥५७॥
इत्युक्तः स गुरुर्देवो ददौ सन्यासमुत्तमम् ।
सम्यङ्न्यासः कर्मणां योऽनादिकृष्णनरायणे ॥५८॥
सर्वसमर्पणं प्रादात् प्रपत्त्यात्मकमित्यथ ।
आचचक्षे महामन्त्रं कृष्णस्य सर्वसिद्धये ॥५९॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
सर्वपापोपशमनं सर्वसारं प्रमुक्तिदम् ॥६०॥
ज्ञानं सर्वार्पणं चापि ददौ सुशीलभूभृते ।
मयि नारायणश्चाऽस्ति नारायणेऽप्यहं स्थितः ॥६१॥
अहं नारायणश्चेति नारायणोऽहमेव च ।
एवं ब्रह्मस्थितेर्ज्ञानं ददौ तु प्रथमं गुरुः ॥६२॥
ततः प्राह न देहस्त्वं देहो नेन्द्रियरूपवान् ।
इन्द्रियाणि मनो नैव मानसं न महत् तथा ॥६३॥
महत्तत्त्वं न चात्मा वै नात्मा मायात्मकः क्वचित् ।
माया नात्मस्वरूपा च त्वदात्मा पारमेश्वरः ॥६४॥
नारायणस्त्वदात्मा च त्वं वै नारायणो मतः ।
नारायणो हि निर्लेपः कर्मबन्धनवर्जितः ॥६५॥
नित्यं शुद्धस्तथा बुद्धो मुक्तो मायाविवर्जितः ।
एवं मत्वा निजं रूपं भज श्रीपरमेश्वरम् ॥६६॥
प्रातः स्नानं निजे देहे परेशानं विधापय ।
वस्त्राधानं निजे देहे परेशानं विधापय ॥६७॥
भूषाधानं चन्दनादि परेशानं विधापय ।
आरार्त्रिकादिदानं च स्वदेहे तस्य वर्तय ॥६८॥
नैवेद्यं भोजनं पानं ताम्बूलकं सुगन्धि च ।
स्वदेहे तं परेशान सम्पादय शरीरिणम् ॥६९॥
उपानत्पादुकाछत्रप्रदानं स्वस्य वर्ष्मणि ।
तस्मै परात्मने सर्वयानाद्यर्पय भावतः ॥७०॥
दर्शनं श्रवणं चापि स्पर्शनं रसनादिकम् ।
कामनं स्नेहनं देहे प्रभवे प्रतिपादय ॥७१॥
शयनं गमनं वार्ता बोधनं मननं तथा ।
हसनं रोदनं चोद्वेजनं तस्मै समर्पय ॥७२॥
विश्रमणं संस्करणं स्खलनं मादनं तथा ।
रमणं ध्यानकरणं देहे देवाय चार्पय ॥७३॥
जृम्भणं द्रावणं दुःखं सुखं कार्यं विचारणम् ।
विवेकं श्वसनं भक्तिं देहे श्रीपतयेऽर्पय ॥७४॥
एवं क्रियाकलापं ते भौतिकं सूक्ष्ममात्रिकम् ।
करणोत्थं भावनोत्थं तस्मिन् कृष्णे समर्पय ॥७५॥
आत्मोद्भव कलापं च परमेशे समर्पय ।
सोऽयं सन्न्यास एवाऽस्ति निर्बन्धो मुक्तिशब्दितः ॥७६॥
तत्फलं च त्वया नैव भोक्तव्यं हरयेऽर्पितम् ।
एवं वै वर्तमानस्य कर्म दिव्यं समस्तकम् ॥७७॥
कामः क्रोधश्च लोभश्च तृष्णा प्रीतिः रतिः क्षतिः ।
घृणा क्रौर्यं च मालिन्यं दिव्यं हर्यर्पणं यतः ॥७८॥
अयं सन्न्यास एवाऽस्ति वैष्णवः पारमार्थिकः ।
तत्रस्थं कल्मषं पुण्यं नैनं वा परिबाधते ॥७९॥
एवं सुशीलः कृतवान् बदर्यां तप आचरन् ।
भजन् देवमनादिश्रीकृष्णनारायणं प्रभुम् ॥८०॥
आयुःक्षये परंधामाऽवाप विगतकल्मषः ।
दिव्यनारायणरूपो बभूवाऽयं चतुर्भुजः ॥८१॥
तथैव तु द्विजा यूयं भजतैनं नरायणम् ।
तापीतटे वैष्णवेन यज्ञेन विगतज्वराः ॥८२॥
इत्ययं भगवांस्तुष्टो हनिष्यत्यपि कल्मषम् ।
एवमुक्तास्तु ते विप्राश्चक्रुर्यज्ञं सुवैष्णवम् ॥८३॥
तपत्याः सत्तटे तत्र चन्दनद्रुमसंकुले ।
सप्तमे दिवसे होमावसाने बालरूपकः ॥८४॥
अनादिश्रीकृष्णनारायणः साक्षात् समागतः ।
प्रसन्नोऽस्मीत्युवाचैतान् वरं वृणुत भूसुराः ॥८५॥
विप्रा विलोक्य मुक्तेशं कोटिसूर्यप्रभास्वरम् ।
नेमुस्तं तुष्टुवुर्वव्रुर्दानं कल्मषनाशनम् ॥८६॥
अन्ते धाम परं देहि दर्शनं चाश्वसारसम् ।
दास्यं देहि सदा चेत्यर्थयित्वा मौनमादधुः ॥८७॥
तथाऽस्त्विति प्राह कृष्णनारायणो हसन् हरिः ।
सस्मार चाश्विनीपुत्रौ वैद्यौ रूपप्रदौ प्रभू ॥८८॥
सूर्यपुत्रावकस्माच्च तत्राऽऽगतौ सुवर्चुलौ ।
सुरूपौ यौवनोपेतौ भूषामुकुटमण्डितौ ॥८९॥
शंखचक्रगदापद्मधारिणौ कौस्तुभान्वितौ ।
श्रीरमासेवितौ कृष्णं नेमतुस्तौ नरायणम् ॥९०॥
ववन्दाते श्रीहरिं च किं कुर्वः शाधि नाविह ।
अनादिश्रीकृष्णनारायणः प्राह कृपाभरः ॥९१॥
विप्रा घोरप्रतिग्रहादिमे कल्मषतां गताः ।
यथा निष्कल्मषा स्युस्ते कुरुतं वै तथौषधम् ॥९२॥
श्रुत्वैव चाश्विनीबालौ प्रणम्य परमेश्वरम् ।
आहतुर्भगवन् सर्वं कर्तुं चासि स्वयं प्रभुः ॥९३॥
अवतारैः प्रपूज्यस्त्वं वर्तसे परमेश्वरः ।
संकल्पे ते महासृष्टिस्थितिक्षैण्याद्यवस्थितिः ॥९४॥
तथापि कृपया सेवां कारयितुं स्मृतौ च नौ ।
नान्यदत्रौषधं श्रेष्ठं तव पादामृतं विना ॥९५॥
काद्रूप्यं कल्मषाण्येषां लयमेष्यति पज्जलात् ।
इत्युक्त्वा च ततोऽश्विन्या बालौ नैजं कमण्डलुम् ॥९६॥
तापीजलेन संभृत्वा श्रीहरेः पादपंकजे ।
प्रक्षाल्याऽन्यकलशे तद्धृत्वा तत्रौषधेः रसम् ॥९७॥
चिक्षिपतुः स्वल्पमात्रं पाययामासतुर्द्विजान् ।
प्रोक्षयामासतुश्चापि यावत्तावत्तु ते द्विजाः ॥९८॥
पानात् पापविहीनाश्च सञ्जाता भास्वरा द्रुतम् ।
कृष्णवर्णो गतो नाशं स्वर्णवर्णास्तदाऽभवन् ॥९९॥
संप्रोक्षणात्तु काद्रूप्यं नष्टं सर्वं क्षणान्तरे ।
पूर्ववद्रूपवन्तस्ते सञ्जाता ब्रह्मवर्चुलाः ॥१००॥
देववद्दिव्यवदनाः पूर्वतोऽभ्यधिकाः शुभाः ।
इत्येवं हरिणा तेषां पापं प्रज्वालितं क्षणात् ॥१०१॥
तापीतटे क्षणं स्थित्वा तीर्थं दिव्यं व्यधाद्धरिः ।
यत्रैते पाविता विप्रास्तत्तीर्थं परमं शुभम् ॥१०२॥
बभूव ख्यातमश्विनीकुमारतीर्थमुत्तमम् ।
श्रीहरिर्यत्र वै तस्थौ सस्नौ तपतीवारिषु ॥१०३॥
हरितीर्थं च तज्जातं सर्वपापप्रणाशनम् ।
अन्ये देवा दर्शनार्थं तत्रायातास्तथा जले ॥१०४॥
सस्नुस्तत्र च तीर्थानि सञ्जातानि ह्यनेकशः ।
तत्र स्नात्वा जलं पीत्वा मृताऽस्थिक्षेपणं तथा ॥१०५॥
कृत्वा मुक्तिमवाप्येत महापापोऽपि मानवः ।
अथ विप्रा हरेः पूजां कृत्वा पूजां कुमारयोः ॥१०६॥
ववन्दुश्च क्षमां तत्र ययाचिरे मुहुर्मुहुः ।
निष्कल्मषाः स्थापयित्वा त्वश्विनीबालकौ तदा ॥१०७॥
श्रीहरिं संप्रतिष्ठाप्य ययुर्गेहान् हि राधिके ।
इत्येवं फाल्गुने तत्र विप्ररक्षां चकार सः ॥१०८॥
पठनाच्छ्रवणाच्चास्य पापनाशो ध्रुवं भवेत् ।
तपतीस्नानजं पुण्यं लभेच्छ्रुत्वाऽपि मानवः ॥१०९॥
अश्विनीबालकौ देवा अदृश्यतां ततो गताः ।
श्रीहरिः कुंकुमवापीक्षेत्रं क्षणात् समाययौ ॥११०॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सुरतायनर्षिकृतोपदेशः, प्रभोः प्राविर्भावोऽश्विनीकुमारयोरागमनं विप्राणां निष्कल्मषीकरणं सन्न्यासस्पष्टता चेत्यादिनिरूपणनामाऽष्टसप्ततितमोऽध्यायः ॥७८॥
N/A
References : N/A
Last Updated : May 01, 2021
TOP