संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ११

त्रेतायुगसन्तानः - अध्यायः ११

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु वै राधिकेऽनादिकृष्णनारायणो हरिः ।
मात्रादिपोषितो नित्यं वर्धते बालचन्द्रवत् ॥१॥
नित्यं ताभिश्च कन्याभिः सेव्यते पुरुषोत्तमः ।
निर्मलः स्वच्छहृदयः परमात्मा निराश्रयः ॥२॥
मात्रानन्दकरः पितृप्रतिबिम्बाम्बकोज्ज्वलः ।
तं वीक्ष्य बालकं कृष्णं सर्वरूपानुरूपिणम् ॥३॥
प्रजा दर्शनकारिण्यो निजपुण्यं हि मेनिरे।
एनं च योगिनो दृष्ट्वा परमेशं हि मेनिरे ॥४॥
लोमशं त्वेकदाऽऽहूय पिता गोपालकृष्णकः ।
मासे षष्ठे कर्णवेधं रौप्यसूच्याऽप्यकारयत् ॥५॥
द्विगुणेन तु सूत्रेण पुष्ट्यायुः श्रीविवृद्धये ।
अस्मिन् दिने प्रगे स्नात्वा पिता गोपालकृष्णकः ॥६॥
लोमशस्य तु हस्तेनाऽश्विनीकुमारपूजनम् ।
कारयामास तन्मूर्तिं कारयित्वा तु राजतीम् ॥७॥
तत्राऽऽवाह्य तदा देववैद्यं पिता यदार्चयत् ।
तावत्र साक्षात् समायातः सूर्यतुल्यः सकुण्डलः ॥८॥
गृहीत्वा स कृतां पूजां पस्पर्श पाणिना हरेः ।
कर्णौ सुकोमलो रम्यौ शष्कुलीचक्रशोभनौ ॥९॥
सर्वश्रवणसिद्ध्यादिकृतशाश्वतिकाऽऽश्रयौ ।
नैरुग्ण्येन रसेनाऽदौ प्रलिप्तौ च श्रवावुभौ ॥१०॥
ततश्च पूजिता सूची सूक्ष्मा नवा च कानकी ।
दृढया च तया कर्णो विद्धौ यथास्थलं तदा ॥११॥
देववैद्येन तु शनैर्लाघवेन सुखेन च ।
सूचीस्पर्शोऽति बालेन न ज्ञातो रसवैभवात् ॥१२॥
अथ विद्धौ यथापेक्षं कर्णौ सूची तदाऽभवत् ।
कन्या मूर्तिमती देवी दिव्याम्बरविभूषणा ॥१३॥
सर्वावयवशोभाढ्या चन्द्रोज्ज्वला च कोमला ।
उवाच सा तदा देवी मातरं पितरं मुदा ॥१४॥
यस्या नारायणस्पर्शस्तस्या मायाक्षयो ध्रुवम् ।
मम माया विनष्टाऽद्य रक्ष मां कृष्णसन्निधौ ॥१५॥
माता श्रुत्वा च तामाह कस्य त्वं विद्यसे सुता ।
वदाऽत्र कानकि! देवि! तवेष्टं- संभविष्यति ॥१६॥
सूची श्रुत्वाऽऽह च नैजं वृत्तान्तं वै यथोद्भवम् ।
अहं वै मानसी कन्या ब्रह्मणोऽस्मि समुद्भवा ॥१७॥
मम कार्यं पारगत्वं छिद्रीकरणमित्यपि ।
एकलायास्तथा कण्टकादिदैत्यविनाशनम् ॥१८॥
तुन्नवायः श्वशुरो मे विश्वकर्मसुतश्च सः ।
तुन्नवायस्य पुत्राय दोरकाय समर्पिता ॥१९॥
सकान्ताया मम कार्यं सन्धानं वै वियुक्तयोः ।
जडाऽहं धातुरूपाऽस्मि चेतनाऽस्मि च देवता ॥२०॥
कुटुम्बं मे तथा द्वेधा कार्यं च कारणं सदा ।.
कारणं देवतारूपं कार्यं भौतिकमित्यपि ॥२१॥
इत्येवं कथितं तेऽत्र दोरकस्य प्रियाऽस्म्यहम् ।
मातश्चाऽहं तव पुत्रभक्ता जाताऽस्मि चाद्यतः ॥२२॥
दिव्या दिव्यस्वरूपा च कृत्वा विशेषतोऽत्र वै ।
सेवायां तव पुत्रस्य रक्ष नारायणस्य माम् ॥२३॥
श्रुत्वैवं कम्भरालक्ष्मीस्तामुवाच तदा पुनः ।
स्वामिना सह देवेशि! वसाऽस्मिंल्लोमशाश्रमे ॥२४॥
स्वामिकुटुम्बसहिता चाश्वपट्टसरस्तटे ।
वसाऽत्र निर्भरा कृष्णं सेवितुं हृष्टमानसा ॥२५॥
इत्युक्ता सा प्रजहर्ष नत्वाऽश्विनीकुमारकम् ।
मातरं श्रीहरिं तूर्णं श्वशुरस्य गृहं गता ॥२६॥
वा? सम्मन्त्र्य च शीघ्रं सकुटुम्बा समाययौ ।
अश्वपट्टसरसश्च तीरे पूर्वस्थले तु सा ॥२७॥
वर्तते सकुटुम्बा वै कृष्णभक्तिपरायणा ।
कन्यकाः कृष्णमादाय विहर्तुं यान्ति तत्स्थलम् ॥२८॥
तुन्नवायाश्रमं तीर्थं पूर्वतीरे ततोऽभवत्॥
अथैकदा तु सा कृष्णं कट्यां निधाय मोदते ॥२९॥
विचारयति नाथो मे भगवाँस्तु कदा भवेत्॥
ज्ञात्वा मनोगतं तस्याः कृष्णः प्राह हसँश्च ताम् ॥३०॥
वितरामि च ते सिद्धिं बहुरूपधरात्मिकाम् ।
भव कन्यास्वरूपा च वस वै लोमशाश्रमम् ॥३१॥
मम प्राप्तिर्यथाकाले भविष्यति तवाऽनघे ।
इत्युक्तमात्रे सा देवी दिव्यरूपा हि कन्यका ॥३२॥
चारुचम्पकवर्णाभा द्वितीयरूपधारिणी ।
बभूव श्रीबालकृष्णसन्निधौ सरसस्तटे ॥३३॥
सा ययौ कृष्णकान्तेन सह वै लोमशाश्रमम् ।
दोरकस्य गृहिण्याख्या दोरकस्य गृहे स्थिता ॥३४॥
सा च कृषणार्पितसिद्ध्या कोटिरूपधराऽभवत् ।
जगत्सु सूचिकारूपा समव्याप्नोत् प्रसन्धिनी ॥२२॥
एवं साऽनुग्रहलाभात् कृष्णकान्तं सदाऽलभत् ।
अश्विनीपुत्रकौ वैद्यौ वरदानाय सूचितौ ॥३६॥
तावप्याराधनार्थं च ययाचाते निवासनम् ।
तथाऽस्त्विति च तौ प्राह कृष्णः प्रसन्नमानसः ॥३७॥
तत्तीर्थं चाश्विनीपुत्रारामनाम बभूव ह ।
अश्वपट्टसरसस्तु पूर्वे तीरे द्रुमेषु च ॥३८॥
एवं कृष्णप्रभुर्वासं ताभ्यां तस्यै च वै ददौ ।
स्वयं कन्याधृतश्चायात् स्वसौधं पारमेश्वरम् ॥३९॥
लोमशोऽपि मुनिस्तत्र कर्णवेधाख्यसद्वृषे ।
पूजनं दक्षिणां लेभे गोपालकृष्णतो बहु ॥४०॥
ययौ निजाश्रमं दिव्यो लोमशो मुनिराट् ततः ।
चैत्रशुक्लस्य पूर्णायां तिथौ मासे तु षष्ठके ॥४१॥
समागतायां तत्रैव समाहूय च लोमशम् ।
कारयामास विधिना पिताऽन्नप्राशनं शुभम् ॥४२॥
दध्याज्यमधुमिश्रं च बालकृष्णस्य वै प्रभोः ।
मंगलस्नानमेवादौ संकृत्वा मातृकार्चनम् ॥४३॥
प्रतिष्ठाप्य शुचिं वह्निं चरुहोमं चकार सः ।
ब्रह्मादिपूजनं चक्रे सदन्नान्यप्यभोजयत् ॥४४॥
ब्राह्मणेभ्यस्तथा सद्भ्यो दीनान्धेभ्यश्च वै तथा ।
सतीभ्यः कन्यकाभ्यश्च कुमारेभ्योऽप्यदाद् धनम् ॥४५॥
गोभ्यो मृगेभ्यो ग्रासाँश्च कीटकादिभ्यश्च पिष्टकम् ।
जलौकः कूर्ममत्स्येभ्यश्चापि कणान् ददौ तदा ॥४६॥
काकपारावतादिभ्यः कणान् ददौ तदा पिता ।
वृक्षवल्लीतृणादिभ्यो जलानि प्रददौ तदा ॥४७॥
पितृभ्यश्च सुरेभ्यश्च मानुषेभ्यो ददौ तदा ।
यथेष्टानि च भोज्यानि तथोपकरणान्यपि ॥४८॥
कुमारिकाभ्यः सर्वाभ्यो द्रव्यभूषाम्बराणि च ।
देहयोग्यानि शृङ्गारवस्तूनि साधनानि च ॥४९॥
भोजनासनयानानि पत्त्राणावरणानि च ।
विद्यासाधनग्रन्थांश्च भक्तिसाधनकानि च ॥५०॥
ददौ पिता तु दिव्यानि भोग्यानि विविधानि च ।
अथौषधयो भूमिस्थाः सस्यरूपाः कणप्रदाः ॥५१॥
हव्यदाः फलदा कन्दमूलदा गोधूमादिदाः ।
रसदा मधुरा गुन्द्रसारदाः शर्कराप्रदाः ॥५ २॥
पत्रदाः पुष्पदा भक्ष्यभोज्यलेह्यकचोष्यदाः ।
रोगहन्त्र्यः पुष्टिकर्त्र्या वृक्षगुल्मलतादिकाः ॥५३॥
स्वस्वजन्याऽऽस्वाद्यवस्तून्यादाय कन्यकात्मिकाः ।
स्थालेषु सन्निधायैव नवान्नादीनि सर्वशः ॥५४॥
सवादित्रकीर्तनानि कुर्वन्त्यश्च विभूषिताः ।
वह्निवर्णोज्ज्वलाः कृष्णं भोजयितुं समागताः ॥५५॥
कुंकुमवापिकोद्याने पश्चिमे योजनायते ।
स्थालानि रक्षयित्वैव सस्मरुः श्रीपतिं प्रभुम् ॥१६॥
कल्पोद्याने चागतास्ता ज्ञात्वा कृष्णनरायणः ।
लक्षरूपधरो भूत्वा प्रत्येकांऽकगतोऽभवत् ॥१७॥
प्रत्येकया सुवर्णस्याऽऽसने संस्थाप्य वल्लभः ।
भोजितः पूजितो मोदितो मुहुश्चुम्बितः प्रभुः ॥५८॥
भगवानपि कैशोररूपाणि प्राप्य वै ततः ।
भोजनानि सुमृष्टानि चखाद स्नेहतस्तदा ॥५९॥
सर्वाभ्यः स्वप्रसादश्च प्रदत्तः स्थालपूरितः ।
यद्यद् भुंक्ते च तत्सर्वं श्रीहरेर्योगतस्तदा ॥६०॥
लक्ष्म्या संवर्धितं न्यूनं न किञ्चिदपि दृश्यते ।
ताः सर्वाः करकमलैर्भोजयन्ति पतिं प्रभुम् ॥६१॥
भगवाँश्च पुनर्भुंक्ते तासां भावानुबन्धनः ।
वारंवारं भोजितः पायितः प्रपूजितस्तथा ॥६२॥
तासां च पूरयामास संकल्पान् दिव्यरूपधृक् ।
अन्नप्राशनके चाद्यदिनेऽन्नानि चखाद यत् ॥६३॥
ऐश्वर्यं वीक्ष्य तत्सर्वं मुमुहुस्तत्र केशवे ।
भगवाँश्च जलं पीत्वा बालरूपो बभूव ह ॥६४॥
उद्गारं तृप्तिदं पुनः पुनर्गृह्णाति मोदते ।
अथ ताभिर्हरिस्तत्र वन्दितः सेवनाय च ॥६५॥
यथा सेवां तव कुर्मो नित्यं वयं तथा कुरु ।
त्वमात्मा त्वं परात्मा च त्वं रसस्त्वं बलं च नः ॥६६॥
त्वं फलं त्व दलं पुष्पं त्वं गर्भस्त्वं च मञ्जरी ।
त्वं मूलं मध्यमस्तम्भस्त्वं शाखाऽङ्कुर इत्यपि ॥६७॥
त्वं प्राणस्त्वं जीवनं च खाद्यं त्वं खादकोऽपि च ।
भोक्ता त्वं भोज्यमेवाऽसि चाऽन्तरात्माऽसि नस्तथा ॥६८॥
स्रष्टा पाता रक्षिता पोषयिता लयभूस्तथा ।
त्वमेवाऽसि परब्रह्म स्वामी प्राणप्रियः पतिः ॥६९॥
अस्माकमान्तरं हृद्यं गृहाण पुरुषोत्तम ।
सेवायां रक्षय नाथ कुर्मः सेवां यथा तव ॥७०॥
इत्युक्तश्चांऽकगो विष्णुः प्रहस्याऽऽह च देवताः ।
वनदेव्यो भवत्योऽत्र वसन्तु लोमशाश्रमे ॥७१॥
कन्यारूपास्तथा वृक्षवल्लीरूपा अपि ध्रुवम् ।
वल्लीरूपा द्रुमरूपा उद्यानावासमंगलाः ॥७२॥
तिष्ठन्तु फलपुष्पाद्यैः सेवार्थं मम सर्वदा ।
इत्युक्तास्ताः परं प्रेम ज्ञात्वा नारायणस्य वै ॥७३॥
गृहीत्वाऽनुग्रहं श्रेष्ठं बभूवुर्द्विस्वरूपिकाः ।
वृक्षवल्लीस्वरूपास्ताः कल्पोद्याने वसन्ति च ॥७४॥
अथ कन्यास्वरूपास्ता यावत् पश्यन्ति केशवम् ।
पुनः पुनश्चांकगं तं तावत् संहृत्य लोमशः ॥७५॥
रूपाणि चैकरूपोऽभूत् श्रीवल्लीकन्यकांऽकगः ।
हसन् सस्मार च मुनिं लोमशं शाश्वतं गुरुम् ॥७६॥
द्रागेव स्मृतमात्रोऽसौ दिव्यदेह उपस्थितः ।
तुष्टाव परमेशं च का त्वाज्ञा वद् मां प्रभो ॥७७॥
हरिस्तस्मै कन्यकास्ता वनदेवीर्ददौ मुदा ।
लोमशस्ता नमस्कृत्याऽऽश्रमं निनाय देवताः ॥७८॥
कृष्णनारायणपरा ब्रह्मरूपास्तु सेविकाः ।
हरिस्ततोऽभवल्लुप्तो ययौ नैजं गृहं तदा ॥७५॥
लोमशेनाऽऽवेदितश्च पिता पुत्रपराक्रमम् ।
ऐश्वर्यं चातुलं सर्वं ज्ञातवान् मुदमाप्तवान् ॥८०॥
अथ वै लोमशं प्राह गोपालकृष्णकस्तदा ।
बालोऽयं विद्यते बालो वस्तुतो बालको न वै ॥८१॥
चमत्कारा भवन्त्यस्य दिव्यपुरुषचेष्टिताः ।
तस्माद् भाव्योऽप्रतर्क्यश्च कश्चित् सर्वेश्वरः प्रभुः ॥८२॥
वृत्तिर्मुख्या क्रिया मुख्या काऽस्य वै संभविष्यति ।
राजा वा देववर्यो वा गुरुर्वा त्यागवानपि ॥८३॥
वद् काऽस्य निश्चितैका वृत्तिर्भाव्या शुभाश्रया ।
इत्युक्तो लोमशः प्राह वस्त्रपात्रधनादिकम् ॥८४॥
निधेहि पुरतश्चाऽस्य यद् गृह्णीयात्तु विद्धि तत् ।
इत्युक्तो वै पिता शीघ्रं वृत्तिं ज्ञातुं पुरोऽस्य च ॥८९॥
वस्त्रं पात्रं चायुधं च धनं ग्रन्थं च लेखिनीम् ।
यष्टिं दर्भं हीरकं च मालिकां कणमुष्टिकाम् ॥८६॥
स्रुवं पूगीफलं तन्तुं फलं शंखं कपर्दिकाम् ।
जलपात्रं दर्पणं च सस्यं कृत्रिमहंसकम् ॥८७॥
दीपं छत्रं च पाषाणं घृतं काष्ठं तथौषधम् ।
पुष्पं लोष्ठं पादुकां च सूचीं कल्गिं न्यधात् पुनः ॥८८॥
द्वात्रिंशत्तानि वस्तूनि विलोक्य भगवानपि ।
द्वात्रिंशद्भुजवान् भूत्वा पस्पर्श युगपत् प्रभुः ॥८९॥
सर्वाण्यपि च वस्तूनि जानात्येव कलानिधिः ।
सर्ववृत्तिमयो योऽस्ति किमवेद्यं परात्मनः ॥९०॥
किमसाध्यं किमकार्यं किमज्ञातं हरेः खलु ।
आश्चर्यं प्राप च पिता हरिर्जहास वै तदा ॥९१॥
लोमशः प्राह च कलाश्चतुःषष्टिरनुत्तमाः ।
वर्तन्तेऽत्रैव देवेशे पुराणपुरुषे गुरौ ॥९२॥
सर्वकर्ता सर्ववृत्तिदाता पोष्टा भविष्यति ।
सर्वकार्यकरश्चायं परमात्माऽस्ति शाश्वतः ॥९३॥'
माता जहर्ष संश्रुत्वा दृष्ट्वा सुतस्य वैभवम् ।
पश्यतां यावतां तावत् कृष्णनारायणो हसन् ॥९४॥
पुस्तकं मालिकां द्वाभ्यां कराभ्यां लेखिनीं कुशम् ।
अन्याभ्यां च कराभ्यां तु धृत्वा चतुर्भुजोऽभवत् ॥९५॥
मालां च पुस्तकं धृत्वा द्विभुजश्च ततोऽभवत् ।
अंके कृत्वा पुस्तकं च क्षिप्त्वा कण्ठे च मालिकाम् ॥९६॥
कल्गीं चादाय हस्तेन हसन् न्यधात् स्वमस्तके ।
कुसुमं समजिघ्रच्च हरिर्बालस्वरूपवान् ॥९७॥
शंखचक्रगदापद्मधरोऽदृश्यत वै तदा ।
बाल एव स्वयं तैस्तैर्धृतैर्विशेषतस्तदा ॥९८॥
ज्ञापयामास पित्राद्यान् तत्तद्विशेषवृत्तिकम् ।
लोमशोऽपि प्रसन्नश्च पूजामादाय सत्कृतिम् ॥९९॥
ययौ निजाश्रमं नित्यं भजते तं नरायणम् ।
राधिके! तेऽनादिकृष्णचमत्कारो मया मुहुः ॥१००॥
कथितो भक्तगम्यः स पाठश्रवाच्च मोक्षदः ।
मया दिव्येन ता लीलाः प्रत्यक्षमवलोकिताः ॥१०१॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालकृष्णस्य प्रभोः कर्णवेधसंस्कारः, सूच्यै चमत्कार- दर्शनम्, अश्विनीकुमारतीर्थम्, अन्नप्राशनसंस्कारः, वनदेवताकारितप्राशनं, वनदेवताभ्यो बहुरूपैश्चमत्कारः कान्तप्राप्तिः, हरे वृत्तिज्ञानार्थं पुरोधृतवस्त्रशस्त्रादिवस्तूनि ग्रहीतुं बहुरूपता दिव्यता चेति निरूपणनामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : April 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP