संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २९९

त्रेतायुगसन्तानः - अध्यायः २९९

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
शृणु त्वं राधिके! गन्तुं समये सर्वकन्यकाः ।
मातृभिः पितृभिः परिरब्धाः स्नेहभृतान्तराः ॥१॥
वियोगाऽश्रूणि संस्राव्य मौनं वै जडवत् स्थिताः ।
दिव्याश्च दिव्यदेहाश्च पूर्वतोऽब्जगुणोदिताः ॥२॥
वीक्ष्य सम्बन्धिनां चासु स्नेहं चाऽभ्यधिवर्धितम् ।
सोढुं तेषां वियोगं चाऽशक्ता मनाक् तदाऽभवन् ॥३॥
तदा तन्मातरः पुत्रीर्वीक्ष्य वियोगदुःखिताः ।
मुग्धास्ता अर्थयामासुर्मातरो बालकृष्णकम् ॥४॥
सह नेतुं निजाः पुत्रीः स्वल्पसमयमेव ह ।
विलोकयितुं राष्ट्रं स्वं कुटुम्बिनः सुहृज्जनान् ॥५॥
वीक्षार्था स्वसृसहजा उदारं श्रीहरिं मुहुः ।
प्रभो प्रेषय नः पुत्रीर्नः सुखार्थहेतवे ॥६॥
पुनः शीघ्रं च मासान्ते प्रेषयिष्याम तारिह ।
सेवायां तव भो कृष्ण कृपालोऽर्थितमावह ॥७॥
हरिः प्राह तथास्त्वेव तासां वाप्सल्यहेतवे ।
सर्वा आज्ञापयामास गन्तुं मात्रादिभिः सह ॥८॥
प्रसन्नास्तास्तदा सर्वाः श्रुत्वा प्रभोरुदारताम् ।
सहसा ताः हरिं गत्वा नेमुः सस्वजिरे प्रभुम् ॥९॥
द्रुतं समागमिष्यामश्चेत्युक्त्वाऽप्यन्तसेवनम् ।
क्षणं चक्रुस्तृप्तिदं वै पुनरागमनाय ताः ॥१०॥
स्वकान्तं ता मुहुः संसेव्य च सज्जा विभूषिताः ।
शृंगारिता ह्यभवँश्च पुपूजुः परमेश्वरम् ॥११॥
पितरं मातरं विष्णोः स्वसारं पूज्ययोषितः ।
सर्वा वृद्धान् कुटुम्बस्थान् नत्वाऽऽभाष्य सुखागतम् ॥१२॥
सुखायतिं प्रभाष्याऽपि योग्योचिताम्बरान्विताः ।
योग्यभूषा विमानान्यारुरुहुः स्वामिनिर्देशिताः ॥१३॥
आगन्तव्यं चेत्युवाच सर्वा वै भगवाँस्तदा ।
मुमोचाऽश्रूणि विश्वात्मा मायया चाऽप्यमायिकः ॥१४॥
तदा वाद्यान्यवाद्यन्त पूष्पाक्षतैश्च पूजनम् ।
विमानानामभवच्च कृतं सौभाग्यिकादिभिः ॥१५॥
ऋतवो धर्मदेवश्च नरो देवी च पीठिका ।
मही च मण्डपो मुक्तो माणिक्यस्तंभ इत्यपि ॥१६॥
सुदर्शनं तथा चक्रं हरो गणाधिनायकः ।
नव ते दर्शनार्थं वै मातॄणां समुपाययुः ॥१७॥
कृतवन्तो दण्डवच्च क्षन्तव्याः क्षेत्रपालकाः ।
इत्युक्त्वा स्थितवन्तश्च तदा तेभ्यो हरिस्तथा ॥१८॥
हरिप्रियाः समस्ताश्च वासुदेवादयोऽपि च ।
आशीर्वादान् प्रददुश्च ददुश्च पारितोषिकम् ॥१९॥
रत्नान्यनेकरूपाणि हीरकादिस्रजस्तथा ।
मुकुटानि सुरम्याणि पात्रभूषाम्बराणि च ॥२०॥
नामपट्टानि सौवर्णाक्षरयुक्तानि वै तथा ।
धनानि चोपकरणान्युत्तमानि शुभानि च ॥२१॥
ते संगृह्य सुखापन्नाः सञ्जाताः क्षेत्रदारकाः ।
व्यंगुलानां तदा शब्दा यन्त्रशब्दास्तथाऽभवन् ॥२२॥
भेरीशब्दा जयशब्दाश्चाभवन्नम्बरेऽभितः ।
कन्यका हर्षिताः पितृविमानेषु स्थितास्तदा ॥२३॥
अश्वपट्टसरःक्षेत्रे कान्तं विलोकयन्त्यपि ।
लोमशं पुष्पवृष्ट्या च प्रणामैश्चाप्यपूजयन् ॥२४॥
अथाऽम्बरे विमानानि गतिमन्त्यभवँस्ततः ।
कोट्यर्बुदाब्जकन्यास्ताः सर्वाः पित्रादिभिः सह ॥२५॥
काशीश्वरीं विना जग्मुनैंजान् देशान् समातृकाः ।
आक्षराण्यश्च मुक्तान्यो ब्राह्म्यस्तत्र प्रभुं विना ॥२६॥
न गन्तव्यमिति कृत्वाऽवसन् स्वकान्तमन्दिरे ।
राधिके! बालकृष्णोऽपि चान्तरात्मा सह स्थितः ॥२७॥
आत्मनिवेदिनीस्त्रीभिः सहाऽदृश्यो ययौ सहः ।
सृष्टित्रयस्य कान्तास्ताः स्वस्वलोकं गतास्तदा ॥२८॥
क्षेत्रे कुंकुमवाप्याख्ये शून्यमिवाऽभवत् क्षणात् ।
हर्याज्ञया ततो मुक्तो मण्डपोऽपि तिरोऽभवत् ॥२९॥
सुस्वल्पो मण्डपश्चापि शीघ्रं तत्र तिरोऽभवत् ।
एवं जातः परिहारो बालकृष्णेच्छया द्रुतम् ॥३०॥
यारतु सख्योऽवसन् स्वामिसेवायां काशिकासुताः ।
ता असेवन्त श्रीकृष्णं नारायणं मुदाऽनिशम् ॥३१॥
दिव्या दिव्यस्वरूपा वै पातिव्रत्यपरायणाः ।
कर्मणा मनसा वाचा देहेन सेवनं व्यधुः ॥३२॥
लक्ष्मीर्विशेषभावेन सेवते परमेश्वरम् ।
सत्सु दासीसहस्रासु समानासु सतीष्वपि ॥३३॥
स्नपनं वस्त्रदानं चाऽभ्यंगं प्रकेशसाधनम् ।
वेषं वस्त्रक्षालनं च दन्तधावनमित्यपि ॥३४॥
कज्जलं मस्तके तैलं चांगमर्दनमित्यपि ।
पादसंवाहनं वारिपानदानं च भोजनम् ॥३५॥
ताम्बूलकं व्यजनेन वायुदानं च नक्तकम् ।
फलदानं तथा शय्यास्तरणं कलशार्पणम् ॥३६॥
यत्किंचिन्निजतन्वा स्यात् तत्सर्वं स्वयमाचरत् ।
निजेशस्य समस्तं सेवनं परिपरायणा ॥३७॥
लक्ष्मीरेवाऽस्ति लक्ष्मीर्वै नेतरा तत्समा क्वचित् ।
एवं वै वर्तमानायां लक्ष्म्यां कृष्णस्य वै क्वचित् ॥३८॥
क्षतिर्न दृश्यते सेवाकृते तद्वै विशिष्यते ।
तथापि समदृक् कृष्णः सर्वासु समतायुतः ॥३९॥
वर्तते सुखदश्चातिस्नेहवान्नतु पक्षवान् ।
औदार्यं परमे कान्ते तदेव वर्तते सदा ॥४०॥
सर्वासां कामपूरत्वं तृप्तिदत्वं यथेष्टकम् ।
पद्मावत्या रमायाश्च लक्ष्म्यधिकं हि सेवनम् ।
आभ्यां विस्मारिता लक्ष्मीः स्वाम्यर्थाभ्यां सदा त्वनु ॥४१॥
अथ राधे वसन्ते चोत्सवं कृष्णश्चकार ह ।
पुष्पदोलोत्सवं चापि प्रचकार सुखावहम् ।
चातुर्मास्योत्सवं चापि प्रचकार व्रतात्मकम् ॥४२॥
ऊर्जमासः समायातश्चाऽष्टमी जन्मबोधिका ।
कार्ष्णी समीपगा चास्ते चेति विचार्य योषितः ॥४३॥
सर्वाः पितृगृहात्तूर्णमारूढाः सुविमानकम् ।
आययुः श्रीबालकृष्णगृहं पित्रादिसंहिताः ॥४४॥
स्वामिगृहं समासाद्य सुखिन्यो वै तदाऽभवन् ।
सर्वेषां वै महीमानोत्तमानां सुखमाननम् ॥४५॥
श्रीमद्गोपालकृष्णो वै यथार्थमकरोत्तदा ।
राजानोऽपि तथा चक्रुः श्रीकृष्णस्य प्रभोस्तभा ॥४६॥
पञ्चदशे पूर्णवर्षे षोडशे जन्मसूत्सवे ।
सुतानां पितरः सर्वे सर्वसृष्टिनिवासिनः ॥४७॥
समायाताश्चाक्षराख्ये क्षेत्रे वर्धयितुं हरिम् ।
प्रातरेव कृतस्नानश्चाष्टम्यां कृतमंगलः ॥४८॥
कृतशृंगारवेषश्च हरिः संसदमाययौ ।
लोमशाद्यैः पूजितश्च वर्धितोऽपि शुभाशिषा ॥४९॥
पूजादानैः पावितश्चाऽऽनन्दितो यशसां स्तवैः ।
राजाधिराजशोभाढ्यः शुशुभे परमेश्वरः ॥५०॥
प्रातश्चैवं वर्तमाने जन्माहसुमहोत्सवे ।
दीयन्ते तत्र दानानि गजवाजिगवादयः ॥५१॥
गोमहिषीवृषभोष्ट्रयानवाहनकानि च ।
गृहक्षेत्रारामवाटीधनस्वर्णात्मकानि च ॥५२॥
वाद्यन्ते तत्र वाद्यानि गीयन्ते तद्यशांसि च ।
परिहारे ततो जाते मध्याह्ने भोजनादिकम् ॥५३॥
अभवत् सर्वलोकानां कान्तानां श्रेष्ठमेव ह ।
अतिथीनां प्रसत्कारा अन्नवस्त्रादिभिः कृताः ॥५४॥
रात्रौ नाट्यं चाऽभवत्तु तदा दृश्यं मनोहरम् ।
मल्लानां खेलनं चापि संगीतानां रवास्तथा ॥५५॥
काव्यानि कविवर्याणां नृत्यानि वारयोषिताम् ।
उपदेशाश्च साधूनामभवन् जन्मसूत्सवे ॥५६॥
एतस्मिन्नुत्सवे राधे! रमापद्मावतीपिता ।
नारायणःसुतश्चार्कोदेवश्चाऽक्षरक्षेत्रके ॥५७॥
स्वयं दिव्यावतारो यः सूर्यांशः सम्प्रकीर्तितः ।
काशीतश्चागतस्तत्र संस्मृत्वा वचनं हरेः ॥५८॥
मोक्षणार्थं स्वयं जातिस्मरः शिवो यतो हि सः ।
मानवं भावमुत्सृज्य शिवभावं समीहते ॥५९॥
धेनुपालोऽपि स्वराज्यं दत्वा पुत्राय योगिने ।
धर्मपालाय च ततस्तेन सहागतोऽभवत् ॥६०॥
सर्वे ते कृतसंकल्पा मुक्त्यर्थं त्वरितास्तदा ।
अभवँस्ते तु वै कृत्वा शुभं जन्मोत्सवं ततः ।
प्रार्थयन् परमात्मानं देहमोचनहेतवे ॥६१॥
हरिः प्राहोत्तरायणस्थितं सूर्यं विलोक्य वै ।
गन्तव्यं मम धामाऽत्र स्थेयं तावद् गृहेऽत्र च ।
इत्याशां शिरसि धृत्वा सर्वं कुटुम्बकं श्रियाः ॥६२॥
तस्थौ लक्ष्म्या गृहे नित्यं विशाले मन्दिरान्तरे ।
शिवः स्वयं हरिं पुत्रीपतिं पप्रच्छ साधनम् ॥६३॥
मोक्षस्यैव तदा कृष्णः स्वप्रियं प्रजगाद तम् ।
शृणु शंभो कथयामि मोक्षसाधनमुत्तमम् ॥६४॥
ये वै मोक्षे स्थिताः सन्तो मायाभावविवर्जिताः ।
तेषां समागमात् प्रसेवनान्मोक्षोऽभिलभ्यते ॥६५॥
योऽहं मोक्षे निवसामि निवसामि सदाऽऽत्मसु ।
तं मामुपास्य सततं मोक्षं विन्दति मानवः ॥६६॥
मया कालः कर्म धर्मो ज्ञानं मे शक्तयस्त्विमाः ।
मत्वैवं शक्तिमन्तं मां यस्त्वाश्रयति मुच्यते ॥६७॥
देहेन कर्मणा वाचा मनसा स्वीयवस्तुभिः ।
सर्वात्मनाऽर्पितो यः स्यान्मयि द्राक् स प्रमुच्यते ॥६८॥
मां पश्येन्मां रसयेच्च मां सदा संप्रकीर्तयेत् ।
मां जिघ्रेन्मां स्पृशेन्यां संशृणुयाच्चिन्तयेच्च माम् ॥६९॥
मां गृह्णीयात् प्रसेवेत संवाहयेच्च मां सदा ।
मामभिगच्छेद् रहसि चानन्दयेच्च मां हृदि ॥७०॥
स्थापयेन्मां प्रमन्वीत निर्णयेन्मां हृदन्तरे ।
अहमयेच्च मां नित्यं मद्योगे सर्वदा वसेत् ॥७१॥
मां ध्यायेन्मां स्नेहपूर्णः समाश्लिष्येन्मिलेच्च माम् ।
मामेकीकृत्य चाऽऽदद्याद् भोग्यजातं मयि क्षिपेत् ॥७२॥
मां प्रत्यक्षं निजीकृत्य चेष्टां कुर्यान्मदर्थिकाम् ।
शिवराजैवमासाद्य मद्योगं मोक्षमाव्रजेत् ॥७३॥
रमणं भ्रमणं विहरणं च नर्तनं रणम् ।
जागरणं स्वपनं च प्रवर्तनं निवर्तनम् ॥७४॥
आचरणं विचरणं सदाचरणमीरणम् ।
सर्वं कुर्यान्मदर्थं वै ध्रुवमोक्षमवाप्नुयात् ॥७५॥
इत्युक्तः शिवराजोऽयं राधिके शीतजा तथा ।
जयश्चन्द्रो धेनुपालोऽशोका च हरौ स्थिराः ॥७६॥
स्थिरध्याना अभवँश्च स्थिरसेवापरायणाः ।
दिव्यभावं समापन्नाः सर्वस्वार्पणसेविनः ॥७७॥
उत्तरायणगे सूर्ये समुत्सुकाश्च ते ततः ।
स्वपुत्रीं प्रसमाश्लिष्य लक्ष्मीं मोक्षाभिकांक्षिणः ॥७८॥
अश्वपट्टसरस्येव स्नात्वा कृत्वाऽर्हणं हरेः ।
धेनुपालोऽपि च सुतात्रयमाभाष्य वै तदा ॥७९॥
वृत्ती सर्वाः पराहृत्य ध्यानमग्नास्तदाऽभवन् ।
ज्ञानदः श्रीकृष्णदेवः सर्वस्वामी हृदिस्थितः ॥८०॥
तथा प्रत्यक्षवर्ती तान् ज्ञात्वा निर्वाणमानसान् ।
स्वासक्तान् प्रति तूर्णं स दिव्यविमानमास्थितः ॥८१॥
निजदिव्यस्वरूपेण मुक्तिं दातुं समाययौ ।
लक्ष्मीपतिहरिस्तेभ्यस्तैरेव वर्ष्मभिस्तदा ॥८२॥
आरोहयामास दिव्ये विमाने पश्यतां सताम् ।
तदा दुन्दुभयो नेदुर्देवानां सर्वतोदिशि ॥८३॥
सदाशिवः परं मोक्षं याति नित्यकिलासकम् ।
देवाद्यैर्वर्धिताः सर्वे ययुः कैलासमुत्तमम् ॥८४॥
पार्षदाश्च ययुर्नित्यं वैकुण्ठं कृष्णिका तथा ।
लक्ष्मीस्तथा कृष्णनारायणार्यः परमेश्वरः ॥८५॥
सर्वं कर्तुं समर्थो तौ तेनैव वर्ष्मणा हि तान् ।
राधे! मोक्षं नीतवन्तौ महाश्चर्यमिदं ह्यभूत् ॥८६॥
तदुत्तरविधिं तत्र स्वेशेन सह पुत्रिका ।
चक्रे लौकिकदानानि श्राद्धोत्सवादिकानि च ॥८७॥
अथ श्रीबालकृष्णोऽपि धेनूनामुत्तरायणे ।
प्रपूजनं व्यधात्तत्र पुण्यकार्यप्रवृत्तये ॥८८॥
धेनुभ्यः प्रददौ त्वार्द्रघासान् सस्यानि वै तदा ।
गूडं च धान्यखाद्यानि दापयामास सर्वतः ॥८९॥
धेनवश्च तदा सर्वलोकेभ्यो दिव्यविग्रहाः ।
भौमस्थाश्चाययुस्तूर्णं तदा प्रसादलालसाः ॥९०॥
भुक्त्वा नत्वा हरिं प्राप्य पूजां स्वस्वाश्रमान् ययुः ।
अथ द्विजेभ्यो भगवान् ददौ दानानि भूरिशः ॥९१॥
सद्भ्यो ददावम्बराणि भोजनान्युत्तमानि च ।
दीनाऽनाथेभ्यश्च ददौ भिक्षुकेभ्योऽपि सर्वथा ॥९२॥
मिष्टान्नाम्बररूप्यादि स्वर्णं पात्राणि वै तदा ।
एवं कृत्वा दानविधिं सप्तधान्यान्वितां नवाम् ॥९३॥
तरलां रन्धितां चापि घृतान्वितां सपर्पटाम् ।
सुदध्ना चारनालेन समं संबुभुजे हरिः ॥९४॥
भोजयामास सर्वाश्च कान्ताः कृशरसंज्ञिताम् ।
क्वथिकासहितां श्रेष्ठां स्वादवतीं सुगन्धिनीम् ॥९५॥
इत्येवं राधिके! कष्णकान्तार्यो हि महोत्सवम् ।
उत्तरायनयोगस्य चक्रे गोपालकृष्णजः ॥९६॥
षोडशे वत्सरे त्वेवं ब्रह्मप्रियासमन्वितः ।
बुभुजे बहुभोगाँश्च सर्वकल्याणकारकः ॥९७॥
राधिके! तं स्मरेत् कृष्णनारायणं नरायणीः ।
लीलाः षोडशवर्षोत्थाः मुक्तिदाः शान्तिदा हरेः ॥९८॥
सर्वमोक्षफलं त्वासां श्रवणे जायतेऽक्षयम् ।
ब्रह्मपूजाफलं त्वासां श्रवणे जायतेऽक्षयम् ॥९९॥
पुरुषोत्तमयोगोऽयं सर्वयोगोत्तमोत्तमः ।
सर्वावतारयोगोऽयं सर्वज्ञानोत्तमोत्तमः ॥१००॥
सर्वलक्ष्मीप्रदश्चायं सर्वमुक्तिप्रदस्तथा ।
सर्वसौभाग्यदश्चाऽयं त्वेवं श्रुत्वा रमापिता ॥१०१॥
शाश्वतं चापि मोक्षं स्वं समीप्सत् तममोक्षयत् ।
ययौ धामाऽक्षरं सोऽस्य क्रियां श्रीभगवाँस्तथा ॥१०२॥
सम्बन्धिनस्ततश्चक्रुर्हरिसंलग्नमानसाः ।
राधिके! श्रीहरेर्योगः सर्वमुक्तिप्रदस्त्वयम् ॥१०३॥
सर्वसौभाग्यदश्चापि त्रेतासन्ताननामकः ।
सर्वव्रतानां यज्ञानां दानानां पुण्यकर्मणाम् ॥१०४॥
सर्वेषां तपसां दीक्षायोगानां त्यागधर्मणाम् ।
सन्यासधर्मणां चापि भक्तीनां च फलप्रदः ॥१०५॥
सर्वाश्रमाणां धर्माणां श्रवणात्फलदो मतः ।
लक्ष्मीनारायणसंहिताया वै हृदयं ह्ययम् ॥१०६॥
प्राणानां जीवन चायं कृष्णनारायणात्मकः ।
सर्वप्रतिष्ठाफलदः सर्वतीर्थफलप्रदः ॥१०७॥
सर्वसेवाफलदश्च सर्वविद्याफलप्रदः ।
सतीधर्मफलदश्च पातिव्रत्यफलप्रदः ॥१०८॥
सर्वभोगप्रदः सर्वस्मृद्धिदः श्रवणाद् ध्रुवम् ।
दिव्यताऽऽपादकः सर्ववासनाक्षयकारकः ॥१०९॥
सर्वेषां चात्र पापानां प्रज्वालकः सुपुण्यदः ।
निष्कामकर्म चैतद्वै यदस्य श्रवणं सदा ॥११०॥
पूजनं चास्य वै तद्वद् दानं चास्य महत्फलम् ।
रक्षणं गृहमध्येऽस्य कालमायादिनाशनम् ॥१११॥
अस्य खण्डस्य भावेन श्रवणाच्छ्रीहरिः स्वयम् ।
लक्ष्म्यादिब्रह्मशक्त्याढ्यो दद्यात् दिव्यं स्वदर्शनम् ॥११२॥
अस्य कथा कारणीया पुरश्चरणमित्यपि ।
अगतीनां भवेन्मोक्षो भूतादीनां प्रमोक्षणम् ॥११३॥
दुःखदारिद्र्यनाशश्च लक्ष्मीकुलकुटुम्बकम् ।
यत्रायं वर्तते तत्र सर्वदा वासमाप्नुयात् ॥११४॥
वंशवृद्धिर्भवेत् पुत्रधनदारपतिश्रियः ।
भवन्ति यत्र खण्डोऽयं पूज्यते पठ्यतेऽपि च ॥११५॥
राधिकेऽस्य कथा यत्र तत्र कृष्णनरायणः ।
ब्रह्मप्रियाः समस्ताश्च मुक्तमण्डलमित्यपि ॥११६॥
अहं कृष्णस्तथा नारायणः सर्वस्वमण्डलः ।
वसावस्तां कथां श्रोतुं सर्वदेवेश्वरान्वितौ ॥११७॥
वाचकस्य प्रपूजा च कारणीया विधानतः ।
नरनारीविभूषाश्चाम्बराणि धनमित्यपि ॥११८॥
गृहक्षेत्रग्रामवाटीगजाश्वहीरकादिकम् ।
यथाशक्ति प्रदातव्यं वाचकाय श्रवार्थिभिः ॥११९॥
मोक्षदाय हि सर्वस्वं दातव्यं परमार्थिने ।
उद्यापनं कारणीयं महोत्सवः शुभस्तथा ॥१२०॥
सकृच्छ्रवणे माया वै नश्यत्येव न संशयः ।
कल्पलता कल्पवृक्षः कल्पधेनुस्त्वयं मतः ॥१२१॥
कल्पमणिः कल्पपात्रं त्रेताखण्डो हि राधिके! ।
श्रीकृष्णोऽहं वदाम्यत्र त्रेतासन्तानसेवनात् ॥१२२॥
नार्यै राधापदं दास्ये विष्णुपदं नराय वै ।
'ओं नमः श्रीकृष्णनारायणाय परमात्मने ॥१२३॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने चिरेण लोमशाश्रमस्थितानां कान्तानां पित्रादिभिः सह स्वदेशगमनं, मण्डपादिपरिहारः, लक्ष्म्यादिकाशिकांऽगना-
कृतसेवाप्रकारः, षोडशजन्मोत्सवे ऊर्जकृष्णाष्टम्यां सर्वजनानामागमनम्, महोत्सवः, शिवेश्वरादीनां मोक्षोपदेशान्मोक्षः, षोडशे वत्सरे उत्तरायणदानादि, संहितायास्त्रेतासन्तानस्य माहात्म्यमितिचेतिनिरूपणनामा नवनवत्यधिकद्विशततमोऽध्यायः ॥२९९॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP