त्रेतायुगसन्तानः - अध्यायः ३४
लक्ष्मीनारायणसंहिता
श्रीकृष्ण उवाच-
आकर्णय महाप्राज्ञे राधिके पञ्चमाब्दिकम् ।
चमत्कारं कृष्णनारायणस्याऽऽत्माऽऽत्मनः परम् ॥१॥
पञ्चमे वत्सरे प्राप्ते प्रभोर्जन्मोत्सवं पिता ।
कारयामास विधिवत् सर्वदेवप्रपूजनम् ॥२॥
गान्धर्वाणां समाजं च योजयामास गायने ।
मण्डपं कारयामास सौवर्णाम्बरभूषितम् ॥३॥
नैकपुत्तलिकाशोभं सर्वदृश्यविराजितम् ।
विश्वकर्मा स्वयं तत्र रचयामास देवताः ॥४॥
मयश्च शम्बरश्चापि दधतुस्तत्सहायताम् ।
जले स्थल्याः स्थले चाऽपां पृथ्व्यां चाब्धेश्च दर्शनम् ॥५॥
भित्तौ सभासदां चापि पर्षदि योषितां तथा ।
व्योम्नि स्तरस्य कोणेषूद्यानानां दर्शनं यथा ॥६॥
राजमार्गे नदीनां च निःश्रेण्यां गर्तदर्शनम् ।
गोपुरे दीर्घकोष्ठानां कोष्ठे गोपुरदर्शनम् ॥७॥
एवं विलोकने भ्रान्ता अपि वैज्ञानिकेश्वराः ।
अशक्ताश्चाऽभवन् गन्तुं मार्गदर्शकमन्तरा ॥८॥
प्रवेशे गमने स्थाने निषदने विलोकने ।
कुण्ठितवृत्तयश्चासन् सभ्या विना तु दर्शकान् ॥९॥
एवंविधे मण्डपेऽत्र बालकृष्णं निषाद्य च ।
दिव्ये सिंहासने रम्ये पुपूजुः परमेश्वराः ॥१०॥
उपदास्ते ददुर्दिव्याः पिता ताः प्रतिगृह्य च ।
प्रासादिकं ददौ तेभ्यः पुत्रोत्सवेऽतिहर्षितः ॥११॥
एवं समर्चनं कृत्वा पूरुषाः सदसि स्थिताः ।
अथ देव्यः समायाताः पूजनार्थं हरेस्ततः ॥१२॥
कुंकुमाऽक्षतगन्धाद्यैः पुष्पदर्भादिभिस्तथा ।
अंकुरैर्विविधैश्चापि नवधान्यादिभिस्तथा ॥१३॥
वस्त्रालंकारभूषाद्यैः रामणीयकवस्तुभिः ।
नीराजनैर्दुखहाराऽवतारैः समपूजयन् ॥१४॥
उपदाः प्रददुस्ताश्च भोज्यस्थालीर्न्यधुः पुरः ।
शर्कराफलबीजानि न्यधुः रसान् पुरस्त्रियः ॥१५॥
अथ पत्तनवास्तव्याः पुपूजुः परमेश्वरम् ।
पुपूजुः कन्यकाश्चापि ह्याशीर्वादान् ददुर्द्विजाः ॥१६॥
यतयो मुनयश्चान्याः सत्यः साध्व्यः पतिव्रताः ।
आशीर्वादान् ददुस्तस्मै कृष्णाय परमात्मने ॥१७॥
अथ पूजोत्तरं तत्र तस्थिरे गायका जनाः ।
गान्धर्वा वादकाश्चापि देवमानवजातिजाः ॥१८॥
हाहा हूहूर्नारदश्च पर्वतश्चित्रदर्शनः ।
सुदर्शनस्तुम्बुरुश्च विश्वावसुः परावसुः ॥१९॥
मेघस्वनस्तारनादो धरणिध्रोऽनुगालवः ।
वंशधरस्तरणिको जलघोषश्च वैणिकः ॥२०॥
आम्रमञ्जुश्चालंबुषो रांभेयः शंखकर्टकः ।
इत्येते देवगान्धर्वाश्चूडवर्मपुरोगमाः ॥२१॥
चक्रुर्वै गायनं तत्रोत्सवे मण्डपवर्तिनः ।
सवादित्रं तालमानग्राममूर्छादिशोभितम् ॥२२॥
अथैभ्यो भगवांस्तुष्टो हीरकमौक्तिकस्रजः ।
ददौ ततो मनुष्याणां गन्धर्वा आययुः सभाम् ॥२३॥
चित्ररथः प्रतोलश्च सारंगो मणिरञ्जकः ।
तारमेरुस्तानसैन्यो जगन्नाथो हरीतकः ॥२०॥
बाष्पवर्षी धूम्रमेधा शशकुन्दः कपर्दकः ।
एते चान्ये च गन्धर्वाश्चक्रुर्गायनवादने ॥२५॥
तेभ्यो हरिर्ददौ रम्यं विभिन्नं पारितोषिकम् ।
स्वर्णरूप्याभूषणानि स्वर्णमुद्राऽम्बराणि च ॥२६॥
अथ दानवदैत्यानां गान्धर्वा आययुः सभाम् ।
कम्बुकीर्तिर्गालवादो नस्स्वनो भुजघोषणः ॥२७॥
खातध्वानो गोलभूपश्चैते चक्रुः प्रगायनम् ।
तेभ्यो ददौ हरिर्मुक्तामणिप्रवालमालिकाः ॥२८॥
अथ नागाश्चारणाश्च सूतमागधबन्दिनः ।
ब्रह्मभट्टाश्च विद्याध्राः किन्नराः किंपुमंशकाः ॥२९॥
आययुः काव्यरचनैः सहिताः पर्षदि द्रुतम् ।
कौशल्यं दर्शयामासुः स्वस्वकृतेः समाजके ॥३०॥
वर्णयामासुरत्यर्थ कृष्णनारायणं प्रभुम् ।
पिता तेभ्यो ददौ योग्यं पावितोषिकवस्तुकम् ॥३१॥
नर्तक्यो गायिकाश्चापि सगीतिनृ्त्यवर्तनम् ।
चक्रुर्हरेः प्रतोषार्थं हरिस्तुष्टो ददौ धनम् ॥३२॥
भूषाः शृंगारपात्राणि द्रव्याणि विविधानि च ।
मालाऽम्वराणि दिव्यानि स्त्रीयोग्यं पारितोषिकम् ॥३३॥
एवं सन्तोषितास्तत्र जन्मोत्सवेऽर्थिनो जनाः ।
गतेषु तेषु सर्वेषु मुक्ता धामनिवासिनः ॥३४॥
अक्षराऽमृतगोलोकवैकुण्ठादिनिवासिनः ।
आशीर्वादान् ददुस्तस्मै स्वेष्टाय परमात्मने ॥३५॥
तान् सर्वान् श्रीहरिकृष्णः उत्थायोत्थाय चासनात् ।
कृत्वा वक्षसि युगपन्नैकधा परिषस्वजे ॥३६॥
बहुरूपधरः कृष्णो जग्राह पुष्पमालिकाः ।
चन्दनाऽक्षतचन्द्रांश्च पूजां तैः परितः कृताम् ॥३७॥
तेभ्यः प्रासादिकं दत्वा परिहारं चकार सः ।
सभायाः परिहारान्ते पिता तेभ्यस्तु भोजनम् ॥३८॥
ददौ नैकविधं पानं ताम्बूलं तोषिकं तथा ।
सर्वे तदुत्सवं कृत्वा ययुर्नैजं स्थलालयम् ॥३९॥
एवं महोत्सवे जाते जयकारोऽभवन्महान् ।
सर्वलोकेषु जयतात् कृष्णनारायणोऽर्भकः ॥४०॥
इत्येवं जनवाचस्त्वश्रूयन्त सर्वतो भुवि ।
महादानेश्वरस्त्वास्ते श्रीमद्गोपालकृष्णकः ॥४१॥
अर्थिनामर्थनां चातिक्रम्याऽर्पयति चेप्सितम् ।
अन्नं पानं भोजनं च द्रव्यं वस्त्रं च वाहनम् ॥४२॥
यद्यदिष्टमादत्तेऽर्थी श्रीमद्गोपालकृष्णतः ।
इत्येवं भुवने जातं यशो व्याप्तं जनेषु च ॥४३॥
श्रुत्वा हिमगिरौ दाल्भ्यो बको गवायनस्तथा ।
सालायनः स्वस्तिधर्मा ऋषयो वनवासिनः ॥४४॥
सहस्रं ब्राह्मणानां तत् तपतां वेदपाठिनाम् ।
साधुधर्मस्थितानां त्वग्जटावल्कलधारिणाम् ॥४५॥
सिंहव्याघ्रमृगहस्तिचर्माम्बरप्रधारिणाम् ।
आगतं तीर्थयात्रार्थं कृत्वा कुरुस्थलाप्लवम् ॥४६॥
पुष्करं सिद्धभूमिं च कृत्वा सौराष्ट्रमाययौ ।
केचनाऽत्राऽभवन् दिव्याः साधवो ब्रह्मचारिणः ॥४७॥
वानप्रस्थास्तथाऽन्ये च गृहस्थाः साधुसदृशाः ।
तपोधर्मरताः शास्त्रविशारदाश्च योगिनः ॥४८॥
कुंकुमवापिकाक्षेत्रं त्वाययुः पावनं परम् ।
विश्रुतं त्रिषु लोकेषु मोक्षदं भगवत्स्थलम् ॥४९॥
अश्वपट्टसरो रम्यं नैकक्रोशसुविस्तरम् ।
देवखातं महामिष्टजलं रम्यं शशिप्रभम् ॥५०॥
सर्वतीर्थनिवासं च विश्वंभरसमाश्रितम् ।
विलोक्य सुन्दरं पूर्वे वनं पुष्पफलान्वितम् ॥५१॥
सर्वर्तुस्मृद्धमम्लानं शान्तिं ते लेभिरे स्थिराम् ।
लोमशस्याऽऽश्रमदेशे माया यत्र न विद्यते । ॥५ २॥
आम्रवणे तु ऋषयः स्वासनानि प्रचक्रिरे ।
सस्नुः पूजादिकं कृत्वा बुभुजिरे फलानि च ॥५३॥
अथ प्रदक्षिणं चक्रुरश्वपट्टसरोवरम् ।
आययुर्लोमशं द्रष्टुं महाभागवतं मुनिम् ॥५४॥
आश्रमे स्थितवन्तं च जम्बूवृक्षतलाश्रयम् ।
नत्वा सहस्रमुनयश्चात्मानं धन्यमाप्नुवन् ॥५५॥
लोमशः स्वागतं चक्रेऽर्घ्याऽऽसनवन्दनादिभिः ।
फलैः पानैः स्वर्णकदल्यादिफलैः सुभोजनैः ॥५६॥
एवमृषिकृतं सर्वं स्वागतं जगृहुश्च ते ।
अथाऽऽययुर्हरेः सौधं द्रष्टुं श्रीपरमेश्वरम् ॥५७॥
अनादिश्रीकृष्णनारायणं बालस्वरूपिणम् ।
सहस्ररूपधृक् कृष्णो युगपत्तान् सुषस्वजे ॥५८॥
आश्चर्यं परमं प्रापुर्दाल्भ्याद्याः ऋषयस्तदा ।
चतुर्भुजं तथा चाष्टभुजं सहस्रबाहुकम् ॥५९॥
ददृशुः केचन बालं ब्रह्मधामगतं प्रभुम् ।
पूजनं पादसलिलं वन्दनं संविधाय ते ॥६०॥
ययुः पूर्वदिशां नैजासनं त्वाम्रवणं ततः ।
अथ द्वितीयदिवसे भिक्षार्थं कृष्णमन्दिरम् ॥६१॥
आययुस्ते तु ऋषयस्तदा श्रीबालकृष्णकः ।
घृतपात्रं गोधूमानां पिष्टपात्रं च शर्कराम् ॥६२॥
व्यञ्जनानि तथा तैलपात्रं च वेषवारकम् ।
द्विदलां तण्डुलाँश्चापि पार्श्वे न्यस्य हरिस्ततः ॥६३॥
स्वहस्ताभ्यां ददौ तेभ्यो विपुलं च यथेष्टकम् ।
एकैकस्मादपि पात्राद् दत्तं न न्यूनतां गतम् ॥६४॥
सहस्राधिकसाधूनामृषीणां भोजनाय च ।
तदाश्चर्यं तु ते जग्मुः कृष्णप्रतापवेदिनः ॥६५॥
गतास्ते संगृहीत्वा चामान्नानि सुबहून्यपि ।
पाचयित्वा बुभुजिरे शान्तिमापुस्तदाऽऽमृतीम् ॥६६॥
अथ सायं हरिः पित्रा साकं साधुसमाजकम् ।
द्रष्टुं तत्र गतो यत्रर्षयः केसरिचर्मसु ॥६७॥
कृतासना विराजन्ते ब्रह्मध्यानपराः शुभाः ।
बालकृष्णश्च पितरं समुवाच तदा हठात् ॥६८॥
सिहचर्म च तात प्रदापयाऽऽसनाय मे ।
इत्युक्त्वा चांगुलिं दीर्घा कृत्वा तातं पुनः पुनः ॥६९॥
सिंहचर्मणः प्राप्त्यर्थमनुरोधं चकार सः ।
तद् दृष्ट्वा च ऋषिर्दाल्भ्यः पितरं प्राह वै हसन् ॥७०॥
किमयं चेच्छति बालः किंच वक्ति पुनः पुनः ।
पिता प्राह वृथा बालः करोति हठमेव वै ॥७१॥
इच्छत्ययं सिंहचर्म यत्प्राप्यं नैव जायते ।
दाल्भ्यः प्राह कुमार! त्वं सिंहमारोढुमिच्छसि ॥७२॥
सिंहोऽयं विद्यते नैनमारोढुं शक्यतेऽन्यकैः ।
कुमारः प्राह च ऋषे देहि मे त्वासनाय तत्। ॥७३॥
दाल्भ्यः प्राह वनस्थानामृषीणां योग्यमेव तत् ।
नान्ययोग्यं ततः पुत्र दातव्यं नैव विद्यते ॥७४॥
श्रुत्वा श्रीमत्कृष्णनारायणः प्राह प्रदेहि मे ।
नैतद् देयमृषिः प्राह तदा श्रीमन्नरायणः ॥७५॥
सिंहशब्दं चकारोच्चैगर्जिनारूपमुल्बणम् ।
तच्छ्रुत्वा चर्मरूपास्ते सिंहा व्याघ्रा मृगादयः ॥७६॥
सर्वे सजीवतां प्राप्ताः कृष्णनारायणेच्छया ।
चर्मोपरिस्थाः ऋषयो निपेतुर्भूतलेऽभितः ॥७७॥
त्रासं प्रापुः सत्यसिंहान् व्याघ्रान् दृष्ट्वा भयंकरान् ।
दुद्रुवुस्ते तु परितो व्याघ्रास्तु गर्जनादिभिः ॥७८॥
अरण्यं चान्तरीक्षं च पूरयामासुरुच्छ्रितम् ।
आसमुद्रान्तमेवैषां शब्दाश्चाकम्पयन् महीम् ॥७९॥
धावमानाः शतशस्ते सिंहास्तथा मृगादयः ।
येषां येषामभवँश्च चर्माण्येते सजीवकाः ॥८०॥
भूत्वा कृष्णपदे नत्वाऽरण्यं सिंहादयो ययुः ।
दाल्भ्याद्याः ऋषयो योगैस्तान्निरोद्धं न शेकिरे ॥८१॥
इत्येवं तु तदा वीक्ष्य चमत्कारं हरेः पुनः ।
प्रपन्नाः पादयोर्विष्णोर्नारायणस्य तेऽस्तुवन् ॥८२॥
एकमेवाऽद्वितीयं यद् ब्रह्मोत्तमं प्रचक्षते ।
तं त्वामात्मेश्वरं विष्णो प्रणताः स्म प्रसीद नः ॥८३॥
एकराट् सद्धर्मसिन्धोऽनादिसंभव हृत्स्थित ।
विश्वक्सेन वृषावर्त प्रणताः स्म प्रसीद नः ॥८४॥
शुचिश्रवोऽमृतवार्धे सनातनाऽक्षयाऽक्षर ।
हव्यभुङ् मञ्जुकेशाऽज प्रणताः स्म प्रसीद नः ॥८५॥
हृषीकेशाऽग्रज पुष्पहास बाल जनार्दन ।
चराचरनियन्तस्त्वां प्रणताः स्म प्रसीद नः ॥८६॥
सवितुस्त्वं वरेण्योऽसि हिरण्यगर्भसंस्थितः ।
वासुदेव कृपासिन्धो प्रणताः स्म प्रसीद नः ॥८७॥
अनन्ताऽऽस्याऽनन्तपादाऽनन्तशक्तिगुणाश्रय ।
होतः पोतर्होमहेतो प्रणताः स्म प्रसीद नः ॥८८॥
नारायण परब्रह्म श्रीमद्गोपालबालक ।
कम्भराश्रीगृहजन्म प्रणताः स्म प्रसीद नः ॥८९॥
पुरुषोत्तम विश्वात्मन्नूर्ध्वकर्मन दिवस्पते ।
सर्वसाक्षिन् सुराष्ट्रेश प्रणताः स्म प्रसीद नः ॥९०॥
सर्वेभ्यः श्रेयसां दाता देवानां दैवतं महत् ।
त्राता भर्ता च पोष्टा च शरणं भव नः प्रभो ॥९१॥
यं न पश्यन्ति पश्यन्तोऽस्मादृशाः ऋषयोऽपि च ।
तान् पश्यन् बालरूपस्त्वं शरणं भव नः प्रभो ॥९२॥
भूमादिस्तम्बपर्यन्तं व्याप्तं येन चराचरम् ।
मायाजालं कृतं येन नमामस्तं शुभार्भकम् ॥९३॥
यस्याऽक्षिणी सूर्यचन्द्रौ यद्बाहू भूमशंकरौ ।
यत्पादौ क्षीरशुक्लेशौ नमामस्तं कृपाऽर्भकम्॥९४॥
आसनानि विनष्टानि केसरिणो वनं ययुः ।
आसनार्थं बालकृष्ण पूर्यन्तां नो मनोरथाः॥९५॥
एवं स्तुतोऽथ भगवान् राधिके प्राह वै ऋषीन् ।
आगच्छन्तु महाभागाः स्पृशन्तु मम पन्नखम् ॥९६॥
भवतां त्वासनान्याऽऽविर्भविष्यन्ति दधत्विह ।
इत्युक्तास्ते ऋषयस्तु दाल्भ्यबकादयस्तदा ॥९७॥
पस्पृशुः श्रीहरेर्वामपादांगुष्ठं क्रमात्ततः ।
अंगुष्ठस्य नखात्तत्र सिंहचर्मादि यस्य यत् ॥९८॥
तत्तदाविर्बभूवैतज्जग्राह मुनिराट् तु तत्॥
सर्वेषां तानि चर्माणि श्रीहरिणाऽर्पितानि वै ।.।९९॥
ततः सर्वे हरिं नारायणं समर्चयन् मुदा ।
जगृहुश्च मनुं तत्र गोपालकृष्णतोऽखिलाः ॥१००॥
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
तिलकं तोलसीं मालां नाम कृष्णनरायणम् ॥१०१॥
वैष्णवाः ऋषयो भूत्वा दिव्यदृष्टियुजस्ततः ।
तीर्थयात्रा समाप्यैव हिमशैलं पुनर्गताः ॥१०२॥
तत्तीर्थं दाल्भ्यतीर्थेति नाम्ना पूर्वतटेऽभवत् ।
श्रावणात्पठनाच्चापि भुक्तिमुक्तिफलप्रदम् ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोः पञ्चमाऽब्दिके महोत्सवे विविधगन्धर्वाणां गायनानि दाल्भ्यबकादिसहस्रर्षीणां सिंहव्याघ्रादिचर्मभ्यः सिंहादीनां सजीवीकरणं अंगुष्ठात्तत्तच्चर्माविर्भावश्चेत्यादिनिरूपणनामा चतुस्त्रिंशोऽध्यायः ॥३४॥
N/A
References : N/A
Last Updated : April 30, 2021
TOP