संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २९४

त्रेतायुगसन्तानः - अध्यायः २९४

लक्ष्मीनारायणसंहिता


श्रीराधिकोवाच--
मे सर्वाः कथयाऽत्रैव काः काः परिणताः प्रियाः ।
यासां स्मरणमात्रेण मायातो मुच्यते जनः ॥१॥
श्रीकृष्ण उवाच-
शृणु त्वं राधिके बालकृष्णेन सह वै तदा ।
यथा लक्ष्मीर्यथा षटक्ं राधा लक्ष्मीश्च माणिकी ॥२॥
रमा पद्मावती श्रीश्च चत्वारिंशद्युतं शतम् ।
ब्रह्मप्रिया मुख्यकन्या अशनाद्याः समर्पिताः ॥३॥
वह्निं प्रदक्षिणं चक्रुः पुष्पमालासमन्विताः ।
मेघनाद्यश्चतुर्दशसहस्राणि समर्पिताः ॥४॥
तथा षष्ठी मनसा च दीपावल्यश्च कन्यकाः ।
कोटिसंख्या अग्निं प्रदक्षिणं कृत्वा समर्पिताः ॥५॥
तलाजा त्वेकला कामधेन्वाख्याः कोटिसंख्यिकाः ।
आर्जन्त्यो वसुमत्याद्याः कोटिसंख्याः समर्पिताः ॥६॥
शांभवी क्रोधना कन्या धरापुत्र्यश्च गह्वराः ।
कोटिसंख्या धरया चार्पितास्तत्र मुदान्विताः ॥७॥
वेधःपुत्री सुची वनदेवीकन्याश्च लक्षकम् ।
वनदेव्याऽर्पिता वरमालायुक्ताः सुखान्विताः ॥८॥
दामन्यो राक्षसकन्या लक्षं दमनकाऽर्पिताः ।
वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रग्तदाश्रिताः ॥९॥
षट्कन्याः कंकताल्यश्चाऽयुतं च कांकतालिकाः ।
कंकतालार्पिता वह्निं प्रदक्षिणं विधाय च ॥१०॥
पुष्पमालायुता बालकृष्णेन संनिजीकृताः ।
पितृकन्यालक्षकं चाऽर्यम्णा दत्ता निजीकृताः ॥११॥
जनपितृकन्यकाश्च विंशतिश्च निजीकृताः ।
पितृदास्यो दशसाहस्रं च तत्र निजीकृताः ॥१२॥
रासातल्यः पञ्चसाहस्रं कन्या दैत्यजास्तथा ।
वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रग्निजीकृताः ॥१३॥
वसन्तकान्ताः कन्या वै षोडशाऽपि निजीकृताः ।
वसन्तेन तदा दत्ता वह्निं कृत्वा प्रदक्षिणम् ॥१४॥
सालमालीयदैत्यस्य पञ्चशतं च कन्यकाः ।
शतमातृयुता दैत्यार्पितास्तत्र निजीकृताः ॥१५॥
स्वस्तिकनागकन्याश्च विंशतिश्चाऽयुतं पराः ।
वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रग्निजीकृताः ॥१६॥
शावदीननृपकन्याः सहस्रं ससुमस्रजः ।
वह्निं प्रदक्षिणं कृत्वा नृपार्पिता निजीकृताः ॥१७॥
ऐन्द्रजालिककन्याश्च शंभुजाः शंभुनाऽर्पिताः ।
सहस्रं सपुष्पमाला वह्निसाक्ष्ये निजीकृताः ॥१८॥
सरस्वती, चतुर्दशविद्याश्च षष्टिकन्यकाः ।
ब्रह्मणा चार्पिता वह्निसाक्ष्ये स्रग्भिर्निजीकृताः ॥१९॥
भूगर्भीयाश्च लाक्ष्मण्यो द्वे सहस्रे हि कन्यकाः ।
लक्ष्मणेनाऽर्पिता वह्निसाक्ष्ये तत्र निजीकृताः ॥२०॥
वेधःकन्या द्वासप्ततिसहस्राणि तु नाडिकाः ।
वेधसा संप्रदत्ताश्च वह्निसाक्ष्ये निजीकृताः ॥२१॥
गान्धर्व्यस्त्रिशतं कन्या विश्वावसुसमर्पिताः ।
वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रग्निजीकृताः ॥२२॥
जुम्मासेमलानृपकन्याः सहस्रं जुम्मलाऽर्पिताः ।
वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रग्निजीकृताः ॥२३॥
सान्तपन्यश्च राक्षस्यः पञ्चसहस्रकन्यकाः ।
सान्तपनार्पिता वह्निसाक्ष्ये स्रग्भिर्निजीकृताः ॥२४॥
सौरत्यः शतमेवाग्निं प्रदक्षिणं विधाय च ।
सुरतर्ष्यर्पिताः कन्याः सपुष्पस्रङ्निजीकृताः ॥२५॥
महाबालेश्वर्य एव त्रिकन्या वह्निसाक्षिकाः ।
बलेश्वराऽर्पिताः पुष्पमालायुक्ता निजीकृताः ॥२६॥
ऐलवीलैककन्या च ईलविलाऽर्पिता तदा ।
वह्निसाक्ष्ये पुष्पमालायुता तत्र निजीकृता ॥२७॥
दक्षजवंगरभूपकन्याः शतं सुमस्रजः ।
प्रजाकन्यासहस्रं चोष्णालयस्य निजीकृताः ॥२८॥
अग्निं प्रदक्षिणं कृत्वा पुष्पमालासमन्विताः ।
प्राचीनदेशकन्याश्च नृपजाश्च प्रजोद्भवाः ॥२९॥
वह्निसाक्ष्ये तज्जनकैरर्पिताः कोटिसंख्यकाः ।
पिशंगराजदत्ताश्च वरस्रग्भिर्निजीकृताः ॥३०॥
सन्तारणद्विजकन्ये द्वे पुष्पमालिकायुते ।
सन्तारणाऽर्पिते वह्निसाक्ष्ये तत्र निजीकृते ॥३१॥
शिबिदेवनृपकन्याः शतं शिब्यर्पितास्तदा ।
वह्निसाक्ष्ये पुष्पमालायुतास्तदा निजीकृताः ॥३२॥
थर्कूटस्थनृपकन्याः पञ्चाशद्वह्निसाक्षिकाः ।
थर्कूटस्थाऽर्पिता पुष्पस्रग्युक्ताः संनिजीकृताः ॥३३॥
वीरजारनृपकन्याः शतं वै वह्निसाक्षिकाः ।
वीरजारार्पिताः पुष्पमालायुक्ता निजीकृताः ॥३४॥
शक्त्यक्षिनृपकन्याश्च षष्टिश्च वह्निसाक्षिकाः ।
पिशाचिन्यः शतं कन्याः शक्त्यक्षिणा समर्पिताः ॥३५॥
वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रङ्निजीकृताः ।
कालिमाशनृपकन्याः शतद्वयं नृपाऽर्पिताः ॥३६॥
वह्निसाक्ष्ये योगमालायुतास्तत्र निजीकृताः ।
उरलकेतुभूपस्य त्रिंशत्कन्या नृपाऽर्पिताः ॥३७॥
वह्निसाक्ष्ये योगमालायुतास्तत्र निजीकृताः ।
क्रथकक्ष्मापतेः कन्याः पञ्च वै वह्निसाक्षिकाः ॥३८॥
पित्राऽर्पिता योगमालायुक्तास्तत्र निजीकृताः ।
पृथुराजेन दत्ताः स्वकन्या विंशतिरग्निकम् ॥३९॥
प्रदक्षिणं विधायैव सयोगस्रङ्निजीकृताः]
उष्ट्रालराजकन्याश्च दशोष्ट्रालेन चार्पिता ॥४०॥
वह्निसाक्ष्ये पुष्पमालायुतास्तत्र निजीकृताः ।
हंकारनृपतेः पञ्च जयकाष्ठस्य पञ्च च ॥४१॥
तीराणनृपतेः षट् च अल्वीनरस्य पञ्च च ।
जीनवर्द्धिनृपस्याऽपि सप्ताऽनाथा तथैकला ॥४२॥
तत्तद्राजाऽर्पिता वह्निं कृत्वा प्रदक्षिणं हि ताः ।
योगमालायुता बालकृष्णेन संनिजीकृताः ॥४३॥
प्रकीर्णिकाः शते द्वे च सहस्रं कन्यकाः शुभाः ।
रक्षोरुद्धा वह्निसाक्ष्ये ससुमस्रङ्निजीकृताः ॥४४॥
अल्पकेतो सप्तकन्या जयकृष्णवजैकला ।
परीशाननृपस्यैकविंशतिः कन्यकास्तथा ॥४५॥
इन्दुरायनृपस्यापि कन्ये द्वे शोभने तदा ।
मुद्राण्डनृपतेः कन्या पञ्चदश विभूषिताः ॥४६॥
गण्डभूपस्य च नव लीनोर्णजाचतुष्टयम् ।
बृहच्छरनृपस्यापि तथैकादशकन्यकाः ॥४७॥
चत्वारिंशत्कन्यकाश्च बललीनस्य भूपतेः ।
वरसिंहस्य पञ्चैव रायगामलजाष्टकम् ॥४८॥
फेनतन्तुनृपस्य द्वे स्तोकहोमस्य चैकला ।
काष्ठयाननृपस्यैका कोलकस्यापि चैकला ॥४९॥
दिनमाननृपस्य द्वे कन्याः सयोगमालिकाः ।
वह्निं प्रदक्षिणं कृत्वा स्वस्वपित्रा समर्पिताः ॥५०॥
राजभिरर्पिता बालकृष्णेन ता निजीकृताः ।
रायकिन्नरराजस्यैकपञ्चाशत्सुपुत्रिकाः ॥५१॥
रायकोटीश्वरस्यैकविंशतिः कन्यकास्तथा ।
रायरणजिद्भ्यस्य विंशतिः कन्यकास्तथा ॥५२॥
रायवाकक्षभूपस्य तिस्रः कन्यास्तथा तदा ।
रायमारीशभूपस्य तिस्रः कन्याश्च शोभनाः ॥५३॥
रायबलेश्वरस्यापि तिस्रः कन्यास्तथा पराः ।
रायलम्बारभूपस्य षट् कन्या यौवनान्विताः ॥५४॥
रायनवार्कभूपस्य सप्त कन्याः सुमञ्जुलाः ।
रायहूण्डेशभूपस्य नव कन्याः सुकोमलाः ॥५५॥
रायकूपेशभूपस्यैकला पुत्री सती शुभा ।
कालीमण्डभूपतेश्च चतस्रः कन्यकास्तथा ॥५६॥
वनजेलेशनृपतेः पञ्च कन्याः सुपाण्डुराः ।
पारावारपिबस्यापि तिस्रः कन्याः सुरक्तिकाः ॥५७॥
कोटीश्वरनृपस्य द्वे तिस्रः सतीशभूपतेः ।
त्रेताकर्कशनृपतेः सप्त कन्याः सुगोरिकाः ॥५८॥
आण्डजरानृपस्यापि चतस्रः कन्यकाः शुभाः ।
बाल्यरजोनृपस्यापि कन्यैका धर्मशालिनी ॥५९॥
रायसोमनभूपस्य तिस्रः कन्याः सुशोभनाः ।
ऊरुगवाक्षनृपतः कन्ये द्वे शोभने तथा ॥६०॥
पराङ्व्रतनृपस्य द्वे राजारायस्वसैकला ।
ईशानपानभूपैकचत्वारिंशत्सुकन्यकाः ॥६१॥
राजारायपतिक्ष्मेशत्रयस्त्रिंशत्सुकन्यकाः ।
एताः सर्वांस्तदा तत्र योगमालाविभूषिताः ॥६२॥
राजशृंगारशोभाश्च स्वस्वपित्रा समर्पिताः ।
वह्निं प्रदक्षिणं कृत्वा बालकृष्णनिजीकृताः ॥६३॥
त्रिंशत्कन्या मंगलाद्या महर्षिभिः समर्पिताः ।
ऋषीणां ता विभिन्नानां बालकृष्णनिजीकृताः ॥६४॥
आजनाभप्रदेशानां राज्ञां कन्याः समुज्ज्वलाः ।
सहस्राणि दश तत्तत्पित्रादिभिः समर्पिताः ॥६५॥
प्रजाकन्या दशसहस्राणि प्रजाभिरर्पिताः ।
सर्वशृंगारशोभाढ्या योगमालाविभूषिताः ॥६६॥
वह्निं प्रदक्षिणं कृत्वा बालकृष्णनिजीकृताः ।
पृथक् पृथक् प्रकुण्डेषु पृथग् वह्नेः प्रसाक्षिकम् ॥६७॥
करग्रहणमेतासां सर्वासामभवत्तदा ।
राधिके! च तथाऽन्याश्च कौबेर्यश्च सहस्रशः ॥६८॥
सहस्रशश्च माहेन्द्र्यो यमकन्याः सहस्रशः ।
वायव्यो वैश्वकर्म्यश्च वार्क्ष्यो रौद्र्यश्च वह्निजाः ॥६९॥
श्रावण्यश्चापि खानिज्यः सांवत्सर्यश्च गोपिकाः ।
प्राचीन्यश्च पिशंगिन्यो राशियान्यश्च कोटिशः ॥७०॥
रौमायन्यश्च पारश्यो धैवर्यश्च सहस्रशः ।
किन्नर्योऽमर्य एवापि गौर्यः पर्यश्च कोटिशः ॥७१॥
आब्रिक्त्यश्चापि हारित्यः पाताल्यः स्वर्ग्य इत्यपि ।
अप्सरसो ब्रह्मसरसो गान्धर्व्यः कोटिशोऽपि च ॥७२॥
विद्युन्मणिश्चः कुशला योगिनी, द्वे तथाऽपरे ।
भौम्यश्चापि च दानव्यः कोट्यर्बुदाब्जसंख्यकाः ॥७३॥
कः कर्तुं तत्र शक्येत् संख्यां चार्वांगदृऽशिर्जनः ।
ताः सर्वाः स्मृतपित्राद्याः पित्रुपस्थितिसन्निधौ ॥७४॥
विभूषिताः कृतवस्त्रप्रान्तबन्धाः सुयौवनाः ।
योगमालायुता वह्निं कृत्वा प्रदक्षिणं तदा ॥७६॥
तत्तत्पित्राद्यर्पिताश्च करग्राहेण वै तदा ।
अनादिश्रीकृष्णनारायणेनाऽङ्गीकृताः पृथक् ॥७६॥
सर्वेषां पश्यतां बालकृष्णेन परमात्मना ।
उद्वाहिता वह्निसाक्ष्ये सर्वसाक्ष्ये समर्पिताः ॥७७॥
राधिके! ते श्रावितास्ताः सृष्ट्यादौ परमात्मना ।
उद्वाहिता हि विधिना सर्वा ब्रह्मप्रिया इमाः ॥७८॥
हरेर्मूर्तेः समुत्पन्ना हरेः शक्तय एव ताः ।
हर्यर्थं चागताः पृथ्व्यां सृष्टौ सर्वत्र तत्र च ॥७९॥
यथेष्टं संस्थिताः काले कृष्णकान्ताश्च सर्वथा ।
अनादिश्रीकृष्णनारायणं काश्यां समाश्रिताः ॥८०॥
शिवेश्वराऽङ्गणे दत्ता कालो यासु न जंभते ।
शिवः कालस्वरूपो वै तेनाऽर्पितास्ततोऽतिगाः ॥८१॥
कालातीताः कृप्णमूर्तिमय्यः सर्वा हि मोक्षदाः ।
सौराष्ट्रं मन्मणेर्जातं बालकृष्णोऽत्र राजते ॥८२॥
काश्यां प्रोद्वाहमापन्नः सृष्टित्रये प्रकाशते ।
प्रतीक्षमाणाः सर्वास्ताः प्रोद्वाहं प्राप्य चाऽद्य वै ॥८३॥
कृतकृत्या बभूवुश्च शाश्वतानन्दसंभृताः ।
लक्ष्मीः प्राप्ता निजं कान्तं शिवेश्वरसुता क्षितौ ॥८४॥
दिशां पुत्री पद्मवती सूर्यपुत्री सुभास्वरा ।
कल्पद्रुमसुता श्रीश्च लक्ष्मीः क्षीरोदपुत्रिका ॥८१॥
दिव्यविभूतिपुत्री च माणिक्याचाक्षरीसती ।
कमलाद्यास्तथा चान्याः प्राप्य कान्तं हरिं शुभम् ॥८६॥
कृतकृत्यो बभूवुश्च सर्वसौभोग्यसंभृताः ।
सर्वा उद्वाहितास्तत्र सुयोगे कृष्णयोः शुभे ॥८७॥
शृणु राधे तदा काशीराजश्च शिवछत्रकः ।
धेनुपालस्तथा शिवेश्वरस्यापि सुभक्तराट् ॥८८॥
वीक्ष्यैश्वर्यं बालकृष्णे चानन्तं पारमेश्वरम् ।
तदैव प्रददौ काशीराजः कन्या दशाऽपि च ॥८९॥
धेनुपालो ददौ तिस्रो वह्निसाक्ष्ये तदन्तरे ।
योगमालायुतास्ताश्च मण्डपेऽत्र नजीकृताः ॥९०॥
यौतकं प्रददौ राजा तदा सौवर्णलक्षकम् ।
नरयानं तथा दासीशतं विभूषणानि च ॥९१॥
प्रजाश्चापि ददुस्तस्मै बालकृष्णाय मण्डपे ।
दानं बहुविधं पश्चात्तत्कुण्डे हवनं तदा ॥९२॥
वह्नौ दत्वा गुरूक्ताँश्च गार्हस्थ्यसद्वृषान् वरः ।
अंगनासहितस्तत्राऽशृणोत् पाल्यान् समन्ततः ॥९३॥
सह धर्मं युगलस्याऽभिन्नं पालय माधव ।
अर्धांगनास्तव चेमास्ताः सर्वाः परिपालय ॥९४॥
सुखे सुखं तथा दुःखे दुःखं पश्य परेश्वर ।
कान्ता कान्तो न वै भिन्नौ देहयोरैक्यमावह ॥९५॥
स्वात्मवत् सर्वकान्तास्त्वं विभावय प्रमोदय ।
कान्तानां चान्तरे देहे तव देहो विराजते ॥९६॥
मस्तके मस्तकं मुखे मुखं च हृदयं हृदि ।
उदरे उदरं मध्ये मध्यं पादौ च पादयोः॥९७॥
कान्तादेहं स्वदेहं च मत्वा ताः परिपालय ।
कुरु धर्मान् सहैवाऽत्र वंशवर्धनहेतुकान् ॥९८॥
कान्ताभिश्चापि कान्तः स्वो मन्तव्यः प्राण एव ह ।
प्राणसेवा प्रकर्तव्या सर्वथा चेशवत् सदा ॥९९॥
पातिव्रत्यं सदा पाल्यं कान्ताभिः सुखहेतवे ।
आज्ञा प्रभोः सदा पाल्या प्राणैरपि क्रियादिभिः ॥१००॥
ऐक्यभावेन मन्तव्यो भजनीयः स्वयं प्रभुः ।
इत्येवं वीक्ष्य युगलैर्वर्तितव्यं निरन्तरम् ॥१०१॥
सापत्न्यं न समुद्भाव्यं परस्परं कदाचन ।
सपत्नीभिः स्वसृवच्च वर्तितव्यं निरन्तरम् ॥१०२॥
सन्तोष्टव्यं परस्यै वै सुखं दत्वा सदा सुताः ।
प्रभोरंशाः स्वांशका वै मन्तव्या नान्यथा क्वचित् ॥१०३॥
इतिमात्रे वृषे स्थेयं स्वस्त्यस्तु वः सुखं च शम् ।
इत्युक्त्वांऽकुरसलिलैः प्रोक्षणं चक्रतुर्गुरू ॥१०४॥
दक्षिणां प्रददौ कृष्णो भूयसीं कन्यकास्तथा ।
कोटिरत्नानि च मणीन् कोटिसंख्यं सुवर्णकम् ॥१०५॥
परिहारं ततो गुरू चक्राते यज्ञकर्मणः ।
देवविसर्जनं चापि सर्वविसर्जनं ततः ॥१०६॥
अनेकरूपविलयं हरिश्चक्रेऽथ सत्वरम् ।
एतस्मिन्नन्तरे देवी गिरिजा तूर्णमागता ।
पतिपुत्रवतीभिश्च साध्वीभिः सहिताग्रगा ॥१०७॥
सर्वसृष्टिनिवासिन्यो मातरोऽपि तदाऽऽगताः ।
सुकृत्वा मंगलं सर्वास्तत्र निर्मञ्च्छनादिकम् ॥१०८॥
दम्पतिर्वेशयामासुः रत्ननिर्माणमन्दिरम् ।
कोट्यर्बुदाब्जकन्यानां वासार्हं दीपितं यथा ॥१०९॥
द्वितीयमिव गोलोकं द्राक् कृतं विश्वकर्मणा ।
कैलासाख्यस्य मुक्तस्य साहाय्येन नवीकृतम् ॥११०॥
रत्नसिंहासनेष्वेव वासयामासुरेव च ।
भोजयामासुरेवाऽपि स्वामिना सह कन्यकाः ॥१११॥
सकर्पूरं सताम्बूलं प्रददुर्वासितं जलम् ।
सरस्वती तदोवाच सर्वाः सृष्टेश्च मातरः ॥११२॥
देव्यः सत्यस्तथा साध्व्यो नारायण्यः पतिव्रताः ।
कन्यकाः सौभाग्यवत्यः कुर्वन्तु मंगलं परम् ॥११३॥
यथा स्वामी तथा कन्या योजिताः परमात्मना ।
विदग्धानां विदग्धेन भवन्तु संगमाः शुभाः ॥११४॥
अथ सर्वान् महीमानान् नरान्नारीः शिवापतिः ।
पूजयामास विधिना भोजयामास सादरम् ॥११५॥
खाद्यतां भुज्यतां स्वेष्टं चूष्यतां लिह्यतां मुहुः ।
दीयतां दीयतां चापि गृह्यतां तृप्यतामिति ॥११६॥
पीयतां स्वाद्यतां चेति शब्दोऽनवरतोऽभवत् ।
घोषो बभूव शालासु वाद्यसंगीतमंगलैः ॥११७॥
एवं रात्रौ भोजनान्ते ताम्बूलेऽपि निवर्तिते ।
महीमानाः परां शान्ति विश्रान्तिं निद्रिकां शुभाम् ॥११८॥
जगृहुश्चोभयपक्षा विशाले क्लृप्तपत्तने ।
दम्पतीमन्दिरे श्रीमद्बालकृष्णोऽप्यनन्तकः ॥११९॥
यावत्यः सन्ति कान्तश्च तावद्रूपधरः प्रभुः ।
ताभिर्मृद्वीषु शय्यासु सेवितः सुखदोऽभवत् ॥१२०॥
राधिकेऽनन्तसत्त्वस्याऽनन्तवीर्यस्य योगिनः ।
कोट्यर्बुदाब्जपत्न्योऽपि न विजेतुं क्षमाः क्वचित् ॥१२१॥
निशायां नृत्यखेलाद्या मल्लानां युद्धसत्कलाः ।
वाद्यानां च समाश्रावा नाटकानां कलादृशः ॥१२२॥
अभवन्नगरे तत्र प्रोद्वाहोत्सवलम्बिताः ।
रात्र्यर्धोर्ध्व ततः शान्तं सर्वं वै सत्यमण्डलम् ॥१२३॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वह्निसाक्ष्ये प्रोद्वाहितानां निर्देशः, गृहधर्मोपदेशः, प्रोद्वाहकार्यपरिहारः, दम्पतीभोजनम्, सर्वभोजनम्, कोट्यर्बुदाब्जरूपपरिहारः, सर्वाभिः सह सर्वरूपेण कृष्णस्य दम्पतीमन्दिरे विहारः, सर्वशयनं, चेत्यादिनिरूपणनामा चतुर्नवत्यधिकद्विशततमोऽध्यायः ॥२९४॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP